मूलम् - 2.1.1
मू॥ अग्रेऽवारे यदर्येऽह्वेऽतिथयेऽनिष्टकेऽजरे । अन एवाद्यते साह्न ईरतामवरेऽश्नुते ॥1॥
वव्या ॥ अग्रे । अवारे । यदर्ये । अह्वे । अतिथये । अनिष्टके । अजरे । अन एव । अद्यते । साह्ने । ईरतामवरे । अश्नुते ॥ एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
अग्रे - अग्र इमम् (1-1-7), अग्र आसीत् (1-6-30,6-2-23), अग्र एतु (3-1-33), अग्र उषसाम् (4-2-8), अग्र आयन्न् (4-2-45), अग्र इति (5-5-2), अग्र आसन्न् (7-4-4),
अग्र आहरन्न् (7-4-18), अग्र उप (7-5-11)
अवारे - अवार इक्षवः (7-3-37)
यदर्ये - यदर्य एनः (1-8-4) यत् ग्रहणं किम् - विश्वान्यर्य आ (2-6-64,4-4-13) [यदर्यो अर््हात् इति तु अविषयः]
अह्वे - उपाह्व इति (1-7-7तः10), अह्व ऊतये (4-7-35)
अतिथये - यथातिथय आगताय (5-2-11)
अनिष्टके - अनिष्टक आहुतिम् (5-4-49)
अजरे - अजर उष आगाः (4-3-25)
अन एव - प्राण एवापानम् (5-2-59) एवेति किम् - प्राण आयति (1-3-27), प्राण एतु (3-3-7,10), प्राण एति (3-3-9),
प्राण उपरिष्टात् (3-4-4), यदन उथ्सर्जति (5-2-10), प्राण इति (5-5-39), प्राण उत्तमस्य (6-3-54), प्राण ऐन्द्रोऽपान ऐन्द्रः (6-3-58),
व्यान उपाशुसवनः (6-4-16,30), प्राण उपाशुः (6-5-26), प्राण आयुषा (6-6-37), प्राण ऐन्द्रवायवः (7-2-22), अपान उत्तरः (7-5-3)
अद्यते - अन्नमद्यत ओजः (5-3-14), अद्यत ऋभूणाम् (5-3-20), अद्यत आ मुखात् (5-6-12), अद्यत ऐन्द्रम् (6-6-22)
साह्ने - साह्न एवास्मै (6-6-41) सेति किम् - अह्न एव रूपेण (3-3-8), मध्यमस्याह्न आज्यम् (7-1-17), एकस्याह्न उपसीदन्ति (7-5-9)
ईरतामवरे - उदीरतामवर उत् (2-6-67) ईरतामिति किम् - मनोजवा अवर इन्द्रः (4-6-37)
अश्ञुते - अश्ञुत उर्वन्तरिक्षम् (6-4-24), अश्ञुत इति (6-4-47)
मूलम् - 2.1.2
मू॥ अनूच्यतेऽन्तरिक्षेंऽसेऽमृतेऽवदयतेऽदिते । अग्नेऽनिङ्ग्यान्तं अन्येऽर्केऽप्यग्नये त्रैंशके न तु ॥2॥
व्या - अनूच्यते । अन्तरिक्षे । अंसे । अमृते । अवदयते । अदिते । अनिङ्ग्यान्तं ‘अग्ने’ ति पदम् । अन्ये । अर्के । अग्नये । एतानि पदानि विलङ्घ्यानि भवन्ति । त्रैंशके तु ‘अग्नय’ इति पदं विलङ्घ्यं न । उदा -
अनूच्यते - अभ्यनूच्यत उभा जिग्यथुः (7-1-18)
अन्तरिक्षे - अन्तरिक्ष एवाक्रमते (6-3-7,6-6-1)
अंसे - दक्षिणेऽस उपदधाति (5-3-5)
अमृते - अमृत एवाग्निम् (5-2-37)
अवदयते - निरवदयत इमाम् (5-2-22), निरवदयत इदमहम् (6-3-46), निरवदयत उद्गातृभ्यः (6-6-26)
अदिते - अदित एहि (1-6-8)
अग्ने (अनिङ्ग्यान्तम्) - अग्न आयूषि (1-3-30,4-30,6-18), अग्न आगमम् (1-4-51,53), अग्न उपयाति (1-2-31), पुनरग्न इषा (1-5-12,4-2-3,13), अग्न आरोह (1-5-18,..),
अग्न आयुषे (2-3-40,45), अग्न आ याहि (2-5-41,…), अग्न आहुत (2-5-49), अग्न आ वह (2-5-54), त्वमग्न इयख्षवे (2-5-73), अग्न ओजसे (2-6-62),
अग्न ऋतम् (2-6-68), त्वमग्न ईडितः (2-6-69), अग्न ऋतवः (4-1-25,5-1-43), अग्न ऊधन्न् (4-2-6), अग्न उक्थउक्थे (4-2-9), अग्न उशतः (4-3-31), अग्न इधीमहि, ऋचा (4-4-15),
अग्न इष्टकाः (4-4-31,32,5-4-8), अग्न इति (5-1-18,..), अग्न उपसद्भिः (5-5-33), अग्न उदधे (5-5-37) अनिङ्ग्यान्तमिति किम् - ऐन्द्राग्न आश्विनः (5-6-53) इत्यत्र इङ्ग्यान्तत्वात् न विलङ्घ्यम् ।
अन्ये - अन्वन्य इद्ययुः (4-1-2), वायव्यैरन्य एतत् (6-5-41) [अन्येन्ये वा एते (5-4-57) इत्यत्र पूर्वखण्डस्य अविकारित्वात् न विलङ्घ्यत्वम् ।*]
अर्के - अर्क एव तदर्क्यम् (5-3-22)
अग्नये - (त्रैंशके न) - अग्नय आयुष्मते (2-2-12), अग्नय उप दधाति (5-3-41), नाग्नय इति, आतिथ्यम् (6-2-7) त्रैंशके नेति किम् - यदेकेनेत्यादीनां त्रयाणां प्रश्नानां आद्यदशानुवाकरूपाणां
त्रिंशदनुवाकानामेव त्रैंशकमिति संज्ञेति पूर्वमेवोक्तम् । तस्मिन् ‘अग्नय’ इति पदं विलङ्घ्यं न । उदा - प्र चरन्त्वग्नय इमम्, इति - (5-7-34) ।2।
मूलम् - 2.1.3
मू॥ अस्मै चाष्ट्या अनार्त्यै चाक्षित्या अश्ञवतै तथा । अवरूढ्या अहिंसाया अस्यै तम् पूर्वमिष्यते ॥3॥
व्या - अस्मै । अष्ट्यै । अनार्त्यै । अक्षित्यै । अश्नवतै । अवरूढ्यै । अहिंसायै । एतानि पदानि विलङ्घ्यानि भवन्ति । ‘तम्’ पूर्वं यस्मात्तत्तम्पूर्वम् । तथाभूतं अस्यै इति पदं इष्यते विलङ्घ्यत्वेन इष्टं भवतीत्यर्थः । उदा -
अस्मै - अस्मा अस्तु (1-5-44), अस्मा ऋतवः (1-6-43), अस्मा अनपगाः (2-1-2), अस्मा ऊर्जम् (2-1-6,..), अस्मा इमान् (2-1-28), अस्मा अन्नम् (2-1-36..), अस्मा इन्द्रियम् (2-2-1..),
अस्मा आयतने (2-2-57,.), अस्मा उप, उभयतः (2-2-26,61), अस्मा ईजानाय (2-5-22), अस्मा अरिष्टतातये (4-2-27), अस्मा एव (6-1-12), अस्मा अददुः (3-1-30),
अस्मा ओजः (3-4-23), अस्मा अनु (3-4-27), अस्मा उपरिष्टात् (5-1-44), अस्मा असतः (2-1-32), अस्मा उच्छति (5-3-22), अस्मा अनुमतिः (3-4-29,30), अस्मा ऋषयः (4-6-7),
अस्मा इमौ, इदम्, इमे (2-5-45,6-4-23,7-2-11) …
अष्ट्यै - समष्ट्या अथो (2-2-26), समष्ट्या आघारम् (2-5-66), समष्ट्या इन्द्राय (6-1-51), समष्ट्या उलूखलबुध्नः (7-2-3)
अनार्त्यै - अनार्त्या आश्राव्य (2-6-51)
अक्षित्यै - अक्षित्या उन्नये (1-3-23,6-4-15)
अश्ञवतै - अश्ञवता इति (6-2-34)
अवरूढ्यै - प्रत्यवरूढ्या अथो (7-3-13,19,24,7-4-8,17)
अहिंसायै - अहि॑साया औदुम्बरम् (5-2-47)
अस्यै (तम्पूर्वः) - तमस्या अजा (6-1-41) तम्पूर्वमिति किम् - वा अस्या अन्नम् (1-7-9), ह्यस्या अपरम् (1-7-47), नास्या अन्नम् (2-5-6), एवास्या अमेध्यम् (2-6-21,..), वा अस्या एतत् (5-1-21),
एवास्या अधिपाम् (6-1-51), एवास्या एतत् (6-1-54), विशो अस्या अदब्धः (1-2-28), नेदिष्ठो अस्या उषसः (2-5-72), शसत्यस्या एव (3-2-40), मातुरस्या उपस्थे (4-1-37,..),
एवास्या अधिपाम्, अध्यख्षम् (6-1-51), खनत्यस्या अक्रूरङ्काराय (5-1-35), देवयजनमस्या अनिर्याच्य, वा अस्या अनामृतम् (5-2-14), भवत्यस्या अनतिदाहाय (5-2-27), तस्मादस्या असौ (5-2-39),
उपदधात्यस्या अनतिदाहाय (5-2-56), वा अस्या अमृतम् (5-6-16)
चकारौ समुच्चयार्थौ । तथेति पूर्वोक्तविलङ्घ्यत्वप्रतिपादकम् । एवमुत्तरत्रापि ॥
मूलम् - 2.1.4
मू॥ अमुष्मै चाप्यरिष्ट्यै स्यादास्ते चाह्वयते तथा । अथानयत इन्द्रायोदेवतत्परमात्मने ॥4॥
व्या ॥ अमुष्मै । अरिष्ट्यै । अथशब्द आनन्तर्यार्थः । अकारादि शब्दपरिगणनान्तरमित्यर्थः । आस्ते । आह्वयते । आनयते । इन्द्राय, उत्, एव तत् इत्येतानि पदानि पराणि यस्मात्तत् तथोक्तम् ‘आत्मन’ ति पदं च विलङ्घ्यानि भवन्ति । उदा -
अमुष्मै - अमुष्मा आहवनीयः (6-1-58,6-4-10)
अरिष्ट्यै - अरिष्ट्या उत्तरैः (7-5-4)
आस्ते - आस्त इव हीयम् (3-2-40), मध्य आस्त आपप्रिवान्, इति (4-6-14,5-4-28)
आह्वयते - अभ्याह्वयत आव्यम् (3-2-38) - अत्र ‘आह्वयते’ इत्येव पदं ग्राह्यम् । ‘ह्वयते’ इति तु 48तम श्लोके वक्ष्यते ।
आनयते - समानयत उपभृतः (2-6-2)
इन्द्राय परम्) आत्मने - आत्मन इन्द्रायाजुहुवुः (6-4-43)
उत् परम्) आत्मने - आत्मन उत्तरम् (2-6-22)
एव तत् परम्) आत्मने - आत्मन एव तदध्वर्युः, यजमानाः (3-1-20,7-4-7) एव तदिति किम् - आत्मन एवाधि यज्ञम् (6-5-37) इन्द्रायोदेवतत्परमिति किम् - आत्मन उक्षवशौ (2-1-24)
मूलम् - 2.1.5
मू॥ आज्ये चानश आवर्तेऽप्यावर्तन्ते तथाऽऽसते । आगते चाहुवध्यै स्यादावृत्त्या आरभामहै ॥5॥
व्या - आज्ये । आनशे । आवर्ते । आवर्तन्ते । आसते । आगते । आहुवध्यै । आवृत्त्यै । आरभामहै । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
आज्ये - आज्य आश्वत्थे (1-8-16)
आनशे - आनश औदुम्बरम् (2-5-24)
आवर्ते - अन्वावर्त इत्याह (1-7-27)
आवर्तन्ते - उपावर्तन्त एकया (5-2-24)
आसते - लोकेष्वासत आददानाः (3-5-14), उपासत उतो (4-6-43), चतुर्दशरात्रमासत उभयोः (7-3-12), एता आसत उभयम् (7-3-22), त्रयस्त्रिदहमासत ऐषाम् (7-4-21)
