मूलम् - 3.0.1
॥ अथ नपरप्रकरणम् ॥ ३ ॥
मू ॥ नत्वा नारायणं देवं सर्वसम्पत्करं परम् । शौरिसूनुः प्रवक्ष्यामि नवं नवपरं परम् ॥ १ ॥
इष्टदेवतां नमस्कृत्य चिकीर्षितं प्रतिजानीते - शौरिसूनुः अहं सर्वसम्पत्करं परं नारायणं देवं नत्वा नवपरं चकारादि नववर्णपरम् इत्यर्थः ।
परं उत्कृष्टं नवं नूतनं लक्षणमिति शेषः । प्रवक्ष्यामीत्यन्वयः ॥
मूलम् - 3.0.2
मू ॥ दुर्ज्ञानं दुष्पठं यत्तु सापेक्षञ्चाक्रमन्तथा । तत्परित्यज्य सव्याख्यम् अकारादि च पुष्कलम् ॥ २ ॥
व्या ॥ प्राचीनलक्षणे दोषबाहुल्याविष्करणेन स्वलक्षणस्य निर्दोषत्वमाह - दुर्ज्ञानमिति । यत् प्राचीनलक्षणं दुःखेन ज्ञातुं शक्यं दुर्ज्ञानम्,
दुर्बोधमित्यर्थः । दुःखेन पठितुं शक्यं दुष्पठं, सुखोच्चारणानर्हवर्णघटितमित्यर्थः । अपेक्षया सहितं सापेक्षम्, आकाङ्क्षितपदशून्यमित्यर्थः ।
क्रमरहितम् अक्रमम्, अकारादिवर्णक्रमरहितमित्यर्थः । आसीदिति शेषः । तत् तादृशदोषयुक्तं प्राचीनलक्षणं परित्यज्य, त्यक्त्वा अकारादि अत
एव सव्याख्यञ्च सुस्पष्टमित्यर्थः । पुष्कलं सुज्ञानत्वादि सुगुणैः पूर्णमित्यर्थः । लक्षणं मया क्रियत इति कर्तृकर्मक्रियाणां अध्याहारः कर्तव्यः ॥
मूलम् - 3.0.3
मू ॥ नारम्भणीयमेतच्च स्वत एव व्यवस्थितेः । प्रसिद्धाध्ययनात्तत्र केचित्सन्दिहते क्वचित् ॥ ३ ॥
मूलम् - 3.0.4
मू ॥ कुतोऽवसीयते कैश्चित् निपुणैश्च महात्मभिः । निश्चितं स्वानुरूपेण लक्षणेनावसीयते ॥ ४ ॥
व्या ॥ अनेन श्लोकद्वयेन एतल्लक्षणं नारम्भणीयमिति शङ्कायां सत्याम् आरम्भणीयतां प्रतिपादयति । स्पष्टार्थतया न व्याख्यातम् ॥ ३, ४ ॥
मूलम् - 3.0.5
मू ॥ चादौ विकारी नो ने तः पदान्तो विषयोऽस्य सः । अभिधेयौ च तावेव तज्ज्ञानं च प्रयोजनम् ॥ ५ ॥
व्या ॥ अस्य लक्षणस्य विषयादीनाह - चादौ । अत्र आदिशब्देन छ, ज, त, द, ध, न, म, ल, एते वर्णाः गृह्यन्ते । एतेषु वर्णेषु परेषु सत्सु
संहितायां विकारी पदान्तः नः नकारः, ने, नकारे परे सति संहितायां विकारी पदान्तः तः, तकारश्च अस्य लक्षणस्य विषयः विषयभूतः । तावेव
