विस्तारः (द्रष्टुं नोद्यम्)
पराङ्कुशाचार्य-वैदिक-अध्ययन-संस्था॥
सप्तलक्षणपरिष्कारः ।
श्रीः । श्रीमते लक्ष्मीनृसिंहपरब्रह्मणे नमः ।
श्रीमते लक्ष्मीहयवदनपरब्रह्मणे नमः ।
श्रीमते श्रीवण्शठकोपश्रीवेदान्तदेशिकयतीन्द्रमहादेशिकाय नमः ।
श्रीमते श्रीलक्ष्मीनृसिंहदिव्यपादुकासेवकश्रीवण्शठकोपश्रीनारायणयतीन्द्रमहादेशिकाय नमः ।
मङ्गलम्, प्रतिज्ञा
प्रणम्य शिरसाऽऽचार्यांस्
तदादिष्टेन वर्त्मना ।
वेदपूरुषसम्प्रीत्यै
स्वल्पायासो विधीयते ॥
वात्स्यरामानुजार्येण
तैत्तिरीयमधीयता ।
तत्कृपामात्रसम्पन्नः
किञ्चित्कारो निवेद्यते ॥
पराङ्कुशार्यवर्याणां
शतमानमहे सताम् ।
कीर्तिप्रसरवाञ्छोद्यद्-
यत्नेन विदुषां मुदे ॥
प्रकाश्यते परिष्कारः
सप्तलक्षणगोचरः ।
सटीकः स्वरयुक्तश्च
नागरैरक्षरैरयम् ॥
शमानं विलङ्घ्यं न,तान्ते क्रमेणाप्य्
अवर्णि ह्यथाऽऽवर्णि चाऽनिङ्ग्यमन्ते ।
सटीकं विशेषैर् युतं नव्यशैल्या
सुदृष्टान्तसूच्यादियुक्तं विभाति ॥
प्रत्नकं ग्रन्थतो वान्ध्रतो दुष्पठं
पुस्तकं सुश्रुतं संशय-च्छेदकम् ।
लक्षणैः सप्तभिः संयुतं सस्वरैर्
नागरैरक्षरैः मुद्रितं नूतनम् ॥
निवेदनम्
विलम्बित-प्रकाशनम्
अनेक-प्रणति-तति-पूर्वकम् इदं विज्ञाप्यते यत्
सप्तलक्षण-नामकस्य तैत्तिरीय-शाखायाः पद-क्रमाद्यध्ययनकाले बह्व्-आदृतस्य प्रसिद्ध-लक्षण-ग्रन्थस्य
नूतनं परिष्करणं देवनागरी-लिप्यां मुद्रितं सत्
भवताम् अभ्यर्हणतया प्रस्तूयत इति ।
सारासारविवेकज्ञाः, गरीयांसः, विमत्सराः, प्रमाण-तन्त्राः तत्रभवन्तो भवन्तः
ग्रन्थम् इमम् आमूलाग्रं सूक्ष्मेक्षिकया परामृश्य
गुण-दोष-विचार-प्रस्तावनेन अनुगृह्णन्तु इमं दास-जनम् इति च ।
बहोः कालात् (त्रिंशाधिकवर्षेभ्यः) पूर्वं
मम अध्ययन-काल एव सम्पन्नम् अपि
इदं कारणान्तरेभ्य इदानीम् एव प्रकाश्यते ।
अनेन विलम्बेनापि
इदानीं प्रयोजनान्तरम् एकं प्रतिभाति यत्
कम्प्यूटर्-यन्त्रे वैदिक-वाङ्मय-विश्लेषण, षडङ्गैः सह व्युपत्त्याद्यर्थं
यथासंख्यं व्यास,देशिक-नामभ्यां दासेन परिकल्पित-परिपाटी-विशेषाभ्यां
सम्यक् परीक्ष्य विविध-सूच्यादिभिः साकं मुद्रण-सौकर्यं सञ्जातम् इति ।
कानि सप्तलक्षणानि?