आगते - पर्यागत एताभिः (1-6-35)
आहुवध्यै - आहुवध्या उभा (1-1-25,1-5-17), आहुवध्या इत्याह (1-5-26)
आवृत्त्यै - व्यावृत्त्या अनक्ति (2-6-26), व्यावृत्त्या इयतीम् (5-1-34), व्यावृत्त्या इन्द्रः (6-1-5)
आरभामहै - समारभामहा इति (2-4-5)
मूलम् - 2.1.6
मू॥ आप्त्या आसामहै चस्यादिच्छते चेच्छ इध्यते । समिद्धेऽग्नीध इज्यन्ते इन्धे मृढ्वमिडे भवेत् ॥6॥
व्या ॥ आप्त्यै । आसामहै । इच्छते । इच्छे । इध्यते । समिद्धे । अग्नीधे । इज्यन्ते । इन्धे । मृढ्वमिडे ॥ एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
आप्त्यै - आप्त्या एकधा (2-3-7), आप्त्या उत्तरउत्तरः (2-3-28,2-4-34), आप्त्या अन्तरकोशे (3-4-4), आप्त्या ऊनातिरिक्ताः (5-1-42), आप्त्या इमा मे (5-4-8), पर्याप्त्या अनन्तरायाय (5-4-58),
आप्त्या एकविशतिछदि (6-2-54), आप्त्या एकविशत्यरत्निम् (6-3-18), आप्त्या औदुम्बरेण (6-6-36), आप्त्या अतिरात्रौ (7-3-21)
आसामहै - आसामहा एवेमौ (7-5-7)
इच्छते - इच्छत इव हि (6-3-32,47)
इच्छे - अन्विच्छ एतत् (4-3-23)
इध्यते - समिध्यत इत्याह (5-5-26)
समिद्धे - समिद्ध एवास्मिन् (5-5-26) समिति किम् - देवेद्ध इत्याह, मन्विद्ध इत्याह (2-5-51) [समिद्धे अग्नौ (4-6-13) इति तु संहितायाम् अविकारी ।]
अग्नीधे - अग्नीध आदधाति (2-6-49), अग्नीध ऐन्द्रो वै (7-1-20) अग्नीति किम् - समिध आदधाति (5-4-24), समिध आदधाति (5-6-38)
इज्यन्ते - इज्यन्त एते हि (2-5-38), इज्यन्त आज्येन (2-6-60)
इन्धे - समिन्ध एवैनम् (1-5-14), भूत्या इन्ध उप (2-1-20), समिन्ध एतदुर्वै (2-6-52), समिन्ध उभयोरस्मै (5-4-3), समिन्ध एवैनम् (5-5-26), समिन्ध इष्टकाः (5-7-6)
मृढ्वमिडे - शीऱ्षाणि मृढ्वमिड एहि (1-6-8) मृढ्वमिति किम् - परिधिरिड ईडितः (1-1-19,20), पत्मन्निड ईडिताः (3-5-21)
मूलम् - 2.1.7
मू॥ इरिणे चेन्धते चेध्र इमे नेति परम् भवेत् । त्रिष्टुगिन्द्रिय इज्यान्ता ईमहे चेशते तथा ॥7॥
व्या - इरिणे । इन्धते । इध्रे । इमे । [इति परञ्चेत् इम इति पदं विलङ्घ्यं न भवेत्] त्रिष्टुगिन्द्रिये । इज्यान्तै । ईमहे । ईशते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
इरिणे - इरिण उपदधाति (5-2-23)
इन्धते - अभीन्धत एव (7-4-31)
इध्रे - आग्नीध्र उपवासयति, आग्नीध्र उपवासयति (6-3-9,12,6-4-11)
इमे (नेति परं) - इम एवास्मै (2-4-29) नेतिपरमिति किम् ? अच्छेम इत्याह (5-1-8) इत्यत्र इतिपरत्वात् ‘म’ ति पदं न विलङ्घ्यम् ।
[इमे एव (5-2-38,5-5-18,19,6-3-59), इमे उपावर्थ्स्यतः (6-1-17) इत्यादौ प्रगृह्यत्वात् न विलङ्घ्यम् । इमे अश्विना (5-6-15) इति तु अविकारी । ]
त्रिष्टुगिन्द्रिये - त्रिष्टुगिन्द्रिय एव (2-4-31) त्रिष्टुगिति किम् - शतेन्द्रिय आयुषि (1-5-30….)
इज्यान्तै - देवा इज्यान्ता इति (2-5-38)
ईमहे - तमीमह इत्याह (2-5-49)
ईशते - त ईशत इति (3-1-31)
मूलम् - 2.1.8
मू॥ ईक्षन्ते चेक्षतेऽपि स्यादुक्थ उच्यत उप्यते । उच्यमान उपाके स्यादुच्यान्ता ऊतये तथा ॥8॥
व्या - ईक्षन्ते । ईक्षते । उक्थे । उच्यते । उप्यते । उच्यमाने । उपाके । उच्यान्तै । ऊतये । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
ईक्षन्ते - नापेक्षन्त आ द्याम् (4-6-22), नापेक्षन्त इत्याह (5-4-30)
ईक्षते - प्रतीक्षत एवम् (3-2-39)
उक्थे - उक्थउक्थ आ भज (4-2-9) [उक्थउक्थे सोमः (1-4-52)* उक्थे अव्यथयन्ती (4-4-6) इति प्रगृह्यत्वात् न विलङ्घ्यम् ।]
उच्यते - अग्निरुच्यत इति (5-7-38)
च्यमाने - अनूच्यमान आ (2-2-29,58)
उपाके - उपाक आ रोचते (4-3-29)
उच्यान्तै - पात्राण्युच्यान्ता इति (6-4-32)
ऊतये - इन्द्रमूतय इत्याह (5-1-6), ऊषुण ऊतय इति (5-1-23)
मूलम् - 2.1.9
मू॥ ऊहते चर्ध्यते चर्ष एकाम्परमृचे भवेत् । ऋत्या आत्मानमृध्याता ऋध्यै तु न मुखात्परम् ॥9॥
व्या - ऊहते । ऋध्यते । ऋषे । एकाम् परं ‘ऋच’ इति पदम् । ऋत्या आत्मानम् । ऋध्यातै । ऋध्यै । एतानि पदानि
विलङ्घ्यानि भवन्ति । मुखात्परम् ‘ऋध्या’ इति पदं न विलङ्घ्यम् । उदा -
ऊहते - पर्यूहत इयम् (5-2-55)
ऋध्यते - व्यृध्यत एताम् (2-3-10)
ऋषे - ऋष इत्यब्रवीत् (2-5-46)
ऋचे (एकांपरं) - अर्धर्च एकान्दध्यात् (1-6-37) एकाम्परमिति किम् - उदृच इमाम् (1-2-4), अर्धर्च इयमर्धर्च इमे (6-3-59)
ऋत्या आत्मानम् - निऱ्ऋत्या आत्मानमपि (5-6-24) आत्मानमिति किम् - निऱ्ऋत्या उपस्थे (1-6-5), निर््ऋत्या आयतनम् (5-2-23), निर््ऋत्या अन्तर््हित्यै (5-2-24)
ऋध्यातै - ऋध्याता अस्माकम् (6-5-19)
ऋध्यै (न मुखात्परं) - चिनुत ऋध्या अथो (5-4-51), सत्रस्यर्ध्या अथो (7-4-21,7-5-12), वपन्त ऋध्या अथो (7-4-31), समृध्या इन्द्राय (2-1-19), समृध्या ऐन्द्रम् (2-1-37),
समृध्या अग्नये (2-2-6), समृध्या उदु, इमम्, एकम् (2-3-34,45,47), समृध्या आमिख्षा (6-2-27) न मुखात्परमिति किम् - यज्ञमुखादृध्या अग्नेः (5-1-3) अत्र मुखात्परत्वात् ऋध्या इति पदं न विलङ्घ्यम् ।
मूलम् - 2.1.10
मू॥ एते स्यादेतवै चाथौजस्वते व्योमने तथा । कर्मणे कुरुते कक्षे करणे कतमे भवेत् ॥10॥
व्या ॥ एते । एतवै । ओजस्वते । व्योमने । कर्मणे । कुरुते । कक्षे । करणे । कतमे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
एते - एत एतान्ग्रहान् (6-6-32), यदेत ऊर्ध्वाः (7-4-14) [एते आहुती (1-5-7), एते एव (2-5-37), ह्येते ऋतावरी (2-6-40), एते इष्टके (5-3-24) इति प्रगृह्यत्वान्न विलङ्घ्यानि ।]
एतवै - अन्वेतवा उ (1-4-49)
ओजस्वते - ओजस्वत एष ते (1-4-31)
व्योमने - व्योमन ऋतस्य, इत्याह (3-3-11,14) [‘ओमने’ इत्येव वक्तुं युक्तम् । व्यावर्त्यान्तराभावात् ।]
कर्मणे - कर्मण आप्यायध्वम् (1-1-1)
कुरुते - कुरुत इष्टकचित् (1-5-32), कुरुत उग्रः (1-6-33), कुरुत आत्मन्न् (1-7-6), कुरुत इह (2-3-2), कुरुत ऋषेर््ऋषेः (2-5-43), कुरुत आयुष्याः (5-3-45), कुरुत एतान् (6-6-33),
कुरुत एवमेव (7-5-27)
कक्षे - अपिकक्ष आसनि (1-7-36)
करणे - हविष्करण उपहूतः (2-6-40)
कतमे - अथ कतम एते (2-6-51)
मूलम् - 2.1.11
मू ॥ क्रियन्ते स्वकृते कोशे कालेऽस्याः क्रूर इष्यते । क्रेष्यते क्रयणे काण्डे क्रमते क्रियते तथा ॥11॥
वव्या ॥ क्रियन्ते । स्वकृते । कोशे । काले । अस्याः क्रूरे । क्रेष्यते । क्रयणे । काण्डे । क्रमते । क्रियते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
क्रियन्ते - न क्रियन्त एष ह त्वै (3-3-29)
स्वकृते - स्वकृत इरिणे (2-5-3,3-4-26,5-2-23) स्वेति किम् - स्वयङ्कृत इध्मः (1-8-17)
कोशे - अन्तरकोश उष्णीषेण (3-4-4)
काले - काल आगते (5-5-7)
अस्याः) क्रूरे - अस्याः क्रूर आसन् (4-2-20) अस्या इति किम् - यवागूः क्रूर इव (6-2-26)
क्रेष्यते - तेजसा विक्रेष्यत इति (6-1-68)
क्रयणे - सोमक्रयण एवाहम् (6-1-60)
काण्डे - काण्डेकाण्ड एवैनम् (6-3-31)
क्रमते - वि क्रमत एषः (2-5-34), वि क्रमत उत्तरतः (5-3-34), आ क्रमत आहवनीये (6-3-7)
क्रियते - क्रियत इति (2-2-54,2-5-19), क्रियत इष्ट्वा (3-4-4), क्रियत इमाम् (5-1-5), क्रियत इति (5-5-40,6-2-3), क्रियत आपः (5-7-19)
मूलम् - 2.1.12
मू॥ कल्पन्ते कुर्वतेऽपि स्यात्कस्मै क्रीणावहै तथा । कृत्यै क्रान्त्यै च कॢप्त्यै च क्षेमेऽपि क्षीयते तथा ॥12॥
वव्या ॥ कल्पन्ते । कुर्वते । कस्मै । क्रीणावहै । कृत्यै । क्रान्त्यै । कॢप्त्यै । क्षेमे । क्षीयते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
कल्पन्ते - कल्पन्त एवैन्द्रम् (2-2-60)
कुर्वते - उत्क्रोदं कुर्वत एवम्, कुर्वत इषम् (7-5-29)
कस्मै - कस्मा इममा (2-1-9), कस्मा अह देवाः (6-3-6)
क्रीणावहै - क्रीणावहा इषम् (1-8-5)
कृत्यै - स्वगाकृत्या अथो (3-4-3), निष्कृत्या अथो (5-4-7), स्वगाकृत्या अग्निश्च (5-4-40)