नकारतकारावेव पददशायां अभिधेयौ, तज्ज्ञानं तयोः नकारतकारयोः ज्ञानं संहितायां नकारतकारयोः मकारादेरिव विकारसत्त्वात् पददशायाम् इदं
पदं नान्तम् उत मान्तम् इत्यादि शङ्कायां सत्यां इदं नकारान्तम्, इदं तकारान्तम् इति निश्चिता बुद्धिरेव अस्य लक्षणस्य प्रयोजनम् ॥ ५ ॥
मूलम् - 3.0.6
मू ॥ चछजेषु तवर्गीये थकारेण विवर्जिते । चतुष्टये मकारे च लकारे च परे स्थिते ॥ ६ ॥
मूलम् - 3.0.7
मू ॥ विकारी नः पदान्तो यः तकारो नपरश्च यः । दृश्यते येषु तौ ज्ञातुं प्रवक्ष्यामि पदान्यहम् ॥ ७ ॥
व्य ॥ उक्तमेवार्थं विवृणोति - चछजेष्विति । चछजेषु चकारछकारजकारेषु, तवर्गीये, तवर्गसम्बन्धिनि, थकारेण विवर्जिते, थकारव्यतिरिक्त
इत्यर्थः । चतुष्टये, तकारदकारधकारनकाराणां चतुष्टय इत्यर्थः । मकारे लकारे च परे स्थिते, एतेषु नवसु वर्णेषु परेषु स्थितेष्वित्यर्थः । पदान्तः
यः नकारः नः परः यस्मात्स नपरः । नकारपरः पदान्तः यस्तकारश्च संहितायां येषु पदेषु विकारी दृश्यते, तौ नकारतकारौ ज्ञातुं पूर्ववज्ज्ञातुम्, अहं
पदानि तादृशनकारतकारान्तानि पदानि प्रवक्ष्यामीत्यन्वयः ।
नकारतकारयोः विकारः कीदृशः । तेन कीदृशी शङ्का । कथं तन्निवृत्तिरिति चेत् उच्यते विस्तरेण । *
१. ’नकार एतेषु ञकारम्’ (प्रा.५.२४) इति सूत्रेण श, च, छ, जेषु परेषु सत्सु ’आ॒य॒ञ्चत॑स्रः’ (५-२-१७) इत्यादिषु नकारस्य ञत्वं विधीयते ।
शकारः अत्र न विषयभूतः । ’घृणी॑वाञ्चेतति’ (३-५-३२) । ताञ्छन्दो॑भिः (१-५-४२) । .. ’मकारः स्पर्शपरः तस्य सस्थानमनुनासिकम्’
(प्रा.५.२७) इति सूत्रेण स्पर्शान्तर्गत चछजेषु परेषु सत्सु मकारस्यापि ’शञ्च॑ मे’ (४-७-५) इत्यादिषु ञत्वम् विधीयते । ’तद्वा᳚ञ्चेति’ (४-२-४६)
। ए॒न॒ञ्छन्दो॑भिः (५-३-३७) । .. अतः उभयत्रापि समानसंहितारूपत्वेन पददशायां नान्तत्वं उत मान्तत्वम् इति शङ्का भवति ।
२. पदान्तो नकारः तादिचतुष्टये परे सति स्वरूपेणैव तिष्ठति । अथवा पददशायां दन्तमूलस्थानत्वात्, संहितायां तु दन्ताग्रस्थानत्वात् संहितायां
नकारः स्थानभेदेन किञ्चिद्विकारी भवति । ’तान्दे॒वान्’ (२-३-२९) । अ॒य॒न्दीधि॑तिम् (२-६-६८) । पदान्तः मकारस्तु पूर्वोक्त ’मकारः ..’
