06 मूलम्

मूलम् - 3.1.1

मू ॥ अमुष्मिन्नब्रुवन्नस्मिन्ननड्वानसुरानपि । अकुर्वन्नवसन्नक्रन्ननयन्नदुहंस्तथा ॥ १ ॥
व्या ॥ अमुष्मिन्न् । अब्रुवन्न् । अस्मिन्न् । अनड्वान् । असुरान् । अकुर्वन्न् । अवसन्न् । अक्रन्न् । अनयन्न् । अदुहन्न् । एतानि पदानि नकारान्तानि
भवन्ति । उदा -
अमुष्मिन्न् – अ॒मुष्मि॑ल्लोँ॒के (१-५-१६,१-६-१०,१-७-१४,२-५-४५,…), अ॒मुष्मि॑न्मे (६-२-१९), अ॒मुष्मिश्च (७-३-९,१२)
अब्रुवन्न् - अ॒ब्रु॒व॒न्दे॒व॒प॒शुः (२-१-९), अ॒ब्रु॒व॒न्त्वम् (२-४-५), इत्य॑ब्रुव॒न्तान् (५-७-२३), अ॒ब्रु॒व॒न्द्वेद्वे (६-३-३), अ॒ब्रु॒व॒न्त्वया᳚ (६-३-५५,६-४-
३५), अ॒ब्रु॒व॒न्मघ॑वन्न् (६-४-२८), अ॒ब्रु॒व॒न्म॒हान् (६-५-१७)
अस्मिन्न् – अ॒स्मिल्लोँ॒के (१-५-२१), अ॒स्मिन्न॑रः (१-६-४९), अ॒स्मि॒ञ्ज॒वम् (१-७-३३), अ॒स्मिन्त॑ उ॒क्थे (१-७-४९), अ॒स्मि॒न्द॒ध॒ति॒ (२-१-१२),
अ॒स्मि॒न्मृ॒जा॒ते॒ (२-२-३१), अ॒स्मि॒ञ्चख्षुः॑ (२-२-४९), अ॒स्मि॒न्ध्रु॒वम् (५-२-४), अ॒स्मिश्च॑ (७-३-९)….
अनड्वान् - अ॒न॒ड्वान्दक्षि॑णा (२-२-६), अ॒न॒ड्वाञ्च॑ मे (४-७-१८)
असुरान् - यदसु॑रा॒ञ्जया॑म, जि॒त्वा (२-४-२), असु॑रान्निर्बा॒धे (५-१-५४)
अकुर्वन्न् - अकु॑र्वन्तद्रक्षासि (२-४-१), दध्य॑कुर्वन्तत् (२-५-१८), अग्रे॑ऽकुर्वन्ताभिः॑ (५-१-३६)
अवसन्न् - यत्राव॑स॒न्ततः॑ (२-४-१२,१३)
अक्रन्न् - शृ॒तम॑क्र॒न्न तु मा᳚ (२-५-१८), वि॒दाम॑क्र॒न्तस्मा᳚त् (३-५-३०)
अनयन्न् - सम॑नय॒न्तत्, यथ्स॒मन॑य॒न्तत् (२-५-१७)
अदुहन्न् - यत्प्र॒त्यदु॑ह॒न्तत्प्र॑ति॒धुषः॑ (२-५-१७) ॥

मूलम् - 3.1.2

मू ॥ अधुक्षन्निदयन्नश्मन्नक्रीणन्नविशन्नपि । अवाजिगासन्नवायन्नभूवन्नभरन्नपि ॥ २ ॥
व्या ॥ अधुक्षन्न् । इदयन्न् । अश्मन्न् । अक्रीणन्न् । अविशन्न् । अवाजिगासन्न् । अवायन्न् । अभूवन्न् । अभरन्न् । एतानि पदानि नकारान्तानि
भवन्ति । उदा - अधुक्षन्न् - प्रत्य॑धुक्ष॒न्न तु (२-५-१७)
(इद्) अयन्न् - शुचीद॑य॒न्दीधि॑तिम् (२-६-६८) इद्ग्रहणं किम् - अ॒यन्नो॑ अ॒ग्निः (१-३-६,.), अ॒यन्ते॒ योनिः॑ (१-५-१८,२६), ह्य॑यल्लो॒कः (१-५-
३९,..), प्र॒जाभ्यो॒ऽयन्द॑क्षि॒णा (४-३-२,.), अ॒यन्नो॒ नभ॑सा (३-३-२३,२६), ब्र॒व॒न्न॒यञ्च॑ (४-६-१२), सृ॒जे॒था॒म॒यञ्च॑ (४-७-२८)
अश्मन्न् - वाव॑दद्भिरश्म॒न्मया॑नि (३-४-४३), अश्मस्ते (४-६-१,५-४-१४)
अक्रीणन्न् - अक्री॑ण॒न्तत् (६-१-६८), अक्री॑ण॒न्तमिन्द्र॑स्य (६-१-७१)
अविशन्न् - प्रावि॑श॒न्ते, तान् (१-५-३८,४२), पर्य॑विश॒न्ते (२-४-२), प्रावि॑श॒न्तस्मा᳚त् (६-२-१३), नेदि॑ष्ठं प॒र्यवि॑श॒न्ते (६-३-३)
अवाजिगासन्न् - अ॒न्ववा॑जिगास॒न्तन्न (३-२-६)
अवायन्न् - अ॒भ्य॒वाय॒न्ते (२-६-१५), नान्ववा॑य॒न्ते (३-२-६), नान्ववा॑य॒न्ततः॑ (५-३-११), तम॑न्व॒वाय॒न्तम् (६-३-२)
अभूवन्न् - अ॒भू॒व॒न्तस्मा᳚त्, अभू॑व॒न्न पन्था॑नः (२-५-६२)
अभरन्न् - दे॒वास्स॒मभ॑र॒न्तस्मा᳚त् (३-४-१७), सम॑भर॒न्ताभिः॑ (५-१-३३) ॥

