मूलम् - 1.0
श्रीः । शुभमस्तु । अविघ्नमस्तु । हरिः ॐ ।
षड्विंशति सूत्राणि - ‘षड्विंशकसपर्या’ सहितानि
आविष्णोरभिवन्द्यादावाचार्याणां परम्पराम् । वेदाचार्यांश्च मे तातान् पराङ्कुशसदाह्वयान् ॥
वात्स्यरामानुजार्येण तैत्तिरीयमधीयता । षड्विंशसूत्रनाम्नोऽद्य परिष्कारो विधीयते ॥
प्रत्नं लक्षणमप्येतद्दुरूहं क्लिष्टमेव च । उपयोगविशेषाद्धि यत्नाद्विव्रियते परम् ॥
कम्प्यूटर्यन्त्रयुक्तेन प्रक्रियामेलनेन हि । गवेषणं विधेयं स्यादीदृशेष्विति वर्ण्यते ॥
आलोड्य बहुकोशादीन् विभिन्न-लिपि-मातृकान् । नानादेशेभ्य आनीतान् विशिष्ट-विषयादिकान् ॥
यान्त्रिकप्रक्रियाभिश्च निर्मितैः स्वयमीदृशान् । परीक्ष्य बहु सञ्चिन्त्य यावच्छक्ति विशोध्यते ॥
शोधनार्थं पाण्डुलिप्याः साहाय्यं विहितं तथा । पत्राणां मूलरूपं च द्रष्टुं सौविध्यमप्यथो ॥
अयि भोः वैदिकाग्रेसराः विद्वत्तल्लजाः सर्वपुरुषार्थसाधनभूतवेदपुरुषस्वरूपसंरक्षणदीक्षिताः !
महदिदं प्रमोदस्थानं यत् षड्विंशतिसूत्रनामकः प्राचीनलक्षणग्रन्थः कृष्णयजुर्वेदीयतैत्तिरीयशाखागतबहुसन्देहा-स्पदविषयेषु तन्निरासार्थं निष्कृष्य उपकुर्वन् विराजते, बहुविद्वत्परिगृहीतश्च । अस्य ग्रन्थस्य ईसवीय 1899, 1922तम संवत्सरयोः ग्रन्थाक्षरैः, लक्षणत्रयनामकग्रन्थान्तर्गतत्वेन आन्ध्रलिप्या 1919तमसंवत्सरे च मुद्रणं संजातम् । तथापि अद्यत्वे तयोरुभयोरपि अलाभात्, मूलमात्रत्वात्, पाण्डुलिपिभ्यः अनेकाधिक, विशिष्टसूत्रान्वेषणेन मुद्रितपाठस्य आंशिकत्वज्ञानात्, लिपिज्ञानह्रासाच्च उपयोगवैधुर्यं दृष्ट्वा आधुनिकाध्येतॄणां अध्यापयितॄणाञ्च सौकर्याय प्रयत्नोऽयं विहितः यस्मिन् देवनागरीलिप्या सस्वरं, सोदाहरणं, आकरप्रदर्शन-सहितं, तत्रतत्र दुरूहविषयेषु संशोधनं च चिकीर्षितम् । अनेकमातृकासंग्रहेण तत्रत्यांशान् यथायथम् आयोज्य, अकारादिक्रमेण संयोज्य, त्रुटित/सन्दिग्ध स्थलेषु कंप्यूटर् प्रणाळ्या अन्विष्य/अनुमाय संपादित-मस्ति । सर्वपाण्डुलिपिस्थपाठानां अभीष्टलिप्यां द्रष्टुं, तत्रत्य पद, विषयादीन् अन्वेष्टुं, लिप्यन्तरणं कर्तुं च कम्प्यूटर्यन्त्रद्वारा सौकर्यं कल्पितमस्ति । मूलपाण्डुलिपिमपि साकमेव द्रष्टुं सौकर्यमस्ति, येन अस्माभिः यत्रकुत्राप्यपराद्धं चेदपि पठितृभिः (द्रष्टृभिः) स्वयं ज्ञातुं समीकर्तुं च शक्यम् । अकारादिसूच्यादिनिर्माणं च विहितम् ।
यद्यपि केषांचित् पदानां अनुवाकारम्भवत्परिदृश्यमानानां अस्मच्छाखायां नोपलम्भः, तथापि यावच्छक्यं तेषां विवरणं दीयत इति तावतैव सन्तोष्टव्यत्वं परम् अवशिष्यते । पुरातनपाण्डुलिप्यादीनां गवेषणे च प्रयत्नः विहितः यस्मिन् अष्टाविंशतिः मातृकानां लब्धाः । ताश्च ग्रन्थ, देवनागरी, नन्दिनागरी, आन्ध्र तथा मलयाळ लिपिषु लिखिताः । दशराज्येषु स्थिताभ्यः त्रयोदशसंस्थाभ्यः एताः प्राप्ताः, येषां चित्राणि च कंप्यूटर् यन्त्रे निवेशितानि । अस्मिन् विषये मातृकादिदानेन उपकृतवतः प्रति कार्तज्ञ्यं सविनयं निवेद्यते ।
प्रायः पञ्चत्रिंशद्वर्षेभ्यः पूर्वं पितृचरणैर्यदाहमध्यापितः, तत्समये तैरध्यापितदिशा विषयविवृतिमद्य विहितवान् । तेषां सत्कीर्तिप्रसरलाभेच्छया वैदिकानां व्युत्पित्सूनां बहुधोपकारकल्पनार्थं च पितृचरणानां स्मृतावायोजित न्यासे-नैष ग्रन्थः प्रकाश्यते पूर्वतन’सप्तलक्षणपरिष्कार’वत् इति विदाङ्कुर्वन्तु तत्रभवन्तो विद्वांसः सारासार-विवेकज्ञाः ।
अत्रत्याः बहवः अंशाः भारद्वाजशिक्षायामपि प्रकारान्तरेण दृश्यन्त इति तादृशस्थलेषु (द्रष्टव्या - भा.शि. श्लोकसंख्या) इतिरूपेण विशेषाः प्रदर्शिताः इति च ज्ञेयम् । एवं ग्रन्थान्तरेष्वपि संवादः समीक्षितः, परन्तु ग्रन्थविस्तरभिया नायोजितः ।
षड्विंशकमिति ब्रह्म जगौ भगवती श्रुतिः । तत् षड्विंशतिसूत्रेण मीमांसितुमयं क्रमः ॥
पञ्चविंशकजीवात्मगणस्वामी श्रुतीरितः । तुष्यतु श्रीहयास्यो मे वाग्रूपया सपर्यया ॥
भूमिका
वेदलक्षणग्रन्थाः व्याकरण, शीक्षारूप विद्यास्थानयोरन्तर्भावयितुं शक्याः । पदज्ञान, तदुच्चारणयोर्वैशद्यापादनरूप-सौकर्यकल्पनमवलंब्यैवमुक्तम् । चतुर्ष्वपि वेदेषु अद्यत्वे उपलभ्यमानासु शाखासु अत्यधिकतया सुरक्षितः कृष्णयजुर्वेदीय तैत्तिरीयशाखीयभाग एवेति नात्र विप्रतिपत्तिः स्यात् । अस्य च कारणम् - अध्येतृबाहुळ्यं, विततपरंपरासत्त्वं इत्यादिहेतुषु सत्स्वपि - प्राधान्येन लक्षणग्रन्थानां भूयः प्रचारः एव इति भाति । स च अद्यत्वे नातीव आद्रियते इति च शोकास्पदं, परन्तु तादृश सलक्षणाध्ययन परंपराया उज्जिजीवयिषया तत्र संशोधनादि कर्तुमुद्युक्ता अस्मत्संस्था - ‘पराङ्कुशाचार्य वैदिक अध्ययन संस्था’ । अस्याः सकाशात् प्रथमं “सप्तलक्षण"ग्रन्थस्य सपरिष्कारस्य नागराक्षरैर्मुद्रणं विहितम् । इदानीं “षड्विंशतिसूत्र"नाम्ना प्रसिद्धस्य ग्रन्थस्य इदंप्रथमतया लिखितया ‘षड्विंशकसपर्या’ख्यया व्याख्यया सहितस्य मुमुद्रयिषा पूर्यते ।
उपोद्घातः
अस्मिन् ग्रन्थे बहवः विषयाः प्राधान्येन वेदानुपूर्वीस्वरूप संरक्षणार्थं तत्रतत्र संभावित प्रायः सदृशरूपस्थलेषु भ्रमसंभवे तेषां निरासार्थं संकीर्णत्वेन पठिताः सन्ति । तत्र न कोपि कॢप्तः क्रमः अनुसृत इति स्पष्टम् । तथापि अस्य उपयोगिता न हीयते, परन्तु, परामर्शपुरस्सरं केनापि क्रमेण आयोज्यमाने उपकारातिशयः प्रसजेदिति मत्या तादृशप्रयत्नोऽत्र विहितः । क्रमपरिवर्तनं च (उपरिनिर्दिष्ट मुद्रित मूलपाठापेक्षया) पाण्डुलिपीनां समीक्षणेन, सर्वविषयसंग्रहपूर्वकं विषयाणां अकारादिक्रमेण योजनरूपं कृतमत्र । अस्य ग्रन्थस्य व्युत्पत्तिं विनापि वेदसंरक्षणार्थत्वं उद्देश्यमिति दृष्ट्वा वैशद्यार्थं व्याख्यैका निरमायि, यत्र शक्यस्थलेषु विवरणं प्रदित्सितमस्ति । ग्रन्थस्यास्य शैली सूत्ररूपेण विद्यते । प्रायेण व्यावर्त्यांशः अन्यत्र इत्यारभ्य प्रदर्श्यते । परन्तु कुत्रचित् तथा निर्देशो नोपलभ्यते, विशिष्य पाण्डुलिपिषु । वैविध्यं च पाठेषु दरीदृश्यते । तथापि पृथक् सूत्राणां अन्यत्रानुक्तानामपि उपयुक्तत्वात् उपसंग्रहः कृतः, येन अधिकतरसौलभ्यं अध्ययने, पाठपरिरक्षणे, तथा वेदपुस्तकानां, विशिष्य, पदपाठस्य मातृकाशोधनादिषु उपकारातिशयाय प्रभवतीति मन्तव्यम् । दृष्टान्त, प्रतिदृष्टान्त, अपवाद, अनुक्तांशपूरण, आकरप्रदर्शनादिषु कंप्यूटर् प्रणाळ्या सहायः विहितः, येन वेदान् वाचोविधेयान् कर्तुमशक्तानां अध्येतॄणां च सौकर्यं भवेत् । अध्यापयितॄणां च क्षिप्रमुदाहरणाद्युपस्थापनं सुशकं भवेत् । आंग्लभाषया अनुवादोपि विहितः स्थूलरूपेण अस्य ग्रन्थस्य विषये सामान्यानां श्रद्धाळूनामपि परिचयायेति ज्ञेयम् । सप्तलक्षणपरिष्कारे ये अंशाः पठितृभिः सूचिताः ते सर्वे (पुस्तकस्य आयाम, विस्तारौ, मुद्रिताक्षराणां अल्पता इत्यादि, आंग्लानुवादस्य आवश्यकतापि कैश्चित् सूचिता) अत्र उपयुक्ताः सन्तीति तथा निर्देष्टॄणां धन्यवादान् वितरामि ।
मातृकासंग्रहः
दुरूहत्वमस्य ग्रन्थस्य, तथा मुद्रितकोशस्यापर्याप्ततां च दृष्ट्वा अन्यकोशगवेषणे प्रवृत्तिः जाता । तदा परमेश्वर ऐताळ महोदयैः लिखिता वेदलक्षणग्रन्थानां संग्रहसूची उपलब्धा । तत्रत्यविवरणानुसारेण तत्तत्संस्थाभिः संपर्कं प्रसाध्य निम्ननिर्दिष्टाः पाण्डुलिपयः प्राप्ताः । केरळप्रान्ते तिरुवनन्तपुरतः षट्, कर्णाटकप्रान्ते - बेंगलूरु तथा मैसूरुतः द्वे द्वे, तमिलुनाडु मध्ये चेन्नैतः षट्, आन्ध्रप्रदेशे तिरुपतितः एका, महाराष्ट्रे - पुण्यपत्तनात् एका तथा वाईतः चत्वारि, गुजराते वडोदरात एका, मध्यप्रदेशे उज्जयिनीत एका, पंजाब प्रदेशे होशियारपुरतः द्वे, उत्तरप्रदेशे वाराणसीत एका, तथा पश्चिम बंगाल प्रदेशे कोलकातातः एका मातृका इति क्रमेण तत्तत्स्थानेषु स्थित प्राच्यविद्या संशोधन संस्थाभ्यः विभिन्नलिपिषु लिखिताः पाण्डुलिपयः (काश्चन पत्रमयाश्च) आहत्य अष्टाविंशतिः मातृकाः संगृहीताः, याभ्यः एतत् पुस्तकं सम्पादितमस्ति । तासु द्वयोः सस्वरं पाठः उपलब्धः (वाईतः एकस्यां तथा होशियारपुरतः एकस्यां लेशतः) । कुत्रचित् षड्विंशति-लक्षणमिति, षड्विंशतिसूत्रे प्रथमोध्याय इति च बहुलं दृश्यते । एषां पट्टिका तथा डॉ. परमेश्वर ऐताळ महोदयस्य समग्रा सूची (द्विषष्टिमातृकानां निदर्शिका) च आंग्लप्रस्तावे दर्शिते । सर्वासामासां छाया-चित्राण्यपि संगृहीतानि येभ्यः कंप्यूटर् यन्त्रे तत्रत्यमूलपठनं सर्वेषां सुकरं भवेत् । अन्वेषणे च सौकर्यं भवति ।
नामनिर्वचनम्
अत्रेदमवश्यं वक्तव्यं यत् अस्य ग्रन्थस्य नाम षड्विंशतिसूत्रमिति कुतः प्रसिद्ध्यतीति विषये न किंचित् स्पष्टं उपलभ्यते । बहु प्रयत्यापि वैफल्यमेव प्राप्तम् । षड्विंशतिलक्षणमित्यपि नामनिर्देशः दृष्टः, परं तथापि तादवस्थ्यमेव । षड्विंशतिसूत्रे प्रथमोध्याय इति निर्देशेपि अधिकग्रन्थसद्भावे न कापि संभावना दरीदृश्यते । षड्विंशतिविषया उक्ता इत्यपि न वक्तुं शक्यते, यतः ततोप्यधिकसंख्याका विषयाः (सूत्राणि) सर्वत्र लभ्यन्ते । विषयविभागेन शक्यसंभावनमेतदिति तु विवेचयितुं युक्तम् । तथापि हठात्कारं विना तथा करणे क्लेशः स्यात् । षड्विंशतित्वसंपादनं यथाकथञ्चित् भवेदिति आग्रहे न प्रयोजनं पश्यामः । प्रामाणिकतया तथा अस्तीति निर्णेतुं किमपि निमित्तं उपलभामहे चेद्वरमिति यावत् । सांप्रदायिकैः कैश्चित्तु - तैत्तिरीयप्रातिशाख्ये चतुर्विंशतिः अध्यायाः, तदनन्तरं सप्तलक्षणं सप्तानुवाकात्मकं एकोध्यायः पञ्चविंशः, तथा एष ग्रन्थः षड्विंश इति, सूत्ररूपत्वात् सूत्रनाम्ना प्रथते इति च उच्यते । अस्य मूलं मृग्यम् । मातृकानां परिशीलनावसरे इदमप्यभात् यत् विभिन्न ताळपत्रेषु विभिन्नाः अंशाः पृथक् नामभिर्निर्दिष्टा इति । यथा - पूर्वं 1. सन्देहनिरासकः भागः, ततः, 2. अर्धान्तिकाः, 3. पूर्वदीर्घिणः, 4. उत्तरदीर्घिणः, 5. उभयह्रस्विणः, 6. उभयदीर्घिणः, 7. संहितायां तकारपर धकारः, 8. योहि प्राप्तिः (सशब्दनिषेधः), 9. विसर्जनीयस्य स्वरे परे रेफः, (इतिकरणे रेफान्तपदानि), 10. ऐकारः, इकारपर ईकारान्तानि पदानि {पूर्वप्राप्ति-वर्जितः}, 11. यणादेशः, 12. ह्रस्वविरळाः, 13. दीर्घविरळाः, 14. थकारवत्पदानि, 15. त्रिक्रमाः, 16. प्लुताः, 17. अनुवाकार्धान्तिकाः, 18. वृथा/पृथक् व्यक्तिः (सन्ध्यभावः), 19. दीर्घरेफपरो ह्रस्वविसर्जनीयः, 20. रेफपरो दीर्घविसर्जनीयः, 21. अवेष्टपद-पञ्चाशतः, 22. सकारपर विसर्जनीयाः, 23. रेफपर विसर्जनीयाः, 24. दपरपदानि, 25. धकारवत्पदानि, 26. मकारान्ताः, 27. वर्णोत्तमैराद्यतृतीय वर्ण संयोगाः इति ॥ तर्हि विमृष्ट विषयाणां षड्विंशतित्वेनापि नाम्नः सांगत्यं उन्नेयं भवेत् ॥ अत्र सामान्येन सन्देहनिरासकभागं विहाय अन्यत्र कॢप्तं कंचिद्विषयमधिकृत्य सूत्रितमिति ज्ञेयम् । अस्मिन्नंशे पुष्टिः अर्धान्तिकादीनां पृथक् शीर्षकेण निर्देशात्, बहुषु मातृकासु ‘इति षड्विंशतिसूत्रं समाप्तम्’ इति लेखनानन्तरमेषां सत्त्वाच्च लभ्यते । कासुचित्पाण्डुलिपिषु बहूनामेषां पृथक् ग्रन्थत्वेन गणनं च दृश्यते । यद्यपि एतत् पर्याप्तं निमित्तं वा इत्यस्मिन् विद्वांसः प्रमाणम् ।
शोधप्रक्रिया
प्रथमम् उपलब्धानां सर्वेषां पाठानां यन्त्रे टङ्कणं कृतम् । तदनन्तरं यत्र सन्देहादिकमासीत्, तत्र अन्यकोशसहायेन पुनर्निरीक्ष्य संशोधनादिकं विहितम् । ततः यस्यां मातृकायां येंशाः नूतनाः आसन्, तेषां पट्टिका कृता । अनन्तरं के के कुत्र कुत्र सन्तीति विज्ञाय तत्तत्सूत्रस्य स्वरूपं भूयसां न्यायेन निर्णीतम् । एषां सामीचीन्यपरीक्षा ततः विहिता । अनुवाकप्रतीकादिषु बहुलं भेदः दृश्यते, परन्तु यावत्पदसंग्रहे निस्सन्देहं तस्यैवानुवाकस्यावगतिर्भवेत् तावत् स्वीकृतमस्ति । यथा ‘वि वै’ इति, ‘वि वा एतौ’ इत्यनयोः इत्यादि । ततः अनुक्तस्थलेषु व्यावर्तकज्ञाने तन्निर्देशे च प्रयत्य ऐकरूप्यं संपिपादयिषितम् । केषांचित् सूत्राणां केवलसंहिताविषयत्वं परमन्येषां अशीतिद्वयविषयत्वमिति भेदोस्ति वेति विचारश्च सर्वत्र कृतः । यावच्छक्यं समग्रशाखाविषयत्वे परीक्षा विहितास्ति । यत्र पाठे भेदाः दृष्टाः तत्र सर्वेषां पाठानां समीचीनत्वे पृथक् निमित्तान्वेषणे प्रयतितम् । यथा प्लुतसंख्यानिर्देशे क्वचित् रङ्गानाम् अन्तर्भावः कृतः अन्येषु न । परन्तु, विषयव्यवस्थापनेन उभयोः निर्दोषत्वं द्रष्टुं शक्यम्, अपेक्षितं चेति दर्शितम् । एवं प्रायःसर्वत्र उपलभ्यमान पाठसाधुत्वाभ्युगमेन विचारः वृत्तः यतः प्रत्येकोपि पाठः ज्ञानवैशद्यापादने पाठसंरक्षणे च विलक्षणं उपकारम् आदधाति । लेखकप्रमादादापतिता दोषा अत्र न गण्यन्ते, यतः ताळपत्रादिषु लेखने यावान् क्लेशो विद्यत इति विचार्यमाणे तत्रत्याः अनिवार्याः दोषाः नावद्यतां भजन्ते । कुत्र को विशेषः इत्यत्रैव सदा अवहितम् । कुत्रचित् अपवादाः, व्यावर्त्याः, दृष्टान्ताः तथा विषयाः भिद्येयुः । अपितु सर्वे कंचन विशिष्टमंशं बोधयन्ति (नूतनतया च) इति अनुभवतः ज्ञातुं शक्यते ।
आदृतक्रमः (आनुपूर्वी)