क्रान्त्यै - अभिक्रान्त्या एका च (5-4-41)
कॢप्त्यै - लोकानां कॢप्त्या अथो (5-6-35)
क्षेमे - आवः क्षेम उत (3-4-36), यथा क्षेम आहुतिम् (3-4-38)
क्षीयते - क्षीयत आसन्यात् (3-1-20)
मूलम् - 2.1.13
मू॥ खायन्ते स्यादनुख्यात्यै गृह्यन्ते गृह्यते गृहे । बिभर्तुपूर्वं गर्भे स्यात् गृहीते गृणते तथा ॥13॥
व्या ॥ खायन्ते । अनुख्यात्यै । गृह्यन्ते । गृह्यते । गृहे । बिभर्तुपूर्वं ‘गर्भ’ ति पदम् । गृहीते । गृणते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
खायन्ते - खायन्त इदमहम् (6-2-56)
अनुख्यात्यै - अनुख्यात्या अथो (2-5-63), अनुख्यात्या आगत्य (5-1-10), अनुख्यात्या अग्नौ (5-2-41), अनुख्यात्या एषा (5-3-34), अनुख्यात्या असुरेषु (6-3-37), अनुख्यात्या ओजोभृतौ (6-5-13), अनुख्यात्या अग्नीधे (6-6-5) [वस्तुतः ‘ख्यात्यै’ इत्येव पर्याप्तम् ।]
गृह्यन्ते - गृह्यन्त एषाम् (3-3-16), गृह्यन्त ऋतूनाम् (6-5-15), गृह्यन्त उपरिष्टादुपयामाः (6-5-38), गृह्यन्त इन्द्रियम् (6-6-30), गृह्यन्त इति (6-6-31)
गृह्यते - गृह्यत इन्द्रियम् (6-5-2,6-6-38), गृह्यत ओजः (6-5-13), गृह्यत उद्धारम् (6-5-17), गृह्यत ऋध्नोति (6-6-36), गृह्यत आग्रयणस्य (7-2-33), गृह्यत इयम् (7-5-12)
गृहे - गृह ऋषभः (1-8-15), गृह उपध्वस्तः (1-8-16), गृह आ वेवीरन्न् (3-2-39)
(बिभर्तुपूर्वं) गर्भे - बिभर्तु गर्भ आ (4-1-20) बिभर्तुपूर्वमिति किम् - वै गर्भ इन्द्रियम् (2-1-12), हिरण्यगर्भ आपः (2-2-64), अपां गर्भ ओषधीषु (3-3-28), हरितो गर्भ इति (3-4-1), मनसा गर्भ आ (3-4-6), वो गर्भ ऋत्वियः, इति (4-1-17,5-1-30,6-6-12), भुवनस्य गर्भ आ (4-2-7), वर्धन्ते गर्भ इव (6-2-27)
गृहीते - निर््ऋतिगृहीत एव (3-4-26), अपरिगृहीत एव, परिगृहीत एव (5-2-33,34)
गृणते - प्रतिगृणत आ चक्षीत (7-3-4)
मूलम् - 2.1.14
मू॥ गर्दभे गेऽपि गृह्यान्तै गुप्त्यै गायत्रियै तथा । गृह्यातै चापि गव्यायै घ्ने तु नैव-परं भवेत् ॥14॥
व्या ॥ गर्दभे । गे । गृह्यान्तै । गुप्त्यै । गायत्रियै । गृह्यातै । गव्यायै । घ्ने । एतानि पदानि विलङ्घ्यानि भवन्ति । ‘एव’ परं चेत् ‘घ्न’ इति पदं न विलङ्घ्यम् । उदा -
गर्दभे - गर्दभ आसादयति (5-1-24)
गे - सुवर्ग एव (2-6-3,3-4-12,7-3-26)
गृह्यान्तै - ग्रहा गृह्यान्ता इति (6-4-31)
गुप्त्यै - गुप्त्या अथो खलु, यथा (5-6-24)
गायत्रियै - गायत्रिया एव (6-2-2,3), गायत्रिया उभयतः (6-2-3,4)
गृह्यातै - गृह्याता इति (6-4-33,36)
गव्यायै - गव्याया एतद्देवाः (7-4-51)
नैवपरं घ्ने - वृत्रघ्न, अभिमातिघ्न इन्द्राय (1-4-1), मखघ्न इन्द्रियम्, इति (3-2-12,13), गोघ्न उत (4-5-23) नैवपरमिति किम् - वार्त्रघ्न एवास्य (6-1-76) अत्र एव-परत्वात् घ्न इति पदं न विलङ्घ्यम् ।
मूलम् - 2.1.15
मू॥ चिनुते चर्यतेऽपि स्याच्चर्षणे चीयते तथा । चक्षसे जायते ज्ञाने जनिष्यन्ते च जीवसे ॥15॥
व्या ॥ चिनुते । चर्यते । चऱ्षणे । चीयते । चक्षसे । जायते । ज्ञाने । जनिष्यन्ते । जीवसे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
चिनुते - चिनुत इष्वग्रेण (5-2-14), चिनुत उद्धन्ति (5-2-15), चिनुत ईश्वरः (5-2-42), चिनुत उवाच (5-4-2), चिनुत आहुतीनाम् (5-4-49), चिनुत आ (5-4-50,5-7-1),
चिनुत ऋद्ध्यै (5-4-51), चिनुत ऋध्नोति (5-5-8), चिनुत उभौ (5-6-14), चिनुत एषा (5-6-24), चिनुत ऋतुभिः (5-6-39), चिनुत एताः (5-7-41)
चर्यते - चर्यत आग्निपावमानीभ्याम् (1-7-28)
चऱ्षणे - विश्वचऱ्षण एतेभिः (3-5-16)
चीयते - अग्निश्चीयत इत्याहुः (5-5-8,9,10), चीयत इति यत् (5-7-37)
चक्षसे - वरुणस्य चक्षस इत्याह (6-1-76)
जायते - जायत ऊर्जा (1-5-34), जायत एषः (1-5-37), जायत एकाम् (2-5-29), जायत इयम् (3-2-40), जायत एतत् (3-5-24), जायत आशुः (5-1-58), विजायत एवम् (5-5-7), जायत एव (6-1-19), जायत इन्द्रः (6-5-41,7-2-14), जायत आत्तरेताः (7-1-3), जायत उत्तमा (7-1-32), जायत एकविशः (7-2-6,9), जायत एकः (7-2-39), जायत एतौ (7-5-54)
ज्ञाने - अथो संज्ञान एव (5-2-15)
जनिष्यन्ते - वसीयासो जनिष्यन्त इति (6-5-18)
जीवसे - जीवस आ युवस्व (2-4-16)
मूलम् - 2.1.16
मू॥ यस्मिञ्जाते च जायन्ते जाये त्वाज्योतिषे भवेत् । जायन्तै जीवनस्यायै ज्ञात्यै जायामहै तथा ॥16॥
व्या ॥ यस्मिञ्जाते । जायन्ते । जाये । त्वाज्योतिषे । जायन्तै । जीवनस्यायै । ज्ञात्यै । जायामहै । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
यस्मिञ्जाते - यस्मिञ्जात एताम् (2-2-25) यस्मिन्निति किम् - यो जात एव (1-7-48)
जायन्ते - प्रजायन्त इति (3-3-18), जायन्त इति, जायन्त एतत् (6-1-46), जायन्त उपाश्वन्तर्यामौ (6-5-36), जायन्त एकविशः (7-2-3,7-4-12), जायन्त एकविशम् (7-5-25)
जाये - जाय एहि सुवः (1-7-38)
(त्वा) ज्योतिषे - त्वा ज्योतिष इत्याह (3-3-15), त्वा ज्योतिष आदित्येभ्यः (4-4-21) त्वेति किम् - विश्वज्योतिष उपदधाति (5-3-39)
जायन्तै - जायन्ता इति (7-5-1)
जीवनस्यायै - जीवनस्याया अग्नेः, इमम् (2-3-40)
ज्ञात्यै - प्रज्ञात्या अथो (6-1-34)
जायामहै - प्रजायामहा इति (5-5-12,13,14,7-1-14)
मूलम् - 2.1.17
मू॥ जगत्या एव जायातै जित्यै नेति-परं भवेत् । जयामहै च जात्यै च जयातै त्रायते तथा ॥17॥
व्या ॥ जगत्या एव । जायातै । जित्यै । इति परं चेत् जित्या इति पदं न विलङ्घ्यम् । जयामहै । जात्यै । जयातै । ्रायते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
जगत्या (एव) - जगत्या एवैतेन (6-2-2/3) एवेति किम् - जगत्या अभिभूत्यै (3-1-20), जगत्या ऋख्षमम् (4-3-3), जगत्या अनुष्टुभः (7-5-13)
जायातै - जायाता अस्माकम् (6-5-19)
(न इतिपरम्) जित्यै - अभिजित्या आसीनः (2-5-61), विजित्या उभे (3-1-21), अभिजित्या उत्तरेषु (3-3-16), अभिजित्या अधिपतिः (3-5-8), अभिजित्या उपरसम्मिताम् (6-6-14), अभिजित्या इन्द्रः (6-6-39), विजित्या एकविशः (7-4-11), अभिजित्या एतया (7-5-41) नेतिपरम् इति किम् ? अभिजित्या इत्याहुः (7-5-41) इत्यत्र इति परत्वात् जित्या इति पदं न विलङ्घ्यम् ।
जयामहै - विजयामहा इति (6-2-37)
जात्यै - प्रजात्या अवान्तरं (7-5-12)
जयातै - परा जयाता अधिराजः (2-4-45)
त्रायते - एनन्त्रायत इन्द्राय (2-2-39), त्रायत एवैनम् (6-4-19)
मूलम् - 2.1.18
मू॥ तीर्थे तेजस्वते तस्थे तुर इन्द्राय तेजसे । उत्तमे ते च तिष्ठन्त आह त्रिष्टुभ उत्तरे ॥18॥
व्या ॥ तीर्थे । तेजस्वते । तस्थे । तुर इन्द्राय । तेजसे । उत्तमे । ते । तिष्ठन्ते । आह त्रिष्टुभे । उत्तरे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
तीर्थे - तीर्थ एव प्राश्ञन्ति, एव दख्षिणाम् (2-6-43), तीर्थ एव प्रचरति (6-6-25)
तेजस्वते - तेजस्वत एष ते (1-4-30)
तस्थे - द्वितीयाय तस्थ आखुः (1-8-10)
तुर इन्द्राय - वृत्रतुर इन्द्राय त्वा (1-4-1) इन्द्रायेति किं - वृत्रतुर इत्याह (6-4-17)
तेजसे - तेजस एष आलभ्यते (5-5-1)
उत्तमे - उत्तम उपयन्ति (7-5-9) [उत्तमे औदुम्बरी (5-1-52), उत्तमे उपदधाति (5-3-33) इति तु प्रगृह्यत्वात् न विलङ्घ्ये ।]
उदिति किं - अच्युतक्षित्तम एषः (1-4-14), दीर्घश्रुत्तम इन्द्रस्य (1-6-47), भूयिष्ठभाक्तम इन्द्रम् (5-4-39)
ते - त आ (1-1-2), त एतम् (1-1-23), त इन्द्र (1-4-13), त उक्थे (1-7-49), त ऋक्वभिः (2-1-61), त ईशते (3-1-31), त ओहैः (4-4-16), त ऊषाः (5-2-16),
त ऐन्द्रवायवाः (5-6-44), (इत्यादि 124 स्थलेषु)
तिष्ठन्ते - उपतिष्ठन्त इडा (1-7-1), उपतिष्ठन्त आपः (3-1-37,4-2-15), तिष्ठन्त उपयामगृहीतः (3-5-26), तिष्ठन्त एकधा (5-2-24), उपतिष्ठन्त उन्नेतरि (6-5-35)
आहत्रिष्टुभे - इत्याह त्रिष्टुभ एव (6-2-2) आहेति किं - ग्रैष्मी त्रिष्टुभ ऐडम् (4-3-2), करोति त्रिष्टुभ उप (5-3-36)