मूलम् - 3.1.3

मू ॥ अनानशिक्षन्नवदन्नहेडन्नभवन्नपि । अगन्नजातानक्रामन्नचिन्वन्नदृशंस्तथा ॥ ३ ॥
व्या ॥ अनान् । अशिक्षन्न् । अवदन्न् । अहेडन्न् । अभवन्न् । अगन्न् । अजातान् । अक्रामन्न् । अचिन्वन्न् । अदृशन्न् । एतानि पदानि नकारान्तानि
भवन्ति । उदा - अनान् - ए॒व प्रा॒णान्द॑धाति (३-५-९,..), प्रा॒णास्तस्य॑ (७-१-८)
अशिक्षन्न् - अशि॑क्ष॒न्तद॑शक्नुवन्न् (२-६-१३)
अवदन्न् - अ॒व॒द॒न्दि॒व ओष॑धयः (४-२-२८)
अहेडन्न् - अहे॑ड॒न्तव॑ स्याम् (४-३-२६)
अभवन्न् - वै॒दे॒ह्यो॑ऽभव॒न्तासा᳚म् (२-१-२५), ख॒र्जूरा॑ अभव॒न्तेषा᳚म् (२-४-२४), शर्क॑रा अभव॒न्तत् (५-२-३२), मि॒थु॒नी अ॑भव॒न्तासु॑ (५-३-
२९), श॒रा अ॑भव॒न्तत् (६-१-२१), प॒राऽभ॑वन्म॒ध्यन्दि॑ने (६-२-२८), अ॒भ्य॑भव॒न्ते (६-२-३९), अ॒ति॒ग्रा॒ह्या॑ अभव॒न्तत् (६-६-३०), ऋ॒तवो॑ऽ-
भव॒न्तत् (७-२-१९)
अगन्न् - धि॒षी॒याग॑न्दे॒वान् (३-५-२१)
अजातान् - प्रत्यजा॑ताञ्जातवेदः (४-३-२६)
अक्रामन्न् - अपा᳚क्राम॒न्न वः॑ (२-६-१५,५-१-१), अपा᳚क्राम॒ञ्छन्दासि (३-३-२०), अपा᳚क्रामन्मि॒त्रः (६-४-३४)
अचिन्वन्न् - सम॑चिन्व॒न्ततः॑, यथ्स॒मचि॑न्व॒न्तत् (५-५-८)
अदृशन्न् - य॒ज्ञमदृ॑श॒न्ततः॑ (७-२-२८,२९,३१) ॥

मूलम् - 3.1.4

मू ॥ अवेशयन्नगायंश्चाप्यविन्दन्परिगृह्यते । अदभ्नुवन्नगृह्णंश्चाप्यजानन्नजयन्नपि ॥ ४ ॥
व्या ॥ अवेशयन्न् । अगायन्न् । अविन्दन्न् । अदभ्नुवन्न् । अगृह्णन्न् । अजानन्न् । अजयन्न् । एतानि पदानि नकारान्तानि भवन्ति । उदा -
अवेशयन्न् - प्रावे॑शयन्ती॒र्थे (६-१-२), प्रावे॑शय॒न्ताः (६-४-६)
अगायन्न् - अव॑द॒न्नगा॑यन्दे॒वाः (६-१-४४)
अविन्दन्न् - नावि॑न्द॒न्ताम् (२-१-५५), अन्व॑विन्द॒न्तस्मा᳚त् (२-५-२०,६-२-५६), नावि॑न्द॒न्ते (२-५-३६,..), अन्व॑विन्द॒न्तम् (२-६-३१,६-२-
४२), आ॒ल॒म्भ्य॑मवि॑न्द॒न्ततः॑ (६-३-२८)
अदभ्नुवन्न् - असु॑रानदभ्नुव॒न्तया᳚ (१-६-४४), अदा᳚भ्ये॒नाद॑भ्नुव॒न्तत् (६-६-३४)
अगृह्णन्न् - आ॒श्वि॒नम॑गृह्ण॒न्ततः॑, तस्मा᳚त् (६-४-३७,३८), शु॒क्राम॒न्थिना॑वगृह्ण॒न्ततः॑ (६-४-४२), भू॒तम॑गृह्ण॒न्तस्मा᳚त् (६-५-२७), पर्य॑गृह्णन्दिवा-
की॒र्त्ये॑न (७-३-२५)
अजानन्न् - प्राजा॑न॒न्ते (६-१-३४,६-५-२७), प्राजा॑न॒न्तत् (६-३-२५), न प्राजा॑न॒न्न सु॑व॒र्गम् (७-४-२२)
अजयन्न् - अ॒ज॒य॒न्द॒र्श॒पूर्णमा॒साभ्या᳚म् (१-७-१६), असु॑रा अजय॒न्ते (२-३-२९), असु॑रानजय॒न्ते, तत् (२-४-२,५-४-२७), यदज॑य॒न्तत्,
जयै॒रज॑य॒न्तत् (३-४-१५,१८), अ॒न्तरि॑ख्षमजय॒न्ततः॑ (५-३-४४), आज॑यन्त्रि॒ष्टुभ᳚म् (५-६-२९), लो॒कम॑जय॒न्तत् (७-१-१६) ॥

मूलम् - 3.1.5

मू ॥ मपरं नाप्यथापश्यञ्जपरम्प्रतिषिध्यते । अस्मान्नह्येवपूर्वं स्यादायुष्मान्नार्ध्नुवन्नपि ॥ ५ ॥
व्या ॥ पूर्वश्लोकात् अजयन्निति लभ्यते । तत् मकारपरं चेत् नकारान्तं न भवति । उदा - उद॑जयन्म॒रुतः॑, मि॒त्रः (१-७-४३) अत्र मपरत्वात्
अजयत् इति ज्ञेयम् । अथशब्दः आनन्तर्यार्थः । अपश्यन्न् । एतत् नकारान्तम् । उदा -
अ॒प॒श्य॒न्तम् (१-७-१३,..), अ॒प॒श्य॒न्तस्या᳚म् (२-१-५६), अ॒प॒श्य॒न्तान् (३-४-१७,.), अ॒प॒श्य॒न्तौ (३-५-२), अ॒प॒श्य॒न्ताः (५-३-११,.),
अ॒प॒श्य॒न्तेभ्यः॑ (५-३-२६), अ॒प॒श्य॒न्तेन॑ (५-४-२६), अ॒प॒श्य॒न्ततः॑ (७-३-२२), अ॒प॒श्य॒न्द्वात्रिशदख्षरा (७-४-२२) जपरञ्चेत् नकारान्तं न ।
मान्तमेव । उदा - उ॒त्त॒मम॑पश्य॒ञ्जिगी॑षमाणम् (४-६-३६)
अस्मान् । एतत् नकारान्तम् । उदा - यो᳚ऽस्मान्धूर्व॑ति (१-१-५), पा॒ह्य॑स्मान्द्रु॒हः (१-२-३३), यो᳚ऽस्मान्द्वेष्टि॑ (१-१-१३,…), आपो॑ अ॒स्मान्मा॒तरः॑
(१-२-१), अ॒स्मान्दे॑व॒याने॑न (१-४-४५), यो अ॒स्मान्दिफ्सा᳚त् (४-१-४०) हि, एव इत्येवम्पूर्वं नकारान्तम् न भवति । उदा - पुनः॑पुन॒र्ह्य॑स्मा-
न्निर्गृह्णाति॑ (६-५-४) स ए॒वास्मा॒न्मृधः॑ (२-२-३८), ए॒वास्मा॒न्निर्ऋ॑तिम् (५-२-२४)
आयुष्मान् । आर्ध्नुवन्न् । एते पदे नकारान्ते भवतः । उदा - आयुष्मान् - आयु॑ष्मा॒न्तेन॑ त्वा (२-३-४०)
आर्ध्नुवन्न् - आ॒र्ध्नुव॒न्ते, आर्ध्नु॑व॒न्ताम् (१-५-१६), आ॒र्ध्नुव॒ञ्छन्दो॑भिः (५-२-६), आ॒र्ध्नुव॒ञ्च॒रुणा᳚ (५-५-५), आर्ध्नु॑व्नत्र्य॒हाभ्या᳚म् (७-३-११) ॥