प्रथमं सर्वकोशगतविषयाणां क्रोडीकारानन्तरं, तत्र तत्र नामभेदादिभिः भिन्नवत्परिदृश्यमानानां यत्र अल्पतरवर्गेषु अन्तर्भावयितुं शक्यं तद्विहितम् । पुनः वर्गीकरणे तथा कृतं येन संबद्धानां विषयाणां सहैव प्रतिपादनं शक्येत, प्रासङ्गिकता च दृश्येत । सङ्गतत्वायैतत् । सन्देहनिरासे क्रियमाणे निर्दिष्टानां वा व्यावर्त्यानां वा अकारादिक्रमेण पाठे सौकर्यं स्यादिति तथा आदृतम् । अन्वेषणाद्यर्थं च उपकारकमेतत् । अवशिष्टेष्वप्यंशेषु कंचित् नाम शीर्षकं वा निश्चित्य, तादृशप्रकरणनाम्नामकारादिक्रमेण पाठक्रमः आदृतः । मुद्रितपाठापेक्षया केषाञ्चित् व्यत्यासः, संयोगः विभागो वा तत्र तत्र कृतः उपर्युक्तसौकर्यातिशयाय, यथा एतदः रूपान्तरेषु भ्रमवारकसूत्रेषु, उत्तरत्र धातुः डुकृञ् करणे इति वा, विद ज्ञाने इति वा भवतु, व्यावर्त्यं तु एतत्प्रातिपदिकरूपं चेत् तस्य एकत्रीकरणम् । व्याख्यायुक्तत्वात् अस्मिन्नपि क्रमे सौलभ्यं विद्येतैव ।
कंप्यूटर् प्रणाळी प्रयोगः
समग्रस्य मूलपाठस्य, मन्त्राणां तथा पदपाठस्य सस्वरस्य यन्त्रे टङ्कणं यतः कारितमस्ति, अतः ईदृशसंशोधनादिषु महत् सौविध्यमिदानीमस्ति । यन्त्रोपयोगिशैल्या एषां परिवर्तनं तदर्थप्रणाळीविकसनेन कृतम् । यद्यपि वैदिका-नामस्य विवरणमनपेक्षितम् अस्य सम्यगुपयोगे, तथापि तेन सुसाधविषयाणां ज्ञाने च कश्चन विशेषः अवश्यं स्यात् तदिच्छावताम् । अपि तु कीदृशप्रयोगादिकमिष्यते इति ज्ञात्वा तदर्थप्रणाळी-विकसनस्यावश्यंभावात् यूनां कुतूहलिनां कुशलिनां वा अध्येतॄणां कृते आधुनिकसौकर्यपरिचिचीषा अस्ति चेत् अत्र प्रवेष्टुं शक्यते ।
इदानीं यत् कृतमस्ति तत्र बहुधा यन्त्रप्राणाळ्यैव साहाय्यं विहितम् । यथा दृष्टान्तार्थं ‘विश्वकर्मात ऊर्ध्वं व्यानं मध्यं कस्त्वावर्जम्’ इति वा ‘प्रान्यान्यम्भाꣳसिपर्यन्तममुंपूर्वं (मिमं परं), यां प्रथमामिष्टकामिति वर्जम्’ इति वा सूत्रस्य परीक्षणे कुतश्चिदारभ्य कश्चन नियमः उच्यते चेत्, ततः पूर्वं तस्य नियमस्य गतिः विम्रष्टव्या, तस्य उच्चमितेः परत्र च तथा विम्रष्टव्यम् । उभयत्र अपवादादिसत्त्वं अवगन्तव्यम् । ईदृशविषयेषु झटित्यस्माकं अपेक्षितार्थाः यन्त्रात् लभ्यन्ते, यदि तस्य उपयोगं जानीमः (तादृशप्रणाळ्यः विकसिताः सन्ति चेत् च) । प्रकृतविषये व्याख्यायां विस्तरः स्फुटं द्रष्टव्यः । एवं प्रत्युदाहरणानि, अव्याप्ति, अतिव्याप्ति, असंभवादि (यथा सात्रायणसन्देहनिरासपाठे ‘रुन्धते दधते तिष्ठन्ते जायन्ते..’ इत्येव सर्वैः पठ्यते, अपितु ‘तिष्ठन्ते’ इति कुत्रापि नास्ति) परीक्षणे उपकुरुते यन्त्रप्रणाळी । दृष्टांशानां क्रमशः आयोजने, अकारादिक्रमेण सूच्यादि निर्माणादिषु च साक्षात् तल्लाभः भवति ।
व्याख्याकृत्यं
व्याख्यायामस्यां हयग्रीवाराधनरूपायां ग्रन्थमिमं मूलभूतवेदानुपूर्वीसंरक्षणे सौकर्यकल्पकमिति अवधाय तस्यां दिशि उक्तानुक्तदुरुक्तचिन्ताकरणादिभिः सूत्राक्षरपदानि स्वपदानि च यथायथं वर्ण्यन्ते, सूत्राणां वैशिष्ट्यं च प्रतिपाद्यते अध्येतृसौकर्याय । इदंप्रथमतया प्रयतमानस्य मे स्खालित्यादिकं प्रामादिकांश्च दोषान् कृपया वैदिकाः क्षमन्तामित्यभ्यर्थये । भूयसां दृष्टान्तानां आकलनं संकलनं च विशिष्य शुद्धपाठज्ञानार्थं, मुद्रितपुस्तकादीनां शोधनादिषु उपकाराय च कृतम् । अपवादादि गवेषणे च उपकुरुते इति विश्वसिमि । कंप्यूटर् यन्त्रात् लब्धं साहाय्यमपि व्याख्यातृकल्पितमेव । सूच्यादिनिर्माणे झटिति विषयान्वेषणे च सौलभ्यार्थं प्रभवत्येतत् इत्यवधेयम् ।
दृष्टान्ताः
निमित्तस्य विवक्षितपदस्य पूर्वं सद्भावे परत्र स्थिते वा केचन नियमाः सूत्रेषु परिदृश्यन्ते । तेषां मेलनं, अन्यतरेण निर्वाहः, यद्वा पृथक् निर्देशकारणादिकं, दृष्टान्तेभ्यः उन्नेतुं शक्यते । प्रतिदृष्टान्ताश्च उक्तमर्थं द्रढयन्त्येव । अव्याप्त्यादिज्ञानेन अपवादविषयाः ज्ञायन्ते । अतः दृष्टान्तचयने, सर्वेषां उपस्थापने च सौकर्यातिशयः कल्पितः येन ग्रन्थस्य उपकारः वर्धते । संहिता, ब्राह्मण, आरण्यक, काठक, एकाग्निकाण्डादिषु क्रमेण वा विशिष्य वा मार्गणमपि शक्यते । शिक्षाप्रातिशाख्यादिष्वपि एषैव रीतिरादृता इति शास्त्रज्ञानां व्यक्तम् । स्वरतः भेदे वर्तमाने च तदर्थं अपेक्षितदृष्टान्ताः विविच्य गृह्येरन् ।
योहिप्राप्तिः
अस्य विषयस्य तद्विधायकसूत्रारम्भेनैव प्रसिद्धिः । विषयश्च प्राधान्येन तिङन्तानां स्वरनिर्णयः । तेषां औत्सर्गिकं सर्वानुदात्तत्वं पूर्वशास्त्रानुशिष्टं कीदृशसन्दर्भेषु अपैति इति विषये विस्तरेण महर्षिणा पाणिनिना अष्टाध्याय्यां सूत्रितत्वेपि तस्य दुर्बोधत्वात् सर्वेषां कृते सौकर्यकल्पनाय सूत्रमिदं प्रवृत्तम् । कैश्चित् अव्युत्पन्नाधिकारिविषयत्वमस्य आपादितत्वेपि तैरप्यस्य उपकारातिशयः दुरपह्नवः । अस्मिन् विषये मम अध्यात्मगुरुभिः शिष्टोहं एकदा बहु विस्तरेण अस्मिन् विषये अधीत्य स्वतन्त्रग्रन्थमेकं व्यरचयम् । तदपि शीघ्रमेव मुद्रयिष्यते यत्र त्रिंशत्सहस्रोपरिसंख्या-कानां तिङन्तानां विविच्य स्वरावबोधः विमृष्टः विवृतश्च । अस्य योहिभाष्यमिति नाम्ना च द्वौ ग्रन्थौ विद्येते इति श्रूयते, ययोरन्यतरस्य पाण्डुलिपयः संगृहीताः विमृष्टाश्च । यथाकालमन्यस्यापि प्राप्ति, विमर्श, प्रकटनादिकं भवेदिति विश्वासोस्ति । अत्र तु स्थालीपुलाकन्यायेन विवृतमस्ति ।
दुरूहविषय चर्चा
महता प्रयासेनापि यत्र न किञ्चिदप्यभात्, तत्र प्रश्नचिह्नानि निक्षिप्तानि । सर्वपाठेष्वपि दोषग्रस्तत्वं, कुत्रापि स्पष्टोक्तिविरहः इत्यादि केषुचित् सूत्रेषु दृश्यते । ते यथाशक्ति निरूपिताः सन्ति । यथा ‘स्त्रियं तिरत पाकु’ इति ‘स्त्री यन्तीरथ पाकू’ इत्यादि भेदेन दृश्यमानं किंविषयकमिति ज्ञातुं नापारयम् । प्रथमसूत्र एव सर्वत्र परिदृश्यमानः मन्द्र-मन्त्रभेदस्थलावगमकं ‘अमावास्यायाꣳ रात्र्यां फलीकरणहोमꣳ सोमस्याहं यदृतेचित्’ इति सूत्रभागः समभिव्याहृत अनुवाकप्रतीकवन्नेति स्पष्टम् । अपितु कोस्यार्थः इति झटिति न ज्ञायते । श्रौतसूत्रस्थ-खण्डाद्यप्रतीक इति एकस्मात् मातृकाविशेषात् ज्ञातम् । एवं तत्रतत्र भागशः पूर्णतया वा दुरूहाः विषयाः सन्ति, यत्र जानानाः सन्ति चेत्, कृपया अस्मान् उद्बोध्य अनुगृह्णन्त्विति सविनयं प्रार्थये ।
कर्तव्यशेषः
अस्य ग्रन्थस्य पुनर्मुद्रणार्थं प्रयासः कथं स्वीक्रियते वैदिकैः श्रद्धाळुभिश्चेति दृष्ट्वा ईदृश योहिभाष्य, आरण्यक शिक्षा, पारिशिक्षा, सिद्धान्तशिक्षा, सर्वसम्मतशिक्षादीनां विषयेपि संशोधनादिकं विधेयं भवेत् । अद्यत्वे वेदविद्याप्रचारे ह्रासं दृष्ट्वा जनितहृत्तापशान्त्यै प्रयतितुं युक्तमिति मन्ये । भारतीयभाषान्तरेषु अनुवादादिकं च अपेक्षितं भवेत् । पाठनार्थं प्रशिक्षणार्थं च सौकर्यकल्पनमिष्येत । पाठशालासु गुरुकुलक्रमेण सलक्षण, साङ्ग, सभाष्य अध्ययनपरम्परां पुनरुज्जीवयितुं प्रयत्नः विधेयः ।
कृतज्ञतानिवेदनम्
वेदवेद्यः परमात्मा श्रीमन्नारायणः हयास्यरूपी आचार्यादिमुखेन एतद्ग्रन्थव्याख्यानिर्माणं, मुद्रापणं, प्रकाशनं च स्वस्मै स्वप्रीतये स्वयमेव कारितवानिति अहं केवलमत्र लेखनीस्थानभूतोस्मि । अतः एतत् भगवते नारायणाय समर्पयामि । सर्वान् मे गुरून् सभक्तिश्रद्धं प्रणम्य तेषां चरणारविन्दयोः निवेश्य धन्यतामश्नुवे ।
इति वैदिकसज्जनवशंवदः
शोकहर्तृपुराभिजनः रामानुजदासः
बेंगलूरु व्यय-मकर-अपभरणी (26-1-2007)
इतः परं ग्रन्थः प्रारभ्यते विषयसङ्ग्रहेण ।
विषयसंग्रहः
सन्देहनिरासपाठः
- प्रजावती - प्रजापति
- तारिषत् - तारिषः
- मन्द्र - मन्त्र
- मृडति धातुरूपाणि (मृडयन्तु, मृडयन्तः, मृडयतां, मृड, मृडय, मृडयत..)
- ददाति - दधाति 9. दधति - दधाति
- दत्ते - धत्ते - दधते (VVRI 5040) (addl. OIBARO 2567, Wai 10265)
- षड्वा ऋतवः … इत्यस्य अनन्तरं भेदाः
- एतदः रूपानन्तरं अस्माल्लोकात् .. 44. य उ च (एतदः रूपाणि) एवं वेद …
- उपतिष्ठन्ते - उपतिष्ठते
- वृश्चति धातो रूपाणि (वृश्चति, वृश्च्यते, वृश्च्येते, वृश्चन्ति, वृश्च्येत)
- ऋतुधा - ऋतुथा
- एव (एतदः रूपाणि) शमयति - प्रीणाति
- एवैनत् - एवैनं .. (एवैनान् - एवैनां - एवैनाः ..)
- वृद्धां - वृद्धान्
- सप्तकपालः (भवति ..) भेदाः
- सुवर्गस्य लोकस्य अनन्तरं समष्ट्यै इत्यादि
- सुवर्गस्य लोकस्यानुख्यात्यै … प्रज्ञात्यै, अभिनीत्यै, प्रभूत्यै, अभ्यूढ्यै, गुप्त्यै, सन्नत्यै
- रूपमेव, रूपेणैव इत्यादि
- सप्त ग्राम्याः पशवः - ओषधयः
- (वरं) वृणावहै - वृणामहै .. वृणै
- त्रिष्टुप् त्रिष्टुभा - त्रिष्टुभि …
- गायत्री - गायत्रं
- अद्भिर्निनयति - अपोवनयति
- अध - अथ
- अजिगाꣳसन्न् - अजिघाꣳसन्न्
- विराड्विराजि - विराड्विराजा …
- नार्तिमार्च्छत्यध्वर्युः - नार्तिमार्च्छति यजमानः …
- समर्धयन्ति - अर्धयन्ति - अर्धयति
- प्रतितिष्ठन्ति - प्रतितिष्ठति 33. प्रतिष्ठापयन्ति - प्रतिष्ठापयति
- भ्रातृव्यापनुत्त्यै - पराणुत्त्यै - अभिभूत्यै
- अनन्तरौ तकार-ककारौ*
- पञ्च, पञ्चपञ्च, पञ्चाक्षरा
- सात्रायणे रुन्धते दधते इत्यादि …
- सात्रायणस्य सन्देहनिरासाः (KUML 988)
- इयाव - इयाम - अयाम
- (चतूरात्रेण यजते) आस्य - पुरोडाशिन्यः
- सहस्रतम्या KUML 16408
- मघ - मख
- पशूनसृजत - प्रजा असृजत, [असृज्यत/असृजत/सृजामि (Adyar 115)]
- आरभते - आलभते इत्यादि
- श्रु - शृ [श्र]
- उपाधत्त - उपादधत
- जिह्वा - जुह्वा
- स्रु - सृ
- क्रु - कृ [क्रुष्ट, कृष्ट … (Adyar 115)]
- ऋत्वियः - ऋत्विजः
- मानुषीणां - मानुषाणां
- संहितायां वाक्यान्ताः (अर्धान्तिकं) पञ्चाशतः (30)
- पूर्वदीर्घिणः
- उत्तरदीर्घिणः
- उभयह्रस्विणः
- उभयदीर्घिणः
- संहितायां तकारपर धकारः (तकारपर-हकार संयोगव्यावृत्तिः)
- योहि प्राप्तिः (सापवादा)* [तिङन्तस्वरविषयः], {शब्दनिषेधः}
- विसर्जनीयस्य स्वरे परे रेफः (इतिकरणे रेफान्तपदानि)
- ऐकार - यकारद्वित्वं
- इकारपर ईकारान्तानि पदानि (अप्रगृह्यानि) [दीर्घानि] {पूर्वप्राप्तिवर्जितः}
- यकारादिः यणादेशः {इकारात्परो यकारः}
- ह्रस्वविरळाः
- दीर्घविरळाः
- थकारवत्पदानि (धकारवत्पदव्यावृत्तिः)
- त्रिक्रमाः (24)
- प्लुताः (41+41+16)… (नीरङ्गाः सरङ्गाश्च)
- प्राण - व्यान - अपानाः
- अमुं पूर्वं, इमं परं (सापवादौ)
- अनुवाकार्धान्तिकाः
- वृथा/पृथक् व्यक्तिः (सन्ध्यभावः)
- दीर्घरेफपरो ह्रस्वविसर्जनीयः
- रेफपरो दीर्घविसर्जनीयः
- अयं - यं
- द्रु - दृ
- स्पृ - स्तृ
- ड - ळ
- यविष्ठ्य - यविष्ठ
- यं - यः (दिति, मिति)
- इयन्तं गृह्णाति - करोति (”)
- भ्रातृव्यस्य वृङ्क्ते (”)
- अस्याः/एषां एतन्महिमानं (") 77. रूपं - संज्ञां एवासां (") 16408
- करुण्यतरः - करुण्यतमः
- अनात्यै - अनार्त्यै
- हविर्धाने, अधिषवणे (प्रगृह्याप्रगृह्ये) [DCPUNE 9387, OIBARO 2587]
- अवेष्टपदानि (16पञ्चाशतः) (SORI 1118)
- सघा - सखा
- छन्दाꣳसि छन्दाꣳसि (GOML1456)
- रिकार - अर्कारः
- प्रथमजां - प्रथमजा (ऋतस्य)
- बोधि - भूतु (अविता) 114. (अस्माकं) बोधि - भूतु -एधि
- नः कृधि - नस्कृधि
- समिध्यते - समिध्यसे
- गुप्त्यै - गत्यै (KUML 2938)
- पवयति - पवयन्ते (KUML 988, VVRI 4375, OIMYS 2262)
- प्रसूवतीः - प्रसूवरीः
- सुक्रतू - सुक्रतो
- गच्छति - गच्छन्ति (addl. KUML 16408)
- ककारान्त - पकारान्त (त्रिष्टुगनुष्टुक्)
- स्वः - सुवः
- मुमुग्धि - मुमुक्तं
- पङ्क्त्यः - पङ्क्त्यौ (KUML 988)
- कार्यं - कर्तव्यं
- अवरुन्धते - अवरुन्धे
- सर्वदेवत्यं - (वै) वासः
- आग्नेयी - (वै) रात्रिः
- यः - यत् (संवत्सरः, चातुर्मास्ययाजी) OIBARO 2587, OIMYS 2262, KUML 16408.
- दीध्यानः - दीद्यानः (दीध्यानां KUML988)
- (ज्योतिषा) त्वा - वः (KUML 988)
- रथविमोचनीयं - रथविमोचनीया
- विशां - विशः (प्रियः)
- संवत्सरः (संवत्सरमेव) प्रीणाति
- रीरिषत् - रीरिषः
- अन्नमुदुम्बरः
- दधानाः (- दधानः) - दधाना (KUML 16408)
- जुषेतां (- जुषेथां) (KUML 16408)
- दुहे - दधुः (इन्द्रियं)
- शिवे ते - शिवेन
- वर्तन्ते OIMYS 2262 ?
- अनुदात्तः - प्रचयः
- ध्यायेत् - दहेयुः - ध्यायेयुः
- मकारान्त - नकारान्त ? 5040, 988, 2262
- सकारपर विसर्जनीयाः
- रेफपर विसर्जनीयाः
- दपरपदानि
- अनिंग्यपदानि ? (35- Wai 10264)
- धकारवत्पदानि ? ..66
- मकारान्ताः ..66
- उदजयत् (- उदजयन्) (Wai 10268)
- नवोनवोनाः
- तया - तेन (VVRI 4375)
- सरस्वती - सरस्वतीं (KUML 16408)
- रोहयः - रोहयत् (दिवि)
- यन्नाक्रमयेत् - यन्नानुनिर्वपेत्
- (अनड्वाहं) अध्वर्यवे - अग्नीधे
- प्राणे - प्राणं (त्वामृतं/ते)
- (तत्र) सतः - सन्तं (त्वा)
- (विश्वा) न्मुञ्चतु - न्मुञ्चन्तु - शुन्धन्तु
- बिभ्रतः - पिप्रतः
- निह्नुते - तन्निह्नुते
- वर्धयन्ती - वर्धयन्तीः
- वर्णोत्तमैराद्य - तृतीय वर्ण संयोगाः
मूलम् - 1.1
- इषे, मयोभूः प्रथमम्, अहमस्मि द्वितीयं तृतीयम् । तृतीयस्यां, याः पुरस्तात्, [अमावास्यायाꣳ रात्र्यां, फलीकरणहोमꣳ, सोमस्याहं, यदृतेचित्], तामन्दसाना, शर्मवर्मेदं प्रजावतीः । अन्यत्र प्रजापतिः ॥1॥ (24)
इषे - पय॑स्वतीः प्रजाव॑तीरनमीवाः (सं.1-1-1)
मयोभूः प्रथमं - पिन्व॑मानाः प्रजाव॑तीरिन्द्र (सं. 7-4-43) प्रथममिति किम् ? प्रजाप॑तिर्मह्य॑मेताः (सं. 7-4-44) अत्र द्वितीयत्वात् ‘प्रजापति’रित्येव ।
अहमस्मि द्वितीयं, तृतीयं - प्रजाव॑तीः पुरुरूपा॑ इह स्युः (ब्रा. 2-8-69), प्रजाव॑तीः सूयव॑सꣳ रिशन्तीः(ब्रा. 2-8-70).
