03 उपोद्घातः

मूलम् - 2.0.1

॥ अथ विलङ्घ्यप्रकरणम् ॥2॥
मू॥ प्रणम्य भार्गवीं देवीम् सर्वलोकैकमातरम् । नारायणः प्रवक्ष्यामि विलङ्घ्यानि पदान्यहम् ॥1॥
व्या ॥ इष्टदेवतानमस्कारपूर्वकं कर्तव्यं प्रतिजानीते - प्रणम्येति । नारायणनामाऽहं सर्वलोकैकमातरं श्रीदेवीं प्रणम्य विलङ्घ्यानि पदानि प्रवक्ष्यामीत्यर्थः ।

मूलम् - 2.0.2

मू॥ एकारैकारवर्णौ यौ संहितायां विकारिणौ । तदन्तानि विलङ्घ्यानीत्युच्यन्ते वेदवित्तमैः ॥2॥
व्या - विलङ्घ्यपदार्थमाह - एकारेति । एकारश्च ऐकारश्च एकारैकारौ । तौ च तौ वर्णौ च एकारैकारवर्णौ । यौ संहितायां विषये विकारिणौ, ‘अग्रे’, ‘आसामहै’ इत्यादिषु पदकाले दृश्यमानौ (प्रा.अ.9.11) ‘एकारोऽयम् ।’ (सू.14) ‘ऐकार आयम् ।’ (प्रा.अ.10.19) ‘लुप्येते त्ववर्णपूर्वौ यवकारौ ।’ इति प्रातिशाख्यसूत्रैः, अग्र इमम् (1-1-7) आसामहा एवेमौ (7-5-7) इति संहितायां विकारवन्तौ, तदन्तानि, तादृशैकारैकारवर्णान्तानि पदानि विलङ्घ्यानि इति वेदवित्तमैः, वैदिकवरैः उच्यन्ते । एकारैकारवर्णावित्यनेन ‘शतक्रतवुद्वशम् (1-6-48)’, ‘सुरभावु लोके (1-3-24)’ इत्यादिषु ओकारौकारादीनां
संहितायां विकारवत्त्वेऽपि न विलङ्घ्यत्वम् ।
[वायविष्टये (2-2-71), विष्णवुत (1-2-26,6-2-47), विष्णवासः (2-2-67), विष्णवेहि (2-4-38), विष्णवुरुक्रम (3-2-42) इत्यादि क्वचित्प्रगृह्येषु अन्यत्र सन्धिविकारः तदभावश्च दृश्यते ।
अत्र लोप, अलोपविषयभूत अकारपरकस्य एकारस्य विकारवत्त्वेन न परिगणनं क्रियते । लोपः ‘एङः पदान्तादति’ (पा.सू. 6.1.109) इत्यादिना अयवादेशस्य अपवादेन सिद्धः । लोपालोपावुभावपि प्रातिशाख्ये
(अ.11) विस्तरेण प्रतिपादितौ स्तः । अलोपकारणं प्रगृह्यत्वमपि भवितुम् अर्हति । ‘ईदूदेद्द्विवचनं प्रगृह्यम्’ (पा.सू. 1.1.11) इत्यादिना एकारान्तस्य प्रगृह्यत्वसम्भवात् इति ज्ञेयम् । ]

मूलम् - 2.0.3

मू॥ पुरातनेऽतिरिक्तम् यत्त्यक्त्वाऽनुक्तम् समोप्य च । वर्णक्रमेण गृह्यन्ते सव्याख्यान्येव तान्यपि ॥3॥
व्या - अस्य लक्षणस्य वैयर्थ्यशङ्कां परिहरति - पुरातन इति । पुरातने लक्षणे यत् पदजालं अतिरिक्तम् अविषयतया अतिरेकेण उक्तमित्यर्थः ।
तत्त्यक्त्वा, यत् अनुक्तं तत्समोप्य संयोज्य चेत्यर्थः । तानि विलङ्घ्यपदान्यपि सव्याख्यानानि सुस्पष्टानि वर्णक्रमेण गृह्यन्ते ।

मूलम् - 2.0.4

मू॥ इङ्ग्यम् यत्पदमत्रापि नानापदवदिष्यते । निमित्तत्वेन यद्ग्राह्यं गृह्यते पदमेव तत् ॥4॥
व्या - परिभाषामाह - इङ्ग्यमिति । अत्रापि अस्मिन् लक्षणेऽपि, यत्पदं इङ्ग्यं भवति, तत् नानापदवत् पूर्वोत्तरयोः खण्डयोः पृथक्पदत्ववत् इष्यते । अत्रापि नानापदवत्त्वम् लाघवार्थमेव । नोचेत् ‘एकधनविदे (1-2-20)’
इत्यादीनां पदानां सामग्र्येण पठनात् ग्रन्थस्य गौरवं स्यात् । अतो नानापदवत्त्वं साम्प्रतमेव । एवञ्चेत् - ‘उक्थ’ इत्युक्तेनैव ‘उक्थउक्थे (1-4-52)’ इत्यत्र पूर्वखण्डस्यापि विलङ्घ्यत्वं* सिद्ध्यति । निमित्तत्वेनेति । निमित्तत्वेन
हेतुत्वेन । ‘एकाजग्मे ममारण्या एवं विद्वांस इन्दवः । एषां पशव उद्यन्त एतावन्तः परं च ये ॥’ इत्यनेन एकादीनि पदानि ‘ये’ इत्यस्य विलङ्घ्यत्वप्रतिपादनार्थं निमित्तानि भवन्ति । तत्त्वेन यत् पदं ग्राह्यं तत्पदमेव गृह्यते
न तु पदैकदेशः । एवं च ‘य एकादशः’ (6-6-19) इत्यत्र अनिङ्ग्यभूते एकादश इत्यस्मिन् एकेत्यस्य पदैकदेशत्वात् ‘य’ इत्यस्य विलङ्घ्यत्वं न भवेत् ।

मूलम् - 2.0.5

मू॥ अपिचेत्स्याद्धि नान्यत्तु पूरणेऽत्र विधीयते ॥5॥
व्या - अत्र लक्षणे श्लोकपूरणविषये ‘अपि, चेत्, स्यात्, हि, तु,’ एतानि विना अन्यत् न विधीयते । तथा, भवेत्, इत्यादि सार्थकमेव ।