मूलम् - 1.1.1
श्रीः । ओन्नमः परमात्मने ।
सव्याख्यानं सप्तलक्षणम्
श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः । श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीमते श्रीवण्शठकोपश्रीवेदान्तदेशिकयतीन्द्रमहादेशिकाय नमः ।
सप्तलक्षणव्याख्या - परिष्कारः
आविष्णोरभिवन्द्यादावाचार्याणां परम्पराम् । वेदाचार्यांश्च मे तातान् पराङ्कुशसदाह्वयान् ॥
शतमानमहे तेषां कीर्तिप्रसरवाञ्छया । वात्स्यरामानुजार्येण तैत्तिरीयमधीयता ॥
विशदीक्रियते टीका सप्तलक्षणगोचरा । सर्वोदाहृति-सन्दर्भ-प्रत्युदाहरणानि च ॥
विविच्यन्ते तथा सूच्यः निर्मीयन्ते पृथग्विधाः । आधुनिक्या च शैल्याऽत्र कम्प्यूटर् यन्त्रबद्धया ।
देशिक-व्यासनामभ्यां निर्मिताभ्यामथाऽऽत्मना । तुष्यन्तु सुधियो दृष्ट्वा सप्तलक्ष्मपरिष्क्रियाम् ॥
[अत्रेदमवधेयम् । अथ पठितृसौकर्याय अत्र उपयुक्ताः केचन सङ्केताः विव्रियन्ते । मूलम् मू॥ इति, अवतारिका अव॥ इति, व्याख्यानम् व्या॥ इति च निर्दिष्टानि । उदाहरणानां संख्यानिर्देशः (काण्ड-प्रश्न-पञ्चाशत्) संख्याक्रमेण कृतः । व्याख्याने पाणिनीयाष्टाध्यायीसूत्राणां निर्देशः (अध्याय.पाद.सूत्र) संख्याक्रमेण कृतः । प्रातिशाख्यसूत्राणां (प्रा.अध्यायसंख्या.सूत्रसंख्या) इति आकरनिर्देशः कृतः । अमरकोशस्य (काण्ड.वर्ग.श्लोकसंख्या) क्रमेण आकरनिर्देशः । सप्तलक्षणसूचीषु शमानादीनां सप्तानां पृथक् प्रकरणानां क्रमेण १,२,३,४,५,६,७ इति संख्या उपयुक्ता । अनन्तरं सूत्र/श्लोकसंख्या आयोजिता । पदसूच्यां एकपदस्य अनेकप्रकरणेषु पठितत्वे प्रत्येकस्य आकरः, अर्धविरामेण अन्तरितः । परिभाषागतश्लोकानां विषये प इत्यक्षरं तत्संख्याम् अनुवर्तते । अनेकोदाहरणानां एकप्रश्नगतत्वे आकरद्योतककंसचिह्नान्तः अर्धविरामेण (,) विभागः प्रदर्शितः । एवमेव अनेकोदाहरणानामेक-पञ्चाशति, प्रश्ने वा विद्यमानत्वे, तथा दृष्टान्तानां संभूय निर्देशे च दृष्टान्तपदेषु मध्ये अर्धविरामः, तेषां आकरे च यथासंख्यं अर्धविरामविभक्तसंख्याश्च योजिताः । अस्मिन् वैविध्यं स्वयं स्पष्टं स्यादिति मन्यामहे । विभिन्नस्वरवत्त्वे च यथासंभवं संयोज्य पठनीयमिति प्रार्थ्यते । ?, *, [] इत्यादयः तत्रतत्र परिष्कारगत वैशिष्ट्यद्योतनाय उपयुक्ताः । ते च अवधेयाः । कुत्रचित् प्रश्नो वा विचारो वा उद्घाटितः येषां समाधानं वैदिकानामुपकाराय कल्पेत ॥ अवश्यम् एषु विषयेषु भवतां अभिप्रायसूचनं निरीक्षामहे ॥ - परिष्कारकः ।]
१. शमान-प्रकरणम्
मूलम् - अथ यजुस्संहितायामाकारप्लुतपूर्वो घोषवद्व्यञ्जनशसकारपरो विसर्जनीयो येषु पदेषु लुप्यते तानि प्रवक्ष्यामि ॥ १ ॥
व्याख्यानम् -
(ग्रन्थमु्द्रितपुस्तकस्थम् - योऽजोपेन्द्रेशमूर्त्या रचयति जगतां सृष्टिरक्षाविनाशान् यस्य स्तोतुं गुणोद्घानवयवमिलिता नेशते सर्ववेदाः ।
दीयन्ते येन नाम स्वमचलमनसा चिन्तयद्भ्यः पुमर्थाः तं वन्दे कार्तिकेयद्विपमुखगिरिजावेष्टितं व्योमकेशम् ॥ १ ॥
याजुष्यास्संहितायाः पदपठनविधौ संशयच्छेदनार्थं कॢप्तं यत्सप्तलक्ष्म प्रतनुबुधवरैः श्रोत्रियैः श्लाघितार्थम् ।
अल्पप्रज्ञोऽपि तस्मिन्पुनरपि विशये तत्परीहारकामः व्याख्यां विद्वत्प्रसादादधिगतविषयः वैद्यनाथः करोति ॥ २ ॥)
यस्य वैदिकस्य पदस्य विसर्जनीयः संहितायां लुप्यते तस्य शमानमिति संज्ञा पूर्वैः श्रोत्रियवरैः कल्पिता । अथ यजुःसंहितायामित्यादि व्याख्यायते । अत्र अथशब्दो मङ्गलाद्यनेकार्थो भवति । तथा च अमरसिंहेनोक्तम् - “मङ्गलानन्तरारम्भकृच्छ्र्कार्त्स्न्येष्वथो अथ” (३.३.२४७) इति । अस्य प्रणवसाधर्म्यात् मङ्गलार्थत्वमेव प्रतिपादयति शिक्षाकारः । “ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” () इति ॥ प्रथमं वेदाध्ययनं कृत्वा पश्चाल्लक्षणज्ञानं सम्पादनीयमिति नियमानुसारेण आनन्तर्यार्थश्च सङ्गतो भवति । आरम्भार्थः स्पष्ट एव । आकारप्लुतपूर्वत्वादिविशिष्टविसर्जनीयान्तानि पदानि समग्रतया वक्ष्यामीति अर्थवत्त्वेन कार्त्स्न्यार्थश्च सङ्गतो भवति ।
यजुषः संहिता यजुःसंहिता, तस्याम् । अत्र यजुःशब्दः कृष्णयजुःपरः । संहितायामिति अधिकरणसप्तमी । संहिता केति चेदुच्यते । नानापदसन्धानमेव संहिता । “परः सन्निकर्षः संहिता” (१.४.१०९) इति पाणिनीयसूत्रेण एतमेवार्थं प्रतिपादयन्ति वैयाकरणाः । आकारप्लुतपूर्वः, एतत् विसर्जनीयस्य विशेषणम् । आकारश्च प्लुतश्च आकारप्लुतौ । तौ पूर्वौ यस्माद्विसर्जनीयात् स आकारप्लुतपूर्वः । आकारसाहचर्यात् उत्तरत्र वक्ष्यमाणलक्षणेषु इतरेषामभावाच्च अत्राकारप्लुत एव गृह्यते । घोषवद्व्यञ्जनोत्तरशसकारपरः, एतदपि विसर्जनीयस्य विशेषणम् ।
घोषः, प्रयत्नः । स एषाम् अस्तीति घोषवन्तः । व्यञ्जनम् उत्तरं याभ्यां तौ व्यञ्जनोत्तरौ । शश्च सश्च शसौ । शसावेव शसकारौ । व्यञ्जनोत्तरौ च तौ शसकारौ च व्यञ्जनोत्तरशसकारौ । घोषवन्तश्च व्यञ्जनोत्तरशसकारौ च घोषवद्व्यञ्जनोत्तरशसकाराः । ते परे यस्मात् विसर्जनीयात् स घोषवद्व्यञ्जनोत्तरशसकारपरः । ग, घ, ङ, ज, झ, ञ, ड, ढ, ण, द, ध, न, ब, भ, म, य, र, ल, व, ह इत्येषां वर्णानां घोषवत्संज्ञा भवति । व्यञ्जनोत्तरशसकारौ तु श्वः, स्मः इत्यादि रूपौ । एवंभूतस्य विसर्गस्य संहिताकाले दर्शनाभावात् सविसर्गः पदविभागः कर्तव्यः उताविसर्ग इति सन्देग्धॄणां सन्देहापनुत्तये संहितायां लुप्तविसर्गाणि, पदकाले सविसर्गाणि पदानि प्रवक्ष्यामीत्यर्थः ।
[’ .. संहितायाम् .. विसर्जनीयो येषु पदेषु लुप्यते’ इति किम् ? यद्यपि ’मा ह्वा॒र्वसू॑नाम्, मा ह्वा᳚र्मि॒त्रस्य॑’ (१-१-४,५) इत्यत्र पदकाले’ ’ह्वाः॒ । वसू॑नाम् ।’, ’ह्वाः॒ । मि॒त्रस्य॑ ।’ इत्येव पठ्यते, तथा ’प्रहा॒र्येना॒हम्’ (२-४-४०) इत्यत्र पदकाले, ’हाः॒ । येन॑ ।’ इत्येव पठ्यते, तथा ’पुन॒राहा᳚र्जा॒तवे॑दाः’ (३-२-१९) इत्यत्र, ’अ॒हाः॒ । जा॒तवे॑दा॒ इति॑ जा॒त-वे॒दाः॒ ।’ इत्येव पठ्यते, अपि तु रुत्वादेशेन तत्र रेफश्रवणात्, तथैव ’तस्मा॒द्वार्णाम॑ वो हि॒तम्’ (५-६-३) इत्यत्र पदकाले, ’वाः । नाम॑ । ’ इत्येव पठ्यमानेऽपि पदप्रकृतौ (प्रातिपदिके) रेफान्तत्वात् संहितायां रेफः स्पष्टं श्रूयते (रषाभ्यां नो णः (पा.सू. ८.४.१) इति णत्वं च भवति), ईदृशस्थलेषु विसर्गलोपाभावेन सन्देहाभावात् न शमानलक्षणविषयत्वमिति मन्तव्यम् । आकारपूर्वक घोषवद्व्यञ्जनोत्तरपरक विसर्गवत्त्वं, पदपाठे विद्यमानं, न पर्याप्तम् इति यावत् ।
यद्यपि ’अदर्शनं लोपः’ (पा.सू.१.१.६०) इति लक्षणेन, तत्रत्यकाशिकायां ’अदर्शनम् अश्रवणम् अनुच्चारणम् अनुपलब्धिः अभावः वर्णविनाशः इति अनर्थान्तरम्’ इति विवृतेन च तादृशलोपः अत्र नास्ति - रुत्वादि आदेशसत्त्वात्, प्रातिशाख्ये च ’ह्वारभार् …’ (प्रा.८-८) इत्यादिसूत्रे विसर्जनीयस्य स्थाने स्वरघोषवत्परे सति रेफादेशविधानात् - तथापि पूर्वोक्तसमाधानमेव उपादेयं, ’स्थितस्य गतिश्चिन्तनीये’ति न्यायादिति ।
यद्वा, संहितायामिति किम्? तैत्तिरीययजुर्ब्राह्मणे मा भूत् । यथा - इराः इति १२ सूत्रोक्तं ’इरा॒ भूतिः॑’ (तै.ब्रा.३.७.४४), ’इरा॒ विश्व॑स्मै’ (तै.आ.४.१६) इत्यादौ न दृश्यते । एवमेव २१सूत्रात् लब्धं पावकाः इति पदस्य विसर्गवत्त्वं ’पा॒व॒का न॒स्सर॑स्वती’ (तै.ब्रा.२.४.२१) इत्यादौ न दृश्यते । कुत्रचित्तु ब्राह्मणेऽपि अधिकतया उदाहरणानि लभ्यन्ते । यथा - २५सूत्रस्थस्य ’क॒ति॒धा व्य॑कल्पयन्न्’ (तै.आ.३.३६) इति, ६०सूत्रस्थ रजताः इत्यस्य ’र॒ज॒ता रात्रिः॑’ (तै.ब्रा.१-५-५०) इति, ६१सूत्रस्थ रूपा इत्यस्य ’वि॒श्वरू॑पा बृह॒ती’ (तै.ब्रा.३-१-१) इत्यादि च । अतः अत्रत्यसूत्रविरोधेन रूपदर्शनात्, अत्रत्यानां पदानां विषये अतिरिक्तसमभिव्याहारदर्शनात् तेषामत्रानन्तर्भावात्, अस्य पदपाठरहितत्वेन प्रसिद्धे ब्राह्मणभागे क्रमपारायणादिविशिष्टप्रयोजनान्तरासद्भावात्, प्रातिशाख्येऽपि ब्राह्मणगतोदाहरणानां शाखान्तरीयत्वेन गणनात्, यत्र परम्परया पदपाठ, क्रमपाठ तन्मूलकविकृतिपाठानाम् अध्ययनक्रमः प्रचलति, तत्रैवैषां लक्षणानां अधिकारः इत्येव आस्थेयम् । अनिङ्ग्यलक्षणस्य प्रयोजनमपि नास्ति, पदपाठे विगृह्य द्विर्वचनार्थं कॢप्तत्वात्तस्य ।
यद्यपि ब्राह्मणेऽपि अध्यापनार्थं पदस्वरूपज्ञानं, विभज्य अध्यापयितव्ये अत्रस्थविषयाणाम् उपकारेण शक्यते, अपेक्षितं च, तथापि तत्र ऐदम्पर्याभावः अवश्यम् अभ्युपगन्तव्यः । वेदाङ्गैः, शिक्षाग्रन्थादिभिः, भाष्यग्रन्थैश्च साध्यत्वात्तस्य, तथैव च परम्परादर्शनात् ॥ यद्यपि संहिताविषयेऽप्येतत् समानम्, विहितं च महर्षिभिः, तथापि आधुनिकसन्दर्भे लोकस्थितिं पश्यतां लक्षणग्रन्थस्यास्य वैयर्थ्यम्, अव्युत्पन्नैकोपयोगित्वं च वदतां पक्षः अस्वरसः, प्रयोजनसिद्धिदर्शने कथन्ताविचारस्य अनुपयुक्तत्वात्, शास्त्राद्यपेक्षया कण्ठस्थीकरणपटूनाम् अध्येत़ृणाम् अनायासेन विचारादिकं विना निर्णयोपयोगातिशयात् । आगमानुसारि-नित्योत्सव, मासोत्सव, संवथ्सरोत्सवेषु भगवत्सान्निध्यवद्दिव्यक्षेत्रेषु अद्यापि सभक्तिश्रद्धं निर्वर्त्यमानक्रमपारायणान्वयिनां वेदविदुषां तथैवाध्ययनाध्यापनादिषु व्यापृतानां च महदुपकाराय कल्पते ग्रन्थोऽयमित्यत्र नास्ति शङ्कागन्धलेशोऽपीत्यलमतिप्रसङ्गेन ॥ ]