(प्रा.५.२७) इति सूत्रेण स्पर्शान्तर्गत तादिचतुष्टये परे सस्थानं नकारमापद्यते । ’तान्दे॒वैः’ (३-३-३०), अ॒यन्द॑ख्षि॒णा (४-३-२) । अत्रापि
समानसंहितारूपत्वेन पूर्ववच्छङ्का भवति ।
३. पदान्तो नकारः मकारे परे स्वरूपेण वा किञ्चिद्विकारी वा तिष्ठति । ’प॒रि॒प॒न्थिनो॑ विद॒न्मा’ (१-२-१७) इत्यादिषु । पदान्तस्तकारस्तु (प्रा.८.२)
’उत्तमपर उत्तमं सवर्गीयम्’ इति सूत्रेण नत्वमापद्यते । ’प॒रि॒प॒री वि॑द॒न्मा’ (१-२-१७) इत्यादिषु । अत्रापि समानसंहितारूपत्वेन पददशायां नान्तत्वं
उत तान्तत्वम् इति शङ्का भवति ।
४. पदान्तः नकारः लकारे परे (प्रा.५.२५) ’लपरौ लकारम्’ इति सूत्रेण अनुनासिकं लकारमापद्यते । ’ए॒वैना᳚ल्लोँ॒के (७-३-२६)’ । पदान्तो
मकारोऽपि (प्रा.५.२८) ’अन्तस्थापरश्च सवर्णमनुनासिकम्’ इति सूत्रेण लकारे परे अनुनासिकं लकारमापद्यते । ’ए॒वैना᳚ल्लोँ॒केषु॑’ (३-४-१२) ।
उभयत्रापि समानसंहितारूपत्वात् नान्तत्वम् उत मान्तत्वमिति शङ्का ।
५. पदान्तः तकारः नकारे परे (प्रा.८.२) ’उत्तमपर उत्तम सवर्गीयम्’ इति सूत्रेण संहितायां नत्वमापद्यते । ’सन्न प्र॑दी॒येत॑’ (२-२-४३) । पदान्तः
नकारश्च नकारे परे स्वरूपेण वा किञ्चिद्विकारी वा तिष्ठति । ’सन्नि॒रव॑दये’ (३-३-२३) । उभयत्रापि समानसंहितारूपत्वेन तान्तत्वम् उत
नान्तत्वमिति शङ्का ।
[६. एवमेव नकारे परे सति पदान्तमकारतकारयोः नकारापत्तेः ’यन्नः॑ समा॒नः’ (१-३-३), ’यन्नो॒ अस्ति॑’ (१-८-४२) इत्यादिषु मान्तत्व,
तान्तत्वसन्देहोऽपि भवति । अत्र नकारान्तत्वेऽपि सन्देहः समान एव । यत्, यन्न्, यम् इति पूर्वपदे सति इति यावत् । सत्, सन्न्, सम्
इत्यादयोऽपि एवमेवोह्याः । ]
अतः एतादृशसन्देहास्पदस्थलेषु तन्निवारणार्थं नान्ततान्तपदानि कण्ठोक्त्या प्रवक्ष्यामीति तात्पर्यम् ॥ ६, ७ ॥
मूलम् - 3.0.8
मू ॥ नानापदत्वमिङ्घ्यान्तमिष्यते चात्र लक्षणे ।
व्या ॥ अत्र लक्षणे इङ्घ्यपदानां नानापदत्वं पूर्वोत्तरयोः खण्डयोः पृथक्पदत्वम् इष्यते । नो चेत् अ॒श्म॒न्मया॑नि, इ॒न्द्रि॒यावान् इत्यादिपदानां
पौष्कल्येन पठनीयतया ग्रन्थस्य गौरवं स्यात् । अतः इदमेव युक्तम् ॥
मू ॥ ह्रस्वोपधमनिङ्ग्यम् यत् तपरन्नीचमेव तत् ॥ ८ ॥
व्या ॥ यत्पदं ह्रस्वोपधं, ह्रस्वा उपधा यस्य तत् ह्रस्वोपधम्, अन्त्यवर्णात् पूर्वस्य वर्णस्य उपधेति संज्ञा । तथा च पाणिनिः ’अलोन्त्यात्पूर्व उपधा’