द्वितीयं तृतीयमिति किम् ? ब्रह्म॑न्निन्द्रप्रजापती (ब्रा. 2-8-68) इत्यत्र प्रथमत्वात् न ।
तृतीयस्यां - प्रजाव॑तीरनमीवा अ॑यक्ष्मा इत्या॑ह (ब्रा. 3-2-5)
याः पुरस्तात् - प्रजाव॑तीर्यशसो॑ विश्वरू॑पाः (ब्रा. 3-7-37)
अमावास्यायाꣳ रात्र्यां – SCSVMV
फलीकरणहोमं - ?
सोमस्याहं - ?
यदृते चित् - ?
तामन्दसाना - ते त्वा॑ वधु प्रजाव॑तीं प्र त्वे (ए. 1-7)
शर्म वर्मेदं (प्रथमं) - मया पत्या प्रजाव॑ती सं जी॑व (ए. 1-8) ॥ अपि तु, प्रथमे, ‘प्रजाया॑ आभ्यां प्रजापत इन्द्राग्नी’ (ए. 1-8) इत्यत्र न ॥ 1
[प्रजावद्रेतः॑ (ब्रा. 2-4-27), प्रजाव॑दस्मे (सं. 4-3-8, ब्रा. 2-8-26), प्रजाव॑त्सावीः (ब्रा. 2-4-53;आ. 6-21,64),
प्रजावत्सो भि सो अहम् । (आ. 6-63)?].
मूलम् - 1.2
- वैश्वानरोऽम्बे जुष्टो घोषं* तारिषत् । अन्यत्र तारिषः ॥2॥
वैश्वानरः - प्र ण आयूꣳ॑षि तारिषत् । आ द॑धिक्राः (सं. 1-5-50)
अम्बे - प्र ण आयूꣳ॑षि तारिषत् । आपो हि ष्ठा (सं. 7-4-50)
जुष्टः - प्र ण आयूꣳ॑षि तारिषत् । त्वम॑ग्ने (ब्रा. 2-4-9)
अघोषं - घोषं? - नोपलभ्यते ॥
[*शन्नो वातः - प्र ण आयूꣳ॑षि तारिषत् । इन्द्रस्य गृहोऽसि (आ. 7-90) - तिरुवनन्तपुरं #988, 2938, 16408; मैसूरु #2262]
अन्यत्र - प्र ण आयूꣳ॑षि तारिषः (सं. 3-3-35), प्र प्र॑ दातारं॑ तारिषः (सं. 4-2-10,5-2-8; का. 2-27)
[मा वो॑ रिषत् खनिता (सं. 4-2-28), मा च॑ ते ख्यास्म॑तीरिषत् (आ. 1-114)
अग्निर्नः पातु रीरिषन्नन्यत्र रीरिषः । 4375, 988, 2262. {अग्निर्नो रीरिषदन्यत्र रीरिषः ।}
अग्निर्नः (रीरिषत्) - मा नः॑ प्रजाꣳ री॑रिषन्मोत वीरान् (ब्रा. 3-1-3)^
अन्यत्र (रीरिषः), मा नो अश्वे॑षु रीरिषः (सं. 3-4-43), मा नस्तस्मादेन॑सो देव रीरिषः (सं. 3-4-46),
प्रिया मा न॑स्तनुवो॑ रुद्र रीरिषः (सं. 4-5-23), इन्द्र मा नो॑ रीरिषो मा परा॑ दाः (4-7-32), मेमय्यँज्ञय्यँज॑मानञ्च रीरिषः (ब्रा. 3-7-94), मा नः॑ प्रजाꣳ री॑रिषो मोत वीरान् (ब्रा. 3-7-130, आ. 3-46, आ.4-19), रीरिषत - मा नो॑ मध्या री॑रिषतायुर्गन्तोः (ए. 2-4)?] ॥
(*^द्रष्टव्या - भा.शि. 36 — वैश्वानरश्च जुष्टोऽम्बे शं नोऽग्निर्नश्च तारिषत् ।) ॥2॥
मूलम् - 1.3
- धनस्य, देवा, जिह्वामर्त्यस्याभिभूतिस्स्वर्वाची, सुप्रयसो, मानुषं, कवी(वि?)रिषं, चिकीरुषं, चतस्र, ओजिष्ठः, पोतारा, नेतारा, नेष्टारा, निषसाद, धृतव्रता, यद्योषिद्यत् परं मन्द्रं मन्द्राः । अन्यत्र मन्त्रः ॥3॥
धनस्य - मन्द्रा धन॑स्य सातये (सं. 1-1-4, ब्रा. 3-2-25)
देव - मन्द्रया॑ देव जिह्वया (सं. 1-3-31,1-5-19,4-6-2)
जिह्वामर्त्यस्य - मन्द्र॑जिह्वाऽम॑र्त्यस्य ते (सं. 1-6-5)
अभिभूतिः - मन्द्राभिभू॑तिः केतुः (सं. 3-2-16, का. 1-14)
स्वर्वाची - मन्द्रा स्व॑र्वाच्यदि॑तिः (सं. 3-2-16)
सुप्रयसः* - ईमन्द्रा सु॑प्रयसः॑ (4-1-30) [*अत्र प्रयसः इत्येवोत्तरपदम् । ईम् । मन्द्रासु॑ । प्रयसः॑ ।]
मानुषं - तद्यन्मन्द्रं मा॑नुषम् (सं. 2-5-61)
कविः - मन्द्रः कविरुद॑तिष्ठः (ब्रा. 2-4-23), सुद्रवि॑णा मन्द्रः कविः (ब्रा. 3-5-19,3-6-33,36)
[अपि तु, आ त्वा मन्त्राः कविशस्ता व॑हन्तु (सं. 2-6-70) - समस्तत्वात् न ?]
(रुषं?) इषं - सा नो॑ मन्द्रेषमूर्जन्दुहा॑ना (ब्रा. 2-4-60)
चिकीर्षं - अस्य दृष्टान्तो नोपलभ्यते ॥
चतस्रः - निषसाद॑ मन्द्रा । चत॑स्र ऊर्जम् (ब्रा. 2-4-61) [अपि तु, चतसृभिरनु॑मन्त्रयते । चत्वारि॑ (ब्रा. 1-3-35)]
ओजिष्ठः - मन्द्र ओजि॑ष्ठो बहुलाभि॑मानः (ब्रा. 2-8-19)
पोतारा -मन्द्रा पोता॑रा कवी (ब्रा. 3-6-5)
निषसाद (धृतव्रता?) - होता॑ मन्द्रो निष॑सादा यजी॑यान् (ब्रा. 3-6-24)
यद्योषिद्यत् - यत्कु॑मारी मन्द्रय॑ते । यद्योषिद्यत्प॑तिव्रता । (आ. 1-116)
[इन्द्र - आ मन्द्रैरि॑न्द्र हरि॑भिः, मा मन्द्रैरि॑न्द्र हरि॑भिः (आ. 1-57) - तिरुवनन्तपुरं #16408]
अन्यत्र, स एतं मन्त्र॑मपश्यत् (सं. 1-5-13,14,2-6-46), अध्वरं मन्त्रं॑ वोचेम (सं. 1-5-17),
रक्षाꣳस्युपा॑मन्त्रयन्त तानि॑ (2-4-1), स्कन्नमनु॑मन्त्रयेत यज्ञस्य॑ (सं. 2-6-33), आसन्यान्मा मन्त्रात्पाहि (सं. 3-1-20), ज्येष्ठ॑श्च मन्त्रो॑ विश्वचर््षणे (सं. 3-4-44), उद्धृत्यैवाधाया॑भिमन्त्रियः॑ (1-1-64), अहे॑ बुध्निय मन्त्रं॑ मे गोपाय, मन्त्र॑मेवेतेन॑ (ब्रा. 1-1-77,79,1-2-26), समानो मन्त्रः समि॑तिः (ब्रा. 2-4-38),
यामृष॑यो मन्त्रकृतो॑ मनीषिणः॑ (ब्रा. 2-8-63), आवसथे श्रियं मन्त्रम् । अहि॑र्बुध्नियः॑ (ब्रा. 3-7-29), भर॑द्वाजेत्यामन्त्र्य॑ । वेदाः (का. 1-46), इति मन्त्राः । कल्पो॑ऽत ऊर्ध्वम् (आ. 1-124), गायत्रियाऽभि॑मन्त्रितेनाम्भ॑सा, ..मन्त्रिता आपः॑ (आ. 2-2), नम ऋषि॑भ्यो मन्त्रकृद्भ्यो मन्त्र॑पतिभ्यो मा मामृष॑यो मन्त्रकृतो॑ मन्त्रपत॑यः परा॑ दुः माऽहमृषीन्मन्त्रकृतो॑ मन्त्रपतीन्परा॑ दाम् (आ. 7.1), …. ॥3
मूलम् - 1.4
- उभा, अयंपुरः, मधुः, सहस्राणि, मृडयन्तु (4) । कदाचने,न्द्रं वो, मृडयन्तः (2) । समीची, द्वे पूर्वे मृडयताम् (2) । द्रापे,ऽग्न उदधे, मयोभू,र्यदस्य पारे मृड (6)।
इन्द्रं वो द्वितीयं, नमस्ते द्रापेद्वितीयं, ममाग्ने, मृडय (4) । अन्यत्र मृडयत (1)* । [या वाम्,?] समीची द्वे पूर्वे तं वाम्, *अन्यत्र तं वः ॥
उभा - ऋतस्य॑ नः पत॑यो मृडयन्तु (सं. 1-1-27) [अपितु, स नो॑ मृडातीदृशे (सं. 1-1-27)]
अयं पुरः, मधुः, सहस्राणि -तेभ्यो नमस्ते नो॑ मृडयन्तु (सं. 4-4-8,4-4-31,4-5-27)
कदाचन, इन्द्रं वः (प्रथमं) - आदि॑त्यासो भव॑तामृडयन्तः॑ (सं. 1-4-23,2-1-63)
समीची (द्वे पूर्वे) - तौ नो॑ मृडयताम् (सं. 5-5-42,43)
अन्यत्र, मृडयत - ते नो॑ मृडयत (सं. 5-5-46)
द्रापे - तया॑ नो मृड जीवसे, मृडा नो॑ रुद्र, मृडा ज॑रित्रे (सं. 4-5-21,22,24)
अग्न उदधे - तया॑ नो मृड तस्याः (सं. 5-5-37)मयोभूः - अवसाय॑ पद्वते॑ रुद्र मृड (सं. 7-4-43)यदस्य पारे - प्रजाभ्यः सर्वाभ्यो मृड (ब्रा. 3-7-93,94)
इन्द्रं वो द्वितीयं - अद्या च॑ मृडय (सं. 2-1-65) [प्रथमं ‘मृडयन्तः’]
नमस्ते - तया॑ नो रुद्र मृडय (सं. 4-5-1) [अपितु, स दृष्टो मृ॑डयाति नः (सं. 4-5-3)]
द्रापे द्वितीयं - मीढ्व॑स्तोकाय तन॑याय मृडय (सं. 4-5-24)
ममाग्ने - स नः॑ प्रजायै॑ हर्यश्व मृडय (सं. 4-7-31)
[*ता नो॑ मृडात ईदृशे (सं. 2-5-71), अग्ने भ्रातर्वसवो मृडता॑ नः (ब्रा. 2-8-44), अस्मिन् यज्ञे म॑रुतो मृडता नः । (ब्रा. 3-7-53), दूरेहे॑तिरमृडयः (सं. 3-4-20)?]
समीची (द्वे पूर्वे) -ताभ्यान्नमस्तौ नो॑ मृडयतां .. तं वां जम्भे॑ दधामि (सं. 5-5-42,43) [*तं वा॑मेतेनाव॑ यजे (सं. 2-3-48,50)]
तं वः - यश्च॑ नो द्वेष्टि तं वो जम्भे॑ दधामि (सं. 4-4-9,31,4-5-27,5-5-46),
[तं वो माऽव॑ क्रमिषम् (सं. 1-2-8), तं वस्सुप्री॑तम् (1-4-51), तं वो॑ गृह्णाम्युत्तमम् (1-7-46);
या वां कशा (सं. 1-4-7), या वा॑मिन्द्रावरुणा (सं. 2-3-48), यो वा॑मिन्द्रावरुणा (2-3-48,50) यो वाꣳ रथः॑ (4-7-34)
या वः शर्म॑ (सं. 1-5-51,2-1-60,2-3-54), यो वः॑ शिवत॑मः (सं. 4-1-18,5-1-4,7-4-50), ?] ॥4
मूलम् - 1.5
- पुरा ताꣳ स्रजꣳ स एतया तेजः पशूनाशिषो यस्मा अन्यस्मै तीर्थे वि यो मधव्यो ज्योतिरिति नाऽग्निमुखान् प्रसूत्या आत्मैषां त्रयस्त्रिꣳशत्प्रजापतिः परं ददाति ।
दानकामा रूपाणां मिथुनस्य सर्वदेवत्यं द्वादश यां प्रकाशं कामः कामेन च प्र दिशाꣳ रेतोऽश्व ईश्वरोऽग्रꣳ शतायुः तत् साऽन्नाद्विश्वचर्षणिरेकविꣳशः सर्वाणि हिरण्यज्योतिः तेन परं ददाति । अन्यत्र दधाति । आदधात्युपदधातीति वर्जयित्वा ॥5॥ 4375, 2938
सम्वत्सरं सन्नाश ?तेजस्या नस्संपामा प्सरसं ददाति । सजास् दृत्यै स्संवत्सरं समिधो या सकामयन्तेजस्योनस्सं र्विश्वायुस्तत्सन्नापरन्ददाति । 988
सृज दृत्यै स्संवत्सरं सकाशं नतजस्योनस्सं स्स्योनायुस्तत्सन्ना(ङ्गि?)रसन्ददाति । 2262
स्रुच निर्ऋत्या त्प्रदहेयुः र्दिशां अग्निमिन्द्रोपाणाम्मधुस्य नदीयां च तेजसो नस्त्वां एकं द्यां त्सन्नास्यवत्परन्ददाति । 16408
गावो वासो द्वादशभ्यो दुग्ध्वा द..ध्वर्यवे तपसारिणी सोमः …. यत्पुण्यं भ्यां भ्य एवैनपरि दक्षिणा शते च विते शतꣳ सहस्रं किं चैतासपूर्वश्च ।
याभिर्ददासि च वस्तृतीयवर्णाः यस्य स्वापरो द… पसा मनोधावाच्छिद्यमानया मघावारिषेण्यदतोयमोवै… ः कामपमस्मकमेनःपूर्वश्च । नसुपरः । 115
पुरा - यो बर््हिषि ददा॑ति पुराऽस्य॑ (सं. 1-5-2)
ताम् - यज्ञे दख्षि॑णां ददा॑ति ताम॑स्य (सं. 1-7-6)
स्रजं - अध्वर्यवे॑ ददाति स्रज॑मुद्गात्रे (सं. 1-8-34)
सः - यः खलु वै ददा॑ति सोऽर्यमा (सं. 2-3-20), यो मा ददा॑ति स इदेवमावाः (ब्रा. 2-8-59, {ददाति} आ. 5-42)
एतया - एवैन॑द्ददात्येतयैव (सं. 2-4-32)
तेजः - हिर॑ण्यं ददाति तेज॑ एव (सं. 2-4-34), यद्धिर॑ण्यन्ददा॑ति । तेजस्तेन॑ (ब्रा. 2-7-26)
पशून् - तार्प्यं द॑दाति पशूनेव (सं. 2-4-35). अपितु, गार््ह॑पत्यमा द॑धाति । पशूनेवाव॑ (ब्रा. 1-1-28)* इत्यत्रापवादः ।
आशिषः - धेनुं द॑दात्याशिष॑ एव (सं. 2-4-35)
यस्मै - नान्यस्मै॑ ददाति यस्मै॑ महता (सं. 2-5-24)
अन्यस्मै - आत्मना ददात्यन्यस्मै॑ महता (सं. 2-5-24)
तीर्थे - दख्षि॑णां ददाति तीर्थ एव (सं. 2-6-43)
वि - दख्षि॑णां ददाति वि वा एतत् (सं. 2-6-43)
यः - ये ददा॑ति यो यज॑ते (सं. 3-5-14), अपितु, ब्रह्मवर्चसं द॑धाति यो वै (सं. 1-7-30), रेतो॑ दधाति ॥ (यो वै) (ब्रा. 3-8-6/7) इत्यत्रापवादः ।
मधव्यः - पूर्णं द॑दाति मधव्यो॑ऽसानीति॑ (सं. 5-7-3, ब्रा. 1-3-21)
ज्योतिः - हिर॑ण्यं ददाति ज्योतिर्वै हिर॑ण्यम् (सं. 5-7-18,6-6-5)
इति - यः स्वं ददातीति॑ (सं. 6-1-41)
न - पुन॑र्वा ददा॑ति न वेति॑ (सं. 6-3-12), दुग्ध्वा द॑दाति । न ह्यदृ॑ष्टा (ब्रा. 1-4-13), उपेद्द॑दाति न स्वं मु॑षायति । (ब्रा. 2-8-69).
अपितु, मन्युं मनो॑ दधाति न हतम॑नाः (सं. 2-2-40), वाजि॑नं दधाति न क्लीबः (सं. 2-3-18), उप॑दधाति न हीमे (सं. 5-2-39)*, लोकाद॑न्तर्दधा॑ति न स्वरु॑भिः (सं. 5-5-29), वीर्यं॑ दधाति । नास्मै (ब्रा. 1-8-21), प्राणानेवास्मि॑न्दधाति । नास्मात् (ब्रा. 3-9-29), समीची॑ दधाति । न पुष्टं (ब्रा. 3-9-31), प्रति॑दधाति । नैनम्, नोक्थ्ये (आ. 1-16, 8-48) इत्यत्रापवादः ।
अग्निमुखान् - अग्नीधे॑ ददात्यग्निमु॑खान् (सं. 6-6-5, ब्रा. 1-1-53/54). अपितु, अग्नीध आद॑धात्यग्नि-मु॑खानेव (सं. 2-6-49)* इत्यत्रापवादः ।
प्रसूत्यै - ब्रह्मणे॑ ददाति प्रसूत्यै (सं. 6-6-5)
आत्मा - होत्रे॑ ददात्यात्मा (सं. 6-6-5)
एषां - अव्य॑वच्छिन्नानि ददात्येषाम् (सं. 7-1-17)
त्रयस्त्रिꣳशत् - वार्त्र॑घ्नीन्ददा॑ति त्रय॑स्त्रिꣳशत् (सं. 7-1-23)
प्रजापतिः - अन्योऽन्यस्मै॑ ददाति ॥ (प्रजाप॑तिः) (सं. 7-2-33)
दानकामाः - यो ददा॑ति । दान॑कामा अस्मै (ब्रा. 1-1-9)
रूपाणाम् - उपबर््ह॑णं ददाति । रूपाणामव॑रुद्ध्यै । (ब्रा. 1-1-54)
मिथुनस्य - मिथुनौ गावौ॑ ददाति । मिथुनस्याव॑रुद्ध्यै । (ब्रा. 1-1-55)
सर्वदेवत्यं - वासो॑ ददाति । सर्वदेवत्यं॑ वै वासः॑ । (ब्रा. 1-1-55)
द्वादश - आ द्वा॑दशभ्यो॑ ददाति । द्वाद॑श मासाः सव्वँथ्सरः । (ब्रा. 1-1-55)
याम् - यद्दक्षि॑णान्ददा॑ति । यामेव (ब्रा. 1-4-55)
प्रकाशं - .. अध्वर्यवे॑ ददाति । प्रकाशमेवैनम् .. (ब्रा. 1-8-5)
सा - यतत्तो (त्किञ्च) ददा॑ति सा दख्षि॑णा (ब्रा. 2-1-36, आ. 2-16)
कामः - स प्रजाप॑तये ददाति । कामः कामा॑य (ब्रा. 2-2-32)
कामेन - कामे॑न हि ददा॑ति । कामे॑न प्रतिगृह्णाति॑ । (ब्रा. 2-2-32)
च - यज॑ते ददा॑ति च । ज्योक् (2-4-59)
प्र - परि॑ददाति । प्र वा ए॑नान् (ब्रा. 3-2-4). अपितु, तद्द॑धाति । प्राश्ञ॑न्ति (ब्रा. 1-1-67) इत्यत्रापवादः।
दिशाम् - हिर॑ण्यानि ददाति । दिशामेव (ब्रा. 3-8-2)
रेतः - हिर॑ण्यं ददा॑ति । रेत॑ एव, ओदने द॑दाति । रेतो वै (ब्रा. 3-8-6)
अश्वः - परि॑ददाति । अश्वो॑ऽसि (ब्रा. 3-8-32)
ईश्वरः - परि॑ ददाति । ईश्वरो वा अश्वः॑ (ब्रा. 3-8-34). अपितु, समीचो दधाति । ईश्वरो वा एषः (आ. 8-36) इत्यत्रापवादः ।
अग्रं - आभ्यामेवैनं परि॑ददाति । अग्र॑व्वृँक्षस्य॑ (ब्रा. 3-9-33)
शतायुः - शते च॑ ददाति । शतायुः पुरु॑षः (ब्रा. 3-9-55), शतं द॑दाति । शतायुः पुरु॑षः (का. 3-29)
विश्वचर््षणिः - ददा॑ति विश्वच॑र््षणिः । (का. 2-36)
एकविꣳशः - दख्षि॑णा ददाति । एकविꣳशः (का. 3-28)
सहस्रसम्मितः - सहस्रं॑ ददाति । सहस्र॑सम्मितः (का. 3-29)
सर्वाणि - दख्षि॑णा ददाति । सर्वा॑णि वयाꣳ॑सि । (का. 3-29)
हिरण्यज्योतिः, तेन - हिर॑ण्यं ददाति । हिर॑ण्यज्योतिरेव, वासो॑ ददाति । तेनायुः॑ (का. 3-31)
तत् - अन्नं ददा॑ति तन्म॑नुष्ययज्ञः (आ. 2-13). अपितु, (नि) द॑धाति । तत्प्रा॑णापानयोः, तद्धि (ब्रा. 3-2-19,27) इत्यत्रापवादः ।
अन्नात् - सर्वाण्येतानि॑ ददात्यन्नात्प्राणाः (आ. 6-78)
आदधात्युपदधातीति वर्जं - *चिह्नितोदाहरणानि एतदन्तर्गतानि । आ, उप, अनयोरुपसर्गयोः परं ददाति इति कुत्रापि नास्ति ॥5॥
उप॑ दधात्यप्सरस॑ एव (सं. 5-3-32).