उपर्युक्तरीत्या शमानम्, विलङ्घ्यम्, नपरम्, तपरम्, अवर्णि, आवर्णि तथा अनिङ्ग्य-नामकैः सप्तभिः प्रकरणैर् युक्तम्
एतत् सप्तलक्षणम् इति प्रथते ।
एषां कर्तारो भिन्ना एव,
शैली च भिन्ना ।
अपि तु आहत्य एक-ग्रन्थत्वेन पूर्वैः सङ्कलितः,
विद्वद्भिर्-आदृतश् च वरीवर्ति ।
प्रथमं विहाय
अन्यानि सर्वाणि +अपि
श्लोक-रूपेण रचितानि ।
अत्र सप्तसु अपि लक्षणेषु
इङ्ग्य-पदानां नाना-पदत्वं,
प्रातिशाख्योक्तदिशा स्वीकृत्य
लाघवं साधितम् अस्ति ।
उदाहरणेषु प्राप्त्यप्राप्तिव्यवस्थायाः कृते पूर्वोत्तरपदयोः,
स्वराणाम्, इङ्ग्यानिङ्ग्यभेदस्य, निर्दिष्ट-संहिता-भागस्थत्वस्य उपयोगः,
उत्सर्गापवादरूपेण नियमश् च क्रियते ।
एषां क्रमेण विवरणम् एवम् -
१. शमाने यजुः-संहितायाम् आकारप्लुतपूर्वः घोषवद्व्यञ्जनशसकारपरः विसर्जनीयः येषु पदेषु लुप्यते, तेषां सङ्ग्रहः अकारादिवर्णक्रमेण पठितः । यथा ’अघ्निया देवभागम्’, ’प्रजा स्यात्’ इत्य्-आदिषु अघ्निया, प्रजा इति पदयोः स-विसर्गत्वे अन्यथा च संहितायां रूपैक्यात् सन्देहः संभाव्यते, तादृश-स्थलेषु स-विसर्ग-पदानां सङ्ग्रहः क्रियत इति । एतत्-प्रकरणं सूत्र-शैल्या ७६ सूत्रैः निबद्धम् अस्ति । अत्र ३७८ पदानि निर्दिष्टानि सन्ति । अत्रत्यवैशिष्ट्येषु प्रातिशाख्योक्तकतिपयसंज्ञावतां संहिता-भागानाम् उपयोगः यथा ’त्रैंशकम्’ (सू.२२), ’याज्या’ (सू.६६) इत्य्-आदि, प्रारम्भप्रतीकगृहीताः केचन अनुवाकाः, बहुवचन-वाचक-पद-समभिव्याहारस्योपयोगः, यथा २६सूत्रे, ७१तमसूत्रे ’अनृक्षु’ इति व्यावर्त्य-भाग-निर्देशः इत्य्-आद्यवधेयम् । ३३तमसूत्रे समभिव्याहृत-पदान्तरस्य प्रकृत-पदात् उत्तरवर्ति-पञ्चपदान्तर्भावः निर्दिष्ट इति च द्रष्टव्यम् । अस्य प्रकरणस्य रचयितृ-विषये न किञ्चिन्-निर्दिष्टम् । वैद्यनाथ-नामक-विदुषा अस्य व्याख्यानम् आरचितं ग्रन्थलिपि-पुस्तके मुद्रितम् अस्ति ।
२. विलङ्घ्य-प्रकरणं नारायण-नामक-विदुषा रचितम् । स्वेन एव व्याख्यातं च । एतत् ४९श्लोकैः निर्मितम् अस्ति । अत्र संहितायां यौ एकार, ऐकार-वर्णौ विकारिणौ भवतः तदन्तानि पदानि अकारादिक्रमेण सङ्गृहीतानि । ’कर्मण आप्यायध्वम्’, ’देवयज्याया अवधूतम्’ इत्य्-आदिषु पूर्व-पदे एकार, ऐकार-सत्त्वे वा स-विसर्गक अकार, आकार-सत्त्वे वा संहितायां रूपैक्यात् तादृश-सन्देह-परिहाराय एकारैकारवतां सङ्ग्रहः क्रियत इति । अत्रत्यवैशिष्ट्येषु आदौ परिभाषाणां सङ्ग्रहः, श्लोक-पूरणार्थम् उपयुज्यमानानां पदानां निर्देशः, त्रैंशकादि-संज्ञोपयोगः, केषाञ्चित् अनुवाकानां निर्देशः इत्य्-आद्यवधेयम् । अस्मिन् लक्षणे इयन्त एव विलङ्घ्य-शब्दाः इत्य्-उद्घुष्टम् अस्ति (श्लो.४९) । ३९२ पदानि अत्र पठितानि ।