अत्र प्रेत्युपसर्गेण अकारादिवर्णक्रमेण पठनं द्योत्यते । आकारप्लुतपूर्व इति किम् । “रो॒हि॒णी नक्ष॑त्रम्” (४-४-२६) । “पुन॑र्वसू॒ नक्ष॑त्रम्” (४-४-२६) । कृत्तिका इत्यनेन विसर्गप्राप्तिः । घोषवत्पर इति किम् । “शारि॑श्श्ये॒ता पु॑रुष॒वाक्” (५-५-५०) । “शका॒ ते पौ॒ष्णाः” (५-५-५०) । मयुरादय इत्यनेन विसर्गप्राप्तिः । व्यञ्जनोत्तरशसकारपर इति विशेषणं, “स ए॑ना॒श्श्वः” (१-६-२१), “याव॑न्तो गृ॒ह्या᳚स्स्मः” (१-८-१०) इत्यत्र एना इत्यादिषु सविसर्गत्वप्रदर्शनाय भवति । केवलयोः शसकारयोः घोषवत्त्वाभावात् सविसर्गत्वसंशयस्यैव अप्रसक्तेः ।
मूलम् - 1.1.2
अवतारिका - कर्तव्यं प्रतिज्ञाय परिभाषामारभते -
मूलम् - अत्रेङ्ग्यपदानां नानापदत्वमसङ्ख्याने । तेषां पूर्वपदमवग्रहः ॥ २ ॥
व्याख्यानम् - अत्र अस्मिन् लक्षणे इङ्ग्यपदानां विभज्य द्वितीयोच्चारणवतां पदानां नानापदत्वं पूर्वोत्तरयोः खण्डयोः पृथक्पदत्वं, असङ्ख्याने सङ्ख्यानादन्यत्र कार्यमिति शेषः । नानापदत्वम् उत्तरत्र पदानां पठने सौकर्याय भवति । नो चेत् - “च॒न्द्राग्रा॒ धिय॑न्धियम्” (१-१-२६), “ऐ॒न्द्र॒वा॒य॒वाग्रा॒ ग्रहाः᳚” (६-४-३१) इत्यादिषु पदानां सामग्र्येण पठनात् ग्रन्थस्य गौरवं स्यात् । अत इदमेव युक्तम् । असङ्ख्यान इति किम् ? यद्यसङ्ख्यान इति न स्यात्, तदा सङ्ख्यानेऽपि नानापदत्वं स्यात् । तथा चेत् “इत्या॑ह प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवः॑” (२-६-४१) इत्यत्र पशव इत्यस्य पञ्चमाद्बहिर्भूतत्वेन नैतस्मादिति निषेधाप्रसक्त्या पदकाले प्रजापदे विसर्गः स्यात् । न हि तथाऽस्ति । यदि वोक्तस्थले निषेधप्राप्तये आपञ्चमादित्यपहाय आसप्तमादिति सूत्रयेत, तदा “प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒तश्छ॑न्द॒स्याः᳚ प॒शवः॑” (५-२-५५) इत्यत्रापि निषेधः स्यात् । नैष पदवित्सम्मतः । अतोऽसङ्ख्यान इति सुष्ठूक्तम् । एवं च प्र॒जा वा उत्त॑रा देवय॒ज्या प॒शवः॑ (२-६-४२) इत्यत्र सङ्ख्यानविषयभूतस्य उत्तरेत्यस्य देवयज्येत्यस्य चैकपदत्वेन पशव इत्यस्य पञ्चमत्वात् विसर्गनिषेधः “प्र॒जा जा॑यन्ते॒ पञ्चो᳚त्तर॒तः” (५-२-५५) इत्यत्र निषेधाभावश्च सिध्यति । तेषाम् इङ्ग्यपदानां पूर्वपदं (पूर्वखण्ड इत्यर्थः) अवग्रहः, अवग्रहसंज्ञं भवति ॥
मूलम् - [ऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः । न हकारः । व्यञ्जनशेषो घोषवान् । गजडाद्यास्त्रयो वर्णाः दादयश्चैव बादयः । यादि वान्तो हकारश्च शसौ तावन्यसंयुतौ ॥ ]
व्याख्यानम् - एष ऊष्मविसर्जनीयेत्यादिः शसौ तावन्यसंयुतौ इत्यन्तः पाठः केषुचित् कोशेष्वेव दृश्यते । आदौ प्रातिशाख्योक्तैः त्रिभिः सूत्रैः अघोषवत्संज्ञा वर्णाः प्रदर्शिताः । गजडाद्या इति श्लोकेन पूर्वोक्तं विसर्जनीयस्य घोषवद्व्यञ्जनशसकारपर इति विशेषणं प्रपञ्चितम् ।
मूलम् - 1.1.3
अवतारिका - अस्मिन् शमानलक्षणे विधीयमानः निषिध्यमानो वा पदानां विसर्गः आकारात्परः प्लुतात्परो वा घोषवद्व्यञ्जनोत्तरशसकारेभ्यः पूर्वश्च भवतीति सर्वत्र अवगन्तव्यम् ॥
मूलम् - अघ्निया, अयक्ष्मा, अग्रा, अप्रा, असुरा, अपृणा, अजायथा, अश्वा, अहृणीयमाना, अधा, अस्मेरा, अनिष्टा, अना, अगृहीता, अध्वर्तव्या, अकामा, अकॢप्ता, अपुष्पा, अस्या, अनागा, एत्यमेध्या, अतिरिक्ता, अमुष्या, अपस्या, असपत्ना, अवका, अजनिष्ठा, अहता, अवोचथा, अन्तमा, अतिष्ठिपा, अनभ्यक्ता, अह्निया, बस्तेनाजा, अनीका, अर्धाः ॥ ३ ॥
व्याख्यानम् - एतानि पदानि आकारप्लुतपूर्व-घोषवद्व्यञ्जनोत्तरशसकारपर-विसर्जनीयान्तानि भवन्ति ।
अ॒घ्नि॒याः॒ - अ॒घ्नि॒या॒ दे॒व॒भा॒गम् (१-१-१), यदापो॒ अघ्नि॑या॒ वरु॒णेति॑ (१-३-२०)
अयक्ष्माः - अ॒य॒क्ष्मा मा वः॑ (१-१-१)
अग्राः - च॒न्द्राग्रा॒ धिय॑न्धियम् (१-१-२६), उ॒पा॒श्व॑ग्रा॒ ग्रहाः᳚ (६-४-२०), ऐ॒न्द्र॒वा॒य॒वाग्रा॒ ग्रहाः᳚ (६-४-३१), आ॒ग्र॒य॒णाग्रा॒ ग्रहाः᳚ (६-४-४८)
अप्राः - आऽप्रा॒ द्यावा॑पृथि॒वी (१-४-४४)
असुराः - तेऽसु॑रा॒ यत् (१-५-३७), तेऽसु॑रा य॒ज्ञदु॑ग्धाः (१-७-१), दे॒वा॒सु॒रा व्य॑ह्वयन्त (१-७-३),पराऽसु॑रा॒ यस्यै॒वम् (१-७-१३), असु॑रा॒ रख्षासि पिशा॒चाः (२-४-१), पराऽसु॑रा॒ यः (२-४-३), अथासु॑रा य॒ज्ञम् (२-६-५), असु॑रा॒ यम् (५-२-४३), असु॑रा॒ नान्ववा॑यन्न्, यत् (५-३-११), तेऽसु॑रा दि॒ग्भ्यः (५-७-९), असु॑रा नि॒ष्काव᳚म्(६-२-५), असु॑रा॒ वै नि॒र्यन्तः॑ (६-२-५६), असु॑रा॒ वज्र᳚म् (६-२-३७)
अपृणाः - आ रोद॑सी अपृणा॒ जाय॑मानः (१-५-४८)
अजायथाः - अजा॑यथा वृषभ चर्षणी॒नाम् (१-६-४९)
अश्वाः - दे॒वा॒श्वा यज॑मानः (१-७-१७), अश्वा॑ भवथ वाजिनः (१-७-३३), अश्वा॒ रथे॑भिः स॒ह (४-६-२९)
अहृणीयमानाः - अहृ॑णीयमाना॒ विश्वे॑ दे॒वाः (२-१-६२)
अधाः - अधा॒ मेति॒ तद्विष्ण॑वे (२-४-३९)
अस्मेराः - तमस्मे॑रा युव॒तयः॑ (२-५-७१)
अनिष्टाः - अनि॑ष्टा दे॒वताः᳚ (२-६-५)
अनाः - प्रा॒णा वै स॑जा॒ताः (२-६-५५), प्रा॒णा नाभिः॑, ज्योति॑ष्मतीम् (५-३-८), प्रा॒णा द्वाववा᳚ञ्चौ (५-३-१०), प्रा॒णा न ज॑हति (६-१-६५), प्रा॒णा र॑ख्षो॒हणः॑ (६-२-५६), प्रा॒णा यतः॒ खलु॑ (६-४-४१), प्रा॒णा हि वै (७-२-१२), प्रा॒णा ग्रहाः᳚ (७-२-२६)
अगृहीताः - अगृ॑हीता द्रोणकल॒शः (३-२-२)
अध्वर्तव्याः - अ॒ध्व॒र्तव्या वा इ॒मे (३-२-६)
अकामाः - अ॒का॒मा वो॒ दक्षि॑णाम् (३-२-३१)
अकॢप्ताः - ए॒तस्याकॢ॑प्ता॒ यस्य॑ (३-४-२४), अकॢ॑प्ता॒ वा ए॒ते (७-४-१४)
अपुष्पाः - अ॒पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ (४-२-२७)
अस्याः - मृ॒गो अ॑स्या॒ दन्तः॑ (४-६-३०), यद॒स्या य॒ज्ञिय᳚म् (५-२-१६), अथा᳚स्या॒ मध्य᳚म् (७-४-४८)
अनागाः - अदि॑ते॒रना॑गा॒ व्येनासि (४-७-३९)
एत्यमेध्याः - अच्छै᳚त्यमे॒ध्या वै (५-१-३९) एतीति किम् ? अ॒लो॒मका॑ऽमे॒ध्या यत् (२-६-२४), त्वग॑मे॒ध्या यत् (६-१-२)
अतिरिक्ताः - ऊ॒ना॒ति॒रि॒क्ता मि॑थु॒नाः (५-१-४२), ऊ॒ना॒ति॒रि॒क्ता वा ए॒ताः (७-४-२७) [अति॑रिक्ता॒ वा ए॒षा (७-१-१९) इत्यत्र तु इङ्ग्यत्वात् ’रिक्ता’ इत्येव पृथक् पदम् !]
अमुष्याः - यद॒मुष्या॑ य॒ज्ञिय᳚म् (५-२-१६)
अपस्याः - वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑ण (५-२-५४)
असपत्नाः - अ॒स॒प॒त्ना नामेष्ट॑काः (५-३-२४)
अवकाः - शरोऽव॑का वेतसशा॒खया᳚ (५-४-१६)
अजनिष्ठाः - प्र त्वम॑जनिष्ठा व॒यम् (५-५-१२)
अहताः - ज्योगजी॑ता॒ अह॑तास्स्याम (५-७-७)
अवोचथाः - हन्ता॑ऽवोचथा वरा॒हः (६-२-२१)
अन्तमाः - नान्त॒मा वह॑न्तीः (६-४-८)
अतिष्ठिपाः - य॒ज्ञं प्रत्य॑तिष्ठि॒पा(३) य॒ज्ञप॒ता(३)विति॑ (६-६-८)
अनभ्यक्ताः - अन॑भ्यक्ता रेभन्ति (७-१-३) अनभीति किम्? मधु॑ना॒ सम॑क्ता॒ विश्वैः᳚ (४-२-२३)
अह्नियाः - ति॒रोअ॑ह्निया मा (७-३-३४)
बस्तेनाजाः - ब॒स्तेना॒जा वृ॒ष्णिना᳚ (७-३-३५) बस्तेनेति किम्? यद॒जा व॒शा (३-४-८), अ॒जा ह्य॑ग्नेः (४-२-४५), त्रीन॒जा ज॒नय॑ति (६-५-३६) [ति॒स्रो॑ऽजा म॒ल्हाः (५-७-५०) इत्यस्य तु ’मयुरादय..’ (सू.२२) इति प्राप्तिः ।]
अनीकाः - द्व्य॒नी॒का वा ए॒ताः (७-४-२१)
अर्धाः - अ॒र्धा वा॒ याव॑तीः (७-५-७) ॥
मूलम् - 1.1.4
मूलम् - वदन्तीम्, सम्, यतना, अन्याः ॥4॥
व्याख्यानम् - वदन्तीम्, सम्, यतनाः एतेषु पदेषु पूर्वेषु सत्सु अन्या इति पदं विसर्गान्तं भवति । उदा -
वदन्तीम् - प्रवदन्तीमन्या वाचः (2-2-50)
सम् - समन्या यन्ति (2-5-71)
यतनाः - अनायतना अन्या याः (3-1-27) वदन्तीं सं यतना इति किम्? विष्णुः॑ अन्या देवताऽऽसीत् (2-4-38), अन्या वो अन्याम् (4-2-26) (वाक्यारम्भः), शिवाऽन्या यत् (5-7-11)
मूलम् - 1.1.5
मूलम् - अरिष्टास्स्यापरः ॥5॥
व्याख्यानम् - स्या इति पदैकदेशः परः यस्मात् सः स्यापरः । तथाभूतः अरिष्टा इति पदरूपः शब्दः विसर्गान्तो भवति । उदा -
अरिष्टास्स्याम तनुवा (4-7-30) स्यापर इति किम्? अरिष्टा विश्वानि (5-5-38) ।
मूलम् - 1.1.6
मू - आयुधा, आनशाना, आताना, आरण्या, आग्नेया, आद्या, आसीनाः ॥6॥
व्या - आयुधाः - तिग्मायुधा रक्षसे (1-2-34)
आनशानाः - सुवरानशानास्स्विष्टिम् (3-1-27)
आतानाः - तस्मादभ्याताना वैश्वदेवाः (3-4-17)
आरण्याः - उतेवारण्या यत् (5-4-57)
आग्नेयाः - तेनाग्नेया यत् (5-5-1)
आद्याः - आद्या य एवं वेद (6-4-46)
आसीनाः - पञ्चभिरासीना मनुष्यलोकम् (7-5-26)
मूलम् - 1.1.7
मू - आदित्याः ॥7॥
व्या - आदित्या इति पदरूपः शब्दः विसर्गान्तो भवति । उदा -
आदित्याः - आदित्या विश्वे तत् (1-5-11), आदित्या वै (1-5-16), यथादित्या वसुभिः (2-1-62), द्वादशादित्या द्वादशाख्षरा (3-4-35), आदित्या रुद्रा वसवः (4-2-13), आदित्या देवता (4-3-14), आदित्या द्यावापृथिव्याः (5-6-50), येनादित्या वसवः (5-7-5); आदित्याः - ऋतेनादित्या महि वः, प्राचीनमादित्या नोत (2-1-64)
मूलम् - 1.1.8
मू - न वपेत्पूर्वः ॥8॥
व्या - वपेत् पूर्वः यस्मात् सः वपेत्पूर्वः । तथाभूतः सान्निध्याल्लब्धः आदित्या इति पदरूपः शब्दः विसर्गान्तो न भवति । उदा - निर्वपेदादित्या वै (2-3-3)