वेदो द॑दातु वाजिनम् (सं. 1-6-14,1-7-20), देवी द॑दातु नः (सं. 1-7-41), मनो ददा॑तु दैव्यः॑ (सं. 1-8-9), तस्य॑ ते ददातु यस्य॑ (सं. 2-3-38), धाता द॑दातु नः (सं. 2-4-15, 3-3-33,34), अच्छि॑द्यमानया ददा॑तु वीरं, नो ददातु श्रव॑णं (सं. 3-3-36), स मे॑ ददातु प्रजां (आ. 3-7,8,9,10), अस्माकं॑ ददातु । श्वेतः (आ. 3-29), इन्द्रो॑ ददातु मेधां (आ. 6-55), मघवा॑ ददातु । धना॑नि (ब्रा. 2-5-8), सविता नो॑ ददातु । बृहस्पतिः॑ (ब्रा. 2-5-11), यज॑मानाय ददातु स्वाहा, पशून्द॑दातु स्वाहा (ब्रा. 2-5-32,33), स नो॑ ददातु द्रवि॑णं (ब्रा. 2-8-4), कर्मण्यं॑ ददातु । सादन्यम् (ब्रा. 2-8-15), ततो॑ ददातु दाशुषे (ब्रा. 2-8-38), वैश्रवणो द॑दातु । स मे (आ. 1-128), कामवरन्द॑दातु । पञ्चा॑रं, सप्त (आ. 3-27), मेधामग्निर्द॑दातु मे । (ए. 2-4).
द्रवि॑णं दधातु । सम्, ये, आयु॑ष्मन्तः, उथ्सम् (सं. 1-4-46, 2-3-54, 3-1-26; ब्रा. 3-7-38), इमं द॑धातु । बृहस्पतिः॑, याः, इति॑ (सं. 1-5-11,15,44; 1-6-10, 1-7-5; ब्रा. 3-7-70), इन्द्रियं द॑धात्वस्मान्, इति॑ (सं. 1-6-9, 2-4-39,40,42), इष॑न्दधातु द्रवि॑णं (सं. 3-2-33), तेजो॑ दधातु मयि॑, इन्द्रियं द॑धातु मयि॑, भ्राजो॑ दधातु ॥ वायुः (सं. 3-3-2), चिकितुषे॑ दधातु ॥ वि वै (सं. 3-3-36), मातरिश्वा॑ दधातूत्तानायै, इति॑ (सं. 4-1-14, 5-1-21), उखां द॑धातु हस्त॑योः (सं. 4-1-20), सुविते द॑धातु । एताः, प्रजाप॑तेः, यथा, मूल॑म् (सं. 5-1-57; ब्रा. 3-1-1,2,15), रेतो॑ दधातूत् (सं. 7-4-47), सुधि॑तां दधातु । रोहꣳ॑रोहम् (ब्रा. 2-5-4), पूर्वचि॑त्तिं दधातु । यज्ञः (ब्रा. 2-5-18), सविता द॑धातु । सोमः॑, भुव॑नस्य, यत्ते (ब्रा. 2-7-61; ब्रा. 3-7-92; आ. 4-2,10), रयिपति॑र्दधातु । अव॑तु (ब्रा. 2-8-6), सा नो॑ दधातु सुकृतस्य॑ (ब्रा. 2-8-63), अमृतत्वे द॑धातु । काम् (ब्रा. 3-7-38), बृहस्पति॑र्दधातु । आप॑मापां, केतवः॑ (आ. 1-1,76), वि द॑धातु रायः (आ. 2-4), अग्निर्द॑धातु । हरिः॑ (आ. 3-27), भ्राजो॑ दधातु । द्युभिः (आ. 7-90), अमृतं॑ दधातु । ईशा॑ना (का. 3-12), सुधि॑तां दधातु । अग्निः (का. 3-14), गर्भं॑ दधातु ते (ए. 1-13), प्रतरां द॑धात्वग्निः (ए. 2-4), तेजो॑ दधातु । त्वयि॑, इन्द्रियं द॑धातु । त्वयि॑, भ्राजो॑ दधातु । क्षेत्रियै (ए. 2-12).
याभिर्ददा॑सि दाशुषे (सं. 3-3-36) । वयो दधा॑सि देव (सं. 3-4-41), उक्थ्यं॑ दधा॑सि दाशुषे (सं. 4-2-30), दक्षं॑ दधासि जीवसे (ब्रा. 2-4-46) ।.
मे ददा॑मि ते (सं. 1-8-5), परि॑ वो ददामि तेन॑ (सं. 3-3-28), परि॑ ददाम्यभि॑त्त्यै (सं. 4-1-23,36), परि॑ ते ददामि यम् (सं. 5-7-30), परि॑ ददामि तस्याम् (आ. 4-20), त्वा परि॑ ददाम्यसौ, मात्रान्ददामि यथा (ए. 2-3,19) ।.
उप॑ दधामि वैष्णवी, पृथिवी, दक्षि॑णया, प्रतीच्या, उदीच्या, ऊर्ध्वया, यः (सं. 1-3-4, 4-4-18, 5-5-35,36), अन्तस्ते॑ दधामि द्यावा॑पृथिवी (सं. 1-4-4, 6-4-28), सन्द॑धामि हविषा (सं. 1-5-44), एतद्द॑धामि स्वाहा (सं. 1-5-46), ऐनं॑ दधामि निर्ऋ॑त्याः (सं. 1-6-5), त्वा दधामि सह (सं. 1-6-15, 1-7-21), अपि॑ दधाम्यास्ये (सं. 4-1-39), ते दधामि जम्भ॑योः (सं. 4-1-40), जम्भे॑ दधाम्यायोः, सहस्र॑स्य, अश्मन्न्॑, ओजस्विनी, एताः, हुतादः॑ (सं. 4-4-9,31; 4-5-27, 5-5-42,44,46), वर्चो॑ दधाम्यरि॑ष्टाः (सं. 5-7-36), आद॑धामि । अन्नादम् (ब्रा. 1-2-20,24), आ द॑धामि प्र, तथा (ब्रा. 2-5-26; ए. 2-12; आ. 7-78), उप॑, अपि॑ दधाम्यहम् (ब्रा. 3-7-36,40), परिधीन्द॑धामि । धर्ता (ब्रा. 3-7-61), परिधिं द॑धामि मा (ब्रा. 3-7-113; आ. 4-24; ए. 2-22), तत्ते॑ दधामि । यत् (आ. 2-3), गर्भं॑ दधामि ते (ए. 1-13), नि द॑धाम्यसौ (ए. 2-21) ॥
इन्द्रं वै स्वाविशो दत्ते ॥ अन्यत्र धत्ते ॥ 2567, 10265
इन्द्रियमित्यस्यानन्तरं दत्ते वा धत्ते वा इति सन्देहनिरासकोऽयम् ।
इन्द्रं वै स्वाविशः - आ श्रेय॑सो भ्रातृ॑व्यस्य तेज॑ इन्द्रियन्द॑त्ते । (ब्रा. 2-7-64).
अन्यत्र - आत्मन्नेव यश॑ इन्द्रियन्ध॑त्ते (सं. 5-7-27).
[इन्द्रियमेवात्मन्ध॑त्ते ।(सं. 1-6-24, 3-4-14; ब्रा. 2-2-44). अस्मिन्न॑र इन्द्रियन्ध॑त्तम् (सं. 1-6-49)]॥
ऋतव आदित्या गावो ज्योतिरेव पुरस्ताद्दधते ॥ 5040
ऋतवः, आदित्याः, गावः - ज्योति॑रेव पुरस्ताद्दधते (सं. 7-2-20, 7-4-23, 7-5-3).
एष्विति किम् - इन्द्राग्नी, सुवर्गाय यद्दाक्षिणानि - ज्योति॑रेव पुरस्ताद्धत्ते (सं. 5-3-8, 6-6-5). ॥
मूलम् - 1.6
- अयज्ञः, क्रूर,मग्निर्देवेभ्यो, वैष्णव्यर्चा,ऽवभृथयजूꣳष्या,दित्या, वसिष्ठोद्वितीयं, ज्योतिष्टोमं, ब्रह्मन् प्रचरिष्याम,ष्षड्वा ऋतव ऋतुषु ।
साध्या, ऋतव, ऋक्षा, वसिष्ठः प्रथमꣳ, षड्वा ऋतवष्षट्पृष्ठानि । अन्यत्र षड्वा ऋतवस्सव्वँथ्सरः* ॥6॥
अयज्ञः - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठति (सं. 1-5-26,27)
क्रूरं - षड्वा ऋतव॑ ऋतुष्वेव वृष्टि॑न्दधाति (सं. 5-1-22)
अग्निर्देवेभ्यः - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठति (सं. 5-4-45)
वैष्णव्यर्चा - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठति (सं. 6-3-18)
अवभृथयजूꣳषि - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठति (सं. 6-6-11,12)
आदित्याः [सुवर्गं] - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठन्ति (सं. 7-4-23) [आदित्या … उभयोः (सं. 7-3-9,10) इत्यत्र न ।]
वसिष्ठो द्वितीयं - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठन्ति (सं. 7-4-27) द्वितीयमिति किम्? - प्रथमे, षड्वा ऋतवष्षट्पृष्ठानि॑ (सं. 7-4-26)
ज्योतिष्टोमं - षड्वा ऋतव॑ ऋतुष्वेव प्रति॑तिष्ठन्ति (सं. 7-4-36)
ब्रह्मन् प्रचरिष्यामः - षड्वा ऋतवः॑ । ऋतुष्वेव प्रति॑तिष्ठन्ति । (आ. 8-41)
साध्याः, ऋतवः, ऋक्षा - षड्वा ऋतवष्षट्पृष्ठानि॑ पृष्ठैरेव (सं. 7-2-1,7-2-20,7-4-10)
वसिष्ठः (प्रथमं) - षड्वा ऋतवष्षट्पृष्ठानि॑ पृष्ठैरेव (सं. 7-4-26)
अन्यत्र, षड्वा ऋतव॑स्सव्वँथ्सरः (सं. 5-2-31,5-4-6,5-6-27,7-4-5,7-5-4, आ. 2-11).
[*षड्वा ऋतवः॑ । ऋतूनेव (सं. 6-2-18,6-5-10,6-6-6,42, ब्रा. 1-3-59,1-6-59,70,2-1-30,3-3-39,57,3-9-55); .. । ऋतवः खलु॑(सं. 5-4-55, ब्रा. 1-3-60); .. । ऋतुभ्य॑ एव (आ. 8-46/47); .. । ऋतुभि॑रेव (सं. 5-1-37,45,55,5-2-26,5-4-15,26,6-1-8,6-4-26, ब्रा. 1-4-38,1-7-54,3-9-26, आ. 8-59,88); .. । प्रजाप॑तिना (सं. 3-4-27) ?] ॥6
मूलम् - 1.7
-
सम्पश्याम्यगन्म सुवर्गाय वै पशोर्यथा वै यन्निक्तं घर्मयाते प्र वा एषोऽस्माल्लोकाच्च्यवते । देवासुरामिथ-स्सन्ततिर्देवस्याहं प्रतिपूरुषं प्र वा एतेऽस्माल्लोकाच्च्यवन्ते ॥7॥
सम्पश्यामि - प्र वा एषोऽस्माल्लोकाच्च्य॑वते य आ॑हवनीयम् (सं. 1-5-33)
अगन्म - प्र वा एषोऽस्माल्लोकाच्च्य॑वते यो वि॑ष्णुक्रमान् (सं. 1-7-25)
सुवर्गाय वै (लोकाय) - प्र वा एषोऽस्माल्लोकाच्च्य॑वते योऽग्निञ्चि॑नुते (सं. 5-4-49)
पशोः - प्र वा एषोऽस्माल्लोकाच्च्य॑वते यः पशुं मृत्यवे (सं. 6-3-48)
यथा वै यन्निक्तं - प्र वा एषोऽस्माल्लोकाच्च्य॑वते । यः परा॑चीराहु॑तीः (ब्रा. 3-8-24)
घर्मयाते - प्र वा एषोऽस्माल्लोकाच्च्य॑वते । यः प्र॑वर्ग्यं (आ. 8-93) [वारुणो वै - प्र वा एष एभ्यो लोकेभ्य॑श्च्यवते । (ब्रा. 3-9-61)?]
देवासुरा मिथः - प्र वा एतेऽस्माल्लोकाच्च्य॑वन्ते ये सोम॑मा (सं. 6-2-13)
सन्ततिः - प्र वा एतेऽस्माल्लोकाच्च्य॑वन्ते । ये वैश्वकर्मणं (ब्रा. 1-2-36)
देवस्याहं - प्र वा एतेऽस्माल्लोकाच्च्य॑वन्ते । य आजिं धाव॑न्ति । (ब्रा. 1-3-36)
प्रतिपूरुषं - प्र वा एतेऽस्माल्लोकाच्च्य॑वन्ते । ये त्र्य॑म्बकैश्चर॑न्ति । (ब्रा. 1-6-75) ॥7 -
पशुर््ऋतव्याः पूर्वं यस्यैता उपधीयान्तै य उ चैना एवं वेददिति । अग्नेर्यस्यैषा विधा विधीयते य उ चैनामेवं वेद । छन्दाꣳस्यपान्देवेभ्य उत्तमं य उ चैना एवं वेद ।
अपां परं यस्यैष उपधीयते य उ चैनमेवं वेद । सावित्रं देवस्य रशनां मेध्यानेवैनान् करोति । अन्यत्र मेध्यामेवैनां करोति ॥43॥
पशुः - ब्रह्मणान्नं यस्यैता उ॑पधीयान्तै य उ॑ चैना एवं वेददिति॑ प्राणभृतः॑ (सं. 5-2-56)
ऋतव्याः (पूर्वं) - ब्रह्मणान्नं यस्यैता उ॑पधीयान्तै य उ॑ चैना एवं वेददिति॑ सव्वँथ्सरः (सं. 5-4-6). पूर्वमिति किम्? अधि॑पत्नीर्नामेष्ट॑का यस्यैता उ॑पधीयन्तेऽधि॑पतिरेव (5-4-7) इत्युत्तरत्र न ।
अग्नेः - आस्यान्नादो जा॑यते यस्यैषा विधा वि॑धीयते य उ॑ चैनामेवं वेद सृष्टीरुप॑ दधाति (5-3-22)
छन्दाꣳसि - गृहे दृ॑श्यते यस्यैता उ॑पधीयन्ते य उ॑ चैना एवंवेदान्नं वा आपः॑ (5-3-37)
अपां - सर्वमायु॑रेति यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेदान्नं वा आपः॑, पशुमान्भ॑वति यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद द्वाद॑श भवन्ति (5-6-6),
पात्रान्न छि॑द्यते यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद॑ कुम्भाश्च॑ (5-6-7), मिथुनैर्जा॑यतेयस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद शुग्वा अग्निः (5-6-7/8)
देवेभ्यः (उत्तमं) - य उ॑ चैना एवं वेद॑ । तास्व॑न्विष्टि । (का. 3-10,21). उत्तममिति किम्? पूर्वत्र सर्वत्र, य उ॑ चैनदेवं वेद॑ । सोऽत्र॑ जुहोति । (का. 3-3 to 9, 3-16 to 20)
अपां (परं) - ब्रह्मवर्चसी भ॑वति यस्यैष उ॑पधीयते य उ॑ चैनमेवं वेद॑ । (5-6-10). परमिति किम्? पूर्वत्र, य उ॑ चैना एवं वेद॑ (5-6-6,7,8)
सावित्रं - मेध्या॑नेवैनान्करोति । (ब्रा. 1-3-29,30)
देवस्य रशनां - मेध्या॑नेवैनान्करोति । (आ. 8-61)
अन्यत्र, मेध्या॑मेवैनां करोति - (सं. 2-6-24; ब्रा. 1-6-35), मेध्या॑मेवैनां देवयज॑नीं करोति । (ब्रा. 3-2-70,75)*, मेध्या॑मेवैनां केव॑लीं कृत्वा । (3-3-12)* ।
* चिह्नितेषु स्थलेषु ‘मेध्यामेवैनाम्’ इति इयदेव ग्राह्यम् । [मेध्य॑मेवैन॑त्करोति (सं. 2-6-24)?] ॥43॥
विदुषो हविषा पूर्वो य उ चैनदेवं वेद ॥ यजते चिनुते य उ चैनमेवं वेद । अन्यत्र य उ चैनामेवं वेद ॥ 4421, 10268, 2567, 4159, 991, 144, 10266, 9387, 1141, 6063, 10265, 2346, 1456, 992, 2262, 115
विदुषः पूर्वं - एनदेवं (ब्रा. 2-1-53,59).
हविषा (यजते) पूर्वं - एनदेवं (ब्रा. 3-1-27 to 40, 42 to 55, 57 to 62; का. 3-3 to 9, 16 to 20).
अत्र यजते हविषापूर्वमिति निर्देशः, यजते इति इष्टिभिःपूर्वं चेत्, य उ॑ चैना एवं वेद॑ (का. 3-10,21) इत्यर्थम् ।
यजते - एनमेवं (सं. 5-3-48; ब्रा. 1-5-59, 2-7-12,14,25,33,34,62,64,66; 3-8-74, 3-9-37,75,81,82; आ. 1-102).
अत्र हविषा इति पूर्वत्र न स्याच्चेदिति ज्ञेयम् ।
चिनुते - एनमेवं (का. 2-41,47,51,53,55,56,60,62; आ. 1-102, 112).