उत्तरे - त्रैष्टुभमुत्तर ओजो वै (7-1-12) उदिति किं - योऽस्मत्पाकतर उत् (3-2-14)
मूलम् - 2.1.19
मू॥ तिष्ठते चोपपूर्वं स्यात्तस्मै तत्यै तथा भवेत् । तस्या इतोऽपचत् पूर्वं दत्त इन्द्रोदमे ददे ॥19॥
व्या ॥ उपपूर्वं ‘तिष्ठत’ इति पदम् । तस्मै । तत्यै । इतः, अपचत् एवं पूर्वं ‘तस्या’ इति पदम् । दत्ते । इन्द्रोदमे । ददे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
तिष्ठते (उपपूर्वं) - उपतिष्ठत आऽस्य (1-5-33/34), उपतिष्ठत एतेन, इमम् (5-2-6/7), उपतिष्ठत आज्येन (5-4-37) उपपूर्वमिति किम् - तानुत्तिष्ठत ओषधयः (7-4-30)
तस्मै - तस्मा एव (1-6-22), तस्मा आतिथ्यम् (2-2-27), तस्मा इन्द्रम् (2-2-66), तस्मा उ (3-3-34), तस्मा अरम् (4-1-18), तस्मा ऋषभम् (5-7-40), (इत्यादि 56 स्थलेषु)
तत्यै - सन्तत्या इऩ्द्रः (2-5-20), सन्तत्या अथो (2-5-40 ..), सन्तत्या अविच्छेदाय (5-5-1), सन्तत्या इयम् (5-6-34)
तस्यै (इतः पूर्वं) - अन्तरितस्तस्या आ (3-5-26)
तस्यै (अपचत् पूर्वं) - अपचत्तस्या उच्छेषणम् (6-5-18) इतोऽपचत्पूर्वमिति किम् - स्नाति तस्या अप्सु (2-5-6), सृजति तस्या उद्वन्धुकः, पिबति तस्या उन्मादुकः (2-5-7), वेदिस्तस्या एतावतः (2-6-22), प्रजापतिस्तस्या एतत् (5-1-9), अविशत्तस्या इन्द्रः, इति तस्या अनुमृश्य (6-1-22), अर्धयति तस्या उपोत्थाय (7-1-28)
दत्ते - आदत्त इदम् (3-4-27), आदत्त इच्छते (6-3-32)
(इन्द्रो) दमे - स्वराडिन्द्रो दम आ (2-4-45) इन्द्र इति किम् - तिष्ठते दम एव (1-5-28)
ददे - आदद इन्द्रस्य (1-1-13), आदद ऋतस्य (1-3-14,4-2-30), आदद इति (5-2-30), आदद इमाम् (7-1-40)
मूलम् - 2.1.20
मू॥ देवने च दुहे दध्रे दक्षिणे ददते दृशे । दीक्षते दधते दघ्ने दीक्षन्ते च तथा भवेत् ॥20॥
व्या ॥ देवने । दुहे । दध्रे । दक्षिणे । ददते । दृशे । दीक्षते । दधते । दघ्ने । दीक्षन्ते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
देवने - अधिदेवन एव (3-4-23)
दुहे - दुह एव (1-6-40,41,3-2-28,6-2-59,6-6-19), दुह एते (1-7-2), दुह एवम्, दुह उत्तानेषु (2-3-28)
दध्रे - प्रथमन्दध्र आपः (4-6-8)
दक्षिणे - दक्षिण आसादयन्न् (6-1-71)
ददते - आ सोमन्ददत आ (6-3-8), आददत उत्क्रोदम् (7-5-29)
दृशे - दृश आ रूपे (4-3-30)
दीक्षते - एव दीक्षत आशितः (6-1-4)
दधते - आत्मन्दधत एताः (7-3-17)
दघ्ने - नाभिदघ्न एव, ऊर्जा (6-3-23)
दीक्षन्ते - आरभ्य दीक्षन्त आर्तम् (7-4-28)
मूलम् - 2.1.21
मू॥ आङ्परं देवतायै च दधाता अपि धर्मणे । धीयन्ते धिष्णियेऽपि स्याद्धीयते धत्त इष्यते ॥21॥
व्या ॥ आङ्परं ‘देवताया’ इति पदम् । दधातै । धर्मणे । धीयन्ते । धिष्णिये । धीयते । धत्ते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
देवतायै (आङ्परं) - स्वायै देवताया आलभत (2-1-4,16,53) आङ्परमिति किम् - अग्नेर्देवताया एति (5-1-2)
दधातै - अग्निमादधाता इति (1-5-2)
धर्मणे - विधर्मण ऋतस्य (3-3-12), विधर्मण इति (3-2-14)
धीयन्ते - परिधीयन्त आमनम् (2-3-37)
धिष्णिये - होतुर्धिष्णिय उप (5-4-54)
धीयते - युक्त आधीयत एवम् (5-4-48)
धत्ते - धत्त एतत् (2-4-23), धत्त उपरिष्टाल्लख्ष्मा (2-6-11), धत्त उक्थम् (3-2-35 ..), धत्त इडा (3-3-3), धत्त एकविशतिनिर्बाधः (5-1-53), धत्त इन्द्रः (5-4-21), धत्त ईश्वरः (5-7-27), धत्त ऐन्द्रेण (6-6-32) ॥21॥
मूलम् - 2.1.22
मू॥ धृत्यै नाके च नीयन्ते निष्कासे नुदते नये । नप्त्रे नत्यै पुनीते च पवते पावके तथा ॥22॥
व्या ॥ धृत्यै । नाके । नीयन्ते । निष्कासे । नुदते । नये । नप्त्रे । नत्यै । पुनीते । पवते । पावके । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
धृत्यै - धृत्या अथो (1-6-28,5-1-32), विधृत्या अथो (5-2-18,5-4-27), विधृत्या अधृता (5-3-6), धृत्या अन्तःश्लेषणम्, विधृत्या अवकाम् (5-4-5), धृत्या अन्नम् (5-6-9),
धृत्या अप्रपादाय (5-6-36), धृत्या अदीख्षिष्ट (6-1-27), विधृत्या अग्नेः (6-2-42), धृत्या अद्भ्यः (6-3-34), धृत्या आयुः (6-5-7), धृत्या अशिथिलम्भावाय (7-1-17,7-2-11)
नाके - उत्तमे नाक इह (3-5-1), अधि नाक उत्तमे (4-1-8,4-7-24)
नीयन्ते - दक्षिणा नीयन्त एतत् (6-1-41)
निष्कासे - निष्कास उदयनीयम् (6-1-38)
नुदते - प्रणुदत इन्द्राय, ऐन्द्रेण (2-1-20,2-1-25), प्रणुदत उपरिष्टाल्लख्ष्मा (2-6-10), नुदत उभयतःप्रउगम् (5-4-53), प्रणुदत इन्द्रः (6-2-38)
नये - उन्नय इत्याह (6-4-15)
नप्त्रे - तनूनप्त्र इत्याह (6-2-10)
नत्यै - सन्नत्या अमुष्मै (7-5-37)
पुनीते - अग्निं पुनीत आत्मानम् (1-7-28)
पवते - अभिपवत आमयावी (3-2-9)
पावके - पावक आ चितयन्त्या (4-6-2)
मूलम् - 2.1.23
मू॥ प्यायते पवसे पोषे वैपूर्णे पासुरे पते । पक्षे पन्नेऽग्नये पूष्णे पारे पूर्वे तु नोत्परम् ॥23॥
व्या ॥ प्यायते । पवसे । पोषे । वैपूर्णे । पांसुरे । पते । पक्षे । पन्ने । अग्नये पूष्णे । पारे । पूर्वे । एतानि पदानि विलङ्घ्यानि भवन्ति । उत्परञ्चेत्, ‘पूर्व’ ति पदं न विलङ्घ्यम् । उदा -
प्यायते - आप्यायत आग्नावैष्णवम् (3-5-4)
पवसे - पवस आसुव (1-3-31,1-4-30,1-5-18,1-6-18)
पोषे - विभुः पोष उत (3-1-36), [रायस्पोषे अधि (4-6-13) इति तु अविकारी ।]
(वै) पूर्णे - यो वै पूर्ण आसिञ्चति (7-5-15) वैग्रहणं किं - जुहोति पूर्ण इव (5-1-45,5-4-34,6-1-16) [पूर्णे उप, पूर्णे एव (5-2-39) इति प्रगृह्ये ।]
पासुरे - पासुर इरावती (1-2-26)
पते - मनसस्पत इमम् (1-1-24,1-4-48), ब्रह्मणस्पत इति (1-5-34), गृहपत इत्याह (1-5-35,1-7-28), शवसस्पत इषम् (2-2-70,4-4-16), ब्रह्मणस्पत आ नः (2-3-53),
नभसस्पत ऊर्जम्, इति (3-3-24,27), भुवनस्य पत इति (3-4-27,5-4-45), भुवस्पत इति (6-1-74), व्रतपत आत्मनः (6-3-12)
पक्षे - दख्षिणे पख्ष उप (5-3-5), पूर्वपक्ष उत्तिष्ठन्ति (7-4-30)
पन्ने - यदतिपन्न आहुः (6-3-26)
(अग्नये) पूष्णे - अग्नये पूष्ण ओषधीभ्यः (4-2-23) अग्नय इति किं - पूष्ण आधिपत्यम् (4-3-16)
पारे - स्वाहा पार इक्षवः (7-3-37) [अपसस्पारे अस्य (3-2-45) इति अविकारी ।]
(नोत्परं) पूर्वे - पूर्व ऋख्सामाभ्याम् (1-2-8), पूर्व इति (3-1-4), पूर्व आ (3-5-3), पूर्व आयुषि (4-1-5,.), पूर्व आत् (4-6-9) नोत्परमिति किं - पूर्व उद्ध्रियते (2-2-21), पूर्व उदयनमुत्तरः (7-5-3) ॥
मूलम् - 2.1.24
मू॥ पदे त्विति परं पत्य उपायुः परमिष्यते । पुष्यसे पतयेऽपीति परं स्यादिति पत्नियै ॥24॥
व्या ॥ इतिपरं ‘पद’ इति पदं विलङ्घ्यम् । उप, आयुः एवं परं ‘पत्य’ इति पदं विलङ्घ्यम् । ‘पुष्यसे’ ति पदं विलङ्घ्यम् । इतिपरं ‘पतय’ ति पदं विलङ्घ्यम् । इतिपूर्वं ‘पत्निया’ ति पदं विलङ्घ्यम् । उदा -
पदे (इतिपरं) - चतुष्पद इत्याह (5-2-8), इडायाः पद इत्याह (6-1-55) इतिपरमिति किं - द्विपद एव, चतुष्पद एव (2-2-62,2-6-13,6-5-10,6-6-43)
पत्ये (उपपरं) - गार््हपत्य उपवपेत् (6-1-58), गार््हपत्य उपसादयेत् (6-4-10)
पत्ये (आयुःपरं) - आधिपत्य आयुर्मे (3-3-11)
उपायुःपरमिति किं - गार््हपत्य एकविशस्य (5-2-19), प्राजापत्य ऊलः (5-5-50), गार््हत्य आधीयते (6-1-58,6-4-10)
पुष्यसे - वृणीत पुष्यस इत्याह (6-1-15)
पतये (इतिपरं) - यज्ञपतय इत्याह (2-6-59), परिपतय इत्याह (6-2-10) इतिपरमिति किं - अधिपतय इन्द्रः (4-4-4) [वनस्पतय इन्द्रम् (1-7-37) इति तु अनिङ्ग्यत्वादनुदाहरणम् ।]
(इति) पत्नियै - राय इति पत्निया अर्द्धः (6-1-58) इतीति किं - अथो पत्निया एव (6-2-1,46)
मूलम् - 2.1.25
मू॥ नमः पृथिव्यै प्रत्यै धाब्रह्मणे बाधते तथा । भ्राजस्वते द्विभागे च भूमने भ्रंशते भगे ॥25॥
व्या ॥ नमः पृथिव्यै । प्रत्यै । धाब्रह्मणे । बाधते । भ्राजस्वते । द्विभागे । भूमने । भ्रंशते । भगे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