मूलम् - 1.1.9
मू - आशाः ॥9॥
व्या - आशा इति पदरूपः शब्दः विसर्गान्तो भवति । उदा - आशाः - पृथिव्याशा दिशः (4-1-24), विश्वा आशा दीद्यानः (4-6-21), विश्वा आशा वाजपतिः (4-7-22)
मूलम् - 1.1.10
मू - न नःपरः ॥10॥
व्या - नः परः यस्मात् सः नःपरः । तथाभूतः सान्निध्याल्लब्धः आशा इति पदरूपः शब्दः विसर्गान्तो न भवति । उदा - रन्तिराशा नो अस्तु (4-4-37)
मूलम् - 1.1.11
मू - आतृण्णा दजपरः ॥11॥
व्या - दश्च जश्च दजौ । तौ परौ यस्मात् सः दजपरः । तथाभूतः आतृण्णा इति पदरूपः शब्दः विसर्गान्तो भवति । उदा -
(दपरः) स्वयमातृण्णा दिक्षूपदधाति (5-5-25)
(जपरः) स्वयमातृण्णा ज्योतिः (5-7-25) दजपर इति किम्? स्वयमातृण्णा भवति (5-2-41), स्वयमातृण्णा व्यानः (5-5-23)
मूलम् - 1.1.12
मू - स्थेषा, इरा, इष्टा, इष्टका, इच्छमाना, इमा म, इयक्षमाणा, जोषसेमा, इषिता, अनपेता, स्ता इमाः ॥ 12॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
स्थेषाः - स्थेषा बृहन्तः (1-1-23) स्थेति किम्? समिषा मदेम (1-2-8), समिषा हिनोमि (3-2-44), समिषा मदन्तः (4-1-38), समिषा मदन्ति (4-6-6)
इराः - माऽऽविशतेरा मदः (1-5-23)
इष्टाः - इष्टा देवता अथ, आसन्न् (2-6-51,52), अवेष्टा दन्दशूकाः (1-8-27), प्रीता अभीष्टा भवन्ति (2-4-29)
इष्टकाः - एतस्येष्टका यः (3-4-37), इष्टका धेनवः सन्तु (4-4-31), इष्टका यस्य (5-4-7), इष्टका निरमिमत (5-3-26), इष्टका रात्रियै (5-7-3), इष्टका वै देवाः (5-5-46), इष्टका यत् (5-7-41)
इच्छमानाः - द्रविणमिच्छमाना व्रजम् (4-2-9)
इमा मे - इमा मे अग्ने (4-4-32) म इति किम् - समिमा वचासि (1-5-50)
इयक्षमाणाः - इयक्षमाणा भृगुभिः (4-6-22)
जोषसेमाः - सजोषसेमा वर्धन्तु (4-7-1) जोषसेति किम्? य इमा विश्वा (4-6-6)
इषिताः - यत्प्रेषिता वरुणेन (5-6-2)
अनपेताः - अनपेता मधोः (5-7-32) अनपेति किम्? दुरिता यानि चकृम (1-8-9), दुरिता बाधमानः (4-6-33)
ता इमाः - ता इमा यास्तूपराः (7-5-8) ता इति किम्? अर्वागिमा वः (2-6-66)
^-[अत्र मेपरं वा जोषसा, ताःपूर्वं वा इमाः इति शब्दः विसर्गान्तो भवतीति फलितम् ।] [गिर इमा भवन्तु (1-3-2) इति तु सू.26तः लभ्यते ।]
मूलम् - 1.1.13
मू - ईश्वराः ॥13॥
व्या - एतत्पदं विसर्गान्तं भवति । उदा - ईश्वराः - त एनमीश्वरा हिसितोः (3-2-15)
मूलम् - 1.1.14
मू - उपस्था, उस्रिया, उखाया, उपयामा, उक्थ्या, उषाः ॥14॥
एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
उपस्थाः - सूपस्था देवः (1-2-5)
उस्रियाः - उस्रिया हव्यसूदः (2-3-54)
उखायाः - उखाया या पात्राणि (4-6-43)
उपयामाः - पुरस्तादुपयामा यजुषा (6-5-38)
उक्थ्याः - प्रधी तावुक्थ्या मध्ये नभ्यम् (7-4-35)
उषाः - भवत्युषा वै (7-5-53)
मूलम् - 1.1.15
मू - ऊषाः ॥15॥
व्या - एतत्पदं विसर्जनीयान्तं भवति । उदा - ऊषाः - यदूषा द्यावापृथिवी (5-2-16)
मूलम् - 1.1.16
मू - ऋध्या, ह्यृता, ऋतव्याः ॥16॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
ऋध्याः - यज्ञमुखादृध्या योऽग्नेः (5-1-2)
ह्यृताः - शुचा ह्यृता लोमतः (5-1-18) हीति किम् ? ऋता यजासि महिना (4-3-33)
ऋतव्याः - यदृतव्या यदृतव्याः (5-4-5)
मूलम् - 1.1.17
मू - एताः ॥17॥
व्या - एता इति पदरूपः शब्दः विसर्जनीयान्तो भवति । उदा -
एताः - ह्येता महः (1-5-31), ह्येता रेवतीः (1-5-32), एता वर्त्रं नेदन्ति (1-6-25), ब्रह्मैता व्याहृतयः (1-6-34-37), एता मल््हाः (2-1-10), एता वै [देवताः] (2-4-28),
एता निर्मिताः (2-5-43), एता रूपाणि (5-1-42), एता दिश्याः (5-3-7), एता व्युष्टीः (5-3-22), एता भूताः (5-3-32), एता यजमानस्य (5-3-39), एता यशोदाः (5-3-43),
एता यज्ञतनूः (5-4-2), एता जमदग्निः (5-4-54), एता हि तत् (5-7-8), एता नानुदिशेत् (6-1-32), ह्येता विशः (6-3-32), एता देवपुराः (7-2-15), एता विशति रात्रीः (7-3-22),
एता द्वात्रिशतम्, द्वात्रिशदख्षरा (7-4-15), एता रात्रयः (7-4-21,27), एता रराणः (7-4-44)
मूलम् - 1.1.18
मू - एना अनन्तोदात्तः ॥18॥
व्या - अन्ते उदात्तः यस्य सः अन्तोदात्तः । अन्तोदात्तः न भवतीत्यनन्तोदात्तः । एवंभूतः एना इति पदरूपः शब्दः विसर्जनीयान्तो भवति । उदा -
नाः - स एनाश्श्वः (1-6-21), एवैना नामधेयैः (2-4-25), एवैना लोकाय (6-1-12), एवैना निष्क्रीय (6-4-14), एवैना योनेः (6-4-15), एवैना वि भ॑जति (6-6-2)
अनन्तोदात्त इति किम्? एना राजन्न् (2-6-70), एना वो अग्निम् (4-4-13), एना विश्पतिना (2-3-3)
मूलम् - 1.1.19
मू - ऐन्द्रा ऐलबृदाः ॥ 19॥
व्या - एते पदे विसर्जनीयान्ते भवतः । उदा -
ऐन्द्राः - ऐन्द्रा वै पशवः (2-2-35), सोमैन्द्रा बभ्रुललामाः (5-6-46)
ऐलबृदाः - ऐलबृदा यव्युधः (4-5-26)
मूलम् - 1.1.20
मू - ओजा, ओताः ॥20॥
व्या - एते पदे विसर्जनीयान्ते भवतः । उदा -
ओजाः - सत्यौजा ब्रह्मा(3)न् (1-8-31)
ओताः - नस्योता नेनीयते, नि यच्छति (2-1-2)
मूलम् - 1.1.21
मू - यानाऽसितवर्णास्सव्वँथ्सरीणा, एता उ हिरण्यवर्णा एतासु ॥21॥
व्या - एतासु ऋक्षु विद्यमानानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
यानावह इत्यत्र - वहमानाः, भरमाणाः - वहमाना भरमाणा हवीषि (1-4-48)
असितवर्णा इत्यत्र - वर्णाः, पर्णाः, वसानाः - असितवर्णा हरयस्सुपर्णा मिहो वसाना दिवम् (3-1-38)
सव्वँथ्सरीणा इत्यत्र - वथ्सरीणाः, गणाः*, तपनाः, मदिराः - सव्वँथ्सरीणा मरुतः, सगणा मानुषेषु, सान्तपना मदिरा मादयिष्णवः (4-3-22)
एता उ व इत्यत्र - भगाः, रूपाः*, शुम्भमानाः, प्रायणाः* - सुभगा विश्वरूपा वि, शुम्भमाना द्वारः, सुप्रायणा भवन्तु (5-1-57)
हिरण्यवर्णा इत्यत्र - पावकाः, याः*, ताः*, स्योनाः* - पावका यासु, या गर्भं दधिरे विरूपास्ता न आपः, स्योना भवन्तु (5-6-1)
एतास्विति किम् ? अन्यत्र, वर्णा - सुवर्णा देवौ (5-1-58), भगा - सुभगा बोधतु (3-3-36), सुभगा रराणा (3-5-1)
मूलम् - 1.1.22
मू - कृत्तिका, मयुरादयस्त्रयः, त्रैंशकद्वितीयदशिन्यः, न वा एतेषु ॥22॥
व्या - कृत्तिका इत्यत्र - कृत्तिकाः, श्रेषाः, सर्पाः*, मघाः, राधाः, अषाढाः, देवाः*, श्रविष्ठाः, पदाः -
कृत्तिका नक्षत्रम्, आश्रेषा नक्षत्रम्, सर्पा देवता, मघा नख्षत्रम् (4-4-26), अनूराधा नख्षत्रम्, अषाढा नख्षत्रम्, विश्वे देवा देवता, श्रविष्ठा नख्षत्रम् (4-4-27), प्रोष्ठपदा नख्षत्रम् (4-4-28)
मयुरादिषु त्रिषु अनुवाकेषु - पौष्णाः, वायव्याः, मैत्राः -
शका ते पौष्णा वाचे (5-5-50), वायव्या दिग्भ्यः (5-5-51), ते मैत्रा मृत्यवे (5-5-52) त्रय इति किम्? क्ष्विङ्का नीलशीर्ष्णी (5-5-53) इति चतुर्थे मा भूत् ।
त्रैंशकद्वितीयदशिनीषु - त्रैंशकमिति द्वितीयम् अग्निकाण्डम् उच्यते । तत्पुनः ‘यदेकेने’त्यादीनां त्रयाणां प्रश्नानां आद्यदशानुवाकरूपाः दशिनीवर्जिताः त्रिंशदनुवाकाः एव त्रैंशकम् । तथा चोक्तं काण्डानुक्रमिण्याम् -
‘अग्निस्तद्विधिर्द्वे काण्डे पूर्वं द्विचत्वारिंशकम् उत्तरं त्रैंशकम्’ इति । पाणिनीयसूत्रं ‘त्रिंशच्चत्वारिंशतोः ब्राह्मणे संज्ञायाम् डण्’ (5.1.62) इति त्रिंशदनुवाकाः परिमाणमिति परिमाणार्थे डणि, ततः स्वार्थे
कप्रत्यये च कृते त्रैंशकशब्दः सम्पन्नो भवति । तस्य त्रैंशकस्य द्वितीयदशिन्यस्तु रोहितादयः पिशङ्गान्ताः अनुवाका एव ।
तासु - पत्याः*, रौद्राः*, कृष्णाः, वशाः, श्वेताः, बार््हस्पत्याः, ताः*, श्यामाः, शिल्पाः, पौष्णाः*, सिध्माः, अरुणाः, ऐन्द्राः*, वैष्णवाः*, पार्जन्याः, अजाः**, आदित्याः*, पृथिव्याः*, ललामाः, सूराः, बन्ध्याः -
ते प्राजापत्या बभ्रुः (5-6-42), ते रौद्राः श्येतः, कृष्णा वशा वारुण्यः (5-6-42), वशा मैत्रियः (5-6-43), वशा वैश्वदेव्यः (5-6-44), वशा वैश्वकर्मण्यः (5-6-45), श्वेता वशाः (5-6-42),
मैत्राबार््हस्पत्या धूम्रललामाः (5-6-42), ता वैश्वदेव्यः (5-6-43), ता रुद्राणाम् (5-6-46), श्यामा वशाः (5-6-43), शिल्पा वशाः (5-6-44), सोमापौष्णाः श्यामललामाः (5-6-44),
ऐन्द्रापौष्णाः श्येतललामाः (5-6-45), सिध्मा वशाः (5-6-45), अरुणा दित्यौह्यः, सोमैन्द्रा बभ्रुललामाः (5-6-46), ऐन्द्रावैष्णवा गौरललामाः (5-6-47), आग्नावैष्णवा रोहितललामाः (5-6-49),
पार्जन्या नभोरूपाः, अजा मल््हाः, आदित्या द्यावापृथिव्या मालङ्गाः (5-6-50), कृष्णललामा वरुणाय, रोहितललामा वरुणाय, ऐन्द्रासूराः श्येतललामाः (5-6-51), अनूबन्ध्या भवन्ति (5-6-53) ।
** - अत्र (तिस्रः) अजाः इति सिद्धेः पूर्वत्र 3सूत्रे ‘बस्तेनाजा’ इत्येवोक्तमिति वेदितव्यम् ।
त्रैंशकग्रहणं किम्? सा त्रिकदशिनीषु (द्वितीयदशिनीषु) अष्टाभ्यस्स्वाहा नवभ्यस्स्वाहा (7-2-41) इत्यादिषु व्याप्तिनिवृत्त्यर्थम् । द्वितीयदशिन्य इति किम्? वर्तिका नीलङ्गोः (5-5-49) इत्यत्र प्रथमदशिनीषु न ।
शीर्ष्णा निऱ्ऋतिम् (5-7-45) इत्यत्र तृतीयदशिनीषु च न ।
न वा एष इत्यत्र - प्रथमाः, द्वितीयाः, शीर््षण्याः - प्रथमा यज्ञम्, या द्वितीया यज्ञम् (7-2-39), शीर््षण्या निष्पदः (7-2-40)