अन्यत्र, एनामेवं (सं. 5-3-22). ॥
मूलम् - 1.8
- इडा, यन्नवꣳ, रथमुखे, नास्यो,पयामगृहीतोऽस्या,पो, यावती, मेध्यत्वाय, निर््ऋतिलोक, एकधा, प्रत्यञ्चः, श्मशानं, यो, रुद्रो, वायव्यो,ऽपक्रामुका, उन्नेतरि, पशुमानेव परमुप*तिष्ठन्ते ॥8॥
इडा - उप॑तिष्ठन्त इडा खलु वै (सं. 1-7-1)
यन्नवं - अव॑रुद्धा उप॑तिष्ठन्ते ॥ यन्नवमैत् (सं. 2-3-37/38) नवमिति किम्? याज्यानुवाक्या॑भिरुप॑तिष्ठते । यदेवास्य॑ (ब्रा. 1-8-26),
देवयज्ञः सन्ति॑ष्ठते यत्, पितृयज्ञः सन्ति॑ष्ठते यत्, भूतयज्ञःसन्ति॑ष्ठते यत्, मनुष्ययज्ञः सन्ति॑ष्ठते यत्, ब्रह्मयज्ञः सन्ति॑ष्ठते यत् (आ. 2-13) इत्यत्र न ।
रथमुखे - अव॑रुद्धा उप॑तिष्ठन्ते रथमुख ओज॑स्कामस्य (सं. 3-4-23)
नास्य - उप॑तिष्ठन्ते नास्याप॑रूपम् (सं. 3-5-24) अस्येति किम्? नक्तमुप॑तिष्ठते न प्रातः (सं. 1-5-40) इत्यत्र न ।
उपयामगृहीतोऽसि - उप॑तिष्ठन्त उपयामगृ॑हीतोऽसि प्रजाप॑तये त्वा (सं. 3-5-26)
आपः - व्रतमु॑पतिष्ठ॑न्त आपः॑ । (सं. 3-1-37,4-2-15)
यावती - पुनरेत्योप॑तिष्ठन्ते ॥ याव॑ती वै (सं. 5-2-13)
मेध्यत्वाय, निर््ऋतिलोके, एकधा - मार्जयित्वोप॑तिष्ठन्ते मेध्यत्वाय, गार््ह॑पत्यमुप॑तिष्ठन्ते निर््ऋतिलोक एव, .. एकयोप॑तिष्ठन्त एकधा (सं. 5-2-24)
प्रत्यञ्चः - पशवो विति॑ष्ठन्ते प्रत्यञ्च आव॑र्तन्ते (सं. 5-2-28) [अत्र वि तिष्ठन्ते *।]
श्मशानं - पशव उप॑तिष्ठन्ते श्मशानं वा एतत् (सं. 5-2-45)
यः - मेधमुप॑तिष्ठन्ते यो वा अप॑नाभिम् (सं. 5-2-47)
रुद्रः - अमुष्मि॑ल्लोँक उप॑तिष्ठन्ते ॥ रुद्रो वा एषः (सं. 5-4-8/9)
वायव्यः - पशव उप॑तिष्ठन्ते वायव्यः॑ कार्या(३)ः (सं. 5-5-3)
अपक्रामुकाः - पशवोऽनूप॑तिष्ठन्तेऽपक्रामु॑का अस्मात् (सं. 5-7-37)
उन्नेतरि - भुञ्जन्त उप॑तिष्ठन्त उन्नेतर्यु॑पहवम् (सं. 6-5-35)
पशुमान् - पशव उप॑तिष्ठन्ते पशुमानेव भ॑वति (सं. 6-6-15) एवेति किम्? अग्निमु॑पतिष्ठ॑ते पशुमान्भ॑वति (सं. 1-5-38)
[ब्राह्मणे तु, अस्मै, स, यजमानो, न्य,ग्निꣳ, सुसन्दृशम,क्षन्, यानि, तस्मा,द्देवयज्ञः, परं तिष्ठन्ते ।
अस्मै - तिष्ठ॑न्तेऽस्मै ज्यैष्ठ्या॑य, तिष्ठ॑न्तेऽस्मै प्रजा अन्नाद्या॑य (1-3-10,3-2-67)
सः - आहि॑ताग्नेः पशव उप॑तिष्ठन्ते । स यत् (ब्रा. 1-4-24)
एवं - इष्ट॑यः सन्ति॑ष्ठन्ते । एवꣳ हि (ब्रा. 1-5-38/39)
यजमानः - भुञ्जन्त उप॑तिष्ठन्ते । यज॑मानो वै (ब्रा. 1-6-23)
नि, अग्निं - आहवनीयमुप॑तिष्ठन्ते । न्ये॑वास्मै, आतमि॑तोरुप॑तिष्ठन्ते । अग्निमेव (ब्रा. 1-6-68)
सुसन्दृशं - य आतमि॑तोरुपतिष्ठ॑न्ते । सुसन्दृश॑न्त्वा (1-6-68)
अक्षन्न् - गार््ह॑पत्यमुप॑तिष्ठन्ते । अक्षन्नमी॑मदन्त (ब्रा. 1-6-69)
यानि - त उप॑तिष्ठन्ते । यान्येव (ब्रा. 1-8-26)
तस्मात् - मेधमुप॑तिष्ठन्ते । तस्मात्प्रजाः (ब्रा. 3-2-40,46)
देवयज्ञः - सतति सन्ति॑ष्ठन्ते देवयज्ञः पि॑तृयज्ञः (आ. 2-13)?] ॥8
मूलम् - 1.9
- प्रथमवसन्ता सारस्वतीमाग्नावैष्णवं यदिन्द्राय यदेव सर्वं पुष्यति मध्यतः प्रायणीये निवेशनो यो यत्पराचीनानि द्वादश विधृत्यै प्रजननाय मासान्तदन्वप्रतिहिताभिः पृथिव्यै सप्तदश नवदाव्यासु सहस्राश्वस्यामृतं वेतसशाखो नास्माच्छ्रियमुत्तरं प्रत्यग्नय उद्धते सिकतोपोप्ते परिश्रिते निदधति शान्त्यै संवथ्सरोऽग्निजास्संवथ्सरं प्रजापतिः परं दधति ॥9॥
प्रथमवसन्ता - ‘ता एवास्मि॑न्ब्रह्मवर्चसं द॑धति ब्रह्मवर्चस्ये॑व भ॑वति वसन्ता प्रातः’ (सं. 2-1-11) इत्यत्र प्रथमत्वात् पूर्वं दधति । प्रथमेति किम्? उत्तरत्र तु, ‘स एवास्मि॑न्ब्रह्मवर्चसं द॑धाति ब्रह्मवर्चस्ये॑व भ॑वति वसन्ता प्रातः’ (सं. 2-1-11) इत्यत्र वसन्तेत्यस्य द्वितीयत्वात् पूर्वं दधाति इति ।
सारस्वतीं - इन्द्रियमेवास्मि॑न्दधति सारस्वतीं मेषीं (सं. 2-1-12)
आग्नावैष्णवं - यज॑माने दधत्याग्नावैष्णवमष्टाक॑पालम् (2-2-50)
^यदिन्द्राय - इन्द्रियं वीर्यं॑ दधति यदिन्द्रा॑य (सं. 2-3-30)
^यदेव [तस्य?] - आयु॑र्दधति यदेव तस्य॑ (सं. 2-3-44) [अपितु, क्रुमुकमव॑ दधाति यदेवास्य॑ (सं. 5-1-49)?]
सर्वं - आयु॑र्दधति सर्वमायु॑रेति । (सं. 2-3-45)
पुष्यति - पुष्टिं॑ दधति पुष्य॑ति प्रजया (सं. 2-4-18)
मध्यतः - रुच॑मेवास्मि॑न्दधति मध्यतो धातारं॑ करोति (सं. 3-4-34)
प्रायणीये - यज॑मानेषु दधति प्रायणीये॑ चोदयनीये॑ च (सं. 3-5-30)
निवेशनः - वीर्यं॑ दधति निवेश॑नः सङ्गम॑नः (सं. 5-2-24)
यः [वै गायत्रीं?] - कनीनि॑के प्रति॑दधति यो वै (सं. 7-2-35) [ब्रह्मवर्चसं द॑धाति यो वै यज्ञं (सं. 1-7-30), दधाति यो यज॑ते (सं. 6-1-74), दधाति यो ज्योगा॑मयावी (सं. 7-2-12)?]
^यत्पराचीनानि - यज॑मानेषु दधति यत्प॑राचीना॑नि पृष्ठानि॑ (7-3-27) ^- यदित्यस्य इन्द्राय, एव, पराचीनानि इत्यनुबन्धेन किम्? अन्योपबन्धयोगे दधाति इत्येव, यथा -
वै (सं. 1-7-11), सौम्यः (2-1-14,2-3-16), अग्नये (सं. 2-2-16,17;ब्रा. 1-1-44), दश॑कपालः, एका॑दशकपालः, द्वाद॑शकपालः (सं. 2-2-25), ऐन्द्रः (2-3-16), सौर्यः (2-3-34), अवद्येत् (3-4-3), एव (5-1-49)*, पशुशीर््षाणि॑ (5-2-52), पौर्णमास्या (7-5-16).
द्वादश - वीर्यं॑ दधति द्वाद॑श सप्तदशाः (7-4-26)
विधृत्यै - मध्यतो द॑धति विधृ॑त्यै तेनाजा॑मि । (7-4-33)
प्रजननाय - मध्यतो द॑धति प्रजन॑नाय ज्योतिः॑ (सं. 7-5-5)
मासां - वीर्यं॑ दधति मासां प्रति॑ष्ठित्यै (सं. 7-5-6)
तदनु - प्राणं द॑धति, उदानं द॑धति तदनु॑ सत्त्रिणः॑ (सं. 7-5-16)
अप्रतिहिताभिः - इन्द्रियं द॑धत्यप्र॑तिहिताभिरुद्गा॑यति (सं. 7-5-24)
पृथिव्यै - महीयामेवैषु दधति ॥ पृथिव्यै (सं. 7-5-32/33)
सप्तदश - इन्द्रियं द॑धति । सप्तद॑श प्राजापत्याः (ब्रा. 1-3-16)
नवदाव्यासु - अन्यत्राग्नेर्दध॑ति । नवदाव्या॑सु वा ओष॑धीषु (ब्रा. 3-3-9)
सहस्र - शितिपृष्ठा आद॑धति सहस्र॑मीं प्रव॑हन्ति (ब्रा. 3-6-33)
अश्वस्य - एवास्मिन्तद्द॑धति । अश्व॑स्य वै (ब्रा. 3-8-6)
अमृतं, वेतसशाखो - आयु॑रेवास्मि॑न्दधति । अमृतव्वाँ इषीकाः । अमृत॑मेवास्मि॑न्दधति । वेतसशाखोपसम्ब॑द्धा (ब्रा. 3-8-15)
नास्मात् (श्रियमुत्तरं) - श्रिय॑मेवास्मिन्तद्द॑धति । नास्मात्तेजः॑ (ब्रा. 3-9-19). श्रियमुत्तरमिति किम्?
प्राणानेवास्मि॑न्दधाति । नास्मात्प्राणाः (ब्रा. 3-9-25) इत्यत्र न, श्रियमुत्तरत्वाभावात् - प्राणानुत्तरत्वात् इति यावत् ।
अत्र श्रियमिति प्रारभ्यमाणवाक्यस्य उत्तरवाक्यस्थत्वं नास्मादित्यस्य विधीयते । प्राणानितिप्रारभ्यमाण-वाक्यस्य उत्तरवाक्यस्थत्वं प्रत्युदाहरणे बोध्यम् ।
प्रति - प्राणान्द॑धति प्रतीन्द्रः॑ (आ. 2-21)
अग्नय? - ?
संवथ्सरः - ?
अग्निजाः - यज्ञायैवोतिं द॑धति । अग्निजा अ॑सि (आ. 8-17)
शान्त्यै - उद्ध॑ते सिक॑तोपोप्ते परि॑श्रिते निद॑धति शान्त्यै (आ. 8-19)
संवथ्सरं - ?प्रजापतिः- ? ॥9
मूलम् - 1.10
- इन्द्रो वलस्य, वषट्कारो,ऽग्नये पथिकृते, नाकसद्भिर्, ऋतव्या आवृश्चति । अन्यदावृश्च्यते । यां वा आवृश्च्येते । अग्निना रयिं, वज्रो वै द्वितीयं, वृश्चन्ति ।
श्येनायेन्द्रः, प्रजापतिरग्निꣳ, रुद्रो, वाक्प्रथमं, वृश्च्येत । वैष्णव्यर्चा वृश्चेत् । राष्ट्रकामाय, प्रजापतिरकामयत, वज्रः, प्रवृश्चति । अथ स्रुचौ वृश्चनानि । परिस्तृणीत वृश्चामि ।
ते,तपरो यकारः । नीचैर्देवा निवृश्चत, वृश्चतश्चेति वर्जयित्वा ॥10॥
इन्द्रो वलस्य, वषट्कारः, अग्नये पथिकृते - एवैनमा वृ॑श्चति ताजक् (सं. 2-1-35,47,2-2-8)
नाकसद्भिः, ऋतव्याः - देवताभ्य आ वृ॑श्चति ताजक् (सं. 5-3-32,5-4-7)
अन्यदावृश्च्यते । उदा - सर्वाणि, यो वै, आयुर्दाः, विश्वकर्मा, सुवर्गाय वै, यो वै, द्वादशसु, यो वा अयथादेवतं, यो वै ब्रह्मणे, प्रथमेन वै -
देवताभ्यो वा एष आवृ॑श्च्यते, ताभ्यो वा एष आवृ॑श्च्यते, आवृ॑श्च्यते वा एतत्, आ देवताभ्यो वृश्च्यते ।, .. न देवताभ्य आवृ॑श्च्यते ।, आ वा एष पशुभ्यो॑ वृश्च्यते ।
(सं. 2-4-33,34,3-1-17,3-3-22,5-5-22,30,5-7-1;ब्रा. 1-1-33,3-3-72,73,3-8-7,8,3-9-40),
यां वा अध्वर्युः - तस्या आवृ॑श्च्येते प्राजापत्यं (सं. 3-5-26)
अग्निना रयिं - अजर वना॑ वृश्चन्ति शिक्व॑सः । (सं. 3-1-40)
वज्रो वै द्वितीयं - यथो॑पधाय॑ वृश्चन्त्येवम् । (ब्रा. 3-2-84) द्वितीयमिति किम्? उत्करेऽधि प्रवृ॑श्चति । (ब्रा. 3-2-83) इत्यत्र न । (वज्रः प्रवृश्चति ।)
श्येनाय - नयेदैभ्यो॑ वृश्च्येत यत् (सं. 3-2-32)
इन्द्रः - पितृभ्य आवृ॑श्च्येत । (ब्रा. 1-3-62)
[देवा वै यत् - देवेभ्य आवृ॑श्च्येत । (ब्रा. 1-5-31)]
प्रजापतिरग्निं - आ सूर्या॑य वृश्च्येत । .. आऽग्नये॑ वृश्च्येत । (ब्रा. 2-1-13)
रुद्रो वै - आऽस्मै॑ वृश्च्येत । (ब्रा. 2-1-22)
वाक् (प्रथमं) - आ देवताभ्यो वृश्च्येत (सं. 6-1-32) प्रथममिति किम्? द्वितीये तु, वृश्च्यते देवी॑रापः (सं. 6-1-33)
वैष्णव्यर्चा - वृश्चेद्यद॑ख्षसङ्गं वृश्चेत्, .. आरोहं तस्मै॑ वृश्चेत्, … शुष्काग्रं वृश्चेत्, .. प्रति॑ष्ठितं वृश्चेत्, .. उप॑नतस्तं वृ॑श्चेत्, .. पञ्चा॑रत्निं तस्मै॑ वृश्चेत् (सं. 6-3-15,16)
[अपितु, आव्रश्च॑ने जुहोति, आव्रश्च॑नाद्वृख्षाणां (सं. 6-3-15)?]
राष्ट्रकामाय - क्रूरेण प्रवृ॑श्चति ताजक् (सं. 3-4-26)
प्रजापतिरकामयत(, वज्रः) - वाच एवैनं॑ क्रूरेण प्रवृ॑श्चति । (ब्रा. 2-2-7)
अथ स्रुचौ - स्वाहेतीध्मसव्वृँश्च॑नान्यन्वाहार्यपच॑ने … । अति॑रिक्तानि वा इ॑ध्मसव्वृँश्च॑नानि । (ब्रा. 3-3-68)
परिस्तृणीत - यन्ते॑ अग्न आवृश्चामि॑ । (नीचैर्दे॑वा निवृ॑श्चत ।) (ब्रा. 3-7-70)
प्रजापतिर्देवान् - तम॑वृश्चत् । यदवृ॑श्चत् ।(का. 1-23), वृश्चत॑श्च । [.. वृष्टि॑रसि वृश्च॑ मे?] (का. 1-24,25)
[अत्यूर्ध्वाक्षः - असुरान्प॑रिवृश्चति । (आ. 1-19)?]
अन्यत्र, आव्रश्च॑नाद्वो भूयाꣳ॑सः, आव्रश्च॑नाद्वृख्षाणां, आव्रश्च॑ने जुहोति (सं. 2-5-4,6-3-15) ।
ते,तपरो यकारः । नीचैर्देवा निवृश्चत, वृश्चतश्चेति स्थलद्वयं वर्जयित्वा इतरेषु उक्तस्थलेषु ते, त, एतौ परौ यदि, यकारो भवति । ‘श्च्य’ इति यकारयुक्तोभवतीत्यर्थः ॥10
मूलम् - 1.11
- इन्द्रं कस्त्वा योगोयोग ऋतुधा । अन्यत्रर्तुथा ॥11॥
इन्द्रं - इन्द्रो॑ मरुद्भि॑र््ऋतुधा कृ॑णोतु (सं. 2-1-61)
कस्त्वा - ऋतव॑स्त ऋतुधा परुः॑ (सं. 5-2-63)
योगेयोगे - इन्द्रो॑ मरुद्भि॑र््ऋतुधा कृ॑णोतु (ए. 2-4)
अन्यत्र, या ते गात्रा॑णामृतुथा कृणोमि॑ (सं. 4-6-45), ऋतुथेन्द्रो वनस्पतिः॑ । (ब्रा. 2-6-63),
स्वधि॑तिर््ऋतुथाऽद्य देवः, देवानां पाथ॑ ऋतुथा हवीꣳषि॑ । (ब्रा. 3-6-5,10) ॥11
मूलम् - 1.12
- अग्नयेऽन्नवते आयुर्दा वि वा एताविन्द्रस्य भागधेयेनैवैनौ । अन्यत्र भागधेयेनैवैनम्* ॥12॥
अग्नयेऽन्नवते [अन्ते^] - भागधेये॑नैवैनौ॑ शमयति (2-2-21) [स एवैनमन्न॑वन्तं (सं. 2-2-15) इत्यादिषु]
आयुर्दाः [आदौ^] - आहु॑त्यैवैनौ॑ शमयति (3-3-22) [अन्ते तु, स एवैन॑ स्वदयति (सं. 3-3-25)]
वि वा एतौ [आदौ^] - प्रिययैवैनौ॑ तनुवा (सं. 5-2-21) [अन्ते तु, एवैन॑न्निर््ऋतिपाशात् (सं. 5-2-23)]
इन्द्रस्य [आदौ^] - भागधेये॑नैवैनौ सम॑र्धयति (सं. 5-7-10) [अन्ते तु, प्रियाया॑मेवैनां तनुवां (सं. 5-7-12)]
[आयुर्दा, वि वा एतौ इत्येतयोरनुवाकयोः ‘एवैनौ’ इत्येतावन्मात्रमेव ग्राह्यम् । तथा, सेन्द्रा॑वेवैनौ॑, पूतावेवैनौ मेध्यौ॑ यजते (सं. 2-5-22,36), अनुलोममेवैनावा ल॑भते (3-5-4), इत्येवैना॑वात्मने (6-4-43)]
अन्यत्र, भागधेये॑नैवैनं प्रण॑यति । (ब्रा. 1-4-18,20), भागधेये॑नैवैनꣳ सम॑र्धयति, भागधेये॑नैवैनꣳ॑ शमयित्वा, शमयति, (सं. 1-5-4,2-2-9,10,3-4-38,5-4-9,5-5-40,7-5-39; ब्रा. 1-6-49)
[*भागधेये॑नैवैनान्॑यथायथं, शमयति, प्रीणाति (सं. 2-2-60,5-5-38,44,46), भागधेये॑नैवैनान्थ्सम॑र्धयति । (ब्रा. 1-6-45); भागधेये॑नैवास्मै (ब्रा.2-1-39)?] (^द्रष्टव्यः - भा.शि. 30 – एनौ विवा इन्द्रस्यायुरादा-वन्तेऽग्नयेऽन्नवत् ।) ॥12॥
वैश्वानरन्तृतीयन्निवीतन्तेषामसुराणामग्निना वै होत्रा तार्प्यं संवत्सरस्संवत्सरमेव प्रीणाति । 988, 16408, 2262, 1456
संवथ्सरः इत्यस्यानन्तरं किमिति सन्देहनिरासकोऽयम् ।
वैश्वानरं - संवथ्सरस्सं॑वथ्सरमेव प्री॑णाति (सं. 2-2-26).
तृतीयमिति किम् - अस्मिन्ननुवाके संवथ्सरो वा अग्निर्वैश्वानरः इत्यस्यानन्तरं पूर्वयोः पर्याययोः संवथ्सरमेवैन॑ स्वदयति, संवथ्सरमेव भा॑गधेये॑न शमयति इति सत्त्वात् । उत्तरत्र च संवथ्सरः खलु॑, संवथ्सरेणैवास्मै इति सत्त्वाच्च तृतीये एव प्रीणातीति ज्ञेयम् ।
निवीतं - द्वाद॑श मासाः संवथ्सरस्सं॑वथ्सरमेव प्री॑णाति (सं. 2-5-66).
तेषामसुराणां - द्वाद॑श मासाः संवथ्सरस्सं॑वथ्सरमेव प्री॑णाति (सं. 6-2-18).
अग्निना वै होत्रा - द्वाद॑श मासाः संवथ्सरस्सं॑वथ्सरमेव प्री॑णाति (सं. 6-3-38).
तार्प्यं - द्वाद॑श मासाः संवथ्सरः । संवथ्सरमेव प्री॑णाति । (ब्रा. 1-3-43).