(नमः) पृथिव्यै - नमः पृथिव्या अग्ने (1-2-20), नमः पृथिव्या अहे (3-2-14)
नम इति किम् - अररुः पृथिव्या अदेवयजनः (1-1-14), तन्तुं पृथिव्या अनु, आ पृथिव्या आरे (1-2-8,6-1-33),
वरिमाणं पृथिव्या आ (1-2-15), पतिः पृथिव्या अयम् (1-5-17,4-4-10), अस्यै पृथिव्या अस्मात् (1-6-17), एष पृथिव्या आगच्छति (3-1-4),
आयुः पृथिव्या अधि (3-3-7), निचाय्य पृथिव्या अधि (4-1-1), सुमतौ पृथिव्या अग्निम् (4-1-8), अवसानं पृथिव्या अक्रन्न् (4-2-14),
शोचात्पृथिव्या उत (4-2-45), धरुणः पृथिव्या अस्य (4-4-37), न पृथिव्या अधि (4-6-4), पृथिव्या अहम् (4-6-21), (असि पृथिव्या नाभिः (4-7-25) अच्परत्वाभावान्न विलङ्घ्योदाहरणम्), प्रदिशः पृथिव्या इति (5-1-44), क्रमते पृथिव्या अहम् (5-4-30), वा पृथिव्या इति (6-2-47), अरतिं पृथिव्या इति (6-5-6)
प्रत्यै - प्रत्या अग्ने सहस्राक्ष (5-4-31)
(धा) ब्रह्मणे - एकधा ब्रह्मण उप (2-3-7) धेति किम् - ब्रह्म ब्रह्मण उज्जभार (2-3-56), अग्निर्ब्रह्मण एतत् (5-4-17), छन्दासि ब्रह्मण एतत् (5-6-23),
बाधते - संबाधत उभयम् (6-5-35)
भ्राजस्वते - भ्राजस्वत एष ते (1-4-32)
(द्वि) भागे - द्विभाग इन्द्रः (7-1-18), द्वीति किम् - तस्य भाग उदितः (2-5-10, गायत्रो, जागतो भाग इति (3-1-5), प्रथमो भाग एति (4-6-40)
भूमने - विभूमन ऋतस्य, इति (3-3-12,14)
भ्रंशते - यज्ञाद्भ्रशत आश्रावय (1-6-39)
भगे - ऋतप्रजाता भग इद्वः (3-1-24)
मूलम् - 2.1.26
मू॥ भुञ्जते चायुषो भुङ्क्ते भियै भूत्यै तथा भवेत् । भुनजाध्वै मुखे मध्ये मार्जयन्ते मरुत्वते ॥26॥
व्या ॥ भुञ्जते । आयुषो भुङ्क्ते । भियै । भूत्यै । भुनजाध्वै । मुखे । मध्ये । मार्जयन्ते । मरुत्वते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
भुञ्जते - भुञ्जत एतत् (2-5-14), भुञ्जत इयत्, ऊर्ध्वम् (5-2-47,6-1-20)
आयुषो भुङ्क्ते - आयुषो भुङ्क्त उत्तरार्धे (6-5-8) आयुष इति किम् - वेद भुङ्क्त एनम् (2-6-11)
भियै - अस्मद्भिया इयम् (2-6-63)
भूत्यै - भूत्या इन्धे, ऐन्ध (2-1-20, ..), प्रभूत्या ऋतवः (7-2-37)
भुनजाध्वै - उभयेन भुनजाध्वा इति (2-5-14)
मुखे - यज्ञमुख एव (1-6-34,35,3-1-9), रथमुख ओजस्कामस्य (3-4-23)
मध्ये - मध्य इद्धः (1-3-25), मध्य एतत् (2-4-34), मध्य आसाम् (4-2-41), मध्य आस्ते (4-6-14,5-4-28), मध्य उप (4-7-27,5-3-24), मध्य एषः (5-7-39)
मार्जयन्ते - सामि मार्जयन्त एतत् (1-7-5), अद्भिर्मार्जयन्त आपः (2-6-44)
मरुत्वते - मरुत्वत एषः (1-4-18,19,20)
मूलम् - 2.1.27
मू॥ माध्यन्दिने च क्षत्राय महते मथिते मदे । पूर्णमासे महिम्ने मेऽदिते दायि महे मृते ॥27॥
व्या। माध्यन्दिने । क्षत्राय महते । मथिते । मदे । पूर्णमासे । महिम्ने । मे । ‘अदिते, दायि’ इत्येवं पूर्वं ‘मह’ इति पदम् । मृते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
माध्यन्दिने - माध्यन्दिन एव सवने (3-2-37)
(क्षत्राय) महते - क्षत्राय महत आधिपत्याय (1-8-19,22) क्षत्रायेति किम् - अमन्महि महत ऋतस्य (1-8-19)
मथिते - स्वयम्मथित आज्ये (1-8-16)
मदे - ता मद इन्द्रः (2-3-55)
(पूर्ण) मासे - पूर्णमास आ (2-5-11) पूर्णेति किम् - त्रयोदशो मास इति (6-5-12)
महिम्ने - नमो महिम्न उत (3-3-28)
मे - म आ (1-5-20), म इमाः (2-4-5), म ऊर्जम् (3-2-33), म उर्व्या (4-3-9), म ओजः, ऋद्धम्, औद्भिद्यम्, ऐन्द्रवायवः, एकादश (4-7-2,4,7,13,19) …
(अदिते पूर्वं) महे - अदिते मह ओखाम् (4-1-20)
(दायि पूर्वं) महे - अनु ते दायि मह इन्द्रियाय (1-6-46,1-7-47) अदितेदायीति किम् - आ ते मह इन्द्र (1-7-48), वर्धमानं मह आ च (4-1-10,4-2-33)
मृते - अनामृत एव (5-2-15)
मूलम् - 2.1.28
मू॥ मन्यवे मुञ्चते मंस्ये मिमीतेऽपि मनामहे । मनुते म्रियते मेधे मन्यन्ते मध्यमे मुचे ॥28॥
व्या ॥ मन्यवे । मुञ्चते । मंस्ये । मिमीते । मनामहे । मनुते । म्रियते । मेधे । मन्यन्ते । मध्यमे । मुचे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
मन्यवे - मन्यव उतो ते (4-5-1)
मुञ्चते - उखाम्प्रतिमुञ्चत उत् (5-2-3)
मंस्ये - नाभिम्य इति (3-1-31)
मिमीते - वेणुना विमिमीत आग्नेयः (5-2-26), मिमीत इन्द्राय (6-4-16)
मनामहे - स्तोमं मनामह इत्याह (5-5-26), धियं मनामह इत्याह (6-1-28)
मनुते - मनुत एवैनम् (5-5-26)
म्रियते - जातो म्रियत एवम् (5-7-17)
मेधे - सहस्राक्ष मेध आ (4-2-42)
मन्यन्ते - मन्यन्त आशिरमव (6-1-42)
मध्यमे - मध्यम उपयन्ति (7-5-9)
मुचे - अहोमुच एकादशकालः (7-5-49)
मूलम् - 2.1.29
मू॥ मेष्यै च मत्यै मुक्त्यै स्याद्यजते यजने तथा । योगे तु यज्ञं योगेऽग्निम् पूर्वं स्याच्च यजामहे ॥29॥
व्या ॥ मेष्यै । मत्यै । मुक्त्यै । यजते । यजने । ‘यज्ञम्, योगे, अग्निम्’ इत्येतत्पूर्वं योग इति पदम् । यजामहे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
मेष्यै - मेषाय मेष्या अव (1-8-11)
मत्यै - अनुमत्या अन्यवापः (5-5-55)
मुक्त्यै - अतिमुक्त्या अति पाप्मानम् (6-6-35)
यजते - यजत इति (1-5-41), यजत एतत् (1-6-21), यजत उभये (1-6-25), यजत उभयतः (1-7-16), यजत उत्तमाम् (2-4-8), यजत उत्तरया (2-5-29), यजत उपवीः (6-3-32), यजत आऽस्य (7-1-33)
यजने - देवयजन इडायाः (1-2-11), देवयजन इत्याह (6-1-55)
(यज्ञम् पूर्वं) योगे - यज्ञं योग आगते (1-6-28)
(योगे पूर्वं) योगे - योगेयोग एव (5-1-6)
(अग्निम् पूर्वं) योगे - अग्निं योग आगते (5-5-15) यज्ञंयोगेऽग्निम्पूर्वमिति किम् - तिष्ठते योग एव (1-5-27), अस्मै प्रयोग एव (5-1-51)
यजामहे - ये यजामह इति (1-6-39)
मूलम् - 2.1.30
मू॥ युत्वते यजमाने स्यादायुरेवाशिषः परम् । एतं यज्ञस्य पूर्वं चेत् नेष्यतेऽवयजे भवेत् ॥30॥
व्या ॥ युत्वते । ‘आयुः, एव, आशिषः’ इत्येतत्परं यजमान इति पदम् । अवयजे । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
युत्वते - वायवे नियुत्वत आ (2-1-1,2,3)
(आयुः परं) यजमाने - यजमान आयुर्दधाति, दधति (2-3-7,2-3-44)
(एव परं) यजमाने - यजमान एव रयिम् (6-1-58), गृह्णाति यजमान एव (6-5-17), यजमान एव वीर्यम् (6-6-7)
(आशिषः परं) यजमाने - यजमान आशिषस्स्वाहाकृताः (3-5-21)
एतम्, यज्ञस्य इत्येतत्पूर्वं चेत् यजमान इति पदं न विलङ्घ्यम् ।
(एतं पूर्वं) - एतं यजमान एव चिन्वीत (5-6-38)
(यज्ञस्य पूर्वं) - यज्ञस्य यजमान आशिषोऽव (6-2-48) एवाशिषः परत्वात्प्राप्तिः ।
अन्यत्र तु, ससृष्टां यजमान ईश्वरः (1-5-6), बृहस्पतिप्रसूतो यजमान इह (1-6-1), देवतानां यजमान उज्जितिम् (1-7-16), मनो यजमान इयख्षति (1-8-41),
{एव, ताभिः, वीर्यम्} यजमान आत्मन्न् (2-4-8,5-3-43,5-4-1,6-6-20,30,38), यज्ञस्य, अयं यजमान इति (2-6-28,40),
यमस्य यजमान एव (3-3-24), एताभिर्यजमान इमान् (5-3-41), तद्यजमान उपावर्तते (6-1-1), बर््हिर्यजमान उत्तरबर््हिः (6-2-24),
एव यजमान ऋध्नोति (6-6-24), पञ्चदशो यजमान एकविशः (7-2-15)
(अव) यजे - एतेनावयज इन्द्रः, इति (2-3-48,50) अवेति किम् - यदुपयज उपयजति (6-4-1)
मूलम् - 2.1.31
मू॥ एकाजग्मेममारण्या एवं विद्वांस इन्दवः । एषां पशव उद्यन्तः एतावन्तः परं च ये ॥31॥
व्या ॥ ‘एक, आजग्म, इमम्, आरण्याः, एवं विद्वांसः, इन्दवः, एषां पशवः, उद्यन्तः, एतावन्तः’ एतेषु पदेषु परेषु सत्सु ‘य’ ति पदं विलङ्घ्यम् । उदा -
एक परं - य एकाष्टकायां दीक्षन्ते (7-4-28)
आजग्म परं - य आजग्म सवनेदं (1-4-47)
इमं परं - य इमं यज्ञम् (1-5-46,2-6-39)
आरण्याः परं - य आरण्याः पशवः (3-1-12)
एवं विद्वांसः परं - य एवं विद्वासः (7-2-1, .. 28वारम्) विद्वांस इति किम् - य एवं पुनराधेयस्य, विद्वान्, वेद, सम्पाद्य, एतेषाम्, शीतरूरयोः, द्यावापृथिव्योः, अग्नीषोमयोः, छन्दसाम्, एतासाम्, उख्यम् (1-5-3,33,1-6-26,32,2-3-25,2-5-10,12,14,3-3-20,5-2-58,5-5-14 ..)