एतेष्विति किम् ? अन्यत्र -
पदा - पदा धा अच्छिद्राः (5-6-35), चतुष्पदा याज्या (2-2-62), त्रिपदा गायत्री (3-2-35), द्विपदा या, त्रिपदा या च (5-2-61), त्रिपदा विराट् (5-6-27)
कृष्णा - कृष्णा भवति (2-1-54), कृष्णा धेनुर्दख्षिणा (5-7-17)
वशा - वशा दख्षिणा (1-8-35), सूत्वा वशा स्यात् (2-1-33), वशा रस इव (2-1-42..), यदजा वशा वायव्याम् (3-4-8), यद्वशा यन्मैत्रावरुणीम् (6-6-29)
श्वेता - सैव श्वेता श्वेतवथ्सा (1-8-17)
बन्ध्या - अनूबन्ध्या यत् (2-5-30)
वायव्या - वायव्या यदिमे (3-4-8)
प्रथमा - प्रथमा व्यौच्छत्, व्यूषुषी (4-3-21,25), प्रथमा वाम् (5-1-58), प्रथमा स्वयमातृण्णा (5-5-23), प्रथमा रेतस्सिक् (5-6-34), प्रथमा देवान् (7-1-32), प्रथमा व्यष्टका (7-5-19)
द्वितीया - द्वितीया वयासि (5-6-40)
शीर््षण्या - या शीर््षण्या रशना (4-6-41)
अत्र *चिह्निताः शब्दाः सूत्रान्तरेणापि सङ्गृहीताः इति वेदितव्यम् । तद्व्यतिरिक्ताः एव अस्मात् सूत्रात् असाधारणतया विसर्गवन्तः इति ज्ञातव्यम् ॥22॥
मूलम् - 1.1.23
मू - न त्वाऽऽर्द्राऽर्यमा सविता चित्रा श्रोणा पूषा ॥23॥
व्या - अतिप्रसक्तस्य अपवादमाह - त्वादीनि पूषान्तानि सप्त पदानि विसर्जनीयान्तानि न भवन्ति । उदा -
त्वा - ऋचे त्वा रुचे त्वा (4-4-26) इत्यादि
आर्द्रा - आर्द्रा नक्षत्रम् (4-4-26)
अर्यमा - अर्यमा देवता (4-4-27)
सविता - सविता देवता (4-4-27)
चित्रा - चित्रा नक्षत्रम् (4-4-27)
श्रोणा - श्रोणा नक्षत्रम् (4-4-27)
पूषा - पूषा देवता (4-4-28) । पूर्वसूत्रोक्तेन ‘कृत्तिका’ इत्यनेन विसर्गप्राप्तिः ॥23॥
मूलम् - 1.1.24
मू - अवग्रहोपसर्गौ दिव्यनामपूर्वो देवता ॥24॥
व्या - नेत्यनुवर्तते । अवग्रहसंज्ञं पदम्, उपसर्गसंज्ञं पदं, दिव्यनामपूर्वं देवतेति पदं च विसर्जनीयान्तं न भवति ।
अवग्रहसंज्ञं तु - आग्नावैष्णवा इत्याग्ना-वैष्णवाः (5-6-49), ऐन्द्राबाऱ्हस्पत्या इत्यैन्द्रा-बाऱ्हस्पत्याः (5-6-43) ।
‘द्वितीयदशिन्य’ (सू.22) इति विसर्गप्राप्तिः । उपसर्गसंज्ञं तु - यज्ञं ताभिरा रभते (7-2-39) । ‘न वा’ (सू.22) इति विसर्गप्राप्तिः ।
दिव्यनामपूर्वं तु - अग्निर्देवता ब्रह्म, मरुतो (देवाः) देवता विट् (1-8-24,4-3-5), मित्रावरुणौ देवता बलम्, बृहस्पतिर्देवता वर्चः (1-8-25,4-3-6),
बृहस्पतिर्देवता यस्य (2-3-56), महेन्द्रो देवता यः (2-5-25), अग्निर्देवता गायत्री, इन्द्रो देवता जगती, सूर्यो देवता बृहती (3-1-18),
पृथिवी देवता विराट् (3-1-19), अग्निर्देवता वातः, चन्द्रमा देवता वसवो देवता रुद्राः, आदित्या देवता विश्वे देवा देवता मरुतो देवता बृहस्पतिः,
इन्द्रो देवता वरुणो देवता मूर्धा (4-3-14), प्रजापतिर्देवता मृगशीऱ्षं, सर्पा देवता मघाः, भगो देवता हस्तः, इन्द्रो देवता स्वाती,
वायुर्देवता विशाखे, मित्रो देवता रोहिणी, इन्द्रो देवता विचृतौ, विश्वे देवा देवता श्रोणा, विष्णुर्देवता श्रविष्ठाः, बुध्नियो देवता रेवती (4-4-26,27) ।
‘कृत्तिका’ (सू.22) इत्यनेन, उत्तरत्र वक्ष्यमाणेन ‘देवता’ (सू.39) इत्यनेन च विसर्गप्राप्तिः । दिव्यनामपूर्व इति किम्? सर्वा देवता विष्णुः (5-5-4) ॥24॥
मूलम् - 1.1.25
मू - संख्यापूर्वश्च धा नित्यम् ॥25॥
व्या - नेत्यनुवर्तते । पूर्ववद्बहुव्रीहिः । संख्यापूर्वः धा इति पदरूपः शब्दः विसर्गान्तो न भवति । उदा -
एकधा ब्रह्मणे (2-3-7), एकधा वै सुवर्गः (5-2-20), द्वेधा वा अग्निं (5-7-27), त्रेधा व्यभवत् (5-2-32, 6-1-20), त्रेधा निदधे (1-2-25), त्रेधा भैषज्यम् (6-4-38),
च॒तुर्धा व्यक्रामन् (2-2-62), चतुर्धा व्यूहति (2-3-50), चतुर्धा वा एताः (7-2-39) - न वा इति (#22) प्राप्तमपि नित्यमित्यनेन निषिध्यते ।
प॒ञ्चधा विनिषद्य (7-5-26), पञ्चधा व्यक्रामन्, हि (6-2-8,9), सप्तधा वितृण्णाम् (5-1-39), द्वादशधा विहितः (7-2-36), षोडशधा वृत्रस्य (2-1-26,5-4-22), सहस्रधा बाहुवोः (4-5-25)
वक्ष्यमाणसूत्रस्थेन धा इत्यनेन विसर्गप्राप्तिः । नित्यग्रहणं लक्षणान्तरप्राप्तस्यापि विसर्गस्य निषेधार्थम् । ‘चानुकृष्टं नोत्तरत्र’इति न्यायात् नेति उत्तरत्र न संबध्यते ॥25॥
मूलम् - 1.1.26
मू - स्युः, स्थ, भवन्ति, भवन्तु, परः बहुधेति वर्जयित्वा ॥26॥
व्या - नेति निवृत्तम् । पूर्ववत् बहुव्रीहिः । स्युरादिषु परेषु सत्सु विसर्जनीयान्तो भवति, बहुधेति वर्जयित्वा । उदा -
स्युः - प्रजाः*, शुक्लाः, कृष्णाः*, मध्यमाः, युक्ताः*, मायुकाः, रथाः*, दशुकाः, पादुकाः, पातुकाः, सर्पाः*, याज्याः**, अतिषक्ताः, मोहुकाः, स्थिताः*, कामाः* -
मे प्रजाः स्युः (2-2-42..), शुक्लाः स्युः (2-3-3), कृष्णाः स्युः (2-3-4), मध्यमाः स्युः (2-5-28), असय्युँक्ताः स्युः (2-5-43), रथाः स्युस्तान् (3-4-23), प्रातः याज्याः स्युः (6-2-18),
व्यतिषक्ताः स्युः (6-2-32), अप्रतिष्ठिताः स्युः (7-3-28), पशुकामाः स्युः (7-4-9)
स्युः - प्रमायुकाः स्युः (3-2-24), दशुकाः स्युः (5-2-53), प्रपादुकाः स्युः (5-6-36), परापातुकाः स्युः (6-1-19), सर्पाः स्युः (6-1-69), मोहुकाः स्युः (6-5-11)
** - प्रातर्याज्याः स्युः इत्यस्य अत्र सङ्ग्रहादेव 58सूत्रे अयनीयस्य याज्याः इत्येवोक्तम् ।
स्थ - उख्षिताः, जाताः*, भागाः*, श्वात्राः, इडाः, मान्दाः, वाशाः, तेजस्याः, दाः*, बाधनाः, ग्राभ्याः, पूर्याः, स्थाः* -
प्रोख्षितास्स्थ (1-1-7), प्रजाताः स्थ (1-1-12), सस्रावभागास्स्थ (1-1-23), श्वात्राःस्थ (1-4-1), इडाःस्थ (1-5-23), मान्दास्स्थ, वाशास्स्थ, तेजस्यास्स्थ, राष्ट्रदाः स्थ (1-8-20),
शत्रुबाधनास्स्थ (1-8-23), निग्राभ्यास्स्थ (3-1-23), आपूर्यास्स्था (3-2-20), ऋतस्थाः स्थ (4-4-32)
भ॒वन्ति - अनुवाक्याः, अख्षराः, जाः*, आश्वत्थाः, धानाः*, पुरोडाशाः*, कपालाः, इष्टाः*, मनुष्याः*, पक्वाः, मारुताः, बन्ध्याः*, तयाः, सर्पाः*, दुघाः*, यूपाः, लोकाः*, स्तोमाः*, माः, अदाः, अहाः, अतिषक्ताः*, दशाः,
विशाः, अख्षोधुकाः, तमाः** -
याज्यानुवाक्या भवन्ति, पुरोनुवाक्या भवन्ति (1-5-5,7-5-41), शताख्षरा भवन्ति (1-5-6), प्रजा भवन्ति (2-1-38), आश्वत्था भवन्ति (2-3-5), धाना भवन्ति (2-3-13),
पुरोडाशा भवन्ति (2-3-28), चतुष्कपाला भवन्ति (2-3-47), अभीष्टा भवन्ति (2-4-29), मनुष्या भवन्ति (2-5-38), तुषपक्वा भवन्ति (5-2-22), मारुता भवन्ति (5-4-36),
अनूबन्ध्या भवन्ति (5-6-53)(#22 सूत्रेणापि), सर्पा भवन्ति (6-1-69), कामदुघा भवन्ति (6-5-33), लोका भवन्ति (6-6-33), स्तोमा भवन्ति (7-2-11), अग्निष्टोमा भवन्ति (7-4-25),
अन्नादा भवन्ति (7-3-23), त्र्यहा भवन्ति (7-4-1), पञ्चाहा भवन्ति (7-4-19), षडहा भवन्ति (7-4-37), सप्तदशा, एकविशा भवन्ति (7-4-26), अख्षोधुका भवन्ति (7-4-35),
उत्तमा भवन्ति (7-5-27); ** - उत्तमा इत्यस्य अत्र सङ्ग्रहादेव 35सूत्रे मधुमत्तमा इत्येवोक्तम् ।
भवन्ति - बहुतया भवन्ति (6-1-44/45), यूपा भवन्ति (6-6-18), छन्दोमा भवन्ति (7-3-15), व्यतिषक्ता भवन्ति (7-4-13), स्तोमा भवन्ति (7-4-14)
भवन्तु - इमाः**, जुष्टाः, सर्वाः, समाः, प्रायणाः, स्योनाः**, गृहाः* -
गिर इमा भवन्तु, जुष्टा भवन्तु (1-3-2), सर्वा भवन्तु (1-5-21), समा भवन्तु (3-1-40), सुप्रायणा भवन्तु (5-1-57)* (#21सूत्रेणापि), स्योना भवन्तु (5-6-1,2), गृहा भवन्तु (7-3-34)
** - अत्र गिर इमा भवन्तु इत्यस्य सिद्धेः 12सूत्रे इमामे,जोषसेमा,स्ता इमा इत्येवोक्तम् । ** - अत्र श स्योना भवन्तु इत्यस्य सिद्धेः 68सूत्रे कृतस्स्योनाः इत्येवोक्तम् ।
इदं सूत्रं पूर्वोक्तप्रतिषेधविषये न प्रवर्तयेदिति प्रतिषेधान्तरं पठितम् ।
बहुधेति वर्जयित्वेति किम्? या अन्तरिख्षे बहुधा भवन्ति (5-6-1) इत्यत्र माभूत् । भवन्तिपरत्वात् प्राप्तिः ।
[अत्र यद्यपि ‘बहुगणवतुडति संख्या’ (पा.सू.1.1.23) इति मूलशास्त्रपरिभाषया बहुशब्दस्यापि संख्यात्वेन पूर्वसूत्रेणैव निषेधः प्राप्नोति, तस्य च नित्यत्वमनुशिष्टम्, तथापि परत्वात् ‘विप्रतिषेधे परं कार्यं’ (पा.सू.1.4.2)
इत्यनुसारेण अत्र विसर्गप्राप्तिसन्देहो मा भूदिति कण्ठोक्त्या प्रतिषिध्यत इति ज्ञेयम् ॥]
अन्यत्र, अनुवाक्या - पुरोनुवाक्या भ्रातृव्यम् (1-6-36), पुरोनुवाक्या भवति (2-2-45…)
मध्यमा - मध्यमा विश्वकर्मन् (4-6-10)
अतिषक्ता - व्यतिषक्ता व्यतिषज्यन्ते (7-4-13/14)
पातुका - परापातुका स्यात् (6-1-24)
इडा - प्रत्तेडा यजमानाय (1-7-2), सेडा मनुम् (1-7-3), वा इडा वृष्ट्यै (1-7-10), तत्त्वेडा गवि (2-3-39), वा इडा स्वयम् (2-6-42), धत्त इडा देवहूः (3-3-3), पशव इडा यत् (6-4-39)
अख्षरा - अष्टाख्षरा गायत्री (2-2-27), दशाख्षरा विराट् (2-6-2), द्वादशाख्षरा जगती (2-2-51), चतुर्विशत्यख्षरा गायत्री, त्रिशदख्षरा विराट्, षट्त्रिशदख्षरा बृहती (2-5-59), अष्टाचत्वारिशदख्षरा जगती (2-5-60)..
अहा - विश्वाहा वयम् (4-6-29) [पुनराहार्जातवेदाः (3-2-19) इत्यत्र विसर्गस्य रेफादेशात् रेफश्रवणेन सन्देहाभावात् न दोषः ?]