केवलं संवथ्सरमेव प्रीणातीति ग्रहणे वैश्वदेवेन (ब्रा. 1-6-54) इत्यत्रापि स्यात् ॥
मूलम् - 1.13
- अग्नयेऽन्नवते नासोमयाजी धात्रे पूर्वं प्रजां वृद्धामिन्द्रः । देवा वै मृत्योर्धात्रे परं पशून्वृद्धानिन्द्रः ॥13॥
अग्नयेऽन्नवते, नासोमयाजी - अग्निरेवास्मै प्रजां प्र॑जनय॑ति वृद्धामिन्द्रः प्र य॑च्छति (सं. 2-2-18,2-5-28)
धात्रे पूर्वं - अग्नि प्रजां प्रज॑नयति । वृद्धामिन्द्र प्रय॑च्छति । (ब्रा. 1-7-13)
देवा वै मृत्योः - पशून्प्रज॑नयति वृद्धानिन्द्रः प्रय॑च्छति (सं. 2-3-13)
धात्रे परं - पूषा पशून्प्रज॑नयति । वृद्धानिन्द्रः प्रय॑च्छति । (ब्रा. 1-7-13/14)
[अग्नि प्रजानां प्रजनयिता । वृद्धानामिन्द्र॑ प्रदापयिता । (ब्रा. 1-7-12), पूषा प॑शूनां प्र॑जनयिता । वृद्धानामिन्द्र॑ प्रदापयिता । (ब्रा. 1-7-13)?] ॥13॥
मूलम् - 1.14
- वैश्वानरं वैश्वदेवेन सप्तकपालो भवति । ऐन्द्रमेकादशकपालꣳ सप्तकपालो मारुतो भवति । आदित्येभ्यः प्राचीमिति सप्त भवन्ति ॥14॥
वैश्वानरं - सप्तक॑पालो भवति सप्तग॑णाः (सं. 2-2-29)
वैश्वदेवेन - सप्तक॑पालो भवति । सप्तग॑णा वै मरुतः॑ । (ब्रा. 1-6-14)
ऐन्द्रमेकादशकपालं - सप्तक॑पालो मारुतो भ॑वति सप्तग॑णाः (सं. 2-2-58)
आदित्येभ्यः - सप्त भ॑वन्ति सप्तग॑णा वै (सं. 2-3-5)
प्राचीमिति - सप्त भ॑वन्ति सप्तग॑णा वै (सं. 5-4-36) ॥14॥
मूलम् - 1.15
- अथो, आघारꣳ, सर्वाणि, पुरस्ता,दग्ने,र्य,च्छतायुधाय, शिरो, न, यदेकस्मि,न्नुलूखलबुध्नो,ऽर्क्येण, वाचस्पति,र्द्वादश, दशभि,र्यत्प्रा,ङ्मारुत, इन्द्रस्य, [देवस्य], पूर्वेद्युः, कर्मणेवा,मासीनो, यजमानदेवत्या, केशश्मश्रु, चतुष्टय्य,स्स्तोक्या, भुवो, यःप्राणत, एकयूपो, नान्येषाꣳ, शतꣳ, हिङ्करोति, केतु,मापमापा-मप,स्सर्वतो धून्वन्ति, परꣳ सुवर्गस्य लोकस्य समष्ट्यै ॥15॥
अथो - सुवर्गस्य॑ लोकस्य सम॑ष्ट्या अथो॑ देवता॑ एव (सं. 2-2-26/27)
आघारं - सुवर्गस्य॑ लोकस्य सम॑ष्ट्या आघारमाघा॑रयति (सं. 2-5-66)
सर्वाणि - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै सर्वा॑णि कपाला॑नि (सं. 2-6-17)
पुरस्तात् - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै पुरस्तात्प्रत्यञ्चम् (सं. 5-2-46)
अग्नेः - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै ॥ अग्नेर्भागो॑ऽसीति॑ (सं. 5-3-15/16)
यत् - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै यत्पक्षस॑म्मितां (सं. 5-6-30)
शतायुधाय - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै शतायु॑धाय शतवीर्याय (सं. 5-7-6)
शिरः - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै शिरो वा एतत् (सं. 6-3-38)
न - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै नान्योन्यं (सं. 6-5-11)
यदेकस्मिन् - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै यदेक॑स्मिन््यूपे (सं. 6-6-15/16)
उलूखलबुध्नः - सुवर्गस्य॑ लोकस्य सम॑ष्ट्या उलूख॑लबुध्नो यूपः॑ (सं. 7-2-3)
अर्क्येण - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै ॥ अर्क्येण वै (सं. 7-5-27/28)
वाचस्पतिः, द्वादश, दशभिः - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । वाचस्पतिर्वाच॑मद्य, द्वाद॑श वाजप्रसवीया॑नि, दशभिः कल्पै॑ रोहति । (ब्रा. 1-3-27,42,43)
यत्प्राङ् - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । यत्प्राङ्पद्ये॑त । (ब्रा. 1-6-25)
मारुतः - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । मारुत एष भ॑वति । (ब्रा. 1-7-42)
इन्द्रस्य - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै ॥ इन्द्र॑स्य सुषुवाणस्य॑ (ब्रा. 1-8-14/15)
देवस्य, पूर्वेद्युः, कर्मणे वां - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै ॥ देवस्य॑ त्वा सवितुः, पूर्वेद्युरिध्माबर््हिः, कर्म॑णे वान्देवेभ्यः॑ (ब्रा. 3-2-6/7,15/16,27/28)
आसीनः, यजमानदेवत्या - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । आसी॑नोऽन्यम्, । यजमानदेवत्या॑ वै जुहूः (ब्रा. 3-3-41,46)
केशश्मश्रु, चतुष्टय्यः, स्तोक्या, भुवो, यःप्राणत, एकयूप, नान्येषाꣳ, शतꣳ, हिङ्करोति - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । केशश्मश्रु व॑पते ।,॥ चतु॑ष्टय्य आपः॑, स्तोक्या॑ जुहोति, भुवो॑ देवानां कर्म॑णा, यः प्रा॑णतो य आत्मदाः, ॥ एकयूपो वै॑कादशिनी, नान्येषां पशूनां, शतं पशवः॑, हिङ्क॑रोति (ब्रा. 3-8-2,/3,21,64,71, 74/,75,78)
केतुं - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । केतुं कृण्व॑न्नकेतव इति॑ (ब्रा. 3-9-14)
आपमापामपः - अथो स्वर्गस्य॑ लोकस्य सम॑ष्ट्यै । आप॑मापामपः सर्वाः । (आ. 1-104)
सर्वतो धून्वन्ति - सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । सर्वतो॑ धून्वन्ति । (आ. 8-42)
[अन्यत्र, ‘सुवर्गस्य लोकस्य’ इत्यस्यानन्तरं ‘समष्ट्यै’ इति स्थाने - अभिजित्यै, अनुख्यात्यै (सू.27), प्रज्ञात्यै (सं. 5-2-19,6-3-26,6-5-9,27; ब्रा. 3-8-86,3-9-28),
अभिनीत्यै (सं. 5-7-35,6-3-9,6-6-1), प्रभूत्यै (सं. 7-2-37), परिगृहीत्यै (सं. 7-4-24), अभिवृत्त्यै (सं. 7-5-6; ब्रा. 1-4-34), सन्त॑त्यै (ब्रा. 1-8-31,3-8-60,70),
अभ्यूढ्यै (ब्रा. 3-3-42), आप्त्यै, पर्याप्त्यै, आभूत्यै, अनुभूत्यै (ब्रा. 3-8-65), प्रमुक्त्यै (ब्रा. 3-8-71), सन्नत्यै (ब्रा. 3-8-72) इत्यादयः भवन्ति । ] ॥15॥
मूलम् - 1.16
- देवा वै, वसोर्धारा,मग्निर्देवेभ्य,स्सुवर्गं, तार्प्येण, रूपꣳ रूपेणैव । ^ब्रह्मवादिनो विचित्यः, पुरोहविषि, ब्रह्मवादिनोऽग्निहोत्रप्रायणा यज्ञा, रूपꣳ रूपेणैवास्मै । ^मेदसा, रूपेणैवास्मै । अन्यत्र रूपमेवास्मै* ॥16॥
देवा वै - पशूनाꣳ रूपꣳ रूपेणैव पशूनव॑रुन्धे (सं. 2-3-13)
वसोर्धारां - पशूनाꣳ रूपꣳ रूपेणैव पशूनव॑रुन्धे (सं. 5-4-41)
अग्निर्देवेभ्यः - वात॑स्य रूपꣳ रूपेणैव वातमव॑रुन्धे (सं. 5-4-46)?
सुवर्गं - पशूनाꣳ रूपꣳ रूपेणैव पशूनव॑रुन्धे (सं. 6-2-20)
तार्प्येण - पशूनाꣳ रूपम् । रूपेणैव पशूनव॑रुन्धे । (ब्रा. 3-9-73)
ब्रह्मवादिनो विचित्यः - पशूनाꣳ रूपꣳ रूपेणैवास्मै॑ पशूनव॑रुन्धे (सं. 6-1-61)
पुरोहविषि - पशूनाꣳ रूपꣳ रूपेणैवास्मै॑ पशूनव॑रुन्धे (सं. 6-2-32)
ब्रह्मवादिनोऽग्निहोत्रप्रायणा यज्ञाः - पशूनाꣳ रूपम् । रूपेणैवास्मै॑ पशूनव॑रुन्धे । (ब्रा. 2-1-38)
मेदसा - पशवो॑ रूपेणैवास्मै॑ पशूनव॑रुन्धे (सं. 6-3-61) [पशवो॑ रूपेणैवैनं॑ पशुभ्यः॑ (सं. 6-3-61)#?]
[यास्ते - रूपेणैव प्रजां पशून् छन्दाꣳ॑सि (सं. 5-7-35)?]
अत्र सर्वं ‘पशून्’ इत्यपेक्षया उक्तमिति ज्ञेयम् । अन्यत्र तु ‘रूपꣳ रूपेणैव’ इत्यस्य अनन्तरं - वृष्टिं (सं. 2-1-52,5-3-40), वैश्वानरम् (सं. 5-2-15,48; ब्रा. 1-1-14), अग्निम् (सं. 5-3-45),
अन्नं (सं. 5-4-39), यज्ञं, ब्रह्मवर्चसं (सं. 5-4-40; ब्रा. 2-7-2), छन्दाꣳसि (सं. 5-4-41), वातम् (सं. 5-4-46), निर््ऋतिं (ब्रा. 1-6-4), वरुणं (ब्रा. 3-9-58) इत्यादयः भवन्ति ॥]
[अन्यत्र, रूपमेवास्यैतत् (सं. 2-3-42,5-1-5,10,55; ब्रा. 3-2-68,3-3-15,19,3-8-12,33; आ. 8-90), रूपमेवास्या॑ एतत् (सं. 6-1-54),
रूपमेवासा॑मेतत् (ब्रा. 3-2-37,3-3-20,27), रूपमेवैषा॑मेतत् (ब्रा. 3-3-60), रूपमेव पशुषु॑ (सं. 6-1-58,6-3-33,57^,6-5-29; ब्रा. 3-7-23,3-8-43)
*कुत्रापि ‘रूपमेवास्मै’ इति नोपलभ्यते] (^द्रष्टव्या - भा.शि. 30 – त्रीन्, ब्रह्म व्यग्नि, चेन्द्राग्नी, मेदसैच्च पुरोहविः ।) ॥16॥
मूलम् - 1.17
- चित्रया, षट्पदा,न्यग्निना, कुसुरुबिन्द,स्सप्त ग्राम्याः पशवस्सप्तारण्याः । अन्यत्र सप्त ग्राम्या ओषधयः सप्तारण्याः ॥17॥चित्रया - सप्त ग्राम्याः पशव॑स्सप्तारण्याः (सं. 2-4-18)
षट्पदानि - सप्त ग्राम्याः पशव॑स्सप्तारण्याः (सं. 6-1-54)
अग्निना - सप्त ग्राम्याः पशव॑स्सप्तारण्याः (सं. 6-3-40)
कुसुरुबिन्दः - सप्त ग्राम्याः पशव॑स्सप्तारण्याः (सं. 7-2-5)
अन्यत्र, सप्त ग्राम्या ओष॑धयस्सप्तारण्याः (सं. 5-2-29,5-4-43,7-3-9); सप्त ग्राम्या ओष॑धयः । सप्तारण्याः । (ब्रा. 1-3-48) ॥17
मूलम् - 1.18
- त्वष्टै,ष वै, मित्रं, यज्ञस्य, बृहस्पतिर्देवा वै सत्रं द्वितीयं, वरं वृणावहै । अन्यत्र वरं वृणामहै* ॥18॥
त्वष्टा - ते अ॑ब्रूताव्वँर॑व्वृँणावहै नख्ष॑त्रविहिता (सं. 2-5-12)
एष वै - ते अ॑ब्रूताव्वँर॑व्वृँणावहा आवन्देवानाम् (सं. 2-5-37)
मित्रं - ताव॑ब्रूताव्वँर॑व्वृँणावहा एक॑ एव (सं. 6-4-36)
यज्ञस्य - ताव॑ब्रूताव्वँर॑व्वृँणावहै ग्रह॑ एव (सं. 6-4-37)
बृहस्पतिः - ताव॑ब्रूताव्वँर॑व्वृँणावहै ग्रहा॑वेव (सं. 6-4-42)
देवा वै सत्रं (द्वितीयं) - ताव॑ब्रूताव्वँर॑व्वृँणावहै । ग्रह॑ एव (आ. 8-7). द्वितीयमिति किम्? प्रथमे, ता उ॑पदीका॑ अब्रुवन्वर॑व्वृँणामहै । (आ. 8-4)
अन्यत्र, ता अ॑ब्रुवन्वर॑व्वृँणामहै (सं. 2-3-25,2-5-5), तान्य॑ब्रुवन्वर॑व्वृँणामहै (सं. 2-4-1), तेऽब्रुवन्वर-॑व्वृँणामहै (सं. 2-5-3,6-5-19; ब्रा. 1-3-56), तेऽब्रुवन्मरुतो वर॑व्वृँणामहै । (ब्रा. 1-6-49)
[वृणै - सोऽब्रवीद्वरं॑ वृणै । दश॑ मा (ब्रा. 2-1-3); अवृणीत - तानि वर॑मवृणीतादित्यो नो योद्धा इति॑ (आ. 2-2), वृणीष्व - सोऽब्रवीद्वर॑व्वृँणीष्वाथ॑ मे (सं. 2-1-7); वरं॑ वृणीष्वेति॑ । पितर॑मेव (का. 2-45); वरं॑ वृणीष्वेति॑ कुमारमेवाहं वरं॑ वृण इत्य॑ब्रवीः । (ए. 2-16)*] ॥18॥
मूलम् - 1.19
- त्रीꣳस्त्रिष्टुप्त्रिष्टुभा। ऋतवस्त्रिष्टुप्त्रिष्टुभि । अन्नपते,ऽग्ने तव, त्रिष्टुभाफ्सु शय्युँम् । देवस्य खनति त्रिष्टुग्भिर्यम् ॥19॥
त्रीन् - इन्द्रियन्त्रिष्टुप्त्रिष्टुभैवास्मै (सं. 2-5-60)
ऋतवः - इन्द्रियन्त्रिष्टुप्त्रिष्टुभ्येवेन्द्रिये (सं. 7-2-21)
अन्नपते - त्रिष्टुभा॑ राजन्य॑स्य त्रैष्टु॑भो हि रा॑जन्योऽफ्सु भस्म॑ (सं. 5-2-11)
अग्ने तव - त्रिष्टुभा॑ राजन्य॑स्य त्रैष्टु॑भो हि रा॑जन्यः॑ शय्युं बा॑र््हस्पत्यं (सं. 5-2-34)
देवस्य खनति - त्रिष्टुग्भी॑ राजन्य॑स्य त्रैष्टु॑भो हि रा॑जन्यो॑ यं कामये॑त (सं. 5-1-20)
[त्रैष्टुभं - त्रिष्टुप्त्रैष्टु॑भं माध्य॑न्दिनꣳ सव॑नं (सं. 3-2-35,37,6-4-20)?] ॥19॥
मूलम् - 1.20
- त्रीन्यावती देवा वै वैष्णव्यर्चाऽङ्गिरसो बृहस्पतिर्यथा वै यदाग्नेयो गायत्री गायत्री । यद्वा ऋतवो गायत्री गायत्रम् ॥20॥ अयं पुरो गायत्रियै गायत्रम् ।
त्रीन् - चतु॑र्विꣳशत्यख्षरा गायत्री गा॑यत्री ब्र॑ह्मवर्चसम् (सं. 2-5-59)
यावती [द्वितीयं] - अष्टाख्ष॑रा गायत्री गा॑यत्री सु॑वर्गं (सं. 5-2-18). द्वितीयमिति किम्? प्रथमे, गायत्रोऽग्निः*
देवा वै - चतु॑र्विꣳशत्यख्षरा गायत्री गा॑यत्री य॑ज्ञमुखम् (सं. 5-3-14)
वैष्णव्यर्चा - अष्टाख्ष॑रा गायत्री तेजो॑ गायत्री गा॑यत्री य॑ज्ञमुखम् (सं. 6-3-18)
अङ्गिरसः - तेजो वै गा॑यत्री गा॑यत्री ब्र॑ह्मवर्चसम् (सं. 7-1-12)
बृहस्पतिर्,यथा वै - अष्टाख्ष॑रा गायत्री गा॑यत्री ब्र॑ह्मवर्चसम् (सं. 7-2-8), चतु॑र्विꣳशत्यख्षरा गायत्री गा॑यत्री ब्र॑ह्मवर्चसम् (सं. 7-4-3,8)
यदाग्नेयः - अष्टाख्ष॑रा गायत्री । गायत्री ब्र॑ह्मवर्चसम् । (ब्रा. 2-7-9)
यद्वै - त्रिपदा॑ गायत्री गा॑यत्रं प्रा॑तःसवनं (सं. 3-2-35,37)
ऋतवः - चतु॑र्विꣳशत्यख्षरा गायत्री गा॑यत्रं ब्र॑ह्मवर्चसम् (सं. 7-2-20/21)
अयं पुरः - गायत्रियै गा॑यत्रं गा॑यत्रात् (सं. 4-3-2)
[आग्नावैष्णवं, प्राणो वै, सावित्रं - अष्टाख्ष॑रा गायत्री गा॑यत्रं प्रा॑तःसवनं (सं. 2-2-50,6-4-20; ब्रा. 3-8-44), ?]
अष्टाख्ष॑रा गायत्री गा॑यत्रोऽग्निः (सं. 2-2-27,3-5-15,5-1-2,20,5-2-18*,5-4-17; ब्रा. 1-1-37,1-6-11,(प्राणः)3-3-24), अष्टाख्ष॑रा गायत्री गा॑यत्रेणैवैनम् (सं. 5-4-50), त्रिपदा॑ गायत्री गा॑यत्रिया एवात्मानम् (आ. 2-11)] ॥20॥
मूलम् - 1.21
- ब्रह्मवादिनोऽद्भिः प्रथममेकविꣳशत्याऽपो देवीरेभ्य एवैनत् । अन्यत्रैभ्य एवैनम्* ॥21॥
ब्रह्मवादिनोऽद्भिः (प्रथमं) - एभ्य एवैन॑ल्लोकेभ्यः प्रोख्ष॑ति (सं. 2-6-25), प्रथममिति किम्? एभ्य एवैन॑ल्लोँकेभ्यो॑ऽनक्ति (2-6-26) इत्युत्तरत्र ।
एकविꣳशत्या - एभ्य एवैन॑ल्लोँकेभ्यो॑ वृङ्क्ते (5-1-40)
आपो देवीः - एभ्य एवैन॑ल्लोकेभ्यः प्रोख्ष॑ति । अथ ततः॑ सह (ब्रा. 3-3-29)
अन्यत्र, एभ्य एवैन॑ल्लोँकेभ्यः॑ (सं. 2-6-21,5-1-26,5-4-12,6-4-17; ब्रा. 3-3-29,62,3-8-27,3-9-26).
[एभ्य एवैनाल्लोँकेभ्यः प्रोख्ष॑ति (सं. 6-2-50)*] (द्रष्टव्या - भा.शि. 36 – .. एभ्य एवैनत् ब्रह्माद्येकाप एव तः ।) ॥21॥
मूलम् - 1.22
- ब्रह्मवादिनोऽद्भिरुत्तरावतीमपो निनयति । देवस्याभ्रिꣳ शिरः पृथिव्या अपोऽव नयति । (अन्यत्रापोव-नयति ।)
ब्रह्मवादिनोऽद्भिः - यत्खन॑त्यपो नि न॑यति शान्त्यै (सं. 2-6-25)
उत्तरावतीं - अपो नि न॑यति । अवभृथस्यैव (ब्रा. 2-1-33)
देवस्य, पृथिव्यै - यत्खन॑त्यपोऽव॑ नयति शान्त्यै (सं. 6-2-51,6-3-19)
शिरो वै - प्राणा अपोऽव॑ नयति तस्मात् (सं. 6-2-57)
[अन्यत्र, अपोऽवोख्षति शान्त्यै (सं. 5-2-15), अपः प्रण॑यति । (ब्रा. 3-2-28,29,30), अन्तर्वेदि निनय॑ति स्व एव (सं. 1-7-23), वृष्टिं नि न॑यति (सं. 2-4-25), आशिरमव॑ नयति (सं. 6-1-43), शस्यमा॑नायामव॑ नयति (सं. 6-5-8), मन॑सा प्रण॑यतीयं वै मनोऽनयैवैनाः प्रण॑यति (सं. 1-6-25,26), स्तोम॑मभि प्रण॑यति याव॑न्तः (सं. 7-1-7), भागधेये॑नैवैनं प्रण॑यति (ब्रा. 1-4-18,20), प्रण॑यति द्वितीय॑या । (ब्रा. 1-6-64)] ॥22॥
मूलम् - 1.23
- अवसो विक्ष्वरातीयन्तन्तुरीपममुत्रभूयाच्छोचिरोहैश्शर्वा ब्रूहि पश्चाद्वृश्चेद्भूस्स पृथिवीं विच्छिन्द्यादाजिं यज्ञपतौ सप्रथा अङ्गैर्नवन्नग्नहुर्देवं भोजनꣳ सप्तरश्मिश्शृण्वे रश्मिरेषाꣳ सहमाने सहसे सहध्या ऊर्जयमाने वोचते मुञ्चते भूयिष्ठभाजोऽनागसो जहि कृधि कृत्वोत्तराभ्यः पूर्वमध । अन्यत्राथ ॥23॥
अवसः - पितुर्यथाऽव॑सः । अधा॑ ते सुम्नम् (सं. 2-6-64)
विक्षु - नूनꣳ सु॑वृजना॑सु विक्षु । अधा यथा॑ नः (सं. 2-6-68)
[अरातीयन्तं - अरातीयन्तमध॑रं कृणोमि (सं. 3-1-14)]?