मूलम् - 3.1.6

मू ॥ आसन्नात्मन्नथाश्वत्थानादित्यानप्यथो भवेत् । आरण्यानप्यथायन्थ्स्यादासीरन्नाचिकीर्षन्न् ॥ ६ ॥
व्या ॥ आसन्न् । आत्मन्न् । आश्वत्थान् । आदित्यान् । आरण्यान् । आयन्न् । आसीरन्न् । आचिकीर्षन्न् । एतानि पदानि नकारान्तानि भवन्ति ।
उदा - आसन्न् - रक्षा॒स्यास॒न्तानि॑ (२-४-३), प॒शव॒, असु॑रा॒ आस॒न्तान् (३-१-३०,६-३-४,६-४-४४,४५), त्वा॒ऽऽसञ्जु॑होमि (३-३-२३), क्रू॒र
आ॒सञ्जु॒होमि॑ (४-२-२०), आस॒न्तैर्देवाः (५-३-२५), म॒ आ॒सन्न॒सोः (५-५-३८,३९), छन्दा॒स्यास॒ञ्ज्यायासि (६-६-४२), आ॒स॒न्ते (१-५-
१,…), आ॒स॒न्ताः (२-३-२४,..), आ॒स॒न्तान् (२-३-२९), आ॒स॒न्तेषा᳚म् (२-४-९), आ॒स॒न्तासा᳚म् (२-५-३६), लो॒क आ॑स॒न्नान्यत् (६-३-२८)
आत्मन्न् - (तेज॑ ए॒व) आ॒त्मन्ध॑त्ते (१-५-३३,१-६-२४,३८,४३,४४,४५,६-६-३ … ४६ स्थलेषु), आ॒त्मन्दधी॑त (३-२-३६), आ॒त्मञ्जा॑यते (३-
५-२४), आ॒त्मन्धि॒त्वा (६-४-४०,७-४-९,१०), आ॒त्मन्दा॑धार (६-६-२७), आ॒त्मन्द॑धते (७-२-३,७-३-१७,७-४-११,१२,१३,२६,७-५-
२७), आ॒त्मन्दधा॑नाः (७-५-२९)
आश्वत्थान् - आश्व॑त्थान्म॒यूखान् (२-३-५)
आदित्यान् - आ॒दि॒त्याञ्जि॑न्व (४-४-२), आ॒दि॒त्यान्ते दे॒वाः (७-१-१४) [आ॒दि॒त्याञ्छ्मश्रु॑भिः (५-७-४४)?]
आरण्यान् - [आ॒र॒ण्याश्चाव॑ (२-५-६२)?], आ॒र॒ण्याञ्ज॑र्तिलयवा॒ग्वा॑ वा (५-४-१०)
आयन्न् - आ॒य॒न्तत् (१-५-१,२-६-१५,५-३-३१), आ॒य॒न्ते (१-५-१६,२-४-१३,५-६-२३,६-३-२५,५२,६-५-९,७-४-२२), आ॒य॒न्ताः (२-१-
७,२-४-१२,५-३-३८), आ॒य॒न्तेभ्यः॑ (२-३-२९), आय॒न्दक्ष॒न्दधा॑नाः (४-१-३४), आ॒य॒न्तेषा᳚म् (४-३-२०,७-१-११), आ॒य॒ञ्चत॑स्रः (५-२-१७),
आ॒य॒न्तेन॑ (५-३-२५), आ॒य॒न्तान् (७-३-११)
आसीरन्न् - ए॒क॒वि॒श॒ति॒रा॒त्रमा॑सीर॒न्द्वाद॑श (७-३-२९)
आचिकीर्षन्न् - प॒र्याचि॑कीर्ष॒न्तान्दे॒वाः (६-५-७) ॥

मूलम् - 3.1.7

मू ॥ इमाल्लँपरमीडेन्यानूषानेष्यन्नपीष्यते । एतस्मिन्नेव चैनान्त्रिर्देवलोकेनुदे परे ॥ ७ ॥
व्या ॥ लपरं चेत् ’इमान्’ इति नकारान्तम् । ईडेन्यान् । ऊषान् । एष्यन्न् । एतस्मिन्न् । एतानि पदानि नान्तानि भवन्ति । त्रिः, देव, लोके, नुदे एषु
पदेषु परेषु सत्सु ’एनान्’ इति नकारान्तम् भवति । उदा -
इमान् (लपरं) - (छन्दो॑भि) रि॒माल्लोँ॒कान् (१-७-२४,…) २४ स्थलेषु; लपरमिति किम् - इ॒मान्धिय᳚म् (१-२-४,६-१-१८), इ॒मान्नः॑ (४-६-३२,६-
४-३३), इ॒मान्दिश᳚म् (५-२-२२,२८), इ॒मान्नाति॑ (५-२-२६), इ॒माञ्च॑ (५-६-३४), इ॒मान्त्रिः (६-२-२३)
ईडेन्यान् - ई॒डेन्या᳚न्नम॒स्याम॑ (२-५-५६)
ऊषान् - अव॑रुन्ध॒ ऊषा॒न्निव॑पति, नि॒वपन्न् (५-२-१५,१६)
एष्यन् - समा॑ ए॒ष्यन्मन्ये॑त (२-३-४५)
एतस्मिन् - य ए॒तस्मि॑ल्लोँ॒के स्थ (३-२-२१)
(त्रिःपरं) एनान् - पु॒नात्ये॒वैना॒न्त्रिः (२-५-६५,६-३-३७)
(देव परं) एनान् - ए॒वैना॒न्देव॑ त्वष्टः (६-३-३३)
(लोके परं) एनान् – ए॒वैना॑ल्लोँ॒क उ॑भ॒यतः॑ (७-३-२६)
(नुदे परं) एनान् - प्रत्ये॑नान्नुदे॒ऽस्मिन् (३-५-१०) त्रिर्देवलोके नुदे पर इति किम् - ए॒वैना᳚न्दे॒वा वै (१-६-४१), ए॒वैना᳚ल्लोँ॒केषु॑ (३-४-१२),
ए॒वैना᳚न्दधाति (५-१-३६), ए॒ना॒ञ्जु॒होति॑ (५-७-११), ए॒ना॒न्त॒नुवा᳚म् (५-७-१२), ए॒ना॒ञ्जुष्टा᳚म् (६-१-४८), ए॒ना॒ल्लोँ॒केभ्यः॑ (६-२-५०), ए॒वैना॒न्तेन॑
(६-६-१९) [ए॒वैना᳚ञ्छमयति (५-५-३८,४४)?] ॥