३,४. नपर, तपर-प्रकरणयोः रचयिता शौरिसूनुः नाम पण्डितः । अत्र अपि परिभाषा आरचिता यत्र अनुबन्ध-चतुष्टयं सम्यङ्-निर्दिष्टम् । पदान्तः नकारः च,छ,ज,त,द,ध,न,म,लकारेषु परेषु सत्सु विकारम् आपद्यते । स च विकारः संहितायां मकारान्तपदस्य अपि समानः । अतः तादृश नान्त, मान्तत्व-शङ्का-निरासः अत्र विधित्सितः । एवम् एव तकारान्तः विकृतः, नकारान्तः वा प्राकृतः शब्दः नकारादौ पदे परे संहितायां समान-रूपं भजत इति तान्त, नान्त-सन्देह-निरासाय तान्तानां पठनं च । अस्मिन्-अंशे परिष्कारे विवरणं द्रष्टव्यम् । पूर्वं नकारान्तानाम्, अनन्तरं तकारान्तानां च अकारादिक्रमेण सङ्ग्रहः कृतः । नपरे सार्ध-२८ तथा तपरे ११ श्लोकाः सन्ति । ग्रन्थ-कर्त्रा एव वृत्तिः विहिता । नपरे १५२ तथा तपरे ७८ पदानि पठितानि ।
५,६. अवर्णि, आवर्णि-प्रकरणयोः ओद्-एद्-अवर्ण-सञ्छन्नं संहितायां पदादिगम् अवर्णं ज्ञातुं नियमाः विहिताः । अत्र अपि परिभाषा निर्मिता यत्र कीदृश-सन्दर्भेषु पद-आदि-गः अकारः आकारः वा भवति इति प्रतिपादितम् । ’पुत्रो जातः’, ’ये कर्णाः’, ’परा भूवम्’ इत्य्-आदिषु ओकार, एकार, अवर्णेषु (अकार, आकारयोः) सञ्छन्नं पद-आदि-गम् अकारं ज्ञातुं क्लेशो भवेद् इति अकारादीनां प्रथमम्, अनन्तरं च आकारादीनां पदानां पाठः अकारादिक्रमेण क्रियत इति । अत्रत्यवैशिष्ट्येषु श्रुति, श्रुत्, शब्द एतेषु अन्यतमेन उक्तस्य पदस्य विभक्त्यादिभिः भिन्नाकाराणाम् अपि अवर्णादित्वं विधीयते । तादृश-शब्दानां (प्रातिपदिक) श्रवणमात्रेण एव अकार, आकार-पूर्वकाः इति ज्ञेयम् इत्य्-उच्यते । सार्ध-४१-श्लोकैः अवर्णि-प्रकरणं तथा सार्ध-२३-श्लोकैः आवर्णि-प्रकरणं च रचितम् अस्ति । अवर्णिनि ३१७ तथा आवर्णिनि १७७ पदानि पठितानि सन्ति ।
अनयोः ग्रन्थ-कर्तृ-नाम न निर्दिष्टम्, उभयोर् अप्येककर्तृकत्वं, स्वोपज्ञव्याख्यावत्त्वं च ज्ञायते ।
७. अनिङ्ग्य-प्रकरणे सप्तमे बृहत्तमे च परिभाषा-रूपेण २४श्लोकाः तथा प्रकरणे ७७ श्लोकाः च सन्ति । देवी-मनीषि-सुतेन श्रीवत्साङ्क-नामकेन विदुषा रचितम् इदम् । इङ्ग्य-सादृश्यात् यत् अनिङ्ग्यं पदम्, इदम् इङ्ग्यं वा अनिङ्ग्यं वा इति सन्देहास्पदं भवति, तादृश-शङ्का-निरासाय बहु-प्रकारेण अनिङ्ग्य-पदानां ज्ञानम् अत्र विधित्सितम् ।
अनिङ्ग्यं नाम, अविभाग-पदम्, पद-काले पुनर्-उच्चारण-रूप-वेष्टनं च विना उच्चार्यमाणं पदम् । यथा ’उपायव इत्युप-आयवः’ इति इङ्ग्यं पदं वेष्टनवत्त्वात् । तद्-व्यतिरिक्तः ’उपहत्नुम्’ इति अविभागेन उच्यमानं पदम् अनिङ्ग्यम् । ’आशुषेणायेत्य्-आशु-सेनाय’ इति इङ्ग्यम्, ’आशुशुक्षणिः’ इति तु अनिङ्ग्यम् इति च दुरूहं सन्देह-ग्रस्तं च । यथा च ’प्रजा’-शब्दस्य ’प्रजापति’-शब्दस्य च इङ्ग्यत्वे ऽपि ’प्रजापतेर्-हृदयेन’ इत्यस्य अनिङ्ग्यत्वं सन्देहास्पदम् एव भवति खलु । तस्य च ज्ञानं प्रकारान्तरेण न सुगमम् ।