जुष्टा - जुष्टा विष्णवे (1-2-9,6-1-47), जुष्टा नोऽसि (1-6-9)
मूलम् - 1.1.27
मू - कामा,स्स्वाहाकृता, कल्पमाना, कण्ठा, कुमारा, क्रव्या, कॢप्ता, केशा, क्षुल्लका, क्षाः ॥27॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
कामाः - दानकामा मे (2-2-42), कामा वा अग्नयः (5-1-40), स्त्रीकामा वै गन्धर्वाः (6-1-45)
स्वाहाकृताः - स्वाहाकृता हेमन्न् (2-6-1) स्वाहेति किम्? मनुना कृता स्वधया (1-1-2), स्वयंकृता वेदिः (1-8-17)
कल्पमानाः - कल्पमाना राष्ट्रम् (3-4-24)
कण्ठाः - शितिकण्ठा दिवम् (4-5-26)
कुमाराः - कुमारा विशिखा इव (4-6-20)
क्रव्याः - क्रव्या नाम स्थ (5-5-45)
कॢप्ताः - कॢप्तास्स्तोमा भवन्ति (7-4-14)
केशाः - रश्मयः केशा नक्षत्राणि (7-5-53)
क्षुल्लकाः - ये क्षुल्लका याः (2-3-37)
क्षाः - इन्द्र ऋभुख्षा मरुतः (4-6-39)
मूलम् - 1.1.28
मू - गर्भा, गता, गृह्या, गणा, ग्रहा, गृहा, ग्रीवा, ग्या, गन्धर्वा, वरुणगृहीता, ग्राह्या, ग्रहीतव्या, गाः ॥28॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
गर्भाः - पृश्ञिगर्भा ज्योतिर्जरायुः (1-4-9), गर्भाः स्पृताः (4-3-17), गर्भा वर्धन्ते (6-2-27)
गताः - अन्तगता दहति (1-5-36)
गृह्याः - यावन्तो गृह्यास्स्मः (1-8-10)
गणाः - गणा मे मा (3-1-24), सप्तगणा वै मरुतः (2-2-29)
ग्रहाः - ग्रहा गृह्यन्ते (3-2-2), ग्रहा गृह्यन्ते (6-5-41), ग्रहाः स्तोमाः (3-5-29), ग्रहा बृहत् (7-5-11), यदृतुग्रहा गृह्यन्ते (6-5-9), यदृतुग्रहा ज्योतिः (6-5-13)
गृहाः - गृहास्स्व एवैनान् (3-4-25), गृहाः स्वप्नः, वऱ्षम् (5-5-45), गृहा वै दुर्याः (6-2-45)
ग्रीवाः - नीलग्रीवा विलोहिताः (4-5-26)
ग्याः - सुवर्ग्या या उत्तमाः (5-4-13), तस्माथ्सुवर्ग्या ज्योतिः (7-3-17)
गन्धर्वाः - गन्धर्वास्स्त्रिया निष्क्रीणाम (6-1-43)
वरुणगृहीताः - वरुणगृहीता वै स्थावराः (6-4-8) वरुणेति किम्? यत्कर्णगृहीता वार्त्रघ्नी (6-1-51)
ग्राह्याः - अतिग्राह्या गृह्यन्ते (6-6-30), अतिग्राह्या न गृह्यन्ते (6-6-31), अतिग्राह्या गृह्यन्ते (7-5-6)
ग्रहीतव्याः - ग्रहीतव्या यज्ञस्य (6-6-31)
गाः - गा वेदयति (2-2-41), धन्वना गा धन्वना (4-6-27), ऋषभेण गा बस्तेन (7-3-35), अग्रेगा नेतृणाम् (1-3-10), ऋजुगा देवेभ्यः (3-1-33), पुरोगा याहि (5-1-59)
मूलम् - 1.1.29
मू - न स्वपूर्वः ॥29॥
व्या - सान्निध्याल्लब्धः गा इति पदरूपः शब्दः स्वपूर्वश्चेत् विसर्गान्तो न भवति । उदा - स्वगा वो देवाः (1-4-47)
मूलम् - 1.1.30
मू - चन्द्रमा,श्चक्षा,श्चन्द्रा,श्चेताः ॥30॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
चन्द्रमाः - चन्द्रमा देवता (3-1-19), चन्द्रमा नख्षत्राणाम् (3-4-16), चन्द्रमा गन्धर्वः (3-4-19),
चन्द्रमा धाता (3-4-34), चन्द्रमाः श्रोत्रम् (5-7-57), चन्द्रमा मन्थी (6-4-43),
चन्द्रमा जायते पुनः (7-4-46), यथा चन्द्रमा नख्षत्रैः (7-5-50)
चक्षाः - दुश्चक्षा माऽवख्यत् (3-2-43)
चन्द्राः - यश्चापश्चन्द्रा बृहतीः (4-2-29)
चेताः - प्रचेता रुद्रैः (6-2-38)
मूलम् - 1.1.31
मू - छन्दाः ॥31॥
व्या - एतत्पदं विसर्गान्तं भवति । उदा -
छन्दाः - गायत्रछन्दास्स्वेन (3-5-15), यदतिच्छन्दा वर्ष्म (5-2-5,9), सछन्दा या च (5-2-61), तिच्छन्दा वै, यत् (5-3-37,6-1-62), गायत्रछन्दा वा अग्निः (6-3-31)
मूलम् - 1.1.32
मू - जाता, जोषा, जुषाणा, जनीना, जागता, ज्येष्ठा, जना, जायमाना, ज्याया, जाया, ज्ञाता, जीवा, जाः ॥32॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
जाताः - मनोजाता मनोयुजः (1-2-6,6-1-29), सजाता विश्वान् (2-1-39,46), सजाता मरुतः (2-2-61), सजाता ये (2-3-37), सजाता राष्ट्रेण (3-4-22),
प्रजाता न प्रति (5-3-30), प्रजाता द्यावापृथिवीभ्याम् (6-4-3), प्रजाता गृह्णाति (7-1-3)
जोषाः - सजोषा देवैः (1-4-4,6-4-28,29), सजोषा दुराधर्षम् (4-1-44), सजोषाः स्योनम् (5-1-57), सजोषा यज्ञन्नः (5-1-58),
जुषाणाः - आज्यं जुषाणा वियन्तु (1-5-12)
जनीनाः - पञ्चजनीना येषाम् (1-7-45)
जागताः - जागता वै पशवः (2-5-58,5-3-36)
ज्येष्ठाः - अवरुन्धे ज्येष्ठा वै (3-5-30), इन्द्रज्येष्ठा वरुणराजानः (5-5-41)
जनाः - जना यदग्निम् (4-2-8), त्वा जना विदुः (4-2-20),
जायमानाः - जायमाना नानारूपाः (4-3-23)
ज्यायाः - ज्याया हेतिम् (4-6-31)
जायाः - बह्वीर्जाया विन्दते (6-5-4)
ज्ञाताः - ज्ञातास्स्तोमा भवन्ति (7-2-11)
जीवाः - जीवा ज्योतिरशीमहि (7-5-22)
जाः - प्रजा वै (1-5-25), प्रजा ध्रुवाम् (1-7-21), अब्जा गोजाः (1-8-30,4-2-5), प्रजा नस्योताः (2-1-2), प्रथमजा बलम् (2-4-22,29), प्रजा जायन्ते (2-5-41), प्रजा बर्हिः (2-6-2),
प्रजा जाताः (3-1-11), प्रजा निर्भक्ताः (3-2-30), प्रजा जिन्व (3-5-7), प्रजा यन्ति (3-5-31), प्रजा विश्वकर्मा (4-2-45), प्रजाः स्पृताः (4-3-17), प्रथमजा देवेषु (4-4-6),
सहोजा जैत्रम् (4-6-17), प्रथमजा ये (4-7-24,5-7-30), प्रजा यजमानः (5-2-36), प्रजा मा (5-1-26), प्रजा मिथुनी (5-3-29), प्रजा यत्र (5-6-8), प्रजा ग्राहुकः (6-4-1),
प्रजा यज्ञम् (6-4-3), प्रजा वैश्वदेवः (6-5-24), प्रजा मुह्येयुः, प्रजा वरुणः (6-6-23), प्रजा जनयति (7-1-3), प्रजा निर्दहेयुः (7-3-26), प्रजा न हि (7-5-28/29)
मूलम् - 1.1.33
सू - नैतस्मादा पञ्चमपरपदाद्यत्र पशवोऽस्ति ॥33॥
व्या - सान्निध्यात् पूर्वसूत्रात् जा इति लभ्यते । एतस्मादिति ल्यब्लोपे पञ्चमी । आङ् अभिविधौ ।
प्रजा इत्येतत्पदमारभ्य पञ्चमं परपदम् अभिव्याप्य यस्मिन् वाक्ये (यत्र) पशवः इति शब्दोऽस्ति तत्र जा इतिपदं विसर्गान्तं न भवति ।
अत्र यद्यपि एतस्मादारभ्येति सामान्येनोक्तं, तथापि पशवः इति पदं द्वितीयं (प्रजा इत्यस्मात् अव्यवहितोत्तरपदं) न भवितुमर्हति,
पकारस्य घोषवद्व्यञ्जनत्वाभावात् । उदा - ‘प्रजाः पशवः’ (1-5-3,2-3-50,5-7-35,6-5-36) ॥
अतः तृतीय, चतुर्थ, पञ्चमपदं पशवः इति चेत् इति यावत् । एषां त्रयाणां क्रमेणोदाहरणानि यथा -
‘प्रजा वै पशवः’ (1-5-25,2-6-22,3-4-2,5-2-24,5-4-29,6-6-40), प्रजा राष्ट्रं पशवः’ (3-4-22) ।
‘प्रजा वै वर्चः पशवः’ (5-4-21) । ‘प्रजा हि वा एतस्मिन्पशवः’ (2-1-51), ‘प्रजा वा उत्तरा देवयज्या पशवः’ (2-6-41) ।
पञ्चमपरपदादिति किम्? ‘प्रजा जायन्ते पञ्चोत्तरतश्छन्दस्याः पशवः’ (5-2-55) इत्यत्र पशव इत्यस्य षष्ठत्वात् न विसर्गनिषेधः ।
[पशवः इति पदस्य उत्तरत्र सत्त्वनिमित्तेन प्रजा इति पदस्य विसर्गलोपनिर्णायकेऽस्मिन् सूत्रे प्रजा इत्यनन्तरं घोषवद्व्यञ्जनत्वाभावादेव
- स्वरपरत्वात् इति यावत् - ‘प्रजा अहमित्याह यावन्त एव ग्राम्याः पशवः’ (1-5-31) इत्यत्र अष्टमत्वात्,
‘प्रजाः प्र बुध्यन्ते यथास्थानमुपतिष्ठते तस्माद्यथास्थानं पशवः’ (5-2-13) इत्यत्र नवमत्वात्,
‘प्रजा एव यज्ञियाः करोति छन्दासि गच्छ स्वाहेत्याह पशवः’ (6-4-3) इत्यत्र दशमत्वात् च न निषेधः इत्यपि न प्रत्युदाहर्तव्यम् ॥]
मूलम् - 1.1.34
मू - मामा, स्यात्, भवति, हि, जायते, यत्, मे, ज्योतिःपरश्च ॥34॥
व्या - मामादीनां द्वन्द्वं कृत्वा पश्चात्पूर्ववद्बहुव्रीहिः । जा इत्यनुवर्तते । चकारः निषेधाकर्षकः । मामाद्येवंपरः जा इति पदरूपः
शब्दः विसर्गान्तो न भवति । उदा -
मामा - प्रजा मा मा हासीत् (5-6-30) मामेति किम्? प्रजा मा द्यावापृथिवी (5-1-26)
स्यात् - प्रजा स्याद्वेदिसंमिताम् (5-6-31)
भवति - पापीयसी प्रजा भवति (5-6-31)
हि - प्रजा हि वै (2-1-51)*[#33 सूत्रेणापि], प्रजा ह्यात्मनः (6-2-14)
जायते - प्रजा जायते (6-4-46,7-4-21)
यत् - प्रजा यन्मनुष्याः (6-5-19)
मे - आ प्रजा म आ मा (7-3-34)
ज्योतिः - प्रजा ज्योतिरिमम् (7-5-22)
मूलम् - 1.1.35
मू - मधुमत्तमा,स्तेजा,स्तृप्ता,स्तण्डुला, अनुतप्यमाना,स्तस्करा,स्तुषा,स्तन्वाना,स्त्वाष्ट्राः ॥35॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
मधुमत्तमाः - मधुमत्तमा मन्द्राः (1-1-4) मधुमदिति किम्? उत्तमा दशोप (5-3-8), उत्तमा नीयते (7-1-32) [उत्तमा भवन्ति (7-5-27) #26तः]*
तेजाः - शततेजा वायुरसि (1-1-13)
तृप्ताः - तृप्ता यात पथिभिः (1-7-35, 4-7-22)
तण्डुलाः - अनडुहस्तण्डुला मिथुनात् (2-2-49)
अनुतप्यमानाः - अनुतप्यमाना मधव्यौ (3-2-30) अन्विति किम्? तपसा तप्यमाना जजान (4-3-23)
तस्कराः - स्तेनासस्तस्करा वने (4-1-39)
तुषाः - यत्तुषा निऱ्ऋत्यै (5-2-22)
तन्वानाः - पुनस्तन्वाना यन्ति (6-3-2)
त्वाष्ट्राः - त्वाष्ट्रा हि देवतया (6-3-58)
मूलम् - 1.1.36
मू - तरा नाकसत्परः ॥36॥
व्या - पूर्ववद्बहुव्रीहिः । नाकसत्परः तरा इति पदरूपः शब्दः विसर्गान्तो भवति । उदा - उत्तरा नाकसद्भ्यः (5-3-32) नाकसत्पर इति किम्? भूरिदावत्तरा वाम् (1-1-25), उत्तरा देवयज्या (2-6-41)
मूलम् - 1.1.37
मू - ताः ॥37॥
व्या - ता इत्ययमपि विसर्गान्तो भवति । उदा -
ताः - लोके ता विष्णो (1-1-20), पत्नीस्ता देवीः (1-4-1), प्रीणामि ता मा (1-6-6), गृह्णाति ताः श्वः (1-6-22), आयन्ता वरुणम् (2-1-7), आयन्ता वैदेह्यः (2-1-25), हृदा ता माम्, मे (2-3-36),
इति ता वै (2-4-5), आयन्ता यत्र, बृहस्पतिः (2-4-12), सामिधेन्यस्ता यत् (2-5-43), यस्ता विद्वान्, अर्पयन्ति ता यः (3-2-13), वषट्कारस्ता यत् (3-4-35), मयोभुवस्ता नः (4-1-18,..),
बृहस्पतिप्रसूतास्ता नः (4-2-27), स्वधाविनीस्ता मे (4-4-32), परा ता भगवः (4-5-4), इषवस्ता जयन्तु (4-6-18), असृजत ताः स्तोमभागैः (5-3-26), अतिष्ठन्ता वसुकः (5-3-30),
उत्तमास्ता यजमानम् (5-4-13), अपश्यन्ता दिख्षु (5-5-25), पावकास्ता नः (5-6-1), शुक्रास्ता नः (5-6-2), ख्षुद्रपृषती ता वैश्वदेव्यः (5-6-43), त्र्यव्यस्ता वसूनाम्, दित्यौह्यस्ता रुद्राणाम् (5-6-46),
अधत्त ता दिशः (5-7-20), हरिणी ता देवाः (6-2-15), अवेशयन्ता वसतीवरीः (6-4-6), अमुच्यत ता वहन्तीः (6-4-8), आसन्ता न (6-6-31)
मूलम् - 1.1.38
मू - न जोहवीमि, परि, सोमस्य, वृणे, सर्वेवोग्रा, स्थ पूर्वः ॥38॥
व्या - पूर्ववद्बहुव्रीहिः । जोहवीमीत्यादिपूर्वः सान्निध्याल्लब्धः ता इति पदरूपः शब्दः विसर्गान्तो न भवति । उदा -
जोहवीमि - जोहवीमि ता वाजम् (1-1-26)
परि - परि ता बभूव (1-8-28,3-2-21)
सोमस्य - सोमस्य ता मदे (2-3-55)
वृणे - आ वृणे । ता नः (2-5-71)
सर्वा - सर्वा ता विष्य (3-4-46)
इव - स्रुचेव ता हविषः (4-6-45)
उग्रा - याथ उग्रा ता नः (4-7-34)
स्थ - नाम स्थ ता वः (5-6-2)
मूलम् - 1.1.39