मूलम् - 3.1.8

मू ॥ एताञ्जमपरञ्चैवमैरयन्नोमनित्यथ । कपालान्क्रयणान्कल्पान्गरुत्मांश्च गृहान्गणान् ॥ ८ ॥
व्या ॥ ज, म इत्येवं परं एतान् इति नकारान्तम् । जपरं - तस्मा॑ ए॒ताञ्जयान् (३-४-१५), स ए॒ताञ्जु॑हुयात् (३-४-१८) मपरं - स ए॒तान्म॑रुत्व॒ती-
यान् (६-५-१६) ज, म परमिति किम् - तस्मा॑ ए॒तान्दश॑र्षभाम् (२-१-२१), ए॒तान्ते᳚ (४-१-२३,३६), ए॒तान्द्वि॒तीया᳚म् (५-७-२०), ए॒तान्तृ॒तीया᳚म्
(५-७-२१) [स ए॒ताश्च॒तुरः॑ (७-१-३४)?]
ऐरयन्न् । ओमन्न् । कपालान् । क्रयणान् । कल्पान् । गरुत्मान् । गृहान् । गणान् । एतानिपदानि नकारान्तानि भवन्ति । उदा -
ऐरयन्न् - यामैर॑यञ्च॒न्द्रम॑सि (१-१-१५)
ओमन् - प॒र॒मे व्यो॑म॒न्देवा᳚स्सधस्थाः (५-७-३०) ओमन्नित्यत्र नका॒रस्य द्वित्त्वे सत्यपि श्लोकस्य भङ्गभयादत्र एकत्वमेवोक्तम् ।
कपालान् - एक॑कपाला॒न्निर्व॑पति (१-८-१०), चतु॑ष्कपाला॒न्निर्व॑पेत् (२-३-४६), एका॑दशकपाला॒न्माध्य॑न्दिने (७-५-१८)
क्रयणान् - सो॒म॒क्रय॑णा॒न्नानु॑दिशेत् (६-१-७०)
कल्पान् - अव॑रुन्धे॒ कल्पा᳚ञ्जुहोति (५-४-४१)
गरुत्मान् - सु॒प॒र्णो॑ऽसि ग॒रुत्मा᳚न्त्रि॒वृत्, दिव᳚म् (४-१-४२)
गृहान् - गृ॒हान्द॑हति (२-२-१०), गृ॒हान्मे॑ तर्पयत (३-१-२३)
गणान् - ग॒णान्मे॑ तर्पयत (३-१-२३), ग॒णान्मे॒ मा वि (३-२-१८) ॥

मूलम् - 3.1.9

मू ॥ गृह्णन्वलगान्घृणीवाञ्चक्षुष्मांश्चकृवांस्तथा । चर्मञ्ज्मञ्जग्मिवाञ्जानञ्जनयञ्जन्मन्त्मन्नपि ॥ ९ ॥
व्या ॥ गृह्णन्न्, वलगान्, घृणीवान्, चक्षुष्मान्, चकृवान्, चर्मन्न्, ज्मन्न्, जग्मिवान्, जानन्न्, जनयन्न्, जन्मन्न्, त्मन्न् । एतानि पदानि नकारान्तानि
भवन्ति । उदा - गृह्णन्न् - अ॒शुङ्गृ॒ह्णन्नार्द्धये᳚त् (६-६-३७)
वलगान् - प्रा॒णेषु॑ वल॒गान्न्य॑खनन्न् (६-२-५६) वलेति किं - प्रत्तां॒ गां दु॒हे (२-३-२८)
घृणीवान् - घृणी॑वाञ्चेतति॒ त्मना᳚ (३-५-३२)
चक्षुष्मान् - य॒ज्ञश्चक्षु॑ष्मा॒न्ताभ्यां᳚ (१-६-४३)
चकृवान् - एन॑श्चकृ॒वान्महि॑ (३-२-३०)
चर्मन्न् - प॒शू॒नाञ्चर्म॑न्मिमीते (६-१-६०)
ज्मन्न् - भू॒रध॒ ज्मन्न ते᳚(७-४-४१)
जग्मिवान् - नि॒र्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा᳚त् (४-२-४,५-२-५)
जानन्न् - प्र॒जा॒नन्मि॒त्रो दा॑धार (३-४-४५)
जनयन्न् - द्यावा॑पृथि॒वी ज॒नय॑न्दे॒वः (४-६-९)
जन्मन्न् - जन्म॑न्दे॒वाना॒व्विँशः॑ (४-२-१७,५-५-२८)
त्मन्न् - उप॒ त्मन्दोषा॑वस्तः (१-२-३१) ॥