यद्यपि समग्रस्य अनिङ्ग्य-पद-जातस्य परिगणनं क्लिष्टं, तथापि दिङ्-मात्र-प्रदर्शनं क्रियत इत्य्-उक्तम् । अत्रत्यपरिभाषाविषयाणां श्लोकोक्तपदानां च रूपेषु (विशिष्य श्रुति,श्रुच्,छब्दैः अन्यतम-निर्दिष्टेषु) तथा अपदात्मकैः विकृतानाम्, अकाराद्यन्कारादीनां च पौनरुक्त्यादिकं तत्र-तत्र संभाव्यते, केषुचित् स्थलेषु प्रदर्शितं च परिष्कारे । अत्र ७६४ शब्दाः पठिताः, अपि तु श्रुति, श्रुत्, शब्द-निर्देशेन तेषां आधिक्यं प्रसज्यते ।
इयता सप्तानाम् अपि लक्षणानां नाम-आदि-निर्देश-पुरस्सरं तत्र विधीयमान-पद-ज्ञान-सौकर्य-विषये किञ्चित् प्रस्तुतम् । ग्रन्थस्य स्थूलः परिचयश् च विहितः । आहत्य २१५६ शब्दाः मूले विषय-भूताः, तथा व्याख्या, परिष्कारयोः एषां परः-सहस्रम् उदाहरणादिकं प्रदर्शितम् इत्य्-अनेन अध्ययन, अध्यापन, संशोधन, विमर्शादिषु आधीयमानस्य उपयोग-विशेषस्य महत्त्वं ज्ञायते ॥
इयद् एव पर्याप्तं वा? एतद्-भिन्नानां अस्य च कः विशेषः? प्रातिशाख्यादिषु लक्षणान्तरेषु (षड्विंशति-सूत्रादि) शिक्षा-ग्रन्थेषु (व्यास-शिक्षा, भारद्वाज-शिक्षा, पारि-शिक्षादिषु) च निहिताः विषयाः सर्वे अत्र सन्ति वा? इत्य्-आद्यनेकविचाराणां कृते उपयुक्तः स्याद् एष उद्यम इति स-विनयं प्रार्थ्यते ।
परिष्कार-कृत्यम्
अत्र सप्तानाम् अपि लक्षणानां पृथक् उक्त-अनुक्त-दुरुक्त-चिन्ता यन्त्र-सौकर्येण विहिता अस्ति । यद्यपि ऋषीणां तच्-छिष्य-सन्तति-गतानां ऋषि-प्रायाणाम् अस्माकं पूर्वजानां मेधा-विलासादि-विषये न किम् अपि संशेतव्यम् अस्ति, तथापि अर्वाचीनानाम् अध्येतॄणां कृते सर्वेषां उदाहरणानां, प्रत्युदाहरणानां, इङ्ग्य-अनिङ्ग्य-पद-गतानां पृथक्-करणादि-सौकर्यापेक्षा विद्येत इति मत्वा तद्-अर्थं यन्त्रोपयोगेन समीक्षा विहिता । एषा अपि श्रद्धा-द्रढिम्ने प्रभवति । पूर्वं तैत्तिरीय-संहितायाः, पद-पाठस्य च मूल-रूपं यन्त्रे आयोजितम् । ततः समग्रस्य पद-पाठस्य अकारादिक्रमेण सूची निर्मिता ।
अनन्तरं कम्प्यूटर्-सौकर्येण अन्वेषणार्थं सौकर्यं कल्पितम् । तद् उपयुज्य यद् इष्टं तद् गृह्यते, परीक्ष्यते च । अतः इङ्ग्यानिङ्ग्यविभागो ऽपि स्व-अन्वेषणीयः । उदाहरण, प्रत्युदाहरणादीनां कृते झटिति गवेषणं मस्तिष्के इव यन्त्रेण विहितम् । इदानीम् अस्मात् किम् आसादितम् इति प्रस्तूयते ।