मू - दुर्या, देवा, दक्षा, दात्रा, दा, दूता, दन्दशूका, अवान्तरदिशा, देविका, ददाना, दोहा, दन्ता, द्विदेवत्या, कामदुघा, दक्षमात्मन्दधाना, म्रक्षासस्ते दिव्या, देवताः ॥39॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
दुर्याः - दुर्या द्यावापृथिव्योः (1-1-6)
देवाः - देवा मनोजाताः (1-2-6,6-1-29), देवा यत् (1-2-8,3-1-4), देवा विजयम्, देवा वसवः (1-5-1,11), देवा हीनाः, हविषः (1-5-38,45), देवा यज्ञम् (1-6-21,..),
देवा येषाम् (1-6-23), देवा हव्यम् (1-6-27,28), देवा वै (1-6-41), देवा द्वादशाक्षरेण (1-7-44), देवा धर्मसुवः (1-8-27), वैश्वदेवा वै (2-1-39), देवा विश्वस्य (2-1-63),
देवा मिथः (2-2-62,6-2-8), देवा ज्यैष्ठ्याय (2-2-63), देवा मनुष्याः, विजितिम्, देवा दाभि (2-4-1,7,9), देवा दिविभागाः (2-4-22,29), देवा वृत्रम् (2-5-13),
देवा भागधेयम्, मासि, हविष्मन्तः, हि, यज्ञियाः (2-5-27,38,42,51,56), देवा गायत्रीं, वावृधुः (2-6-5,69), देवा जोषयन्ते (3-1-4), देवा देवता (3-1-19,..), देवा मरुतः (3-1-27),
वैश्वदेवा यत् (3-4-17), देवा यज्ञहनः (3-5-12,13,14), देवा देवस्य, हविः (4-1-2,31), देवा देवताम् (4-2-45), देवा हन्ता (4-3-23), देवा देवानाम् (4-6-4,5-4-20),
देवा देवेषु, दैव्याय, देवेभ्यः (4-6-4,13,14), देवा ममिरे (4-6-36), देवा विहवे, द्रविणम् (4-7-29), देवा द्रविणोदाः (5-1-54), देवा मा, वामभृता (5-5-9,17), देवा दिवि (5-6-1),
देवा बिभ्यतः (5-6-23,6-2-13), देवा विराजम् (5-6-27), देवा ज्योतिषा (5-7-5,6), देवा दख्षिणा, यज्ञाय (6-1-1,10), देवा जेतुम्, हस्तान्, भूताः (6-2-15,21,41),
देवा यामम्, यः (6-3-6,51), देवा मरीचिपाः, नोप, मित्रावरुणौ, वाचि (6-4-24,31,36,49), देवा ध्रुवेण (6-5-7), देवा देवताः, बुध्यन्ते (7-1-5,28),
देवा व्यवाहयन्न् (7-2-32), देवा दधीरन्न्, येनयेन (7-4-1,15)
देवाः - देवा गातुविदः (1-1-24,1-4-48,6-6-8), देवा वसव्याः (2-4-21,27)
देवाः - देवा दिवि (1-4-11,6-4-48), देवा देवसुवः (1-8-19), देवा जरदष्टिः (2-3-40,45), देवा ये, याः (2-3-35,36), देवा यजमानः (4-6-23/24,..), देवा रथैः (4-7-21)
दक्षाः - सुदक्षा दक्षपितारः (1-2-6)
दात्राः - अस्मद्दात्रा देवत्रा (1-4-45,6-6-4)
दाः - अग्ने दा दाशुषे, दा नो अग्ने (2-2-69), आयुर्दा ह्येषः, वर्चोदा ह्येषः (1-5-28), वर्चोदा मे, वर्चसे (3-2-8/9), द्रविणोदा वाजिन्न्, वाजी (4-1-8), आत्मदा बलदा यस्य (4-1-32),
अपानदा व्यानदाश्चख्षुर्दा वर्चोदा वरिवोदाः (4-6-5), आशीर्दा वसुभिः (5-6-35);
दाः - अग्निर्दा द्रविणम् (2-2-69), आयुर्मे दा रूपम्, ख्षत्रं मे दा भूतम् (3-3-11)
दूताः - देवदूता वा एते (1-7-12)
दन्दशूकाः - दन्दशूका निरस्तम् (1-8-27)
अवान्तरदिशाः - चतस्रोऽवान्तरदिशा दिग्भ्यः (2-4-24,7-2-8) अवान्तरेति किम्? प्रदिशा दिशन्ता (5-1-58)
देविकाः - देविका निर्वपेत् (3-4-29), देविका यातयामानि (3-4-32)
ददानाः - आददाना विमथ्नानाः (3-5-14)
दोहाः - दोहा गां पञ्चनाम्नीम् (4-3-24)
दन्ताः - ग्रावाणो दन्ता मुखम् (6-2-59)
द्विदेवत्याः - द्विदेवत्या गृह्यन्ते (6-4-39) द्वीति किम्? यजमानदेवत्या वै (2-5-55), भ्रातृव्यदेवत्या वै (1-6-36), सर्वदेवत्या यदजा (3-4-8,6-1-15), किन्देवत्या वसोः (5-7-10), पितृदेवत्या निखाता (6-2-52)
कामदुघाः - कामदुघा यत् (6-5-33) कामेति किम्? सुदुघा नः पयस्वती (4-4-36)
दक्षं पूर्वम्, आत्मन् पूर्वं च दधाना इति पदं विसर्गान्तं भवति ।
दक्षं पूर्वं) दधानाः - दक्षन्दधाना जनयन्तीः (4-1-34)
आत्मन् पूर्वं) - आत्मन्दधाना वाणः (7-5-29). दक्षमात्मन्निति किम्? रेतो दधाना वीरम् (1-2-12)
म्रक्षासः पूर्वं, ते पूर्वं च दिव्या इति पदं विसर्गान्तं भवति ।
म्रक्षासः पूर्वं) दिव्याः - तुविम्रक्षासो दिव्या नवग्वाः (3-3-33)
तेपूर्वं - ते दिव्या द्यावापृथिव्या (5-5-58). म्रक्षासस्त इति किम्? या दिव्या वृष्टिः (1-4-23,6-5-22)
देवताः - यख्ष्यमाणे देवता वसन्ति (1-6-23), एव देवता दुहे (1-7-17), एव देवताः स्वेन (2-1-11,2-3-30), सर्वा देवता देवतासु (2-1-23,7-4-13)), सर्वा देवता विष्णुः (2-2-46,48,..),
वै देवता वृष्ट्याः (2-4-28), स देवता वृत्रात् (2-5-11), सर्वा देवता देवताभिः (2-6-44,..), एव देवता यजति (2-6-56), सः (अस्य) देवता वृङ्क्ते (3-1-22), च देवता वषट्कारः (3-4-35),
सर्वा देवता देवताभ्यः (3-5-26), वै देवता देवताः (5-4-2,42), पञ्च देवता यजति (6-1-34), सर्वा देवता जनयति (6-2-7,6-3-29), सर्वा देवता हविः (6-3-29), सर्वा देवता यत् (6-3-38),
सतनुत्वाय देवता वै (6-6-31), सवनभाजो देवता गच्छन्ति (7-5-18)
मूलम् - 1.1.40
मू - न क्षेपिष्ठैतस्य पूर्वः ॥40॥ [सू.24 अप्यन्वेति ।]
व्या - अत्रापि बहुव्रीहिः । क्षेपिष्ठा पूर्वः, एतस्य पूर्वश्च सान्निध्याल्लब्धः देवता इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा -
क्षेपिष्ठा पूर्वः - क्षेपिष्ठा देवता वायुम् (2-1-1,3-4-8)
एतस्य पूर्वः - एतस्य देवता यः (2-1-57,2-3-23,7-2-23)
मूलम् - 1.1.41
मू - युक्ता, गमयेत्, गमयति, नीयन्ते, विभजति, ब्राह्मणं, परो दक्षिणाः ॥41॥
व्या - युक्तादीनां द्वन्द्वं कृत्वा, पश्चात् बहुव्रीहिः । युक्तादिषु पदेषु परेषु सत्सु दक्षिणा इति पदरूपश्शब्दः विसर्जनीयान्तो भवति । उदा -
(युक्तं परं) दक्षिणाः - दक्षिणा युक्ता यज्ञं (5-7-32)
गमयेत् परं) " - दक्षिणा गमयेदा (6-1-32)
गमयति परं) " - एव दक्षिणा गमयति (6-1-32)
नीयन्ते परं) " - सवने दक्षिणा नीयन्ते (6-1-41)
विभजति परं) " - दक्षिणा विभजति (6-6-2). भजतिग्रहणं किम् - दक्षिणा विचिकिते (2-1-64)
ब्राह्मणं परं) दक्षिणाः - यद्दक्षिणा ब्राह्मणं (6-6-3)
मूलम् - 1.1.42
मू॥ चन्द्रपूर्वश्च ॥42॥
व्या - च शब्दः दक्षिणा इत्यस्य आकर्षकः । चन्द्रपूर्वः दक्षिणा इति पदरूपश्शब्दः विसर्गान्तो भवति । उदा -
चन्द्रपूर्वः) दक्षिणाः - चन्द्रदक्षिणा यज्ञस्य (1-4-45)
युक्तादि निमित्तं किम् - दक्षिणा ये (1-8-1,12), दक्षिणा वि (1-8-1), दख्षिणा देवस्य (1-8-13), दख्षिणा वैश्वानरम्, दख्षिणा वारुणम् (1-8-14), दख्षिणा नैर््ऋतम्, दख्षिणा मारुतम् (1-8-15),
दख्षिणा रौद्रम् (1-8-16), दख्षिणा बार््हस्पत्यम्, दख्षिणा वैष्णवम् (1-8-33), दख्षिणा वैश्वदेवम्, दख्षिणा मैत्रावरुणीम् (1-8-35), दख्षिणा वही (2-2-6), दख्षिणा वृषत्वाय (2-3-32),
दक्षिणा विश्वकर्मा (4-3-2,..), दख्षिणा दिशाम् (4-3-5), दख्षिणा दिक् (4-3-12,….), दख्षिणा दश (4-5-27), दख्षिणा यज्ञः (4-6-18), दख्षिणा धनुः (5-5-31), दख्षिणा गृहाः (5-5-45),
दख्षिणा ह्येषा (6-1-50)
मूलम् - 1.1.43
मू॥ विधृता, धावा, धिष्णिया, धीरा, धाया, धाना, धुवाना, धृष्या, वैधिषणा, धाः ॥43॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
विधृताः - विधृता ब्रह्मवादिनः (2-6-9), विधृता यदेताः (5-7-25)
वीति किम् - जूरसि धृता मनसा (1-2-9,6-1-47), वाग्धृता जुष्टा (6-1-47)
धावाः - यदाधावा मान्दासु (3-3-8)
धिष्णियाः - धिष्णिया ये (4-2-15), धिष्णिया वै (6-3-2), धिष्णिया यत् (6-3-5)
धीराः - धीरा देवेषु सुम्नया (4-2-22)
धायाः - विश्वधाया विश्वस्य (4-2-36)
धानाः - धाना भवन्ति (2-3-13), यातुधाना हेतिः (4-4-7), धाना मरुद्भ्यः (7-5-49)
धुवानाः - सन्धुवाना वाताः (4-4-37)
धृष्याः - अनाधृष्या यथाऽसथ (4-6-19)
वैधिषणाः - विद्या वै धिषणा विद्याभिः (5-1-36) वैग्रहणं किम् - अगाद्धिषणा बऱ्हिः (1-1-2), यन्मा धिषणा जजान (1-6-48)
धाः - ऊर्जन्धा राजा (1-3-30), मा धाः स्वाहा (3-1-32), मा धा मुखम् (3-2-33), आ धा निः (4-6-33); धाः - वयोधाः श्रुष्टी (3-1-36), वयोधा रयिम् (4-3-7), रेतोधा रेतः (5-2-34,7-4-47)
मूलम् - 1.1.44
मू॥ न श्रद्विपूर्वः ॥44॥ [सू.25 अप्यन्वेति ।]
व्या - सान्निध्यात् धा इति लभ्यते । श्रत्पूर्वः, विपूर्वश्च धा इति पदरूपश्शब्दः विसर्गान्तो न भवति ।
उदा - श्रत्पूर्वः) धा - श्रद्धा वा आपः (1-6-25), विपूर्वः) धा - विधा विधीयते (5-3-21)
मूलम् - 1.1.45
मू॥ धाराः ॥45॥
व्या - एतत्पदं विसर्गान्तं भवति । उदा - धाराः - प्र ते धारा मधुश्चुतः (3-1-34), मधोर्धारा व्यानशुः (5-7-32)
मूलम् - 1.1.46
मू॥ नैषापूर्वः ॥46॥
व्या - सान्निध्यात् धारा इति लभ्यते । एषापूर्वः धारा इति पदरूपश्शब्दः विसर्गान्तो न भवति ।
उदा - एषापूर्वः) धारा - तस्यैषा धारा विष्णुः (5-7-10)
मूलम् - 1.1.47
मू॥ नेत्रा, नमस्या, नवेदा, नवग्वा, नभाः ॥47॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
नेत्राः - अग्निनेत्रा दख्षिणसदः, बृहस्पतिनेत्रा रक्षोहणः (1-8-12)
नमस्याः - पितरो नमस्या देवाः (2-5-56)
नवेदाः - नवेदा यशस्वतीः (3-1-39)
नवग्वाः - दिव्या नवग्वा वना वनन्ति (3-3-33)
नभाः - ऊर्ध्वनभा ह स्म वै (6-3-50)
मूलम् - 1.1.48
मू॥ पुरूरवाः, पाः, प्रीताः, पार्याः, प्रजाः, पुरुषाः, पाङ्क्ताः, पत्याः, पन्थाः, पोषाः, पुराणाः, प्रजाताः, प्रावृताः, पादाः, प्रथाः, पूताः, देवपुराः, पात्राः, पुरोडाशाः, पवमानाः, प्रायणाः, पद्याः, पृथिव्याः ॥48॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
पुरूरवाः - पुरूरवा घृतेनाक्ते (1-3-12)
पाः - तनूपा ह्येषः (1-5-29), वाक्पा वाचम्, श्रोत्रपाः श्रोत्रम् (3-2-43), अधिपा भव (4-2-18), तनूपा विराजा, सोमपा गोभिः (4-4-24), सोमपा बाहुशर्धी (4-6-16), तनूपा नः (5-7-9),
अभिशस्तिपा ह्येतत् (6-2-11)
प्रीताः - प्रीता यथापूर्वं (1-6-43)
पार्याः - यत्पार्या युनजते (1-6-46)
प्रजाः - सुप्रजा वीरवन्तः (1-8-39), सुप्रजा या आद्याः (6-4-46)
जा इति उक्तेऽपि इङ्ग्यपदानाम् नानापदत्वमिति परिभाषया अत्र सुप्रजा इत्यस्मिन् प्रजा इत्यस्यैव एकपदत्वात् प्रजाग्रहणं साम्प्रतमेव ॥
पुरुषाः - पुरुषा वा प्रमीयेरन् 2-2-8/9), पुरुषा ब्राह्मणः (2-5-57)
पाङ्क्ताः - पाङ्क्ता हि पशवः (2-3-13)
पत्याः - प्राजापत्या वै पशवः (2-3-14,3-1-15), प्राजापत्या यत् (3-4-17,18,5-6-38), प्राजापत्या वैष्णवीः (5-6-37)
पन्थाः - पन्था यद्दऱ्शपूर्णमासौ (2-5-34), पन्था योऽग्नेः (6-1-48), देवयानः पन्था गायत्री (7-5-5)
पोषाः - रायस्पोषा यजमानस्य (3-1-12)
पुराणाः - पुराणा ये च नूतनाः (4-2-14)
प्रजाताः - ऋतप्रजाता भगे (3-1-24) अत्रापि पूर्ववदेव ।
प्रावृताः - नीहारेण प्रावृता जल्प्या (4-6-7), गर्भाः प्रावृता जायन्ते (6-1-19)
पादाः - अस्य पादा मनोजवाः (4-6-37)
प्रथाः - शर्म सप्रथा नमः (4-7-25)
पूताः - पूता देवलोकं (5-2-24)