मूलम् - 3.1.10

मू ॥ त्यान्तिष्ठेरन्तुविष्मान्त्रीन्तिष्ठन्तूर्वन्तपन्नपि । तस्मिन्निति पदञ्चात्र लक्षणे स्फुटमिष्यते ॥ १० ॥
व्या ॥ त्यान् । तिष्ठेरन्न् । तुविष्मान् । त्रीन् । तिष्ठन्न् । तूर्वन्न् । तपन्न् । तस्मिन्न् । एतानि पदानि नान्तानि भवन्ति । उदा -
त्यान् - त्यान्नु क्ष॒त्रियान् (२-१-६४)
तिष्ठेरन् - ति॒ष्ठे॒र॒न्मन॑सा॒ सं (६-५-३५)
तुविष्मान् - वृ॒ष॒भस्तुवि॑ष्मान्दा॒ता (२-३-५४)
त्रीन् - प्रा॒तस्त्रीन्ल॒लामान् (२-१-२१)
तिष्ठन्न् - तिष्ठ॑न्नयति वा॒जिनः॑ (४-६-२८)
तूर्वन्न् - तूर्वन्न याम॒न्नेत॑शस्य (४-६-२८)
तपन्न् - हर॑सा॒ तप॒ञ्जात॑वेदः (४-१-३७,४-२-५)
तस्मिन्न् - मधु॑म॒त्तस्मि॑न्मा धाः (३-१-३२), तस्मि॑ञ्जुहोति (५-६-१६) [तस्मिस्त्वा (१-७-२१)?] ॥

मूलम् - 3.1.11

मू ॥ छन्दो देवांश्च मे देवा द्वाभ्यां दक्षिणतो न निः । तानित्येषु परेष्वेवाचिकीर्षन्तान्तु वर्जयेत् ॥ ११ ॥
व्या ॥ छन्दः, देवान्, मे, देवाः, द्वाभ्यां, दक्षिणतः, न, निः, एतेषु पदेषु परेषु सत्सु तान् इति नकारान्तं भवति । उदा -
(छन्दः परं) तान् - प्रावि॑श॒न्ताञ्छन्दो॑भिः (१-५-४२)
(देवान् परं) तान् - तान्दे॒वानसु॑राः (२-३-२९)
(मे परं) तान् - तान्म॒ आम॑नसः (२-३-३५)
(देवाः परं) तान् - तान्दे॒वा इष्वा॑ च, अ॑ब्रुवन्न्, उ॑पश॒येन॑ (५-७-९,६-३-३, ६-६-१७)
(द्वाभ्यां परं) तान् - तान्द्वाभ्या॒ञ्चिती᳚भ्यां (५-७-२३)
(दक्षिणतः परं) तान् - तान्द॑क्षिण॒त उ॑त्तरवे॒द्याः (६-२-३८)
(न परं) तान् - तान्न प्रति॒ प्राय॑च्छन्न् (६-५-२०)
(निःपरं) तान् - तान्निर॑वप॒त्तैः (६-५-४२)
आचिकीर्षन्तान्तु वर्जयेदिति । आचिकीर्षन्ताम् - प॒र्याचि॑कीर्ष॒न्तान्दे॒वाः (६-५-७) इत्यत्र देवा इति पदे परे सत्यपि नकारान्तं न भवति । अत
एव वर्जयेदित्युक्तम् । एषु पदेषु परेष्विति किम् - तान्धीरा॑सः (१-१-१५), तान्दे॑वासु॒राः (१-७-३), ताञ्ज॒मद॑ग्निः (३-३-१२), यस्यै॒ तान्दे॒वैः (३-३-
३०), तान्त्वा॒ विश्वे᳚ (४-३-८), तान्न॒ इष᳚म् (४-६-१,५-४-१४), तान्त्विषि᳚म् (५-२-५३), तान्तेन॑ (५-७-११) इत्यादिषु न ॥
[तास्त्रै॑धात॒वीये॑न (२-४-३३), तास्ते᳚ (३-१-३०,४-१-३९,४०), तास्ताभिः॑ (६-३-४,६-४-४४,४५)?] ॥

मूलम् - 3.1.12

मू ॥ देवान्दन्द्यूंश्च दीक्षेरन्भागधान्धारयन्नपि । धन्वन्धीन्सोमपान्पत्मन्पश्यन्पुण्यांश्च पार्थिवान् ॥ १२ ॥
व्या ॥ देवान् । दन्न् । द्यून् । दीक्षेरन्न् । भागधान् । धारयन्न् । धन्वन्न् । धीन् । सोमपान् । पत्मन्न् । पश्यन्न् । पुण्यान् । पार्थिवान् । एतानि पदानि
नकारान्तानि भवन्ति । उदा -
देवान् - दे॒वान्दे॑वय॒ते (१-२-२४,२-५-५३,६-२-४०), दे॒वान्दैवीः᳚ (१-३-१२,६-३-३२), दे॒वान्तान् (१-४-४७), दे॒वान्दा॒धार॑, दा॑धार (१-७-
७,८), दे॒वाञ्जि॑गाति (२-५-४२), दे॒वास्त्वम् (२-५-५३), दे॒वान्त्वम् (३-१-१४), दे॒वान्दे॑वयश॒सेन॑ (३-१-२६), दे॒वान्दृह (३-२-३४),
दे॒वाञ्जुष्ट॑तमः (४-६-३८), दे॒वान्म॒रुतः॑, ना॑थि॒तः (४-७-३७), दे॒वान्द॑ख्षिण॒तः (६-६-१७)
दन्न् - यद॒न्यतो॑द॒न्तत् (२-१-५,५-५-३)
द्यून् - त्री रु॒त द्यून्त्रीणि॑ (२-१-६४)
दीक्षेरन्न् - पू॒र्णमा॒से दी᳚क्षेर॒न्मुख᳚म्, तेषा᳚म् (७-४-२८,२९)
भागधान् - भा॒ग॒धान्दे॒वता॑सु (१-६-१३) भागेति किम् - आयु॑षे धान्दे॒वः (१-१-९), स॒न्धान्तु सम् (२-४-४१), स्व॒धान्दुहा॑नाः (४-२-४१),
पु॒रो॒धाञ्ज्योतिः॑ (७-४-१)
धारयन्न् - धा॒र॒य॒न्त्री रु॒त (२-१-६४), अ॒ग्निन्धा॑रयन्द्रविणो॒दाः (४-१-४२,४-६-२२,४-७-२३,५-१-५४)
धन्वन्न् - अधि॒ धन्व॒ञ्ज्या इ॒यम् (४-६-२७)
धीन् - अप्र॑हृत्य परि॒धीञ्जु॑हु॒यात्, जु॑होति (६-५-३३,३४)
सोमपान् - सो॒म॒पान्मन्य॑मानः (३-२-३०) सोमेति किम् - वि॒पाञ्ज्योतीषि (३-२-४४)
पत्मन्न् - व॒युन॑स्य॒ पत्म॑ञ्जु॒होमि॑ (५-५-२०)
पश्यन्न् - अ॒व॒पश्य॒ञ्जना॑नाम् (५-६-१) [प्रा॒णन्पश्य॑ञ्छृ॒ण्वन्न् (५-२-५६)?]
पुण्यान् - सर्वा॒न् पुण्या᳚ल्लोँ॒कान् (७-१-२९)
पार्थिवान् - पार्थि॑वान्ध्रु॒वन्ध्रु॒वेण॑ (३-२-३४) ॥