यत्र मूले एव दिङ्-मात्र-प्रदर्शनम् उद्घुष्टम् अस्ति, तत्र अयं प्रयासः साक्षात् विधेय एव इति स्पष्टम् एव, यथा अनिङ्ग्य-प्रकरणे (श्लो.७६) । यत्र तु इयद् एव, न अधिकं न्यूनं वा, इत्य्-उद्घुष्यते, तत्र तत्-परीक्षा अपि स्थाने एव इत्य्-अपि अपरोक्षम् इदं, यथा विलङ्घ्य-प्रकरणे (श्लो.४९) । यत्र उक्त-उभय-विधम् अपि न उद्घुष्यते, तत्र इयत्तया ज्ञानार्थम् एष प्रयत्न इति सप्तसु अपि लक्षणेषु परामर्शः कृतः सफलः वेदितव्यः । सर्वोदाहरण-प्रदर्शनं च विधित्सितम् अत्र ।
पूर्वतनी स्थितिः
अस्य लक्षण-ग्रन्थस्य व्याख्यान-सहितस्य ग्रन्थ-लिप्या मुद्रणम् ईसवीय १९१८ वत्सरे कुम्भघोण-नगरात् सञ्जातम् । पुनः आन्ध्र-लिप्या लक्षण-त्रय-नामक-ग्रन्थार्गतत्वेन मूल-मात्रस्य मुद्रणम् ईसवीय १९१९ वत्सरे अभूत् । अनयोः पूर्वतनस्य अद्यत्वे ग्रन्थ-लिपि-ज्ञानस्य विरलत्वात्, अनन्तरस्य मूल-मात्रस्य व्याख्यां विना न अति-उपयुक्तत्वाच् च देवनागरी-लिप्यां स-व्याख्यस्य अस्य मुद्रणम् अपेक्षितम् आसीत् । प्रकृत-प्रयत्नेन एषा अपेक्षा अपि पूर्यते ।
अद्यतनी स्थितिः
यद्यपि ग्रन्थ-लिपिस्थ-पुस्तकस्य एव अत्र आधारत्वेन स्वीकारः कृतः, अथापि अत्रत्याः असाधारणाः केचन विशेषाश् च प्रस्तूयन्ते ।
प्रथमतः उदाहरणानां स-स्वर-प्रदर्शनं, तेषाम् आकर-प्रदर्शनं, सामस्त्येन उपस्थापनम्, उक्त-पुस्तकस्थोदाहरणानां स्थाने तेषां संहितायां प्रथम-वारोपस्थितानां उपयोगः, तत्रत्य-अशुद्ध-शोधनम्, पठितृ-सौकर्यार्थम् उदाहरणानां पृथक्-पङ्क्तिषु दर्शनं, प्रति-प्रकरणं सूत्र/श्लोकानां, तद्-गत-पदानां च सूची-निर्माणम्, आहत्य च एकम् इत्य्-आदयः निर्देशम् अर्हन्ति ।
परिष्कार-सौविध्यम्
पितृ-चरणैः यदा अहम् अध्यापितः, तदा तैः एव निर्दिष्टो ऽहम् इमं पुस्तकं (मम दिवङ्गत-ज्येष्ठ-भ्रात्रा साकं) लिखितवान् । इदानीं कम्प्यूटर्-प्रणाली-द्वारा विस्तरेण परामृश्य सूच्यादिभिः साकम् आयोज्य मुद्रापयितुं प्रवृत्तः । एष ग्रन्थः कम्प्यूटर्-यन्त्रे ऽपि यथा दृश्यः, अन्वेषण, शोध, विमर्शादि-कार्येषु च उपयोक्तुं शक्यश् च भवेत्, तथा निर्मितो ऽस्ति इति विद्यते सौविध्य-अन्तरम् आधुनिक-यन्त्र-सौकर्यवताम् ।
सप्तलक्षण-ग्रन्थ-गौरवम्
सप्तलक्षण-ग्रन्थस्य प्रयोजनान्तरं मया तदा अनुभूतं यदा अहं कम्प्यूटर्-यन्त्रे तैत्तिरीय-पद-पाठस्य शोधने प्रवृत्तः आसम्, यतः, यदि पाठे अशुद्धयः स्युः, तर्हि अन्य-विकृति-पाठेषु जटा, घनादिषु अस्य परिणामः भवेत् । लक्षण-ग्रन्थैः ईदृश-सन्दर्भेषु महत्-सहाय-सिद्धिर् अस्ति इति वेदाङ्गेभ्यो ऽपि केवल-अध्यायिनां कृते ईदृशाः अति-उपयुक्ताः । समीप-काले कन्नड-लिप्या तैत्तिरीय-संहितायाः क्रम-पाठस्य समग्रस्य मुद्रणं संजातम् अस्ति, अपि तु तत्र काश्चन अशुद्धयः प्रविष्टाः, यन्-निरासः विना लक्षण-ज्ञानं न सुशकः ।