देवपुराः - देवपुरा देवपुरा एव (5-3-39) देवेति किम् - एतस्यै पुरा ब्राह्मणाः (1-5-29), पुरा वाचः (2-2-50,6-4-12), पुरा होतारः (2-5-62), पुरा रख्षोभ्यः (2-6-5), पुरा वयम् (2-6-64),
पुरा विज्ञानेन (3-3-26), पुरा विदाम् (3-5-30), पुरा जीवगृभः (4-2-25), पुरा दख्षिणाभ्यः (6-1-24), पुरा नख्षत्रेभ्यः (6-1-27), पुरा गोप्ता (6-3-10), पुरा भवति (6-3-31)
पात्राः - यदेकपात्रा द्विदेवत्याः, गृह्यन्ते, द्विपात्रा हूयन्ते (6-4-39)
पुरोडाशाः - पुरोडाशा निरुप्यन्ते (6-5-42)
पवमानाः - पवमाना ब्रह्मवर्चसम् (7-1-33)
प्रायणाः - सुप्रायणा भवन्तु (5-1-57), अग्निष्टोमप्रायणा यज्ञाः (7-2-34)
पद्याः - दश पद्या यावान् (7-3-23)
पृथिव्याः - पृथिव्या विश्वे (1-2-8), पृथिव्या दिवः, महः (1-2-26), पृथिव्या वैश्वानरम् (1-4-14), पृथिव्या यज्ञियम् (2-6-36), पृथिव्या यमः (3-2-14), पृथिव्या वायुः (3-4-16),पृथिव्या यः (4-2-29),
पृथिव्या रिरिचाथे (4-2-46), पृथिव्या नाभिः (4-3-8,4-7-25), पृथिव्या विश्वायुः (4-3-30), पृथिव्या निहितः (4-7-26), पृथिव्या हि (6-1-55), पृथिव्या यत् (6-2-47), पृथिव्या यज्ञम् (7-4-46)
मूलम् - 1.1.49
मू॥ नैवपूर्वः ॥49॥
व्या - सान्निध्यात् पृथिव्या इति लभ्यते । ‘एव’ इत्येवं पूर्वः पृथिव्या इति पदरूपश्शब्दः विसर्गान्तो न भवति ।
उदा - (एव पूर्वः) पृथिव्या - वाचैव पृथिव्या यज्ञं (6-1-11)
मूलम् - 1.1.50
मू॥ इमे, अलज एतयोश्च ॥50॥
व्या - पृथिव्या इति अनुवर्तते । चकारः निषेधाकर्षकः । ‘इमे वै सह, अलज आन्तरिक्ष’ इत्येतयोः अनुवाकयोः पृथिव्या इति
पदरूपश्शब्दः विसर्गान्तो न भवति । उदा -
इमे वै सह - पृथिव्या - द्यावापृथिव्या यथ्सोमः (3-4-8)
अलज आन्तरिक्षः - पृथिव्या - द्यावापृथिव्या श्वावित् (5-5-58) तयोरिति किम् - द्यावापृथिव्या मालङ्गाः (5-6-50) [#22,48 सूत्राभ्यामपि]
मूलम् - 1.1.51
मू॥ प्रिया मा स्मः परः ॥51॥
व्या - मा, स्मः, इत्येवं परः प्रिया इति पदरूपश्शब्दः विसर्जनीयान्तो भवति । उदा -
मापरः) प्रियाः - प्रिया मा नस्तनुवः (4-5-22)
स्मः परः) प्रियाः - यन्मिथो विप्रियास्स्मः (6-2-8) मा स्मः पर इति किम् - प्रिया वो नाम (2-1-60), सम्प्रिया हृदयानि वः (4-2-14), प्रिया देवेषु (4-6-44)
मूलम् - 1.1.52
मू॥ पृतना जपरः ॥52॥
व्या - जपरः पृतना इति पदरूपश्शब्दः विसर्गान्तो भवति ।
जपरः) पृतनाः - पृतना जयामि (3-5-10), पृतना जयेम (4-7-29) जपर इति किम् - पृतना हवेषु (4-2-46)
मूलम् - 1.1.53
मू॥ फालाः ॥53॥
व्या - एतत्पदं विसर्गान्तं भवति । उदा - फालाः - शुनन्नः फाला वि तुदन्तु (4-2-23)
मूलम् - 1.1.54
मू॥ ब्राह्मणा, बाह्याः ॥54॥
व्या - एते पदे विसर्गान्ते भवतः । उदा - ब्राह्मणाः - ब्राह्मणा वै छन्दासि (2-6-52); बाह्याः - बाह्या दृशीकवः (7-3-2)
मूलम् - 1.1.55
मू॥ भामा, भारा, भरता, भक्षा, भूया, भूम्या, भित्था, भद्रा, भ्रातृव्या, भक्ता, भूयिष्ठाः ॥55॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
भामाः- प्ररुजन्ति भामा न वरन्ते (1-2-34)
भाराः - सम्भारा न यजुः (1-5-8)
भरताः - एष वो भरता राजा (1-8-19,22) प्रातिशाख्ये (अ-3,सू-11) ‘भरता याज्यासु’ ति घोषवत्परत्वेऽपि अस्य ह्रस्वो विधीयते । तथाऽपि याज्याव्यतिरिक्तस्थले अयं विसर्गविधिः इति । एवमेव ‘अधा’ इत्यस्य
याज्या चतुर्थकाण्डव्यतिरिक्तस्थले विसर्गविधिः इति च ज्ञेयम् ।
भक्षाः - सहभक्षास्स्याम (3-1-27)
भूयाः - देवेषु भूया भ्राजस्वन्तं (3-3-2)
भूम्याः - भूम्या वृत्वाय नः (4-1-7)
भित्थाः - मा सु भित्था मा सु रिषः (4-1-35)
भद्राः - भद्रा रशनाः (4-6-35), भद्रा घृतमित् (5-6-3)
भ्रातृव्याः - भ्रातृव्या यदपोऽग्नेः (5-6-5)
भक्ताः - तस्माद्विभक्ता जायन्ते (6-1-63), विभक्ताः स्तोकाः (6-3-49)
भूयिष्ठाः - भूयिष्ठा यत्त्रिः (6-5-36), भूयिष्ठा हि देवताः (7-1-5), भूयिष्ठा ग्रहाः (7-3-27)
मूलम् - 1.1.56
मू॥ भागा अनाज्यपूर्वः ॥56॥
व्या - आज्य इति पदं पूर्वं यस्माथ्सः आज्यपूर्वः । आज्यपूर्वो न भवतीत्यनाज्यपूर्वः । तथाभूतः भागा इति पदरूपश्शब्दः विसर्गान्तो भवति ।
उदा - अनाज्यपूर्वः) भागाः - दिविभागा येऽन्तरिख्षभागा ये (2-4-22), सुभागा रायः (3-3-28), स्तोमभागा यत् (5-3-27), आहुतिभागा वै (5-5-35) अनाज्यपूर्व इति किम् - आज्यभागा स्यात्, भवति (2-2-46)
मूलम् - 1.1.57
मू॥ तमामन्द्रा, मित्रा, मनस्यमाना, मनुष्या, मुखा, मना, सुमेधा, मान्दा, मासा, मुञ्चमाना, चमाया, मुदा, मथ्नाना, मिश्रा, मेध्या, मुष्करा, मेघ्या, मरुत्वतीया, मुख्या, निष्परिमिताः ॥57॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
तमामन्द्राः - मधुमत्तमा मन्द्रा धनस्य (1-1-4) तमाग्रहणं किम् - मन्द्रा स्वर्वाच्यदितिः (3-2-16)
मित्राः - सुमित्रा न आपः (1-4-50)
मनस्यमानाः - सुमनस्यमाना वियन्तु (1-5-45)
मनुष्याः - मनुष्या जीवन्ति (1-7-8), मनुष्या वि (2-2-48,2-3-33), मनुष्या भवन्ति (2-5-38), मनुष्या वै (2-5-56,3-5-6), मनुष्या विधृताः (2-6-9), देवमनुष्या दिशः (6-1-1),
मनुष्या धावन्ते (6-1-6), मनुष्या वाचम् (6-1-45), मनुष्या नः (6-3-52), मनुष्या दधते (7-4-1)
मुखाः - विष्णुमुखा वै (1-7-24,5-2-1), ब्रह्ममुखा वै (5-2-36)
मनाः - सुमना भव (1-7-41,4-5-4,24), हतमनाः स्वयम्पापः (2-2-42), श्रद्धामना हविषा (2-3-54), सुमना नामेष्टिः (2-5-30), गतमनाः स्यात् (6-6-27), गतमना भवति (6-6-28)
सुमेधाः - सुमेधास्स्वाहा (2-4-16), सुमेधा मर्तेषु (4-2-7) स्विति किम् - मेधा नोप, नमति (3-4-33)
मान्दाः - मान्दा वाशाः (2-4-20,25)
मासाः - मासा वै (2-5-42,5-3-20), यदर्धमासा मासाः (5-7-8), दश मासा निषण्णाः (7-5-1,7)
मुञ्चमानाः - प्रमुञ्चमाना भुवनस्य (3-1-12)
चमायाः - याश्च माया मायिनाम् (3-1-40,41). चग्रहणं किं - आसुरी माया स्वधया (4-1-36)
मुदाः - मुदा भुवनस्य पते (3-4-20)
मथ्नानाः - विमथ्नाना यो ददाति (3-5-14)
मिश्राः - मिश्रा देवेभिः (4-6-21)
मेघ्याः - मेघ्या विद्युतः (5-2-61)
मुष्कराः - ये मुष्करा यत् (5-5-1)
मेध्याः - या एव मेध्या यज्ञियाः (6-1-7,6-4-8)
मरुत्वतीयाः - मरुत्वतीया गृह्यन्ते (6-5-15), मरुत्वतीया धनुः (6-5-16)
मुख्याः - तस्मात्ते मुख्या मुखतः (7-1-4)
निः, परि, इत्येवं पूर्वं मिता इति पदं विसर्गान्तं भवति ।
निः पूर्वं) मिताः - निर्मिता यथ्सामिधेन्यः (2-5-43)
परिपूर्वं) मिताः - परिमिता वा ऋचः (7-3-4). निष्परीति किं - सम्मिता यदग्निष्ठाम् (6-3-21), अपरिमिता भवति (5-1-4)
मूलम् - 1.1.58
मू॥ यज्ञा, यक्ष्मा, यज्ञिया, याजा, यशा, यजमाना, युक्ता, अयनीयस्य याज्या, यतनाः ॥58॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
यज्ञाः - समृतयज्ञा यत् (1-6-21), यज्ञा मदुदयनाः (6-1-34)
यक्ष्माः - एते यक्ष्मा विन्दन्ति(2-3-25,2-5-37)
यज्ञियाः - यज्ञिया देवताः (2-5-56), यज्ञिया यज्ञकृतः (2-5-11), यज्ञिया यज्ञियानाम् (4-6-4), यज्ञिया मा (7-3-34)
याजाः - प्रजानूयाजा यत् (2-6-6,6-1-37)
यशाः - सहयशा यशस्वती (4-4-34)
यजमानाः - यजमानाः स्व॒स्ति (4-6-22), यजमाना यन्ति (7-3-25), यजमाना॒ वै (7-3-26), यजमाना विश्वजित् (7-4-21), यजमाना यज्ञम् (7-5-9), यजमाना राज्यम् (7-5-25),
यजमाना देवबन्धात् (7-5-29)
युक्ताः - असय्युँक्ताः स्युः (2-5-43), दक्षिणा युक्ता यज्ञं (5-7-32)
अयनीयस्य याज्याः - प्रायणीयस्य याज्या यत् (6-1-38), [प्रातर्याज्याः स्युः (6-2-18) #26तः] अयनीयस्येति किं - शक्वरी याज्या वज्रः (2-2-45), उपरिष्टाल्लख्ष्मा याज्या जनिष्यमाणान् (2-6-11),
त्रिष्टुग्याज्या ब्रह्मन् (2-6-12)
यतनाः - अनायतना हि तस्मादाहुः (7-1-17)
मूलम् - 1.1.59
मू॥ स्त्रियो, वै, वः प्रियाः, जाताः, वो देवाः, रुचो, दक्षिणा, गर्भं, न इमा, द्वितीया, दश, देवेषु परो याः ॥59॥
व्या - एतेषु पदेषु परेषु सत्सु या इति पदरूपश्शब्दः विसर्गान्तो भवति । उदा -
स्त्रियः परः) याः - यास्स्त्रियस्समनसः (2-3-36,37)
वैपरः) याः - या वै देवतास्सदसि (3-2-12,6-1-11)
वः प्रियाः परः) याः - सय्याँवः प्रियाः (4-2-14). वः प्रिया इति किं - या वश्शर्म (1-5-51)
जाताः परः) याः - या जाता ओषधयः (4-2-24)
वो देवाः परः) याः - या वो देवास्सूर्ये (4-2-39,5-7-26). वो देवा इति किं - या वश्शर्म (2-1-60,2-3-54)
रुचः परः) याः - अश्वेषु या रुचः (4-2-39)
दक्षिणाः परः) याः - या दक्षिणा ताभिः (5-2-58)
गर्भं परः) याः - अग्निय्याँ गर्भं (5-6-1) यानासितवर्णा इति सूत्रे हिरण्यवर्णा इत्यृचः पठनेनैव तन्निष्ठस्य या इत्यस्य विसर्गप्राप्तौ सत्यां अत्र गर्भग्रहणं व्यर्थं इति केचिन्मन्यन्ते ।
(न इमाः परः) याः - या न इमाः प्रियाः (6-2-8). न इमा इति किं - अमीवा या नो गयं (1-8-42)
द्वितीयाः परः) याः - या द्वितीया यज्ञं (7-2-39)
दशपरः) याः - या दश दशाक्षरा (7-3-13)
देवेषु परः) याः - या देवेषु तनुवम् (7-4-43)
स्त्रिय आदि पर इति किं - या मम (1-2-20,1-3-8), या श्रोत्रम् (1-3-16), या वाम् (1-4-7,2-3-48), या वरिवोवित्तरा (1-4-23,2-1-63), या दिव्या (1-4-23,6-5-22),
या वः (1-5-51), या यज्ञे (1-7-8), या नः (1-8-42), या वेहत् (2-1-31), या भूमि (2-2-65), या वाजम् (2-2-66), या स्नाति (2-5-6), या दतः, नखानि, रज्जुम् (2-5-7),
या देवानाम् (3-1-37), या जायमानस्य (4-2-21), या द्याम् (4-3-11), या मनोता (4-4-37), या मध्यमा (4-6-10), या हिरण्यानि (4-6-44), या राजानम् (4-7-34),
या यज्ञस्य (5-4-7), या जिह्वा (5-7-33), या दुन्दुभौ (6-1-25,7-5-29), या वीणायाम् (6-1-25), या द्विरूपा (7-1-20), निर्या यत्, भवति (7-4-29)
मूलम् - 1.1.60
मू॥ रिहाणा, रेता, रथा, मुञ्चामिरशना, रण्वा, रक्षमाणा, रौद्रा, रजता, रात्रिया, रवा, रूपाः ॥60॥
व्या - एतानि पदानि विसर्जनीयान्तानि भवन्ति । उदा -
रिहाणाः - अक्त रिहाणा वियन्तु (1-1-22)
रेताः - सुरेता रेतः (1-2-12,1-6-14,1-7-18/19), यः सिक्तरेताः स्यात् (5-5-19), आत्तरेता हि (7-1-3)
रथाः - सुरथा मर्जयेम (1-2-31)
मुञ्चामिरशनाः - वि ते मुञ्चामि रशना वि (1-6-13,1-7-18) मुञ्चामीति किं - शीऱ्षण्या रशना रज्जुः (4-6-41), वै रशना यजमानेन (6-3-23), ओषधीना रशना विश्वेषाम् (6-3-24)
रण्वाः - समृतौ रण्वा नरः (2-1-62)
रक्षमाणाः - रक्षमाणा वावदतः (3-4-43)
रौद्राः - रौद्रा वै पशवः (5-1-7)
रजताः - रजता हरिणीः (5-2-61)
रात्रियाः - एष रात्रिया यत् (6-1-18)
रवाः - उपरवा हविर्धाने (6-2-56), उपरवा हनू, ग्रावाणः (6-2-59)
रूपाः - विषुरूपा यत् (1-3-18,6-3-58), बहुरूपा हि (2-3-13), विश्वरूपा विरूपाः (3-1-12), एवरूपाः स्रुचः (3-5-24), नानारूपा मातुः (4-3-23), विषुरूपा वै (5-3-36),