मूलम् - 3.1.13

मू ॥ पापीयांश्च प्रघासांश्च पुरोडाशान्पशून्पितॄन् । ब्रह्मान्भद्रांश्च भान्भासन्भृज्वान्भूयानिहोच्यते ॥ १३ ॥
व्या ॥ पापीयान् । प्रघासान् । पुरोडाशान् । पशून् । पितॄन् । ब्रह्मान् । भद्रान् । भान् । भासन्न् । भृज्वान् । भूयान् । एतानि पदानि नकारान्तानि
भवन्ति । उदा -
पापीयान् - पापी॑या॒न्तन्तेनाप॑ (२-४-४) [पापी॑याश्चासाते (१-५-४०), पापी॑या॒ञ्छ्रेय॑से (१-५-२८)?]
प्रघासान् - व॒रु॒ण॒प्र॒घा॒सान्माध्य॑न्दिनम् (३-२-६)
पुरोडाशान् - पु॒रो॒डा॒शा॒न्निर्व॑पन्ति (७-५-१८)
पशून् - अ॒भि प॒शून्निरा᳚र्जत् (१-५-३८), प॒शून्मि॑थु॒नान् (२-१-५१), प॒शून्द॑धाति (२-२-२५,५-२-५१), प॒शून्दा॒धार॑ (२-६-९), प॒शून्नि यु॑वते (२-
६-१०), प॒शून्मे॑ तर्पयत (३-१-२३), प॒शून्नाभि (३-१-३१), प॒शूस्तृ॑तीयसव॒ने (३-२-३६), प॒शूञ्जि॑न्व (३-५-८,४-४-२), प॒शून्नि॒र्याच्य॑ (५-१-
८), प॒शून्मे᳚द्यति (५-१-२५), प॒शून्नालभे॑त (५-१-४०), प॒शून्दशु॑काः (५-२-५३), प॒शूञ्छन्दासि (५-७-३५), प॒शूञ्छ॑न्दो॒मैः (७-३-
१५,२१,७-४-२,६,२३), प॒शून्तेन॑ (७-४-१०) [प॒शूञ्छुच᳚म् (५-२-५२)?]
पितॄन् - पि॒तृभ्य॑स्त्वा पि॒तॄन्जि॑न्व (३-५-७,४-४-२), [पि॒तॄस्तन्तुः॑ (५-३-२८)?], पि॒तॄन्नि॒रव॑दयते (६-६-२६)
ब्रह्मान् - ब्रह्मा(३)न्त्व रा॑जन् (१-८-३१,३२)
भद्रान् - इ॒मान्भ॒द्रान्दुर्या अ॒भि (१-६-८)
भान् - प्र॒जाप॑तेर्वि॒भान्नाम॑ (१-६-१५,१-७-२१,२२)
भासन्न् - भास॒न्मा हिसीः (४-२-१०)
भृज्वान् - क्षु॒रो भृज्वा॒न् छन्दः॑ (४-३-२८)
भूयान् - अ॒न्यतो॑दद्भ्यो॒ भूया॒ल्लोँम॑भिः (५-१-१०) ॥

मूलम् - 3.1.14

मू ॥ भ्रातृव्यांश्च मनस्वांश्च मण्डूकांश्च महानपि । मुञ्चन्म्रोचन्मलिम्लूंश्च मारुतान्मधुमानपि ॥ १४ ॥
व्या ॥ भ्रातृव्यान् । मनस्वान् । मण्डूकान् । महान् । मुञ्चन्न् । म्रोचन्न् । मलिम्लून् । मारुतान् । मधुमान् । एतानि पदानि नकारान्तानि भवन्ति ।
उदा - भ्रातृव्यान् - (ए॒व) भ्रातृ॑व्यान्नुदते (२-६-४,५-४-५३), भ्रातृ॑व्यान्नु॒दते᳚ (२-६-१०,६-२-२६), भ्रातृ॑व्याञ्जयति (५-४-२७), भ्रातृ॑व्यान्नु॒देय॑
(५-४-५३), भ्रातृ॑व्याञ्जि॒त्वा (६-२-१७)
मनस्वान् - प्र॒थ॒मो मन॑स्वान्दे॒वः (१-७-४८)
मण्डूकान् - म॒ण्डूका॒ञ्जम्भ्ये॑भिः (५-७-४३)
महान् - म॒हान्म॒ही अ॑स्तभायत् (२-३-५६)
मुञ्चन्न् - आशाः᳚ प्रमु॒ञ्चन्मानु॑षीः (४-१-२७)
म्रोचन्न् - ए॒ष नि॒म्रोच॑न्निग्रा॒भः (५-४-२९)
मलिम्लून् - म॒लिम्लू॒ञ्जम्भ्यै॒स्तस्क॑राउ॒त (४-१-३९)
मारुतान् - हु॒त्वा मा॑रु॒ताञ्जु॑होति (५-४-३६)
मधुमान् - मधु॑मान्नो॒ वन॒स्पतिः॑ (४-२-३८) मध्विति किम् - मान्तेऽनु॑ (३-२-२१), मान्तेजः॑ (३-३-१), मान्धे॑हि (७-४-४२) ॥

मूलम् - 3.1.15

मू ॥ मनुष्यानपि यस्मिंश्च युच्छन्नपि पदेनयन्न् । परायन्नपरोयांश्च राजन्दिव इतीरितम् ॥ १५ ॥
व्या ॥ मनुष्यान् । यस्मिन्न् । युच्छन्न् । पदेन यन्न् । परायन्न् । न परं चेत् यान् इति पदम् । राजन्दिवः । एतानि पदानि नकारान्तानि भवन्ति । उदा