इन्दवः परं - मेडयो य इन्दवः (5-7-33)
एषां पशवः परं - य एषां पशवस्तान् (3-1-30) पशव इति किम् - य एषां यज्ञम्, भृत्याम् (2-5-31,4-2-48)
उद्यन्तः परं - य उद्यन्तस्स्तोमाः (7-1-34) यन्त इति किम् - य उत्तमः (2-1-29), य उन्माद्येत्, उन्माद्यति (3-4-25)
एतावन्तः परं - य एतावन्तश्च (4-5-27)
एकादिपरमिति किम् - य आहवनीयम्, आहिताग्निः, आ, आदित्यानाम्, आनुजावरः, आत्मदाः, आमस्य, आसाम्, आत्मानम्, आज्यम्, आक्रोशति
(1-5-33,1-7-31,2-1-33,63,2-3-23,4-1-32,4-6-42,5-2-58,6-6-27,7-2-40,7-5-30),
य इडाम्, इमान्, इदम्, इत्, इन्द्रियकामः, इषुधिः, इमा (1-7-4,26,1-8-1,41,2-3-29,4-5-4,4-6-6),
य ईवते, ईश्वरः, ईजानः, ईशे (1-2-30,2-1-12,3-4-32,4-1-32), य उक्थैः, उभयादत्, उग्रः, उखायै, उखाम्, उ, उखायाम्, उपहताय
(1-2-30,2-2-32,2-6-64,5-1-48,5-2-3,56,5-6-36,7-3-1), य ऊर्मिः, ऊर्ध्वया (1-2-8,4-4-17),
य एनौ, एव, एति, एनयोः, एनम्, एकादशः (1-5-40,1-6-33,2-2-4,3-2-28,5-7-24,6-6-19),
य ओजसा, य ओषधीषु (1-4-21,5-5-39), य औशिजम् (1-5-24)
मूलम् - 2.1.32
मू॥ परो नव उशन्तो ये वाजिनं समिधस्सुवः । भक्ष सा तेभ्य एतेषु विनोदेवं परेण तु ॥32॥
व्या ॥ य इति अनुवर्तते । परः, नवः, उशन्तः, ये वाजिनम्, समिधः, सुवः, भक्ष, सा, तेभ्यः एष्वनुवाकेषु ‘य’ ति पदं ‘उत्’, ‘एवम्’ इत्येतत्परं न चेत् विलङ्घ्यम् । उदा -
परोक्षं वा इत्यत्र - य एव देवाः (1-7-11)
नवो नव इत्यत्र - य उप द्यवि (2-4-48)
उशन्तस्त्वेत्यत्र - य ईयुरवृकाः, य उपरासः (2-6-68)
ये वाजिनम् इत्यत्र - य ईमाहुः (4-6-43)
समिधो यजतीत्यत्र - य एव देवयानाः (2-6-3)
सुवर्गमित्यत्र - य उपसदः (6-2-20) सुवरादिषु बह्वनुवाकेषु सत्स्वपि अत्र षष्ठकाण्डद्वितीयप्रश्नस्य चतुर्थानुवाक एव गृह्यते । इतरेषु एतल्लक्ष्यस्याभावात् ।
भक्षेहीत्यत्र - य एतस्मिन् लोके (3-2-21)
सोत्तरवेदिरित्यत्र - य एव देवाः (6-2-41)
तेभ्य उत्तरवेदिरित्यत्र - य एवैषु लोकेषु (6-2-36)
एष्वनुवाकेष्विति किम् - य एति जनताम् (2-2-4) विनोदेवं परेणेति किम् - तेषां य उन्नयते (6-2-20), य एवं वेद (2-6-4)
मूलम् - 2.1.33
मू॥ यज्ञे चोल्बणमेवोप ह्वयध्वं परमिष्यते । नैभ्यः पूर्वं भवेद्यत्ते यूथे यूपे च युज्यते ॥33॥
व्या ॥ ‘उल्बणं, एव, उपह्वयध्वं’ इत्येतत्परं ‘यज्ञ’ इति पदं विलङ्घ्यम् । ‘एभ्यः’ इत्येतत्पूर्वं चेत् न विलङ्घ्यम् । यत्ते । यूथे । यूपे । युज्यते । एतानि पदानि च विलङ्घ्यानि । उदा -
(उल्बणं परं) यज्ञे - एव यज्ञ उल्बणं (3-4-13)
(एव परं) यज्ञे - यज्ञ एवान्ततः, यज्ञं (1-7-18,22,5-1-41,..), यज्ञ एव पशुषु (2-5-28), यज्ञ एवान्तरिख्षे (2-6-3)
(उप ह्वयध्वं परं) यज्ञे - अस्मिन् यज्ञ उपह्वयध्वं (3-2-11) ह्वयध्वमिति किम् - उप यज्ञ उप मा (3-2-11), हि यज्ञ उपश्रितः (2-6-53), पाङ्क्तो यज्ञ उपैनम् (6-3-17)
एभ्यः परमिति किम् ? वै यज्ञ आपः, वाव यज्ञ एति, अश्वी यज्ञ इति (1-7-23,31), ओषधीभिर्यज्ञ आयुष्मान् (2-3-40), ऐन्द्रो यज्ञ आ (3-3-21), एतस्य यज्ञ ऋध्यते (3-4-1), हि यज्ञ उरु (6-1-12), वै यज्ञ आसीत् (6-3-37), तस्य यज्ञ इति (6-6-31), ज्येष्ठयज्ञ इति (7-1-3), आनुजावरस्य यज्ञ इति (7-2-38)
नैभ्यः पूर्वमिति किम् - तमेभ्यो यज्ञ एव (6-2-22) एवपरत्वात्प्राप्तिः ।
यत्ते - संयत्त इन्द्रियेण (2-1-17,2-2-41)
यूथे - यूथेयूथ ऋषभः (5-7-4)
यूपे - विशालयूप आलभ्यन्ते (5-6-53)
युज्यते - पूर्वः प्रयुज्यत इति (7-2-34)
मूलम् - 2.1.34
मू॥ युज्यन्ते यतने यक्ष्ये युङ्क्ते युक्त ऋतायते । यस्मै च यत्यै यज्यायै युक्त्यै रमयते रभे ॥34॥
व्या ॥ युज्यन्ते । यतने । यक्ष्ये । युङ्क्ते । युक्ते । ऋतायते । यस्मै । यत्यै । यज्यायै । युक्त्यै । रमयते । रभे ।
एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
युज्यन्ते - पुनः प्रयुज्यन्त इममेव (6-5-39)
यतने - आयतन इन्द्रियम् (5-4-55)
यक्ष्ये - यो यक्ष्य इत्युक्त्वा (2-4-33)
युङ्क्ते - यज्ञं प्रयुङ्क्त आपो देवीः (6-1-11)
युक्ते - यथानसि युक्त आधीयते (5-4-48)
(ऋता) यते - मधु वाता ऋतायत इति (5-2-46) ऋतेति किम् - यत आत्तः (1-5-46), यत आजगन्थ (4-2-6), सय्यँत उपदधाति, सय्यँत उपदधाति (5-2-59,60), यत ईश्वरः (5-4-58), यत ऋतूनाम् (6-5-10)
यस्मै - यस्मा एव परोक्षं (2-5-1), यस्मा एवैनम् (5-2-9,5-4-25)
यत्यै - उद्यत्या एतावन्तः, अनुष्टुप् (5-2-27,6-1-14), यत्या ऋतस्य (6-3-34)
यज्यायै - देवयज्याया अवधूतम्, उपभृत्, अग्नाविष्णू, इत्याह (1-1-7,21,6-3-14)
युक्त्यै - अति प्रयुक्त्या एतया (2-2-47)
रमयते - आत्मन्रमयत इहैव (1-5-32)
रभे - वातादारभ इत्याह (6-1-26,6-3-34)
मूलम् - 2.1.35
मू॥ रोचते रिच्यते रुन्धे रिक्त एवपरं भवेत् । रुन्धते रुरुचे राष्ट्रे रोचन्ते रभते तथा ॥35॥
व्या ॥ रोचते । रिच्यते । रुन्धे । एव-परं चेत् ‘रिक्त’ इति पदम् । रुन्धते । रुरुचे । राष्ट्रे । रोचन्ते । रभते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
रोचते - रोचत आहुतः (1-3-31,1-5-19), रोचत एव (2-2-13), रोचत एवम् (5-3-42), रोचत इयम् (5-6-40)
रिच्यते - रिच्यत इव वा एतत् (1-7-22)
रुन्धे - अवरुन्ध इन्धानाः (1-5-29), रुन्ध ऐन्द्राग्नम् (2-1-33), रुन्ध इन्द्रियम् (2-2-49), रुन्ध आग्नेयम्, एतावन्ति, उत्तानेषु (2-3-8,31), रुन्ध इन्द्रस्य, अवरुन्ध इन्द्रियम् (2-5-16,29), रुन्ध इडो यजति (2-6-1), रुन्ध ऋतम्, एतावत्, ऋतस्य (3-3-13,14), रुन्ध ओजस्वी, उपैनम् (3-4-23,33), रुन्ध आज्येन (5-1-49), रुन्ध ईश्वरः, एकादशम्, ऊषान् (5-2-2,6,15), रुन्ध एताम् (5-3-35), रुन्ध ऋक्, आ (5-4-40,42), रुन्ध एषा (5-7-5), रुन्ध आकूत्यै, एकस्मात्, एषः, औदुम्बरः, इति (6-1-10,16,17,25,60), रुन्ध आपतये, उद्धन्ति (6-2-9,24), रुन्ध एकादश (6-3-53), रुन्ध इन्द्रियम् (7-1-34)
रिक्ते (एव परं) - अतिरिक्त एव (3-4-4,7-5-14) एवपरमिति किम् - अतिरिक्त उन्नेता (7-1-19), अतिरिक्त एकया (7-4-33,35)
रुन्धते - अवरुन्धत उत्तरवेद्याम् (6-5-35), रुन्धत आदित्यः (7-5-11)
रुरुचे - क्षामन्रुरुच उषसः (4-6-2)
राष्ट्रे - राष्ट्र एव विशम् (5-4-36)
रोचन्ते - रोचन्त एवैकवितिरात्रः (7-3-29)
रभते - आरभत ऋध्नोत्याभ्याम् (3-5-4)
मूलम् - 2.1.36
मू॥ रणे यमाय राज्ञे स्यादपि रह्यै रभावहै । अनारण्याःपरं रुध्यै लभ्यन्ते लभते तथा ॥ 36॥
व्या ॥ रणे । यमाय राज्ञे । रह्यै । रभावहै । आरण्याः परं न चेत् ‘रुध्यै’ इति पदम् । लभ्यन्ते । लभते । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
रणे - नू रण आ यः (4-6-2)
(यमाय) राज्ञे - यमाय राज्ञ ऋश्यः (5-5-49) यमायेति किम् - वरुणस्य राज्ञ आदित्यानाम् (4-6-18)
रह्यै - पूष्णो रह्या अपाम् (1-3-19)
रभावहै - सरभावहा इत्याह (5-3-46)
रुध्यै (अनारण्याः परं) - अवरुध्या अथो, अथ, अन्नस्यान्नस्य, औदुम्बरेण, एकादश, आर्द्रे, आऽन्यः (1-5-14,2-4-18,5-2-29,5-4-44,6-3-40,7-5-30)
अनारण्याः परमिति किम् - पशवोऽवरुध्या आरण्याः (1-6-23)
लभ्यन्ते - आलभ्यन्त उतेव (5-4-57)
लभते - आलभत उभयस्य, आत्मनः (2-1-55,3-1-15), आलभत आकूत्यै (3-4-10), आलभत आत्मनिष्क्रयणः (6-1-76)
मूलम् - 2.1.37
मू॥ लोके च नायं गो गोवै पूर्वं लप्स्यामहे व्रते । विदे वयस्वते विश्वे वर्चसे चाङ्परं वरे ॥37॥
व्या ॥ ‘अयं, गो, गोवै’ त्येतत्पूर्वं न चेत् ‘लोक’ इति पदम् । लप्स्यामहै । व्रते । विदे । वयस्वते । विश्वे । वर्चसे । आङ्परं ‘वर’ इति पदम् । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
लोके (न अयं गो गोवै पूर्वं) - अमुष्मिल्लोँक इति (1-7-14), अमुष्मिल्लोँक आसीत्, आदित्यम् (2-5-44,45),