’पद-प्रकृतिः संहिता’ (ऋ.प्रा.२.१), ’तस्य एव आत्मा पद-वित् तं विदित्वा, न कर्मणा लिप्यते पापकेन’ (तै.का.३.५६) इति पद-ज्ञानस्य श्रैष्ठ्यम् अभिहितम् । तत्र लाघवेन असन्देह-सिद्धये उपकुर्वन्ति ईदृश-ग्रन्थाः इति स-लक्षण-घन-पाठिनां वा अधीयानानां वा लाभः अविशिष्टः एव इति अत्रत्य-प्रयासः तेषां ज्ञाने उपकुर्याद् इति विश्वसिमि । केषांचित् शब्दानां विषये तु मार्गान्तरं क्लिष्टं, यथा इदं-शब्द-रूपेषु बहुलम् उपलब्धेषु (आभ्याम्, आभिः, एभ्यः, अस्मै, अस्यै, अस्मात्, अस्याः, अस्य, एषाम्, आसाम्, अस्मिन्न्, अस्याम्, एषु इत्य्-आदिषु) कुत्र कीदृशः शब्दः इति ज्ञातुं सौकर्य-कल्पनम् एव इदानीं प्रक्रान्तम् ।
बहुत्र ’तृन्-तृचौ’ (३.२.१३५,६.४.११), ’तव्यत्-तव्य-अनीयर्-अः’ (३.१.९६), ’क्तिन्-क्तिचौ’ (३.३.९४,१७४), ’ययतोः..’ (६.२.१५६) इत्य्-आदि-प्रत्ययवत्सु पदेषु स्वर-भेदेन अर्थ-भेदश् च भवति इति तेषां ज्ञानार्थम् अपि पद-पाठ-सामीचीन्यम् अपेक्ष्यते । तत्र मुद्रित-पाठे दोष-सम्भवे लक्षण-ग्रन्था एव शरणीकरणीया इति च स्फुटम् इति अत्रत्य-प्रयास-साफल्यं वेदितव्यम् । ’तिङ्-ङतिङः’ (८.१.२८), ’यद्-वृत्तान्-नित्यम्’ (८.१.६६) इत्य्-आदि-सूत्रोक्त-दिशा तिङन्तादीनां ’यो हि प्राप्ति’ (८.१.३४) र् इति वैदिकेषु प्रसिद्धेन प्रक्रिया-विशेषेण च सन्देह-निरासाय उपकारः अपेक्षितः ।
विहिताः विमर्शाः
इदानीं परिष्कार-गत-विशेषाणां केषाञ्चिद् अंशानां स्थाली-पुलाक-नयेन उल्लेखः क्रियते विद्वद्भिः गुण-दोष-विमर्श-विधानार्थं स-दोषत्वे ज्ञापन-रूप-अनुग्रहार्थं च ।
तत्र शमान-प्रकरणे उदाहरणेषु विसर्ग-रहितानि आकारान्त-पदानि घोषवद्-व्यञ्जन-उत्तर-श-सकार-पराणि प्रत्युदाहरणत्वेन अन्विष्यन्ते, इङ्ग्येषु अनिङ्ग्येषु वा पदेषु । लक्षणोक्तानाम् अपवादानां च परीक्षा विधीयते ।
प्रातिशाख्य, काण्डानुक्रमणिका-आदि-उक्त-संज्ञावन्-मन्त्र, अनुवाक, प्रश्न-आदि-गतत्वेन लक्षितानां उदाहरणानां विषये तद्-भिन्न-प्रदेश-स्थित-प्रत्युदाहरण-परीक्षा विहिता । यथा त्रैंशिक, याज्यादि । यन्त्र-सौकर्येण तादृश-उदाहरणान् अपि अन्यैः साकं मिलित्वा निर्देशः कृतः, सूच्यां निर्दिष्टश् च । ’स्युः, स्थ, भवन्ति, भवन्तु-परः’ (सू.२६) इत्यस्य पौनरुक्त्यादिविचारश् च कृतः । यथा बस्तेन अजाः (सू.३), मधुमत्तमाः (सू.३५) अनयोः, तिस्रो ऽजाः (सू.२२), उत्तमा भवन्ति (सू.२६) इत्य्-एतयोः उदाहरणयोः । इमा मे, जोषसेमास् ता इमाः (सू.१२) इत्य्-एषां गिर इमा भवन्तु (सू.२६) इत्य्-आदिषु च । शत-साः, सहस्र-साः (सू.६८) इति स्थाने साः इङ्ग्य-अन्तः इति युक्तम् । प्रथम-सूत्रे ’लुप्यते’ इति दलस्य प्रयोजन-प्रदर्शनम् अपि विद्वद्भिर् अवधेयम् ।