  • मनुष्यान् - म॒नु॒ष्या᳚न्मनुष्ययश॒सेन॑ (३-१-२६)
    यस्मिन् - यस्मि॑ञ्जा॒त ए॒ताम् (२-२-२५)
    युच्छन् - अप्र॑युच्छ॒न्दीद्य॑त् (३-५-३४)
    (पदेन) यन्न् - प॒देन॒ यन्तद्वै (७-५-८)
    (परा) यन्न् - प॒रा॒यञ्जनाः᳚ (४-२-८)
    पदेन परा पूर्वमिति किम् - यञ्च॑ (१-१-१४), व॒पा॒मि॒ यन्नः॑ (१-३-३,६-२-५७), रु॒हे॒म॒ यन्त्वा᳚ (१-३-९), वाजे॑षु॒ यञ्जु॒नाः (१-३-२३), स यन्द्वि॒ष्मः
    (१-६-१६,..), आ यन्नरः॑ (२-४-२१), त्वा॒ यन्ते᳚ (२-४-४६), यन्द्वि॒ष्यात् (२-६-२३,…), भा॒गो यन्नि॒रया॑चथाः (३-१-२९), यन्त्वा᳚ (३-२-८),
    ज॒य॒ति॒ यन्द्वि॒तीय᳚म्, तेन॒ यन्तृ॒तीय᳚म् (३-३-१६), यञ्जी॒वम् (४-२-२८), दृ॒ह॒णा॒ यन्नु॒देथे᳚ (४-७-३४), यन्नः॑ (१-८-४२), यन्नव॑कपालः (२-२-
    २५), यन्नश्य॑ति (२-३-१०), यन्नव᳚म् (२-३-३८), यन्न (२-६-५५), यन्नि॒र्णिजा᳚, यन्न॒खेषु॑, यन्नीख्ष॑णम् (४-६-३९,४२,४३), यन्ना॑क॒सदः॑ (५-३-
    ३१), यन्नख्ष॑त्राणि (५-४-३), यन्न्य॑ञ्चम् (५-५-१६), यन्नि॑र्मन्थ्य᳚म् (५-७-१७), यन्नव॑नीतम्, यन्नव॑नीतेन (६-१-५), यन्निखा॑तम् (६-२-५२),
    यन्नक्त᳚म् (६-४-९)
    यान् (नपरः) - यान्नि॒वप॑ति, यान्न नि॒वप॑ति (६-३-६) [याश्च॑ दे॒वाः (२-६-६९)?] नपर इति किम् - दिग्यान्द॑ख्षिण॒तः (५-६-१७), आ॒प्नो॒ति॒
    यान्ते (५-६-२२), यान्त्वा॑ रात्रि (५-७-४), धो॒ख्ष्य॒ते॒ यान्द्वाद॑श (७-५-९)
    राजन्दिवः - रा॒ज॒न्दि॒व आ॒चर॑न्ति (२-३-५५). दिव इति किम् - वि॒राज॒न्नेद्वि॑च्छि॒नदा॑नि (७-१-१८) ॥
मूलम् - 3.1.16

मू ॥ रुद्राल्लोँकान्विदन्पन्थिनः पूर्वं वन्वरानपि । वर्ष्मन्विद्वान्वसून्वारान्वीरान्मा वारुणानपि ॥ १६ ॥
व्या ॥ रुद्रान् । लोकान् । पन्थिनः पूर्वं विदन् इति पदम् । वन्न् । वरान् । वर्षन्न् । विद्वान् । वसून् । वारान् । मा परं वीरान् इति पदम् ।
वारुणान् । एतानि पदानि नान्तानि भवन्ति । उदा -
रुद्रान् - रु॒द्रेभ्य॑स्त्वा रु॒द्राञ्जि॑न्व (४-४-२)
लोकान् - लो॒कान्म॑नु॒ष्याः᳚* (३-३-१७), लो॒काञ्ज्योति॑ष्मतः (३-४-१२,..), लो॒काञ्ज॑यति (५-३-४५,५-७-२३), लो॒कान्द्रवि॑णावतः (५-३-४५)
[*मकारपरञ्चेत् लोकान् एव, लोकात् कुत्रापि न । एवमेव नकारपरञ्चेत् लोकात् एव, लोकान् कुत्रापि न । लो॒कास्त्रे॒धा (२-३-२७),
लो॒कास्ती॒र्त्वा (३-५-१४), लो॒का स्वेन॑ (२-३-२८)?]
(पन्थिनो) विदन्न् - प॒रि॒प॒न्थिनो॑ विद॒न्मा त्वा᳚ (१-२-१७). पन्थिनःपूर्वमिति किम् - प॒रि॒प॒री वि॑द॒न्मा त्वा᳚ (१-२-१७)
वन्न् - अ॒न्त॒र्या॒मे म॑घवन्मादयस्व (१-४-४,६-४-२९), मघ॑वन्मन्दिषी॒महि॑ (१-८-७)
वरान् - त्रीन् वरा᳚न्दद्यात् (५-२-४२)
वर्षन्न् - वर्ष॑ञ्जि॒न्वरा॒वृत्, वर्ष॑न्त्वे॒षः (२-४-१९)
विद्वान् - वि॒द्वान्द्वि॒पदा॑भिः (१-५-३३), वि॒द्वान्द॑र्शपूर्णमा॒सौ (१-६-३१,..), वि॒द्वान्दे॒वस्य॑ (२-५-७२), वि॒द्वान्म॒न्थिनः॑ (३-१-३१), वि॒द्वान्द्वि॑रा॒त्रेण॑
(७-१-११), वि॒द्वाञ्जर॑तीम् (७-१-२४), वि॒द्वान्द॑शरा॒त्रेण॑ (७-२-१३,१४,१५), वि॒द्वान्द्वा॑दशा॒हेन॑ (७-२-३७) [वि॒द्वाश्चि॒त्रया᳚ (२-४-१७),
वि॒द्वाश्च॒तुरः॑ (७-१-३४), वि॒द्वाश्च॑तूरा॒त्रेण॑ (७-१-३३,३५), वि॒द्वास्त्रै॑धात॒वीये॑न (२-४-३३), वि॒द्वाश्चि॑नु॒ते (५-७-३९)?]
वसून् - वसु॑भ्यस्त्वा॒ वसू᳚न्जिन्व (३-५-७,४-४-२)
वारान् - शि॒ति॒वारा॒न्त्रीणि॑ (२-१-२२)
वीरान् (मा परं) - वी॒रान्मा नः॑ (३-४-४३,४-५-२३) मेति किम् - सर्व॑वीरा॒न्नि य॑च्छतु (१-७-४१)
वारुणान् - वा॒रु॒णाञ्चतु॑ष्कपालान् (२-३-४६) ॥