अमुष्मिल्लोँक इष्टापूर्तेन (3-3-26), अस्मिल्लोँक आर्ध्नुवन्न् (5-2-6), निर््ऋतिलोक एव (5-2-24), अमुष्मिल्लोँक उप (5-2-40),
पितृलोक ऋध्नुयाम्, एव (5-4-54), अमुष्मिल्लोँक आर्ध्नुवन्न्, ऋध्नुयाम्, एव लोक ऋध्नोति, अस्मिल्लोँक ऋध्नुयाम् (5-5-5,6),
मनुष्यलोक एव (6-1-10), भ्रातृव्यलोक उत्तराणि (6-2-55), अस्मिल्लोँक आसन्न्, आसीत् (6-3-28,7-3-25),
वारुणस्य लोक ऐन्द्रम् (6-6-22), अमुष्मिल्लोँक ऋध्नुवन्ति (7-3-12), एनाल्लोँक उभयतः (7-3-26)
अयं पूर्वमिति किम् - अयं लोक इममेव (2-5-40,5-6-31)
गोपूर्वमिति किम् - सुवर्गो लोक इति, एकवृता, इन्द्र (2-6-28,5-2-20,7-5-22)
गोवैपूर्वमिति किम् - सुवर्गो वै लोक ऋतस्य (3-3-15) गोवै पूर्वमिति किम् - एतस्मिन्वै लोक इन्द्रः (6-6-43)
लप्स्यामहे - इममालप्स्यामह इति (2-1-9)
व्रते - व्रत इन्द्रवायू (1-1-11,1-5-46) [धृतव्रते आविन्ना (1-8-22) इति तु प्रगृह्यम् ।]
विदे - एकधनविद आ (1-2-20)
वयस्वते - वयस्वत उक्थायुवे (1-4-13), वयस्वत इत्याह (6-5-3)
विश्वे - विश्व एनमनु (4-1-28), विश्व उपासते (4-1-32,7-5-43), विश्व ऊती (4-7-21)
वर्चसे - वर्चस ओषधे त्रायस्व (1-2-1)
वरे (आङ्परं) - वर आ पृथिव्याः (1-2-8), वर आ विवेश (4-6-6) आङ्परमिति किम् - इयं वर इति (7-1-25)
मूलम् - 2.1.38
मू॥ विन्दते वर््षवर्णे च वीतये च वृणीमहे । वस्ते वारयते वृङ्क्ते वृणीते वृक्ष आयुधम् ॥38॥
व्या ॥ विन्दते । वर््षवर्णे । वीतये । वृणीमहे । वस्ते । वारयते । वृङ्क्ते । वृणीते । वृक्ष आयुधम् । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
विन्दते - विन्दत ओषधयः (2-1-31), विन्दत ऐन्द्राग्नम् (2-2-1), विन्दत उपैनम्, विन्दत एताम् (2-3-9)
वर््षवर्णे - सुरूपवर््षवर्ण एहि (1-6-8)
वीतये - आयाहि वीतय इति (2-5-41,42,44,45,5-1-28,5-5-26), वीतय ऋतम् (4-1-17)
वृणीमहे - दूतम् वृणीमह इत्याह (2-5-48,2-6-58,59,5-5-26)
वस्ते - सतती वस्त एकः (3-2-5)
वारयते - वारयत एवैनम् (5-5-35)
वृङ्क्ते - स देवता वृङ्क्त इति (3-1-22), भ्रातृव्यस्य वृङ्क्त इन्द्राय (6-5-3), यजमानो वृङ्क्त इति (7-3-5)
वृणीते - तम् वृणीत आर््षेयम् (2-5-50)
(वृक्ष) आयुधम् - परमे वृक्ष आयुधन्निधाय (4-5-25) आयुधम् इति किम् - स वृक्ष आसीत् (4-6-10)
मूलम् - 2.1.39
मू॥ वते स्यादिन्द्रियादित्यानीकपूर्वं च विष्णवे । निवाते वायवे वादे वस्यसे वर्क्ष्यते तथा ॥39॥
व्या ॥ ‘इन्द्रिय, आदित्य, अनीक’ इत्येतत्पूर्वं ‘वत’ ति पदम् । विष्णवे । निवाते । वायवे । वादे । वस्यसे । वर्क्ष्यते ।
एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
(इन्द्रियपूर्वं) वते - इन्द्रियावत इन्द्राय, आत्मानम् (2-2-37), इन्द्रियावत इन्द्रियम् (2-4-6,8)
(आदित्यपूर्वं) वते - आदित्यवत इन्द्राय (1-4-1)
(अनीकपूर्वं) वते - अग्नयेऽनीकवत आहुतिम् (5-4-22)
इन्द्रियादित्यानीकपूर्वमिति किम् - परावत आ (1-6-49,3-3-7), निवत उदुद्वतः (3-2-14), हरिवत इन्द्रपीतस्य (3-2-20), परावत इत्याह (3-3-10), निधनवत आग्रयणः (4-3-4)
विष्णवे - विष्णव उरुक्रमाय (5-6-47), जुष्टा विष्णव इत्याह (6-1-47)
(नि) वाते - निवात एषामभये (5-7-7) नीति किम् - धुनिर्वात इव (3-1-38), समुद्रो वात इदम् (4-4-33), चित्तम् वात इव (4-6-37)
वायवे - वायव आरोहणवाहौ (5-6-52)
वादे - नातिवाद इति (6-4-21)
वस्यसे - यथा वस्यस उपनिधाय (6-5-38)
वर्क्ष्यते - सहस्रं वर्क्ष्यत इति (7-1-18)
मूलम् - 2.1.40
मू॥ वाक्ये वथ्सर आग्नेयमेकामेवपरं भवेत् । न त्वेवास्मै परं चेत्स्याद्वपन्ते वज्र एव च ॥40॥
व्या ॥ वाक्ये इति पदं विलङ्घ्यम् । ‘आग्नेयं, एकां, एव’ इत्येतत्परं ‘वथ्सर’ इति पदं विलङ्घ्यं भवेत् । ‘एवास्मै’ ति पदद्वयं परं चेत् ‘वथ्सर’ इति पदं विलङ्घ्यं न स्यात् । वपन्ते । एव परं ‘वज्र’ इति पदं च विलङ्घ्ये भवतः । उदा -
वाक्ये - अविवाक्य उपहन्यते, उपहताय (7-3-1,2)
(आग्नेयं परं) वथ्सरे - द्वितीये संवथ्सर आग्नेयं (5-6-20)
(एकाम् परं) वथ्सरे - ते संवथ्सर एकां गाम् (7-1-15)
(एव परं) वथ्सरे - संवथ्सर एव प्रति, उभयतः, सुवर्गे, प्रतिष्ठाय (1-5-27,..,7-3-26,7-4-3,..)
आग्नेयमेकामेवपरमिति किम् - संवथ्सर आप्यते, ऋतुषु, ओषधीः, इति, आत्मा (2-5-46,..5-4-6,..5-7-8,7-4-37,7-5-53)
न त्वेवास्मै परमिति किम् - संवथ्सर एवास्मै ब्रह्मवर्चसं (2-1-12,22) एव परत्वात्प्राप्तिः ।
वपन्ते - अनु प्रवपन्त ऋध्यै (7-4-31)
वज्र (एव) - वज्र एव वीर्यम् (7-4-26) एवेति किम् - वज्र आसीत् (2-4-37), वज्र आज्यव्वँज्र आज्यभागौ (2-6-11), वज्र एकादशिनी (5-5-29), वज्र इव (6-1-6,6-2-49)
मूलम् - 2.1.41
मू॥ व्याधिनेऽसद्वशे चापि वृणै वृत्त्यै वृणामहै । वृणावहै विशै वै च वृष्ट्या एव परं भवेत् ॥41॥
व्या ॥ व्याधिने । ‘सत्’ पूर्वं ‘श’ इति पदम् । वृणै । वृत्त्यै । वृणामहै । वृणावहै । विशै । वै । एव परम् ‘वृष्ट्या’ इति पदं च विलङ्घ्यानि भवन्ति । उदा -
व्याधिने - निव्याधिन आव्याधिनीनाम् (4-5-7)
असत्पूर्वं) वशे - सुपारा नो असद्वश इत्याह (6-1-28) सदिति किम् - उक्षा वश इव (2-1-47)
वृणै - वरं वृणा अहम् (6-2-16), वरं वृणा अथ (6-4-32)
वृत्त्यै - लोकस्याभिवृत्त्या अभिजित् (7-5-6)
वृणामहै - वरं वृणामहा ऋत्वियात् (2-5-5)
वृणावहै - वरं वृणावहा आवम् (2-5-37), वरं वृणावहा एक एव (6-4-36)
विशै - स्वे लोके विशा इह (3-5-19)
वै - यो वा अयथादेवतम् (3-1-17, …. )
वृष्ट्यै (एव परं) - वृष्ट्या एव लोकम् (5-4-4)
वपरमिति किम् - प्रजापतिः, वायुर्वै वृष्ट्या ईशे (2-1-52,2-4-23), देवता, रश्मयो वृष्ट्या ईशते (2-4-28,3-3-8)
मूलम् - 2.1.42
मू ॥ श्रेयसे शुचये शास्ते श्रीणीषे शस्यते तथा । शोचिषे स्यादनिङ्ग्यान्तं श्रैष्ठ्येपि श्रयते तथा ॥ ४२ ॥
व्या ॥ श्रेयसे । शुचये । शास्ते । श्रीणीषे । शस्यते । अनिङ्ग्यान्तं ’शोचिष’ इति पदम् । श्रैष्ठ्ये । श्रयते । एतानि पदानि विलङ्घ्यानि भवन्ति ।
उदा - श्रेयसे - पापी॑या॒ञ्च्छ्रेय॑स आ॒हृत्य॑ (१-५-२८)
शुचये - शुच॑य॒ आयु॑रे॒वास्मिन् (२-२-१७)
शास्ते - आशा᳚स्त॒ उप॑हूते, इत्या॑ह (२-६-४०,५५), आशा᳚स्त इन्द्रि॒यस्य॑ (३-१-२५,३-२-१२), आशा᳚स्त॒ उदु॑ (५-२-८), आशा᳚स्त॒ आपः॑ (६-३-४४)
श्रीणीषे - दर्वी᳚ श्रीणीष आ॒सनि॑ (२-२-७०)
शस्यते - श॒स्यत॑ इन्द्रि॒यमे॒व (३-१-२२), हरि॑वच्छस्यत॒ इन्द्र॑स्य (६-६-४१)
शोचिषे (अनिङ्ग्यान्तं) - हर॑से शो॒चिष॒ इत्या॑ह (५-४-१८) अनिङ्ग्यान्तमिति किम् - शु॒क्रशो॑चिष आ॒जुह्वा॑नस्य (४-४-१७)
श्रैष्ठ्ये - स॒जा॒ताना॒ श्रैष्ठ्य॒ आ (३-५-१३)
श्रयते - मयि॑ श्रयत॒ इति॑ (२-५-१७), ए॒व श्र॑यत ए॒तस्मिन् (७-१-६) ॥
मूलम् - 2.1.43
मू ॥ श्रपयन्ते शये नीचम् शान्त्यै श्रुत्यै च शातयै । शुद्ध्यै षोडशिने स्योने स्तृणुते सृजते समे ॥ ४३ ॥
व्या ॥ श्रपयन्ते । नीचम्, अनुदात्तं ’शय’ इति पदम् । शान्त्यै । श्रुत्यै । शातयै । शुद्ध्यै । षोडशिने । स्योने । स्तृणुते । सृजते । समे । एतानि
पदानि विलङ्घ्यानि भवन्ति । उदा -
श्रपयन्ते - आ॒त्मान श्रपयन्त उप॒सद्भिः॑ (७-४-३१)
शये (नीचम्) - द॒क्षि॒ण॒तश्श॑य ए॒तत् (६-२-२९), परि॑शय आ॒त्मा (६-३-४०), परि॑शय॒ आ तृ॑तीयसव॒नात् (६-५-२२) नीचमिति किम् - उ॒प॒श॒य
उ॑प॒शये᳚, ए॒वाप॒शुः (६-६-१७)
शान्त्यै - शान्त्या॒ अप्र॑दाहाय, अ॒ना॒र॒म्भ॒णः, अ॒ष्टाप्रू᳚ट्, अ॒ग्निर्वा᳚, इन्द्र॑स्य,आ सोम᳚म्, ऋ॒तस्य॑ प॒था (१-७-३१,२-६-२९,३-४-४,५-४-३३,६-१-
७१,६-६-३)
श्रुत्यै - वा॒ज॒ श्रुत्या॒ अपा॑वृधि (२-२-६९)
शातयै - अ॒स्थानि॑ शातया॒ इति॑ (६-२-४३)
शुद्ध्यै - शुद्ध्या॑ इन्द्रघो॒षस्त्वा᳚ (६-२-३७)
षोडशिने - षो॒ड॒शिन॑ ए॒ष ते᳚ (१-४-३८तः४३)
स्योने - स्यो॒न आ गृ॒हप॑तिम् (३-४-३६)