ईदृश-विवरणादि विहाय शमाने अन्यत् किम् अपि न हीनम् इति च अस्मात् विमर्शात् अवसितम् अस्ति । संहिता-विषयत्वम् अस्य लक्षणस्य यद्यपि स्पष्टम् एव, तथापि तस्य प्रकारान्तरेण आक्षिप्य समाधातुम् अपि शक्येत इति च प्रदर्शितम् ।
विलङ्घ्ये तावत्, प्रतिशाख्यस्थ-लोपालोप-प्रकरण-गतानां पदानां अत्र अनुदाहरणत्वं ’संहितायां विकारिणौ’ (परि.#2) इति वचनात् सिध्यति इति तत्र-तत्र प्रदर्शितम् । एकारान्तानां तु प्रगृह्यत्वम् अपि विलङ्घ्यत्व-बाधकम् इति च प्रसिद्धम् एव । कुत्रचित् अतिव्याप्ति-प्रसङ्गश् च उद्भावितः । यथा अन्ये-अन्ये इति पदस्य (आम्रेडितस्य) अवग्रह-भूतस्य अन्ये (#2) इत्यस्य । विकारे लोपः अन्तर्भवति न वा इति विचारणीयम् । व्योमने (श्लो.१०) इत्यस्य स्थाने ओमने इति, १३श्लोके ख्यात्यै इत्य्-एव च अलम् ।
नपर-प्रकरणे सन्देह-सम्भावना-विवरणं विहितम् । मान्त-शङ्का-युक्-प्रत्युदाहरणानि च आयोजितानि ।
तपरे न विशेषः ।
अवर्णि-प्रकरणे दशम-श्लोके ’उपसर्गेङ्ग्य-पूर्वो ऽकः’ इत्यस्य व्यस्त-पदे ऽपि दृश्यत्वम् उक्तम् । २६तमे श्लोके अमा-शब्दे अवग्रह-वर्तित्वस्य विहितस्य वैयर्थ्यं प्रति-दृष्टान्त-अन्तरेण स्थापितम् । ३६तम-श्लोके ’अवरेतताः’ इत्यस्य स्थाने ’परे ऽवरे’ इति वक्तव्यत्वं निश्चितम् । ४०तमे श्लोके ’अस्यां निहतो न तु’ इत्यस्य अपवादः प्रदर्शितः ।
आवर्णि-प्रकरणे द्वादश-श्लोक-पठित आमयाविनः इत्यस्य दृष्टान्ताभावात् त्याज्यत्वं युक्तम् ।
अनिङ्ग्य-प्रकरणे बहूनां श्रुति, श्रुत्, शब्द-आदि-निर्दिष्टानां पदानां विषये विस्तरेण विमर्शानन्तरम् एवं स्याच् चेत् वरम् इति निर्दिष्टम् अस्ति । उदा - २६तमे श्लोके गायत्री-श्रुतिर् इति स्थाने गायत्र-श्रुतिर् इत्यस्य अपि युक्तत्वं दर्शितम् । ?, *, [ ] इत्य्-आदि-चिह्नैः तत्र-तत्र विशेषाः प्रदर्श्यन्ते ।
परिभाषा-गतानां विषये बहुधा प्रपञ्चः कृतः समस्त-प्रकार-दृष्टान्त-उपस्थापनेन । ग्रन्थस्य अति-विस्तर-भिया कुत्रचित् विवरणं न दत्तं, यत् तु वैदिकैः अन्यत्र दर्शित-पथा स्वयम् एव ऊहितुं शक्येत, न-चेद् अपि पश्चात् वैदिक-सङ्गोष्ठ्यादि-आयोजनेन विम्रष्टुं चिन्ता अस्ति ॥
एवं पितृ-चरणानां सकाशात् तद्-अनुग्रह-लब्ध-यत्-किञ्चिज्-ज्ञानो ऽहं चापलात् केवलात् वेद-पुरुषस्य कैङ्कर्ये प्रावर्तिषि इति साहसम् अमुं दयया क्षमन्तां विद्वद्-अपश्चिमाः इति सम्प्रार्थ्य विरमामि ।