मूलम् - 3.1.17

मू ॥ वानिङ्ग्यान्तञ्च विश्वांश्च देवान्परमितीरितम् । शत्रूञ्छर्मछ्रुश्रुवांश्च शीर्षन्दपरमिष्यते ॥ १७ ॥
व्या ॥ इङ्ग्यान्तञ्चेत् ’वान्’ इति पदम् । देवान्परञ्चेत् ’विश्वान्’ इति पदम् । शत्रून् । शर्मन्न् । शुश्रुवान् । दपरञ्चेत् ’शीर्षन्’ इति पदम् । एतानि
पदानि नकारान्तानि भवन्ति । उदा -
वान् (इङ्ग्यान्तम्) - इ॒न्द्रि॒यावा᳚न्म॒दिन्त॑मः (१-२-८,१-३-२३), प्र॒जावा᳚न्दी॒र्घः (१-६-२०,३-१-३५), भ्रातृ॑व्यवा॒न्नामा॑वा॒स्या᳚म् (२-५-२४),
शी॒र्ष॒ण्वान्मेध्यः॑ (७-५-५३) इङ्ग्यान्तमिति किम् - वा॒न्दे॒वेभ्यः॑ (१-१-५), वा॒ञ्जि॒ह्वा (१-८-३८), तद्वा᳚ञ्चेति (४-२-४६), वा॒न्दे॒वौ॒ (४-७-३६),
वा॒ञ्जम्भे᳚ (५-५-४२,४४)
विश्वान् (देवान् परं) - प॒रि॒भूर्विश्वा᳚न्दे॒वान् (३-२-७), विश्वा᳚न्दे॒वान्ना॑थि॒तः (४-७-३७) [विश्वाश्च दे॒वान् (२-२-६०)?] देवान् परमिति किम् -
विश्वा᳚न्मुञ्च॒त्वह॑सः (३-१-१३)
शत्रून् - अ॒य शत्रू᳚ञ्जयतु (१-३-६,१-४-५४), वि शत्रू᳚न्ताढि (१-६-५०), शत्रू॒ञ्ज्येष्ठः॑ (३-४-४४)
शर्मन्न् - स्या॒ शर्म॑न्त्रि॒वरू॑थः (४-३-२६)
शुश्रुवान् - यश्शु॑श्रु॒वान्तस्मा॑दे॒वं (६-६-४)
शीर्षन्(दपरं) - य॒ज्ञस्य॑ शी॒र्षन्द॑धाति (६-२-४).दपरमिति किम् -मृ॒ग॒शी॒र्षन्नक्ष॑त्रम् (४-४-२६) ॥

मूलम् - 3.1.18

मू ॥ सामन्थ्सुब्धान्थ्सरस्वांश्च निषीदन्थ्सूर्य एष सन्न् । सन्निस्सञ्जायसे स्फूर्जन्थ्सर्वान्थ्सर्पांश्च निश्चितम् ॥ १८ ॥
व्या ॥ सामन्न् । सुब्धान् । सरस्वान् । निषीदन्न् । ’सूर्यः, एषः’ इत्येवम् पूर्वम्, ’नि’, इत्येवं परं वा सन्निति पदम् । स्फूर्जन्न् । सर्वान् । सर्पान् ।
एतानि पदानि नकारान्तानि भवन्ति । उदा-
सामन्न् -घ॒र्मन्न साम॑न्तपत (१-६-४७)
सुब्धान् -तान्थ्सु॒ब्धान्मृ॒तान् (२-४-१)
सरस्वान् -पू॒र्णमा॑स॒स्सर॑स्वा॒न्तावे॒व (३-५-४)
निषीदन्न् -नि॒षीद॑न्नो अप॑ (४-१-१७,५-१-२९).नीति किम् -ब॒र्हिषि॒ सीद॒न्नि होता᳚ (४-४-१२)
(सूर्यः पूर्वं)सन्न्- सूर्यस्सन्त॒नूभिः॑ (४-४-२४)
(एषः पूर्वं)सन्न्- ह्ये॑षसन्मर्त्ये॑षु, दे॒वान्,म॒नु॒ष्यान्,दे॒वाना᳚म् (६-१-३१,६-३-१०,११,६-४-२३)
(निः परं)सन्न्-इ॒हैव सन्नि॒रव॑दये (३-३-२३)
(जायसेपरं)सन्न् -गर्भे सञ्जा॑यसे॒ पुनः॑ (४-२-१२,४८).सूर्यएषइति किम् -सद॑सि॒ सन्मे॑भूयाः (१-६-१५,.),इ॒व॒ सन्नप्र (२-२-४३)
निर्जायस इति किम् - भू॒त्वा सन्न॑ह्ये (१-१-१६), वसु॒ सन्न्य॑दधत (१-५-१,५-५-१७), अनु॒ सञ्च॑रन्ति, चरति (१-५-४६,६-१-६३), सन्न॑ह्यति (१-
६-३२), सञ्ज्योति॑षा॒ ज्योतिः॑, भूवम् (१-१-२१,१-६-१८), सन्नो॑ दे॒वः (२-१-६१), स॒ञ्ज्ञान्या᳚ (२-२-६३), सञ्चे॒ध्यस्व॑ (४-१-२५), सञ्च॒ वि च॑
(४-६-३०),सञ्च॑रतः (५-२-५९), नसञ्जा॑नाते (७-१-३५)
स्फूर्जन्न् -अ॒व॒स्फूर्ज॑न्दि॒द्युत् (२-४-२०)
सर्वान्-सर्वा᳚ञ्ज॒म्भयन्न् (४-५-२), सर्वा॒न्मया॒ कामान् (६-२-३४,३९) [सर्वाश्च॒तुरः॑ (५-४-५६)?]
सर्पान्-स॒र्पाल्लोँ॑हितग॒न्धेन॑ (५-७-५५) ॥

मूलम् - 3.1.19

मू ॥ स्तेगान्थ्सहीयान्हविष्मान्होमानिति नपद्धतिः ॥ १८१/२ ॥ ॥ इति नपरप्रकरणम् ॥
व्या ॥ स्तेगान् । सहीयान् । हविष्मान् । होमान् । एतानि पदानि नान्तानि भवन्ति । उदा -
स्तेगान् - स्ते॒गान्दष्ट्र᳚भ्याम् (५-७-४३)
सहीयान् -सही॑यान्दे॒वो जी॒वात॑वे (३-५-३२)
हविष्मान् -ह॒विष्मा᳚न्दे॒वो अ॑ध्व॒रः (१-३-२१) [ह॒विष्माश्च (७-१-११)?]
होमान् -ए॒तान् होमा᳚ञ्जुहुयात् (१-५-१६)
इति उक्तप्रकारा नपद्धतिः नान्तानां पदानां पद्धतिरित्यर्थः ॥ । इति शब्दः समाप्तौ वा ॥
॥ इति सप्तलक्षणव्याख्यायां नपर प्रकरणम् ॥ ३ ॥