तुरीपं - तन्न॑स्तुरीपमध॑ पोषयित्नु (सं. 3-1-35)
अमुत्रभूयात् - अमुत्रभूयादध यद्यमस्य॑ (सं. 4-1-28)
शोचिः - अनु॑ वाति शोचिरध॑ स्म ते (सं. 4-4-9)
ओहैः - ऋध्यामा॑ त ओहैः । अधा ह्य॑ग्ने (सं. 4-4-16)
[शर्वाः - शितिकण्ठाः शर्वा अधः ख्ष॑माचराः । (सं. 4-5-26)]?
ब्रूहि - अधि॑ च देव ब्रूह्यधा॑ च नः शर्म॑ (सं. 4-5-23)
[यत् - यदधः सादयेत् (सं. 5-6-36)]
[(पश्चात्) वृश्चेत् - यद॑ख्षसङ्गव्वृँश्चेद॑धईषं यज॑मानस्य (सं. 6-3-16) पूर्वतने नास्ति ]।
भूः - अभिक्रत्वेन्द्र भूरध ज्मन्न ते (सं. 7-4-41)
[स पृथिवीं - स पृ॑थिवीमध आर्च्छत् । (ब्रा. 1-1-19)]
[विच्छिन्द्यात् - प्राणान् विच्छि॑न्द्यात् । अधो॑ऽधः शिरो॑ हरति । (ब्रा. 1-1-41)]
[आजिं - तस्मि॑न्नाजिम॑धावन्न् । (ब्रा. 1-3-9)]
[यज्ञपतौ - आयु॑र्यज्ञप॑तावधात् । (ब्रा. 1-4-11)]?
सप्रथाः - एवया उ॑ सप्रथाः । अधा॑ ते विष्णो (ब्रा. 2-4-29)
[कृण्वन् - यज॑मानाय कृण्वन्न् । अधामृते॑न जरितार॑मङ्ग्धि । (ब्रा. 2-5-45)?]
[अङ्गैः सं - आत्मानमङ्गैः सम॑धात्सर॑स्वती । (ब्रा. 2-6-19)]
[नवं - पुराणेन नवम् । अधा॑तामूर्जम् (ब्रा. 2-6-46)]
[नग्नहुः - नराशꣳसे॑न नग्नहुः॑ । अधा॑तामश्विना (ब्रा. 2-6-60/61)]
देवं - धिषणा॑ धाति देवम् । अधा॑ वायुं नियुतः॑ (ब्रा. 2-8-1)
भोजनं - मर्तभोज॑नमध॑रासतेन । (ब्रा. 2-8-41)
[सप्तरश्मिः - वि सप्तर॑श्मिरधमत्तमाꣳ॑सि । (ब्रा. 2-8-13)]?
शृण्वे - अयꣳ शृ॑ण्वे अध जय॑न्नुत घ्नन्न् । (ब्रा. 2-8-17)
[रश्मिरेषां - वित॑तो रश्मिरे॑षाम् । अधः स्वि॑दासी(३)दुपरि॑ (ब्रा. 2-8-75)?]
सहमाने - ?
सहसे सहध्यै - विश्व॑स्मै सह॑से सह॑ध्यै । अधा होता न्य॑सीदः (ब्रा. 3-6-22)
ऊर्जयमाने - तामूर्ज॑मूर्जय॑माने अधाताव्वँसुवने (ब्रा. 3-6-33)
वोचते - ?
मुञ्चते - ?
भूयिष्ठभाजः - रुजासि॑ भूयिष्ठभाजो अध॑ ते स्याम । (आ. 7-93)
अनागसः - अनागसो अधमित्सं क्षये॑म । (ब्रा. 3-7-115)?
(^थं) जहि - अपेतः शपथं॑ जहि । अधा॑ नो अग्न आ व॑ह । (का. 1-13). [^थमिति किम्? अमुं जह्यथ॑ त्वा होष्यामीति॑ (सं. 6-4-25), द्रष्टव्या - भा.शि. 46]
कृधि - ?
कृत्वा - ?
[उत्तराभ्यः - उत्तरेदुत्त॑राभ्यः । अ[था॑]धा॑? सपत्नी या (ए. 1-16)]?
[अपि, मुखम् - हृदय॑ञ्चाप्यधोमु॑खम् । अधो॑ निष्ट्या वि॑तस्त्यान्तु (आ. 6-26)?]
अन्यत्र, अथ - उद॑ग्रभीत् । अथा॑ सपत्नान्॑ (सं. 1-1-22,1-6-12,4-6-15), श्रथाय । अथा॑ वयमा॑दित्य (सं. 1-5-49,4-2-4), पूर्व्यैः । अथा॑ पितॄन् (सं. 1-8-8), अस्मे अथा॑ देवानाम् (सं. 3-1-36), उत वो रुहः॑ । अथा॑ शतक्रत्वः (सं. 4-2-24), आरो॑ह । अथा॑ नो वर्धया (ब्रा. 1-2-16,2-5-41), आरु॑हेम । अथा॑ देवैः स॑धमादम् (ब्रा. 2-4-17), सख्यं ते॑ अस्तु । अथेमा विश्वाः पृत॑ना जयासि । (ब्रा. 2-8-20), उत्त॑रः पख्षः । अथ यत्सव्वाँति॑ । (का. 2-38), साधुना॑ पथा । अथा॑ पितॄन् (आ. 4-6), [सहमाना - अहम॑स्मि सह॑मानाऽथ त्वम॑सि सासहिः । (ए. 1-16)?] ॥23॥
मूलम् - 1.24
- त्रीणि, विश्वकर्मा, प्राणः प्रथम,मजिगाꣳसन्न् । अन्यत्राजिघाꣳसन्न् ॥24॥
त्रीणि - यज्ञमन्ववा॑जिगाꣳसन्तं नान्ववा॑यन्न् (सं. 3-2-6)
विश्वकर्मा - सुवर्गं लोकम॑जिगाꣳसन्तेन पति॑तुं (सं. 5-5-25)
प्राणः (प्रथमं) - सुवर्गं लोकम॑जिगाꣳसन्ते सु॑वर्गं (सं. 6-5-27). प्रथममिति किम्? देवा वै त्वष्टा॑रमजिघाꣳसन्थ्स पत्नीः (सं. 6-5-29)
अन्यत्र, अथासु॑रा यज्ञम॑जिघाꣳसन्ते देवाः (सं. 2-6-5), तिरः सत्यानि॑ मरुतो जिघाꣳ॑सात् । (सं. 4-3-32), नमः॑ सृकाविभ्यो जिघाꣳ॑सद्भ्यो मुष्णतां (सं. 4-5-7), यज्ञꣳ रख्षाꣳ॑सि जिघाꣳसन्ति (सं. 5-1-14,5-2-40,6-1-48,56,6-2-46,49,6-6-9; आ. 8-86), स्वपन्तं वै दीख्षितꣳ रख्षाꣳ॑सि जिघाꣳसन्त्यग्निः (सं. 6-1-29), देवान््वै सु॑वर्गं लोकं यतो रख्षाꣳ॑स्यजिघाꣳसन्ते सोमे॑न (सं. 6-3-7), यो अर्व॑न्तं जिघाꣳ॑सति तम् (सं. 7-4-41; ब्रा. 3-8-13), मरुतो॑ यज्ञम॑जिघाꣳसन्प्रजाप॑तेः ।(ब्रा. 1-3-25), तꣳ सृष्टꣳ रख्षाꣳ॑स्यजिघाꣳसन्न् । (ब्रा. 1-7-5,3-8-56), वृको वारो जिघाꣳ॑सति । ताꣳस्त्वं (ब्रा. 2-6-1, आ. 2-6), पुरोडाशव्वाँ अधि॑श्रितꣳ रख्षाꣳ॑स्यजिघाꣳसन्न् । (ब्रा. 3-2-61), यज्ञꣳ रख्षाꣳ॑स्यजिघाꣳसन्न् । (ब्रा. 3-8-74) ॥24॥
मूलम् - 1.25
- वायु,र्यावत्यु,देनमपरं, प्रजापतिर््ऋतुभि,र्यो वै, विराड्विराजि । अन्यत्र विराड्विराजा* ॥25॥
वायुः - विराडन्नं॑ विराड्विराज्येवान्नाद्ये (सं. 3-3-15)
यावती - विराडन्नं॑ विराड्विराज्येवान्नाद्ये (सं. 5-2-20)
उदेनं (अपरं) - विराडन्नं॑ विराड्विराज्येवान्नाद्ये (सं. 5-4-27). अपरमिति किम्? पूर्वं, दशाख्षरा विराड्विराजेमौ लोकौ (सं. 5-4-27) इत्यत्र न ।
प्रजापतिर््ऋतुभिः - विराडन्नं॑ विराड्विराज्येवान्नाद्ये (सं. 5-6-41)
यो वै - विराडन्नं॑ विराड्विराज्येवान्नाद्ये (सं. 7-5-40)
अन्यत्र, विराडन्नं॑ विराड्विराजैवास्मा॑ अन्नाद्यम् (सं. 2-5-59), दशाख्षरा विराड्विराजैवान्नाद्यम् (सं. 2-6-2,6-1-64,67,6-2-24,6-4-17,6-6-18,7-3-13,19,7-4-14,17), अन्नं॑ विराट् । विराजैवान्नाद्य-मव॑ रुन्धे । (ब्रा. 1-6-22,1-8-4,3-8-40,83,3-9-62; आ. 8-69), [विराड्विराजम् - दशाख्षरा विराड्विराज॑मेवाप्त्वा (सं. 3-4-37), त्रिपदा॑, सव्वँथ्सरो, दशाक्षरा, त्रिꣳशद॑ख्षरा विराड्विराजम् (सं. 5-6-27,28,29),*]
[एष विराज्यु॑भयतः प्रति॑ष्ठितः । विराजि हि वै (ब्रा. 1-2-37); विराज्येव प्रति॑तिष्ठति । (आ. 1-105)?] ॥25॥
मूलम् - 1.26
- क्रूरꣳ, रुद्रो,ऽग्न उदधे, समी,च्यपां ग्रहा,ननुमत्यै नार्तिमार्च्छत्यध्वर्युर्न यजमानः । अन्यत्र नार्तिमार्च्छति यजमानः ॥26॥
क्रूरं - प्रति॑ष्ठापयति नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानो वरु॑णः (सं. 5-1-29)
रुद्रः - शमयति नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानो यद्ग्राम्याणाम् (सं. 5-4-9)
अग्न उदधे - शमयति नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानो वाङ्म॑ आसन्न् (सं. 5-5-38)
समीची - शमयति नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानो हेतयो नाम॑ स्थ (सं. 5-5-44)
अपां ग्रहान् - शमयति नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानः शाम्य॑न्ति (सं. 5-6-8)
अनुमत्यै - शमयति । नार्तिमार्च्छ॑त्यध्वर्युर्न यज॑मानः । एकोल्मुकेन॑ (ब्रा. 1-6-2)
अन्यत्र, नार्तिमार्च्छ॑ति यज॑मानः (सं. 1-5-9,2-2-21,3-3-22,3-4-3,38,5-1-47,6-6-29; ब्रा. 1-3-65,2-1-56)
[अपि तु, नार्तिमार्च्छ॑त्यग्निं चि॑क्यानः (सं. 5-3-39), नार्तिमार्च्छ॑त्येषा वै (5-5-7), नार्तिमार्च्छ॑ति सर्वम् (5-6-6), नार्तिमार्च्छत्यश्वौ, नार्तिमार्च्छ॑त्येतत् (5-7-2)?] ॥26॥
मूलम् - 1.27
- निवीतं प्रजापतिराज्यमादौ प्रजापतिष्षोडशधा आपो वै संततिर्यथा वै हविष आदावेकयूप आदौ युंजन्त्यंते ब्रह्म वै सुवर्गस्य लोकस्याभिजित्यै ।
एकविꣳशत्या स्वयमातृण्णामिन्द्राग्नी नाकसद्भिर्देवासुरास्तेन सुवर्गाय वा एते सुवर्गायर्तवो वै यथा वा ऋक्षा वा आदित्या अकामयन्त गावो वा आदावग्निना वै होत्रोत्तमस्तार्प्येण सुवर्गस्य लोकस्यानुख्यात्यै । यावती पृथिव्यै त्वेति यज्ञेन प्राणो देवा वाश्वमे(धे)न वै लोकस्य प्रज्ञात्यै ।
या.. सुवर्गाय वैसर्जनानि दाक्षिणानि लोकस्याभिनीत्यै । न वै प्रभूत्यै। संदिवो? अग्निना वै द्वितीयमभ्यूढ्यै सांग्रहण्यादौ लोकस्य गुप्त्यै । अम्भाꣳसि सन्नत्यै ।
एकविꣳशत्या, स्वयमातृण्णा,मिन्द्राग्नी, नाकसद्भि,र्देवासुरास्तेन, सुवर्गाय*,र्तवो वै, यथा वा*, ऋक्षा वा, आदित्या अकामयन्त, गावो वा - सुवर्गस्य॑ लोकस्यानु॑ख्यात्यै (सं. 5-1-44,5-2-41,5-3-7,34,5-4-4,6-5-13,6-6-5,7-2-20,7-4-5,10,23,7-5-3)
अग्निना वै होत्रा (उत्तमं) - सुवर्गस्य॑ लोकस्यानु॑ख्यात्यै । (ब्रा. 3-3-48). उत्तममिति किम्? प्रथम,तृतीययोः, सुवर्गस्य॑ लोकस्य सम॑ष्ट्यै । (3-3-41,46), द्वितीये, सुवर्गस्य॑ लोकस्याभ्यूढ्यै । (3-3-42)
यथा वै हविषः - सुवर्गस्य॑ लोकस्यानु॑ख्यात्या इति॑ । (ब्रा. 3-8-30)* [अत्र तन्त्रेण ‘सुवर्गाय’ इत्येतत् संहितायां 6-5-4, 6-6-1 अनुवाकयोः, तथा ‘यथा वा’ इत्येतत् संहितायां 7-4-2, ब्राह्मणे 3-8-8 अनुवाकयोश्च ग्रहणार्थमिति ज्ञेयम् ।]
तार्प्येण - सुवर्गस्य॑ लोकस्यानु॑ख्यात्यै । (ब्रा. 3-9-74॥
[अन्यत्र, सुवर्गस्य॑ लोकस्याभिजि॑त्यै (सं. 2-5-61,2-6-16,6-6-39,7-1-20,7-5-6; ब्रा. 1-2-36,1-4-34,3-8-20,75,3-9-17), स्वर्गस्य॑ लोकस्याभिजि॑त्यै । (का. 3-29) । सू.15 अपि द्रष्टव्यम् ।)] ॥27॥
मूलम् - 1.28
- वि वै सन्ततिरप्रतिष्ठां तार्प्यं तृतीयचतुर्थे यस्य प्रातस्सवनेऽसुर्यमुत्तमं युञ्जन्ति तार्प्येणाश्वं प्रजापतिꣳ शुक्रं प्रथमꣳ समर्धयन्ति । पश्चात्पूर्वमर्धयन्ति ॥28॥
वि वै - प्रजयैवैनं॑ पशुभिः सम॑र्धयन्ति । (सं. 5-2-24)
सन्ततिः, अप्रतिष्ठां - अह॑रेव रूपेण सम॑र्धयन्ति । (ब्रा. 1-2-34,42)
तार्प्यं (तृतीयचतुर्थं) - अन्नाद्ये॑नैवैनꣳ सम॑र्धयन्ति ।, साक्षादेवैन॑मन्नाद्ये॑न सम॑र्धयन्ति । (ब्रा. 1-3-45). तृतीयचतुर्थमिति किम्?
प्रथमे, यज्ञेनैवैनꣳ सम॑र्धयति । (1-3-40), द्वितीये, सर्वा॑भिरेवैनं॑ देवता॑भिः सम॑र्धयति (1-3-42).
यस्य प्रातस्सवने - तेनैवैनं कामे॑न, पुष्ट्यैवैनꣳ सम॑र्धयन्ति । (ब्रा. 1-4-30,31)
असुर्यं (उत्तमं) - प्रिययैवैनं॑ तनुवा सम॑र्धयन्ति । (ब्रा. 1-4-43). उत्तममिति किम्? पूर्वं तु, प्रिययैवैनं॑ तनुवा सम॑र्धयति । (ब्रा. 1-4-43) ।
युञ्जन्ति - स्वयैवैन॑न्देवत॑या सम॑र्धयन्ति । (ब्रा. 3-9-16)
तार्प्येणाश्वं - यज्ञेनैवैनꣳ सम॑र्धयन्ति । (ब्रा. 3-9-73)
प्रजापतिꣳ शुक्रं (प्रथमं) - पय॑साऽन्नाद्ये॑न सम॑र्धयन्ति । (आ. 8-95). प्रथममिति किम्? उत्तरत्र, तेज॑सैव तेजस्सम॑र्धयति । (आ. 8-96)
पश्चात्पूर्वमर्धयन्ति - वि वा ए॑नमेतद॑र्धयन्ति । यत्पश्चात्प्रवृज्य॑ (आ. 8-65) ॥28॥
मूलम् - 1.29
- आदित्यमुत्क्राम पुरुषमात्रेण देवासुरा मिथ आयुर्वै साध्याः कुसुरुबिन्दः प्रजापतिः क्षुधं नवरात्रमृतव एष वै प्रभृत्यष्टानुवाके बृहस्पतिः श्रदादि सप्तानुवाके ज्योतिष्टोमं गावस्समान्यो देवानामर्क्येण सन्ततिरप्रतिष्ठां प्रतिपूरुषं प्रजापतिरग्निमसृजतान्तो वै देवस्य स्फ्यं धिष्णिया द्वितीयꣳ साकञ्जानां ब्रह्मन् प्रचरिष्यामो द्वितीयं तृतीयं प्रतितिष्ठन्ति ॥29॥
आदित्यं - अस्यामेव पूर्वे प्रति॑तिष्ठन्ति वैश्वानरं (सं. 2-2-30)
उत्क्राम - ओष॑धयः, पशवोऽनु प्रति॑तिष्ठन्ति (सं. 5-1-11)
पुरुषमात्रेण - कृष्टे ह्योष॑धयः प्रतितिष्ठ॑न्त्यनुसीतं (सं. 5-2-29)
देवासुरा मिथः - अस्मिल्लोँके प्रति॑तिष्ठन्ति (सं. 6-2-13)
आयुर्वै - प्रजाः प्र॑तितिष्ठ॑न्ति माꣳसेन॑ (सं. 6-5-7)
साध्याः - सव्वँथ्सर एव, आयु॑ष्येवेन्द्रिये प्रति॑तिष्ठन्ति (सं. 7-2-2,4)
कुसुरुबिन्दः - अनयो॑रेव प्रति॑तिष्ठन्ति (सं 7-2-7)
प्रजापतिः क्षुधं नवरात्रं - एष्वे॑व लोकेषु प्रति॑तिष्ठन्ति (सं. 7-2-11)
ऋतवः - सव्वँथ्सर एव, इन्द्रिये प्रति॑तिष्ठन्ति (सं. 7-2-20,21)
एष वै प्रभृत्यष्टानुवाके - अन्नाद्ये, अन्नाद्ये॑ च, अनयो॑रेव, दिक्ष्वे॑व, पशुषु, अनयो॑रेव, दिक्ष्वे॑व, सव्वँथ्सरे, पशुषु, नाना, अनयो॑रेव, लोके, उभयतः, य॑थापूर्वं, प्रति॑तिष्ठन्ति (सं. 7-3-7,8,13,15,19,20,21,23,24,26,27,29)
बृहस्पतिः श्रदादि सप्तानुवाके - पशुषु, अनयो॑रेव, लोके, पशुषु, अनयो॑रेव, लोके, सव्वँथ्सर एव, लोके, देवतास्वेव, लोकेषु, अनयो॑रेव, सव्वँथ्सरे, लोकेषु, ऋतुष्वेव, दिक्ष्वे॑व, पशुषु, सव्वँथ्सर एव, ऋतुष्वेव, प्रति॑तिष्ठन्ति (सं. 7-4-2,3,7,8,11,12,13,17,19,20,23,24,26,27,)
ज्योतिष्टोमं - लोके, तेन॑, लोके प्रति॑तिष्ठन्ति (सं. 7-4-34)
गावः - सव्वँथ्सरे प्रति॑तिष्ठन्ति (सं. 7-5-4)
समान्यः - अस्यामेव प्रति॑तिष्ठन्ति (सं. 7-5-12)
देवानां - दिक्ष्वे॑व, यथापूर्वं प्रति॑तिष्ठन्ति (सं. 7-5-26,27)
अर्क्येण - इन्द्रिये प्रति॑तिष्ठन्ति (सं. 7-5-29)
सन्ततिः - अस्यामेव, अस्यामन्येन॑, उभयोर्लोकयोः प्रति॑तिष्ठन्ति । (ब्रा. 1-2-36)
अप्रतिष्ठां - द्यावा॑पृथिव्योरेव, अस्यामेव प्रति॑तिष्ठन्ति । (ब्रा. 1-2-41)
प्रतिपूरुषं - अस्यामेव प्रति॑तिष्ठन्ति । (ब्रा. 1-6-75)
प्रजापतिरग्निमसृजत - अह्ना प्रति॑तिष्ठन्ति । (ब्रा. 2-1-10)
अन्तो वै - अस्यामेव प्रति॑तिष्ठन्ति । (ब्रा. 2-2-35)
देवस्य स्फ्यं - चतुरङ्गुले ह्योष॑धयः प्रतितिष्ठ॑न्ति । (ब्रा. 3-2-78)
धिष्णियाः (द्वितीयं) - अस्थ्नाऽन्याः प्रजाः प्र॑तितिष्ठ॑न्ति । (ब्रा. 3-2-55). द्वितीयमिति किम्? दिक्ष्वे॑व प्रति॑तिष्ठति (3-2-54) इत्यत्र प्रथमत्वात् न ।
साकञ्जानां - याः प्रति॑तिष्ठन्ति । सव्वँथ्सरे ताः प्रति॑तिष्ठन्ति । (आ. 1-11)
ब्रह्मन्प्रचरिष्यामः (द्वितीयं,तृतीयं) - ऋतुष्वेव, दिक्ष्वे॑व प्रति॑तिष्ठन्ति । (आ. 8-41,42). द्वितीयंतृतीयमिति किम्? प्रथमे, अस्यामेव प्रति॑तिष्ठत्यनु॑न्मादाय । (8-37) इत्यत्र न ॥29॥
मूलम् - 1.30
- यां वै, पर्यग्नि करोति, स्फ्येन वेदिं, घर्म या ते दिवि शुगिति, भ्रातृव्यापनुत्त््यै । तेषां भ्रातृव्यपराणुत्त्यै । अन्यत्र भ्रातृव्याभिभूत्यै ॥30॥
यां वै - अपेन्द्र द्विषतो मन इत्या॑ह भ्रातृ॑व्यापनुत्त्यै (सं. 3-5-27)
पर्यग्नि करोति - अनर्वा प्रेहीत्या॑ह भ्रातृ॑व्यो वा अर्वा भ्रातृ॑व्यापनुत्त्यै (सं. 6-3-44)
स्फ्येन वेदिं - यद्द॑क्षिणत उ॑पशय उ॑पशये भ्रातृ॑व्यापनुत्त्यै (सं. 6-6-17)
घर्म या ते दिवि शुक् - अप द्वेषो अप ह्वर इत्या॑ह भ्रातृ॑व्यापनुत्त्यै । (आ. 8-89)
तेषां - यदु॑पसद॑ उपसद्यन्ते भ्रातृ॑व्यपराणुत्त्यै (सं. 6-2-16).