स्तृणुते - स्तृ॒णु॒त॒ इ॒न्द्रा॒ग्नि॒योः (१-६-४४), स्तृ॒णु॒त॒ आ॒ग्ना॒वै॒ष्ण॒वम् (२-२-४७), स्तृ॒णु॒त ए॒वैन᳚म्, ए॒तयै॒व (२-४-३२)
सृजते - ए॒ना॒न्थ्सृ॒ज॒त॒ उपै॑नम् (२-४-३३)
समे - विष॑म॒ आल॑भेत (२-१-१६) ॥
मूलम् - 2.1.44
मू ॥ इङ्ग्यान्तं स्थे न याज्यासु स्वे च नेति परं सने । सर्वे सन्त्वासते पूर्वं स्पष्टे चेति परं सवे ॥ ४४ ॥
व्या ॥ इङ्ग्यान्तं स्थे इति पदं विलङ्घ्यम् । तदेव याज्यासु स्थितम् न विलङ्घ्यम् । ’इति’ परं न चेत् ’स्वे’ इति पदम् । सने । ’सन्तु, आसते’
इत्येतत्पूर्वं ’सर्वे’ इति पदम् । स्पष्टे । ’इति’ परं ’सवे’ इति पदम् । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
स्थे (इङ्ग्यान्तम्) - त्वो॒पस्थ॒ आधि॑त (१-४-४१), उ॒पस्थ॑ उ॒रुधा॑रा (१-६-१५), स॒धस्थ॒ आऽग्निम् (४-१-४), उ॒पस्थ॒ इति॑ (५-१-५०)
इङ्ग्यान्तमिति किम् - वृष॑णौ स्थ उ॒र्वशी᳚ (१-३-१२), यु॒व स्थ॒ इति॑ (२-५-१०), प॒दे स्थ॒ इत्या॑ह (५-१-३३), शिल्पे᳚ स्थ॒ इत्या॑ह (६-१-१७),
भि॒षजौ॒ वै स्थ॑ इ॒दम् (६-४-३७) न याज्यास्विति किम् - उ॒पस्थ॑ उ॒र्व॑न्तरि॑क्षम् (३-३-३५)
स्वे (नेतिपरं) - स्व आयु॑षि (१-२-३०), स्व ए॒वायत॑ने, ए॒वास्मै᳚, ए॒भ्यः॒, ए॒वैन᳚म्, ए॒वैनान् (१-६-२१,२-२-५७,२-५-५७,३-४-२५), स्व उ॑
लो॒के (३-५-३३,४-१-१२) नेतिपरमिति किम् - अ॒न्तः स्व॒ इति॑ (२-५-१०), कर्तो᳚स्स्व॒ इति॑ (२-६-३६)
सने - ऊ॒र्जस॒न॒ ऊर्ज᳚म् (१-३-३०)
सर्वे (सन्तु पूर्वं) - वि॒ह॒वे स॑न्तु॒ सर्व इन्द्रा॑वन्तः (४-७-२९)
सर्वे (आसते पूर्वं) - आस॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑क् (७-४-१९) सन्त्वासते पूर्वमिति किम् - यज॑ते॒ सर्व॑ ए॒व (५-३-४७), वा॒ सर्व इति॑ (५-४-५८),
तस्मा॒थ्सर्व॑ ए॒व (६-५-१४)
स्पष्टे - रथ॑स्पष्ट ए॒वाव॒साने᳚ (२-५-३३)
सवे (इति परं) - स॒वि॒तुः प्र॑स॒व इति॑ (२-६-२०,..) इतिपरमिति किम् - प्र॒स॒व आब॑भूव (१-७-४०), इ॒न्द्र॒स॒व ए॒तया᳚ (७-५-४१) ॥
मूलम् - 2.1.45
मू ॥ सङ्गिने च सहस्रे च सातये स्तुभ एव च । सूनवे सवने स्तोमेऽथो पूर्वं स्वस्तये तथा ॥ ४५ ॥
व्या ॥ सङ्गिने । सहस्रे । सातये । स्तुभ एव । सूनवे । सवने । अथो पूर्वं ’स्तोम’ इति पदम् । स्वस्तये । एतानि पदानि विलङ्घ्यानि भवन्ति ।
उदा - सङ्गिने - नि॒ष॒ङ्गिण॑ इषुधि॒मते᳚ (४-५-७)
सहस्रे - स॒हस्र॒ आ भ॑ज (७-१-२६)
सातये - वाज॑सातय॒ इत्य॑नु॒ष्टुक् (५-४-५६)
स्तुभ एव - अ॒नु॒ष्टुभ॑ ए॒वैतेन॑ (६-२-३) एवेति किम् - अ॒नु॒ष्टुभ॒ उप॑दधाति (५-३-३६)
सूनवे - सू॒नव॒ आ सु॒शेवा᳚ (४-३-७)
सवने - तृ॒ती॒य॒स॒व॒न इति॑, प्रा॒तः॒स॒व॒न आ॒त्मन्न्, ए॒व (३-२-३६,३७), माध्य॑न्दिने॒ सव॑न, तृ॒ती॒य॒स॒व॒न आ॒त्मन्न्, ए॒व (३-२-३८), तृ॒ती॒य॒स॒व॒न
ऋ॑जी॒षम् (६-१-४२), प्रा॒तः॒स॒व॒न ए॒व (६-४-२०), तृ॒ती॒य॒स॒व॒न ए॒तत् (७-५-१४), प्रा॒तः॒स॒व॒न एका॑दशकपालान् (७-५-१८)
स्तोमे (अथो पूर्वं) - अथो॒ स्तोम॑ ए॒व (७-१-७) अथो पूर्वमिति किम् - स्तोम॑स्य॒ स्तोम॑ उ॒क्थाना᳚म् (३-१-८), चक्षु॒स्स्तोम॑ आ॒त्मा (४-१-४२),
त्रि॒वृथ्स्तोम॒ इन्द्र॑स्य (४-३-१६), च॒तु॒र्वि॒शः स्तोम॑ आदि॒त्याना᳚म्, च॒तु॒श्च॒त्वा॒रि॒शः स्तोम॑ ऋभू॒णाम् (४-३-१७), षो॒ड॒शः स्तोम॒ ओजः॑ (४-३-
२६), स॒प्त॒द॒शः, ए॒क॒वि॒शः, च॒तु॒श्च॒त्वा॒रि॒शः स्तोम॒ इति॑ (५-३-१६,१७,२३), ए॒ति॒ स्तोम॑ ए॒व (७-१-७), अ॒ग्नि॒ष्टो॒म ए॒व (७-१-१७)
स्वस्तये - स्व॒स्तय॑ आसु॒री मा॒या (४-१-३६) ॥
मूलम् - 2.1.46
मू ॥ सृजन्ते च सवित्रे च पवमाने स्तुते भवेत् । सोमे त्वहीने पूर्वं स्यात् स्थित्यै सिञ्चामहै तथा ॥ ४६ ॥
व्या ॥ सृजन्ते । सवित्रे । पवमाने स्तुते । अहीने पूर्वं ’सोम’ इति पदम् । स्थित्यै । सिञ्चामहै । एतानि पदानि विलङ्घ्यानि भवन्ति । उदा -
सृजन्ते - यज॑मानास्सृजन्त ए॒ता ह॒ वै (७-४-२१,७-५-१२), सृ॒ज॒न्त॒ इला᳚न्दम् (७-५-२८)
सवित्रे - च॒रुस्स॑वि॒त्र आ॑तिच्छन्द॒साय॑ (७-५-३८)
(पवमाने) स्तुते - ब॒हि॒ष्प॒व॒मा॒ने स्तु॒त आ॒हाग्नी᳚त् (६-३-१), ब॒हि॒ष्प॒व॒मा॒ने स्तु॒त आ᳚श्वि॒नः (६-४-३८) पवमान इति किम् - ऋषि॑ष्टुत॒ इत्या॑ह (२-
५-५१)
(अहीने पूर्वं) सोमे - द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति (६-२-१८) अहीने पूर्वमिति किम् - सु॒तस्सोम॑ ऋतावृधा (१-४-६), असा॑वि॒ सोम॑ इन्द्र (१-४-
४०), उ॒क्थउ॑क्थे॒ सोम॒ इन्द्र᳚म् (१-४-५२), प्र॒ज॒न॒यि॒ता सोम॑ ए॒व (२-१-६,..), सु॒वा॒नः सोम॑ ऋत॒युः (२-२-६७), क॒रो॒मि॒ सोम॒ आयु॑ष्मान् (२-३-
४०), सि॒च्य॒ते॒ सोम॑ इन्द्राबृहस्पती (३-३-३२), अ॒व॒तु॒ सोम॒ ओष॑धीनाम् (३-४-१६), दि॒वि सोम॑ आसीत् (३-५-२२),
तदु॒ सोम॑ आह (४-२-३३), दे॒वः सोम॒ इन्द्रा॑य, हि सोम॑ आह्रि॒यते᳚ (६-१-५२), क्री॒तः सोम॒ उप॑नद्धः (६-१-७१,७६), हि सोम॒ आप्या॑यितः (६-
२-१४), स॒वि॒तः॒ सोम॒ इति॑ (६-३-१०)
स्थित्यै - प्रति॑ष्ठित्या॒ अग्ने᳚, ईश्व॒रम्, अथो᳚, उपा॒कृत्य॑, अधि॑पत्नी, अ॒न्तरि॑ख्षाय, अनु॑रूपाभ्याम्, अ॒पाम्, ओष॑धयः, असु॒र्य᳚म्, अ॒ग्निः, इन्द्र॑स्य,
अप॒स्य॑वतीभ्याम्, अनुपरि॒चार᳚म्, एक॑या, उ॒दर᳚म्, आग्नी᳚ध्रे, अ॒ष्टाश्रिः॑, ए॒तस्मिन्न्, उ॒भयोः᳚, उ॒परि॑ष्टात् (१-७-२८,३०,२-६-४९,३-१-१५,४-४-
५,६,५-१-१०,१६,२९,३८,५-३-९,१७,५-४-१८,२१,४८,६-२-५४,६-३-७,६-३-१८,६-५-२५,७-३-१३,७-५-६), सस्थि॑त्या॒ अरि॑ष्ट्यै (७-
५-४)
सिञ्चामहै - सि॒ञ्चाम॑हा अव॒टम् (४-२-२२) ॥
मूलम् - 2.1.47
मू ॥ सस्यायै च सिनीवाल्यै सूत्यै स्तृत्यै भवेदपि । सृष्ट्यै समृद्ध्यै हूयन्ते हूते नेतिपरं हुवे ॥ ४७ ॥
व्या ॥ सस्यायै । सिनीवाल्यै । सूत्यै । स्तृत्यै । सृष्ट्यै । समृद्ध्यै । हूयन्ते । ’इति’ परं न चेत् ’हूत’ इति पदम् । हुवे । एतानि पदानि विलङ्घ्यानि
भवन्ति । उदा - सस्यायै - सु॒स॒स्याया॒ इत्या॑ह(६-१-२३)
सिनीवाल्यै - सि॒नी॒वा॒ल्या आ᳚ग्नावैष्ण॒वाः (५-६-४९)
सूत्यै - प्रसू᳚त्या अ॒श्विनोः᳚ (२-६-२०,…), प्रसू᳚त्या अ॒ग्निः, अथो᳚ (५-१-४,१६)
स्तृत्यै - स्तृत्या॒ अछ॑म्बट्कारम् (१-५-३०,५-४-३३), स्तृत्या॑ अ॒ग्नये᳚ (२-२-८), स्तृत्या॒ अप॑रिमिताभिः (५-२-३३)
समृद्ध्यै - रू॒पस॑मृद्ध्या उभयतः॒क्ष्णूः (५-१-४) - अत्र ’समृद्ध्यै’ इत्येव पदं ग्राह्यम्, ’ऋद्ध्यै तु न मुखात्परम्’ इति पूर्वमेव (श्लो.९) उक्तत्वात् ।
शमानप्रकरणे ’जाः’, ’जाताः’ (सू.३२), ’प्रजाः’, ’प्रजाताः’ (सू.४८) इतिवत् ।
हूयन्ते - द्वि॒पात्रा॑ हूयन्त॒ इति॑ (६-४-३९)
हूते (नेति परं) - उप॑हूत उपह॒वम् (१-६-८) नेतिपरमिति किम् - उप॑हूत॒ इत्या॑ह (२-६-४०)
हुवे - इ॒ह त हु॑व॒ इति॑ (१-६-२७) ॥
मूलम् - 2.1.48
मू ॥ भवत्याहवनीये च हुते होत्रे हवामहे । हते हस्ते तु नेङ्ग्यान्तं हरन्ते ह्वयते ह्नुते ॥ ४८ ॥
व्या ॥ भवत्याहवनीये । हुते । होत्रे । हवामहे । हते । इङ्ग्यान्तं न चेत् ’हस्त’ इति पदम् । हरन्ते । ह्वयते । ह्नुते । एतानि पदानि विलङ्घ्यानि
भवन्ति । उदा - (भवत्या) हवनीये - ए॒व भ॑वत्याहव॒नीय॑ ऐ॒न्द्रम् (२-२-५८) भवत्येति किम् - इत्या॑हव॒नीय॒ इति॑ (२-६-२८), अ॒स्या॒ह॒व॒नीय॒ इति॑
(५-७-१४), आ॒प्नु॒व॒न्ना॒ह॒व॒नीय॑ आग्नी॒ध्रीयः॑ (६-३-३)
हुते - यद्धु॒त आ॑द॒ध्यात् (३-४-३९)
होत्रे - अ॒ग्नि॒हो॒त्र उ॒द्वाये᳚त् (२-२-२१)
हवामहे - हवा॑मह॒ इन्द्रा᳚ग्नी (१-२-२), ह॒वा॒म॒ह॒ इन्द्र᳚म् (१-७-५०), ह॒वा॒म॒ह॒ उ॒शन्तः॑ (२-६-६५), ह॒वा॒म॒ह॒ इत्या॑ह (५-१-६)
हते - यज॑मा॒नोऽप॑हत॒ इन्द्रः॑ (२-५-१५)
हस्ते (नेङ्ग्यान्तं) - अ॒ङ्गि॒र॒स्वद्धस्त॑ आ॒धाय॑ (४-१-४), ओष॑धी॒र्हस्त॑ आद॒धे (४-२-२५), ते॒ हस्त॒ इष॑वः (४-५-३) नेङ्ग्यान्तमिति किम् -
वि॒श्वतो॑हस्त उ॒त (४-६-९)
हरन्ते - मु॒ख॒तः परि॑हरन्त आश्वि॒नाग्रान् (७-२-२३)
ह्वयते - उप॑ह्वयत॒ आ, उप॑हूतम्, उप॑हूता, उप॑हूताः, उप॑हूतः, उप॑हू॒ताँ(४) आ॒त्मा, उत्त॑रस्याम् (२-५-५४,२-६-३७,३८,४०)
ह्नुते - अप॑ह्नुत ए॒व (१-५-१४), निह्नु॑त आ॒त्मनः॑ (६-१-६८,६-३-४३) ॥