(पा.सू.१.१.६५) इति । अनिङ्ग्यम्, तःपरः यस्मात्तत् तपरम्, नीचम् सर्वानुदात्तमित्यर्थः । एवम् नानानिमित्तयुक्तं भवति । तत्पदं नकारान्तम् इति
ज्ञेयम् इति शेषः । ’अ॒वि॒न्द॒न्ताम्मि॑थु॒ने’, ’न सम॑राधय॒न्तौ’ (२-१-५५,५६) ।
ह्रस्वोपधमिति किम् - ’तमाह॑रता॒न्तेन॑’ (७-१-११) । इतरनिमित्तयुक्तमपि उपधाया दीर्घत्वात् न नान्तम् ।
अनिङ्ग्यमिति किम् - ’वृ॒द्धवृ॑ष्णियन्त्रि॒ष्टुभौजः॑’ (४-४-३४) । इतरनिमित्तयुक्तमपि वृद्धवृष्णियमित्येतत् इङ्ग्यत्वात् न नान्तम् ।
तपरमिति किम् - ’य॒था॒भा॒गम्म॑न्दध्वन्नमः॑’ (३-२-२०) । इतरनिमित्तयुक्तमपि तपरत्वाभावान्न नान्तम् ।
नीचमिति किम् । मा॒दय॑ध्वन्तृ॒प्ताः (१-७-३६) । अत्र च इतरनिमित्तयुक्तमपि सर्वानुदात्तत्वाभावात् न नान्तम् ॥
मूलम् - 3.0.9
मू ॥ नागमञ्च शकेयञ्चाप्यचारिषमथाशकम् । श्रयध्वमेनमित्येतत्पदषट्कम् विधीयते ॥ ९ ॥
व्या ॥ अगमम् । शकेयम् । अचारिषम् । अशकम् । श्रयध्वम् । एनम् । एतानि षट्पदानि पूर्वोक्तनिमित्तचतुष्टययुक्तान्यपि नकारान्तानि न
भवन्ति । उदा - अगमम् - अग्न॒ आग॑म॒न्तं मा᳚ (१-४-५१,५३)
शकेयम् - तच्छ॑केय॒न्तन्मे᳚ (१-५-४५)
अचारिषम् - व्र॒तम॑चारिष॒न्तत् (१-६-१९)
अशकम् - तद॑शक॒न्तन्मे᳚ (१-६-१९)
श्रयध्वम् - ऊ॒र्ध्वचित॑श्श्रयध्व॒न्तया᳚ (४-२-३२)
एनम् - ए॒न॒ञ्ज॒र॒ते॒ (१-३-२८), ए॒न॒न्द्यौः (१-३-२९), ए॒न॒न्ध॒त्ते॒ (१-५-३२), ए॒न॒ स्तु॒तः (१-५-३९), ए॒न॒न्द॒धा॒मि॒ (१-६-५), ए॒न॒न्दु॒हे॒ (१-७-२),
ए॒न॒न्द॒धा॒ति॒ (१-७-२२), ए॒न॒न्द॒ध॒ते॒ (२-१-१५), ए॒न॒न्तस्मा᳚त् (२-१-४०), ए॒न॒न्दे॒वता॑यै (२-२-५६), ए॒न॒ स्व॒द॒य॒ति॒ (२-२-२४), ए॒न॒न्न्या॒यम्
(२-२-४१), ए॒न॒न्तत् (२-३-२१,२-५-११), ए॒न॒न्दाम्नः॑ (२-४-४३), ए॒न॒न्दे॒वता᳚ (२-५-२६), ए॒न॒ स्तोमे᳚ (२-५-५७,५८)*, ए॒न॒ल्लोँ॒केभ्यः॑,
ए॒न॒न्निर्भ॑जति (२-६-२१,२६), स ए॑नन्तृ॒प्तः (३-२-९), ए॒न॒ञ्छन्दो॑भिः (७-५-४०)
एतत्पदषट्कव्यतिरिक्तानि पदानि ह्रस्वोपधादिनिमित्तचतुष्टययुक्तानि चेत् नान्तानीति बोद्ध्यम् ॥ ९ ॥
मूलम् - 3.0.10
मू ॥ नकारान्तं पदं पूर्वम् अकारादि क्रमेण तु । तकारान्तं ततोऽनेन क्रमेणैव च गृह्यते ॥ १० ॥
व्या ॥ स्पष्टोऽर्थः ॥ इति परिभाषा ॥