कीर्तिशेषाः शोक-हर्तृ-पुर-अभिजनाः स-लक्षण-घन-पाठिनः महा-विद्वांसः पराङ्कुशाचार्याः
ईसवीय १९०५ वत्सरे मकर-मासि अपभरणी-सु-नक्षत्रे द्राविड-देशे तुण्डीर-मण्डल-अन्तर्गत-शोक-हर्तृ-पुर-अग्रहारे जनिमन्तः सु-गृहीत-नामधेयाः अस्मत्-पितृ-चरणाः स्व-स्व-काले लब्ध-वैदिक-संस्काराः अधीत-वेद, शास्त्र, सम्प्रदाय-आदि-ग्रन्थाः, अध्यापन-निष्ठाः विरक्त-अग्र-सराः, वेद-विद्या-व्रतस्थाः विराजिरे । बंगलूरु-नगरे १९२७वत्सरतः निवसन्तः अत्रत्य-चामराजेन्द्र-वेद-संस्कृत-कला-शालायां कृष्ण-यजुर्वेद, साहित्य-अध्यापकाः भूत्वा चतुर्विंशति-संवत्सराणि अनीनयन्न् । शास्त्र-विरोधे संभाव्यमाने स्व-पदं च तत्यजुः विरक्ताः वैदिक-वृत्त्या यदृच्छा-लाभ-सन्तुष्टाः । परः-शतं शिष्य-गणान् उदधरन् स्व-ज्ञान-अनुष्ठान-वैराग्य-अतिशयेन ।
तेषां अन्यादृशीं शैलीं श्रद्धां निष्ठां च लोके प्रकाशयितुं तन्-मार्गे प्रवर्तनार्थं च दासेन तत्-स्मृतौ पञ्जीकृतं न्यासम् एकं पराङ्कुशाचार्य-वैदिक-अध्ययन-संस्था इति नाम्ना प्रवृत्तम् ।
ततः अद्य तेषां एक-शततम-जन्म-दिने शतमानोत्सव-स्मरणाङ्कत्वेन प्रथमा एषा माला अर्प्यते स-भक्ति-श्रद्धम्, स-आदरं, स-बहुमानं च । तद्-अवसरे अनेके महान्तः विद्वत्-तल्लजाः तान् अधिकृत्य स्व-प्रबन्ध-लेखनादिना भूषितं सुमम् एकं तेषां स्मृतौ समर्पयामासुः । ततः उद्धृतः आचार्याणाम् आशासन-रूपः भागः अत्र आयोजितः पठितृ-सौकर्याय सर्व-श्रेयः-प्राप्तये च ।
श्रीमदहोबिलमठाधीशाः श्रीवण्शठकोपश्रीनारायणयतीन्द्रमहादेशिकाः
मालोल-दिव्य-पादूनां सेवका वण्शठारयः ।
अहोबिल-मठाधीशा नारायण-यतीश्वराः ॥१॥
पराङ्कुशार्य-वर्याणां नृसिंह-पद-सेविनाम् ।
शुभानि आशासते भूरि शतमान-महे सताम् ॥२॥
अधीत-अध्वर्यव-आम्नायैः द्राविड-आम्नाय-पारगैः ।
विद्वद्भिः सत्-कुलीनैर् यैः शिष्ट-आचारे प्रतिष्ठितैः ॥३॥
सर्व-आत्म-गुण-सम्पूर्णैः शास्त्र-उल्लङ्घन-सम्भवे ।
वेदस्य अध्यापने शिष्टे ऽनधिकारिषु च आग्रहात् ॥४॥
शासकीयं पदं च अपि त्यक्तं झटिति निःस्पृहैः ।
तृणाय मन्यमानैस् तु सर्वं शास्त्र-क्रम-उज्झितम् ॥५॥
आदृतः सत्-पथः शश्वत् प्रोक्तः सच्-छिष्य-बृन्दगैः ।
कर्णाट-देश-मध्यस्थ-कल्याण-पुर-वासिभिः ॥६॥
सम्प्रदाय-क्रमेण एव शिक्षिताः सज्जनाः सदा ।
वेदे गाथासु दिव्यासु धर्म-शास्त्रे तथा आगमे ॥७॥
पाञ्चरात्रे स्तोत्र-गुम्फे पाठिताः सम्यग्-आदरात् ।
अनुग्रह-परैः शिष्टैः कीर्ति-शेषैः महात्मभिः ॥८॥
वर्धतां कीर्तिर् एतेषाम् आ-चन्द्रार्कम् अनेनसाम् ।
महितानां गुण-इद्धानां सर्वेषां च अनुबन्धिनाम् ॥९॥
शिष्याणां भक्त-वर्गाणां विभूती