मेदोरूपा वै (6-3-57,61), विषुरूपा ह्येते (6-3-58), सरूपा विरूपा, एकरूपा यासाम् (7-4-43)
मूलम् - 1.1.61
मू॥ न वशा परः ॥61॥
व्या - सामीप्यात् रूपा इति लभ्यते । वशापरः रूपा इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा - (शापरः) रूपा - सा द्वि(बहु)रूपा वशाऽभवत् (2-1-41)
मूलम् - 1.1.62
मू॥ रुद्रा अनिङ्ग्यान्तः ॥62॥
व्या - इङ्ग्यस्यान्तः इङ्ग्यान्तः । इङ्ग्यान्तो न भवतीति अनिङ्ग्यान्तः । तथाभूतः रुद्रा इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा -
अनिङ्ग्यान्तः रुद्राः - रुद्रा द्वादश (3-5-7), रुद्रा वसवः (4-2-13,..), रुद्रा देवता (4-3-14), रुद्रा वितस्थिरे (4-5-27), रुद्रा यज्ञमुखम् (5-3-18), रुद्रा हविर्भागाः (5-5-39),
रुद्रा यत् (6-1-1), रुद्रा घातुकाः (7-1-17) अनिङ्ग्यान्त इति किं - सोमारुद्रा विवृहतम्, युवम् (1-8-42)
मूलम् - 1.1.63
मू॥ लिम्पा लोकाः ॥63॥
व्या - एते पदे विसर्गान्ते भवतः । उदा -
लिम्पाः - निलिम्पा नाम स्थ (5-5-44)
लोकाः - लोकास्स्नुवन्ति (2-1-28), लोका यवमयः (2-4-34), देवलोका देवलोकान् (2-5-66), लोका यत् (3-3-17), देवलोका द्वादश (5-1-53), लोका मण्डलेष्टकाः, देवपुराः (5-3-39),
लोकाः स्वयमातृण्णाः (5-5-24), लोका विधृताः (5-7-25), लोका यूपात् (6-3-15), लोका ज्योतिष्मन्तः (6-6-32), लोका भवन्ति (6-6-33)
मूलम् - 1.1.64
मू॥ न पश्चात्पूर्वः ॥64॥
व्या - सामीप्यात् लोका इति लभ्यते । पश्चात्पूर्वः लोका इति पदरूपश्शब्दः विसर्गान्तो न भवति ।
उदा - (पश्चात्पूर्वः) लोका - पश्चाल्लोका वै (6-3-43)
मूलम् - 1.1.65
मू॥ वल््शा, विक्था, विप्रा, वेदा, वया, वीरा, व्राता, वसव्या, वर्चा, वसिष्ठा, व्यचा, वैश्वानरा, वेशा, वरत्रा, वाता, विदाना, सव्रता, विद्या, वैष्णवा, वयस्या, एकव्रताः ॥65॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
वल््शाः - सहस्रवल््शा वि (1-1-23,1-3-9,6-3-15)
विक्थाः - मा संविक्था मा त्वा (1-1-5,1-3-22)
विप्राः - विप्रा विप्रस्य (1-2-25,4-1-1), विप्रा मतिभिः, वर्धन्ति (1-4-9,54), विप्रा नविष्ठया (1-8-8), विप्रा ह्येते (2-5-52)
वेदाः - विश्ववेदा दिफ्सन्तः (1-2-32), विश्ववेदा विभजतु (1-4-45), जातवेदा विचर््षणिः (3-2-19), विश्ववेदा देवः (4-1-29), विश्ववेदा देवानाम् (6-6-2)
वयाः - बृहद्वया विश्वजित् (1-5-44)
वीराः - सुवीरा ज्योक् (1-6-4), बद्धवीरा विशम् (2-3-5), सुवीरा याः (6-4-46), वीरा जायन्ते (7-1-33)
व्राताः - सर्वे व्राता वरुणस्य (1-8-19)
वसव्याः - देवा वसव्या देवाः (2-4-27)
वर्चाः - सुवर्चा वर्चसा (3-2-8)
वसिष्ठाः - वसिष्ठा भूयास्त (3-2-21)
व्यचाः - विश्वव्यचा वातः (3-4-20), उरुव्यचा नः (4-7-31)
वैश्वानराः - वैश्वानरा धूपयन्तु (4-1-22)
वेशाः - प्रतिवेशा रिषाम (4-1-38)
वरत्राः - सव्वँरत्रा दधातन (4-2-22)
वाताः - वृष्टिर्वातास्स्पृताः (4-3-16,5-3-17), अवस्युवाता बृहतीः (4-4-35)
विदानाः - सव्विँदाना नाकस्य (4-4-6)
सव्रताः - सव्रता ये (4-4-29/30). सेति किं - अनुव्रता भूत्वा, न्यु (1-1-16,1-6-8)
विद्या - विद्या वै धिषणाः (5-1-36)
वैष्णवाः - वैष्णवा वनस्पतयः (5-2-47), वैष्णवा वै (5-6-38), ऐन्द्रावैष्णवा गौरललामाः (5-6-47), आग्नावैष्णवा रोहितललामाः (5-6-49), वैष्णवा हि (6-2-56)
वयस्याः - वयस्या नानामनसः (5-3-3)
एकव्रताः - एकव्रता देवाः (6-2-27/28). एकेति किं - व्रता विदथे, ददन्ते (2-1-64,4-1-13) ^-[, एकपूर्वः व्रता इति शब्दः विसर्गान्तः भवतीति फलितम् ।]
मूलम् - 1.1.66
मू॥ यो, हि, भुवः, परो याज्यासु, विश्वाः ॥66॥
व्या - उभावामिन्द्राग्नी प्रभृतयः अग्निर्वृत्राणि पर्यन्ताः ये प्रश्नोत्तमानुवाकाः युक्ष्वाहीत्यनुवाकश्च, तेषां याज्या इति संज्ञा भवति । तथा चोक्तं काण्डानुक्रमण्यां - “अथ याज्यास्तु येऽध्याया उत्तमाः प्रश्नपङ्क्तिषु ।
युक्ष्वाहीत्यनुवाकश्च द्वाविंशतिरिति स्मृताः ॥” इति ॥ तासु याज्यासु यः, हि, भुवः, एतेषु पदेषु परेषु सत्सु विश्वा इति पदरूपश्शब्दः विसर्गान्तो भवति । उदा -
यःपरः विश्वाः - विश्वा यः (1-3-29)
हिपरः विश्वाः - विश्वा हि (2-4-45,4-1-45)
भुवःपरः विश्वाः - विश्वा भुवः (2-2-64) याज्यासु इति किं - विश्वा ह्यग्ने (4-1-27)
एवंपर इति किं - विश्वा भुवनानि (1-3-26[,1-2-15,1-7-40,3-2-5,4-6-6,4-6-14]), विश्वा द्वेषासि (2-5-72), विश्वा वयुनानि (2-5-74[,4-6-31]), विश्वा वार्या (2-6-61),
विश्वा भुवना (4-2-46[,5-5-39*]) [विश्वा दुरिता (1-2-4), विश्वा जातानि (1-8-28,3-2-21), विश्वा रूपाणि (3-5-1,4-1-41,7-4-43), विश्वा रेतासि (3-5-21),
विश्वा॒ वसू॑नि (4-2-9), विश्वा रूपा (4-2-21), विश्वा भूतानि (4-5-3)]* [अन्यत्रापि*]
मूलम् - 1.1.67
मू॥ शस्त्याः, शुद्धाः, शुक्राः, श्रवाः, शुष्काः, शर्मण्याः, कविशस्ताः, श्लोकाः, शफाः, शुभ्राः, श्रेष्ठाः, शराः ॥67॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
शस्त्याः - अभिशस्त्या वीतिहोत्रम् (1-1-20)
शुद्धाः - शुद्धा यूयम्, वयम् (1-3-15)
शुक्राः - शुक्रा भ्राजन्तः (1-3-31,1-5-19), शुक्रा वः (1-8-21),
श्रवाः - स्रवा ह (1-7-7), सुश्रवा वै (3-5-23)
शुष्काः - अपशुष्का विट् (2-1-28)
शर्मण्याः - शर्मण्या मित्रावरुणा (2-4-21), शर्मण्या देवाः (2-4-27)
कविशस्ताः - कविशस्ता वहन्तु (2-6-70). कवीति किं - अश्वस्याविशस्ता द्वा (4-6-45)
श्लोकाः - श्लोका यन्ति (4-1-2)
शफाः - शफा यजूषि (4-1-42)
शुभ्राः - शुभ्रा वथ्सासः (4-3-35)
श्रेष्ठाः - श्रेष्ठा नः (4-7-35)
शराः - शरा यत् (6-1-19)
प्रकृतयोग्यानि षादीनि पदानि न ।
मूलम् - 1.1.68
मू॥ सर्पाः, कृतस्स्योनाः, शतसाः, सहस्रसाः, सोम्याः, निषत्ताः, सत्यावः, स्तेनाः, सस्पिञ्जराः, सिकताः, सीसाः, स्थिताः, स्यन्दमाना, प्लुतसोमाः, त्रिषत्याः, आहसौम्याः, स्थावराः, स्परणाः, स्तोमाः, सृष्टाः, स्तुताः, सोमपीथाः, स्थाः ॥68॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
सर्पाः - सर्पा वै (1-5-13), सर्पा हेतिः (4-4-8), सर्पा देवता (4-4-26), सर्पाः स्युः, भवन्ति (6-1-69)
कृतस्स्योनाः - मधुकृतस्स्योना मा (1-5-23), [श स्योना भवन्तु (5-6-1,2)*26तः] कृत इति किं - अजातशत्रुः स्योना नः (4-4-36), सुशेवा स्योना मा (7-1-31)
शतसाः - शतसा वाज्यर्वा (1-5-50)
सहस्रसाः - सहस्रसा मेधसाता (1-7-35). शतसहस्रेति किं - सा विश्वायुः (1-1-4) [एतावुभावपि मिलित्वा ‘साः इङ्ग्यान्तः’ इत्येव सुवचम् । एनयोरेवेङ्ग्यत्वात् ।]
सोम्याः - सोम्या गम्भीरैः (1-8-8)
निषत्ताः - निषत्ता ये वा (2-6-68). नीति किं - उपसत्ता वर्धताम् (4-1-26)
सत्या वः - सत्या व आशिषः (3-2-26). व इति किं - सत्या मनसः (4-7-30)
स्तेनाः - स्तेना ये (4-1-39)
सस्पिञ्जराः - सस्पिञ्जरा नीलग्रीवाः (4-5-26)
सिकताः - सिकता निवपति, सिकता निवपति (5-2-15,31), सिकता व्यूहेत् (5-2-33,34)
सीसाः - सीसा युजः (5-2-61)
स्थिताः - अप्रतिष्ठितास्स्तोमाः (5-4-47), प्रतिष्ठिता यः (7-1-6), अप्रतिष्ठिताः स्युः (7-3-28)
स्यन्दमानाः - स्यन्दमाना यथावशम् (5-6-3)
प्लुतसोमाः - विचित्यस्सोमा (3) न (6-1-59) प्लुतेति किं - अग्नीषोमा ब्रह्मणा, हविषः (2-3-52)
त्रिषत्याः - त्रिषत्या हि (6-3-51) त्रीति किं - आकूतिस्सत्या मनसः (4-7-30) ^-[अत्र त्रिपूर्वः, वःपरो वा सत्याः इति शब्दः विसर्गान्तः इति फलति ।]
आहसौम्याः - इत्याह सौम्या हि (6-4-3) आहेति किं - भवति सौम्या व्यूहति (5-2-34)
स्थावराः - स्थावरा यत् (6-4-8)
स्परणाः - आत्मस्परणा वै (6-5-17)
स्तोमाः - स्तोमाश्श्रीः (7-1-34), स्तोमा व्यतिषक्ताः (7-4-13)
सृष्टाः - ऋतवस्सृष्टा न व्यावर्तन्त (7-1-36)
स्तुताः - ते स्तुता विराजम् (7-4-33,34)
सोमपीथाः - एतथ्सोमपीथा ह्येतऱ्हि (7-5-18)
स्थाः - प्रस्तरेष्ठा बऱ्हिषदः (1-1-23), विष्ठा जनयन्न् (1-7-46), जगत्स्था देवाः (2-1-63), समुद्रेष्ठा गन्धर्वम् (3-5-21), परिष्ठाः स्तेनः (4-2-26), ऋतस्थाः स्थ (4-4-32), ऋतुस्था यः (5-7-29),
सधस्था विद (5-7-30)
मूलम् - 1.1.69
मू॥ न प्रतिपूर्वः ॥69॥
व्या - सामीप्यात् स्था इति लभ्यते । प्रतिपूर्वः स्था इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा -
प्रतिपूर्वः स्था - प्रतिष्ठा यः (3-1-6,7,5-5-28), प्रतिष्ठा हि (5-1-43,7-3-29), प्रतिष्ठा वै (5-2-19,5-3-12,17,19), प्रतिष्ठा गार््हपत्यः (5-2-19)
मूलम् - 1.1.70
मू॥ स्थिरा अनवपूर्वः ॥70॥
व्या - अव इति पदं पूर्वं यस्य सः अवपूर्वः । अवपूर्वो न भवतीति अनवपूर्वः । तथाभूतः स्थिरा इति पदरूपश्शब्दः विसर्गान्तो भवति । उदा -
स्थिरा (अनवपूर्वः) - स्थिरा वः (4-6-19). अनवपूर्व इति किं - अव स्थिरा म॒घव॑द्भ्यः (4-5-24)
मूलम् - 1.1.71
मू॥ अनृक्षु साध्याः ॥71॥
व्या - न विद्यन्ते ऋचः येषु अनुवाकेषु ते अनृचः । तादृशेष्वनुवाकेषु साध्या इति पदं विसर्गान्तं न भवति । उदा -
अनृक्षु अनुवाकेषु साध्याः - साध्या वै (6-3-26,28,7-2-1). अनृक्षु इति किं - साध्या हविः (5-1-59)
मूलम् - 1.1.72
मू॥ सर्वाः ॥72॥
व्या - सर्वा इति पदं विसर्गान्तं भवति । उदा -
सर्वाः - सर्वा देवताः (2-1-23,…)*#24, सर्वा निर्वपेत् (3-4-35), सर्वा दिशः (3-5-30,..), सर्वा मृधः (4-1-7), सर्वाः स्वाम् (4-1-37,..), सर्वा वाञ्छन्तु (4-2-4,5-2-4), सर्वा वाचः (7-5-30)
मूलम् - 1.1.73
मू॥ न वै परः ॥73॥
व्या - वै इत्येवं परः सामीप्याल्लब्धः सर्वा इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा - वैपरः सर्वा - सर्वा वा इयम् (5-6-18)
मूलम् - 1.1.74
मू॥ हिमा, होतव्या, हाया, हायना, हारुका, होत्राः ॥74॥
व्या - एतानि पदानि विसर्गान्तानि भवन्ति । उदा -
हिमाः - शतहिमा द्युमन्तः (1-5-20)
होतव्याः - होतव्या जयति (3-4-15), होतव्या राष्ट्रम् (3-4-22,24), होतव्या यावन्तः (3-4-23), होतव्या गन्धर्वाफ्सरसः (3-4-25), होतव्या वर्ष्म (3-4-28)
हायाः - यद्विहाया धाता (4-6-6)
हायनाः - एकहायना मनुष्याः (6-1-45)
हारुकाः - हारुकास्स्वाम् (5-6-19)
होत्राः - होत्रा दधे (1-2-25,4-1-1), होत्रा यच्छ(1-3-22), होत्रा मधोः (3-2-29), होत्रा वै (5-1-36)
मूलम् - 1.1.75
मू॥ न दे परः ॥75॥
व्या - दे इत्येवं परः सामीप्याल्लब्धः होत्रा इति पदरूपश्शब्दः विसर्गान्तो न भवति । उदा -
दे परः होत्रा - होत्रा देयः (2-2-57), होत्रा देवाः (6-3-36) दे इत्यस्मिन् एकारेण किम् - वि होत्रा दधे (1-2-25)