अन्यत्र, वर्म यज॑मानाय भ्रातृ॑व्याभिभूत्यै (सं. 2-6-5), अन्यथो॑पदधा॑ति भ्रातृ॑व्याभिभूत्यै (सं. 5-3-11), अधस्ता॑दुपदधा॑ति भ्रातृ॑व्याभिभूत्यै (सं. 5-6-5), समवद्यति, अवान्तरदीक्षामुपैति, तदूर्जं॑ धत्ते, भ्रातृ॑व्याभि-भूत्यै (सं. 6-2-9,14,28), पञ्चदशो वज्रो, ब्रूहीत्या॑ह, समवद्यति भ्रातृ॑व्याभिभूत्यै (सं. 6-2-54,6-3-18,36,56), द्युमद्व॑दत वयꣳ स॑ङ्घातं जेष्मेत्या॑ह भ्रातृ॑व्याभिभूत्यै । (ब्रा. 3-2-43), अग्नये॑ समिध्यमा॑नायानु॑ ब्रूहीत्या॑ह भ्रातृ॑व्याभिभूत्यै । (ब्रा. 3-3-38), यथ्स्वि॑ष्टकृद्भ्यो लोहि॑तं जुहोति भ्रातृ॑व्याभिभूत्यै । (ब्रा. 3-9-44) ॥30॥
मूलम् - 1.31
- कत्कटश्शित्पुटः उद्रो मद्गुर्बद्बधानो मीवत्को नैवत्को नचिन्वत्को नपात्को यत्को वत्को यद्बꣳहिष्ठन्नाति-रेफलकारं वर्जयित्वा । परिमिताकूत्यै पथ्यां पञ्च । ब्रह्मवादिन आपतयेऽख्ष्णया पञ्च । देवस्य ग्रावाणं पञ्चपञ्च । त्रिवृदसत्रं त्रीणि पदपञ्चाक्षरा ॥31॥
कत्कटः - धातुः क॑त्कटः (सं. 5-5-53)
शित्पुटः - बृहस्पत॑ये शित्पुटः (सं. 5-5-55)
उद्रः, मद्गुः - अलज आन्तरिख्ष उद्रो मद्गुः प्लवः (सं. 5-5-58)
बद्बधानः - आ वाꣳ रथो रोद॑सी बद्बधानः (ब्रा. 2-8-54)
मीवत्क - नम॑ आमीवत्केभ्यः॑ । (सं. 4-5-20)
नैवत्कः - ?
नचिन्वत्क - नमो॑ विचिन्वत्केभ्यः॑ (सं. 4-5-20)?
नपात्कः - चिनुते नपात्को वै नाम (सं. 5-)यत्कः - ?
वत्कः - एजत्का जो॑वत्काः । (का. 1-4) [कया॑नश्चित्र आ भु॑वत्को अद्य यु॑ङ्क्ते । (सं. 4-4-37)?]
यद्बꣳहिष्ठन्नाति - यद्बꣳहि॑ष्ठन्नाति विदे॑सुदानू । (ब्रा. 2-8-46) [पड्बीश - यच्च पड्बी॑शमर्व॑तः, सन्दानमर्व॑न्तं पड्बी॑शं प्रिया (सं. 4-6-43,44), एष वा अ॑ग्नीनां पड्बी॑शो नाम॑ (ब्रा. 1-6-73)?]
रेफलकारं वर्जयित्वा - ?
परिमित - पञ्च कृत्व आङ्क्ते पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धे परि॑मितमाङ्क्ते (सं. 6-1-6)
आकूत्यै - पञ्चमीं पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्ध आकूत्यै प्रयुजे (सं. 6-1-10)
पथ्यां - अथो पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धे पथ्याꣳ॑ स्वस्तिं (सं. 6-1-35)
पञ्च - पञ्च कृत्वो यजु॑षा मिमीते पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धे पञ्च कृत्वः॑ (सं. 6-1-63)
ब्रह्मवादिनः - पञ्च कृत्वो॑ गृह्णाति पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑रुन्धे ब्रह्मवादिनो॑ वदन्ति (सं. 6-2-3)
आपतये - पञ्च कृत्वोऽव॑ द्यति.. अथो पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्ध आप॑तये त्वा (सं. 6-2-9)
अख्ष्णया - पञ्च कृत्वो व्याघा॑रयति पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धेऽख्ष्णया व्याघा॑रयति (सं. 6-2-41)
पञ्च - पञ्च कृत्वो यजु॑षा मिमीते पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धे पञ्च कृत्वः॑ (सं. 6-4-17)
देवस्य ग्रावाणं - पञ्चप़ञ्च ?
त्रिवृत् - अथो पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धे त्रिवृद॑ग्निष्टोमः (सं. 7-1-39)
असत्त्रं - अथो पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धतेऽस॑त्त्रं वा एतत् (सं. 7-3-20)
त्रीणि - अथो पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञमेवाव॑ रुन्धते त्रीण्याश्विनानि॑ (सं. 7-4-19)
[पवयति पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञो यज्ञायैवैनं॑ पवयति (सं. 6-1-8), नमेदिति पञ्चाख्षरा पङ्क्तिः पाङ्क्तो॑ यज्ञ उपै॑नम् (सं. 6-3-17)?] ॥31॥
मूलम् - 1.32
- वागिन्द्रस्त्रिवृत्प्रतिष्ठापयन्ति । अन्यत्र प्रतिष्ठापयति ॥32॥
वाक् - तामृत्विजो यज॑माने प्रति॑ष्ठापयन्ति (सं. 6-1-26)
इन्द्रः - पशुष्वेव पशून्प्रति॑ष्ठापयन्ति ॥ (सं. 6-5-35)
त्रिवृत् - यज॑मान एव पशून्प्रति॑ष्ठापयन्ति ॥ (ब्रा. 1-6-28)
अन्यत्र, यज्ञं, स्तोमे, लोकेषु, पशून्, गर्दभं, एवैनं, एवैनां, यज्ञं, एवैनां, एवैनं, यज्ञं, लोकेषु, तनुवां, पशून्, अस्यां, यज्ञं, रय्यां, प्रति॑ष्ठापयति (सं. 2-4-31,2-5-57,58,3-4-12,3-5-18,5-1-5,29,30,34,41, 47,5-2-38,47,5-3-30,5-7-12,6-3-49,6-4-4,6-6-8,7-1-30), प्रजाप॑तावेव यज्ञं प्रति॑ष्ठापयति । (ब्रा. 1-3-26), साकमेधैः प्रति॑ष्ठापयति । (ब्रा. 1-6-52), वीर्ये, क्षत्रं, प्रति॑ष्ठापयति । (ब्रा. 1-7-11, 23,44), अस्यां, चतु॑ष्पदः प्रति॑ष्ठापयति । (ब्रा. 2-1-14,24), एवैनत्, पशून्, एवैनत्, प्रति॑ष्ठापयति । (ब्रा. 3-2-20,21,85), पृथिव्यां,प्रजासु, पृथिव्यां, पशून्, प्रजासु, तदे॑नं, प्रति॑ष्ठापयति । (ब्रा. 3-3-29, 34,50,55,71), यज्ञं, एवैनत्, प्रति॑ष्ठापयति । (ब्रा. 3-7-10,11,23), एवैनं, एवैनाः, योनौ, प्रति॑ष्ठाप-यति । (ब्रा. 3-8-12,22,46,80), एष्वे॑वैन॑ल्लोँकेषु, दिक्ष्वे॑वैनं, ब्रह्म॑न्नेवैनं, अमृत॑ एवैनं, स्वयैवैनय्योँनौ, प्रति॑ष्ठापयति । (आ. 8-72,73,76,88,97) ॥32॥
मूलम् - 1.33
- रुन्धते, दधते, तिष्ठन्ते, जायन्ते प्रजननमङ्गिरसो,ऽत्रि,र्जमदग्नि,स्सव्वँथ्सरः, कुसुरुबिन्दस्सप्तरात्रं, बृहस्पतिरष्टरात्रं, प्रजापतिस्ताः क्षुधं नवरात्रं, प्रजापतिरकामयत दशहोतारं वर्जयित्वा ॥33॥
- आस्य चत्वारो वीरा जायन्त ऐषान्द्व्यनीका प्रजा जायन्ते इति वर्जयित्वा । प्रजापतिन्वरात्रन्तिष्ठन्ति । संवथ्सरो नैकविंशस्साध्या न पञ्चविंशः कुसुरुबिन्दो न त्रयस्त्रिंशो बृहस्पतिस्सर्वं । कुसुरुबिन्दो अन्तिमोव न यन्ति । अंबे प्रथमन्नयति । साध्या ऋतव ऋक्षा वसिष्ठष्षड्वा ऋतवष्षट्पृष्ठानि । ऋतव आदित्या गावो ज्योतिर्ज्योतिः प्रथममेकस्मै द्वाभ्यां शताभ्यां द्वाभ्यामष्टानवत्यै चतुर्भ्यष्षण्णवत्यै पञ्चभ्यःपञ्चनवत्यै षट्प्रजायै परिगृहीत्यै चपचप परिगृहीत्यै षडिन्द्रियस्य परिगृहीत्यै । षट् सुवर्गस्य लोकस्य परिगृहीत्यै सप्तेन्द्रियस्य वीर्यस्य प्रजायै पशूनां परिगृहीत्यै अष्ट त्रि सप्तान्नाद्यस्य परिगृहीत्यै नव ब्रह्मवर्चसस्यान्नाद्यस्य परिगृहीत्यै दश प्र द्वितीयो ब्रह्मवर्चसस्य परिगृहीत्यै । प्रपसनवप्रद्विच बृहद्रथन्तराभ्यां प्रसनव यदन्यतः यत्र यत्र बृहद्रथन्तराभ्यान्तत्र तत्र पराञ्चः । साध्या बृहस्पतिः पराञ्चवर्जम् । षडष्टे प्रथम द्वितीये पुनःषष्ठेसत्त्रम् सा विराडूर्ध्वं त्र्यहा भवन्ति । वसिष्ठस्तैः । क्षुत्सदृङ्ङेषु । अम्बे + यथा वै षडहं । त्रिवृतोधि प्रजापतिर्नवरात्रं । इन्द्रो वै सदृङ्ङेषु प्रजापतिर्येन येन पराचो द्वात्रिंशदेता ये द्वे ।
अत्रोक्ताः वर्ज्याः अनुवाकाः - 7-1-1,4,8,9,10,7-2-2,3,4,5.
सात्रायणे (सप्तमकाण्डे) यत्रैषां प्रचुरप्रयोगः (ये एवं विद्वांसः सत्त्रम्/एता रात्रीः आसते इति रूपेण) यत्र चैषां संभावना, तादृशस्थलेषु मध्ये एष्वनुवाकेषु बहुवचनप्रयोगः नास्तीति मन्तव्यम् ।
रुन्धते - साध्याः प्रश्ने प्रथम, षष्ठानुवाकयोः, प्रजवं प्रश्ने षष्ठ, सप्तम, अष्टमानुवाकेषु, बृहस्पतिः प्रश्ने आदितः अनुवाकषट्के एकादशानुवाके च तथा गावः प्रश्ने तृतीयाद्यनुवाकचतुष्के, अष्टमादित्रये च अस्य प्रयोगः दृश्यते । [अन्यत्रापि, य एव तत्र॑ सोमपीथस्तमेवाव॑ रुन्धत उत्तरवेद्यां निव॑पति (6-5-35)?]
दधते - साध्याः प्रश्ने प्रथम, षष्ठानुवाकयोः, प्रजवं प्रश्ने पञ्चम, सप्तम, नवमानुवाकेषु, बृहस्पतिः प्रश्ने प्रथम, तृतीय, षष्ठ, सप्तमानुवाकेषु तथा गावः प्रश्ने प्रथम, अष्टमानुवाकयोः च अस्य प्रयोगः दृश्यते ।
[अन्यत्रापि, नास्येष्टाय श्रद्द॑धते (सं. 1-6-25), पुर ए॑नं दधते । (सं. 2-1-15), तत्रेदिन्द्रो॑ दधते पृथ्सु तुर्याम् । (सं. 2-2-67)?]
तिष्ठन्ते - सात्रायणे न कुत्रापि लभ्यते । अन्यत्र संहितायां बहुत्र च ।
जायन्ते - सात्रायणे, प्रजननं प्रश्ने अष्टमानुवाके, आऽस्य॑ चत्वारो॑ वीरा जा॑यन्ते सुहो॑ता (सं. 7-1-33) इति, साध्याः प्रश्ने प्रथम, सप्तमानुवाकयोः, बृहस्पतिः प्रश्ने तृतीये, सप्तमे च तथा गावः प्रश्ने अष्टमानुवाके च अस्य प्रयोगः दृश्यते ॥ अन्यत्र संहितायां बहुत्र च । एषां ब्राह्मणे तु बहुलमुपलम्भः । सन्देहाभावः तेषामसङ्ग्रहे हेतुरिति ज्ञेयम् ॥33॥
अग्नयेदित्या अनुमत्यै (सं. 7-5-38) । अग्नयेꣳहोमुचेनुमत्यै द्यावापृथिवीभ्याम् (सं. 7-5-49) । KUML 16408
अनुमत्यै चरुरित्यस्यानन्तरं पर्यायान्तराभावः प्रथमे अग्नये गायत्रायेत्यत्र, द्यावापृथिवीभ्यामिति पर्यायः द्वितीये इति च ॥
उपोत्थाय नाभिर्विराज्येव (सं. 7-5-40) ।
यो वा अग्नावित्यनुवाके सन्देहनिरासार्थमेतत् ।
अंगिरसः - सुवर्गं लोकमि॑यावेति॑ (सं. 7-1-11) ।
आदित्या अकामयन्त - सुवर्गं लोकमि॑यामेति॑ (सं. 7-4-22) ।
सुवर्गं - लोकम॑यामेति॑ (सं. 7-4-31) ।
[यथा वै पुत्रः - अयानीति॑ (सं. 5-7-19,20,21,22); वसवः - परी॑यामेति॑ (ब्रा. 3-1-49)] ।
अत्रिरास्य चत्वारः जमदग्नि पुरोडाशिन्यः । सहस्रतम्या प्रतिष्ठापयति तामग्नीधे वा । KUML 16408
अत्र अत्रिर्जमदग्निरित्यनुवाकद्वयेऽपि य एवं विद्वाꣳश्च॑तूरात्रेण यज॑ते इत्यस्यानन्तरं सन्देहनिरासार्थमिदं सूत्रम् ।
अत्रिः - आस्य॑ चत्वारः॑ (सं. 7-1-33).
जमदग्निः - पुरोडाशिन्यः॑ (सं. 7-1-) ।
सहस्रतम्या प्रतिष्ठापयति तामग्नीधे वा ।
सहस्रतम्येत्यनुवाके (सं. 7-1-30) सन्देहनिरासकोऽयम् ।
अग्नये तृतीयं वायवे पूष्णवर्जितम् (सं. 7-1-43) ।
अग्नयेष्टौ वायवे पूष्ण पञ्चमम् (सं. 7-1-45) ।
अग्नये स्वाहा सोमाय स्वाहेति प्रारम्भवतोः अनुवाकयोः मध्ये, प्रथमे, वायवे स्वाहेति तृतीयः पर्यायः, अस्मिन्ननुवाके पूष्णे स्वाहेति नास्ति इत्यर्थः ।
एवमेव द्वितीये, वायवे स्वाहेति अष्टमः पर्यायः, अस्मिन्ननुवाके पूष्णे स्वाहेति पञ्चमः पर्यायः इति चार्थः ॥
सा विराडूर्ध्वन्त्र्यहा भवन्त्यभिपूर्वन्त्र्यहा भवन्ति । यथा वै प्रत्यङ्ख्षडहस्त्रिवृतोऽधि ।
प्रजापतिर्येन येन पराचो द्वात्रिंशदेता ये द्वे । 2262 प्रजापतिर्येन येन पराचो द्वात्रिंशद्ये द्वे । 988
चतुर्दशैताः पञ्चदशैतास्त्रिंशदेता द्वात्रिंशदेताः । 2938
मूलम् - 1.34
- भुवत्पुन,स्त्वावतो, यज्ञेन, सुप्रतूर्ति, भुवो देवता, पितृणाꣳ, सहस्रेषु तुवी, पितरो ये, विद्म, पितृभ्यः स्वाहा, चनो, वसु, वलꣳ, सोम, सुरेतसं, कृधि, मत्स्यं, पूर्वं मघ । वकारपरश्च ।
तेषां मखं वैष्णवमिति वर्जयित्वा । अन्यत्र मख ॥34॥
भुवत्पुनः - स सूनुर्भु॑वथ्स भु॑वत्पुन॑र्मघः । (सं. 2-2-64; ब्रा. 3-5-11)
त्वावतः-स्तोता स्यात्त्वाव॑तो मघोनः॑ । (सं. 2-2-71)
यज्ञेन - यज्ञेन॑ मघवान्दख्षि॑णया (सं. 4-4-24)
सुप्रतूर्ति - सुप्रतूर्तिर्मघोनी जुष्टि॑रसि (सं. 1-6-9,1-7-4)
भुवो - ?
देवता - सर्पा देवता॑ मघा नख्ष॑त्रं (सं. 4-4-26)
सहस्रेषु तुवी - सहस्रे॑षु तुवीमघ । (ब्रा. 2-4-41)
पितृणां - पितृणां मघाः । (ब्रा. 1-5-2)
वसु, वलं - आ शुक्रमा॑सुराद्वसु । मघमिन्द्रा॑य .. स बि॑भेद वलं मघम् । (ब्रा. 2-6-64)
सोम - ? [त्वꣳ सो॑म महे भगम् । (ब्रा. 2-4-46,2-6-75)?]
पितरो ये - उप॑हूताः पितरो ये मघासु॑ । (ब्रा. 3-1-6)
विद्म - उ च न प्र॑ विद्म । मघासु॑ यज्ञं (ब्रा. 3-1-7)
पितृभ्यः, स्वाहा - पितृभ्यो॑ मघाभ्यः॑ पुरोडाशम्, पितृभ्यः स्वाहा॑ मघाभ्यः॑ । (ब्रा. 3-1-34) [अत्र तन्त्रेण पितृभ्यः इति, तत्पूर्वक स्वाहा इति पदं च ग्राह्यम् ।]
सुरतसं - पुरुरूपꣳ॑ सुरेत॑सं मघोनिम् । (ब्रा. 2-6-37)
च नः - रख्षा॑ च नो मघोनः॑ पाहि सूरीन् । (ब्रा. 2-6-43)
कृधि - बृहत्कृ॑धि मघोनाम् । नृवद॑मृत (ब्रा. 2-7-12)
मत्स्यं - ? [अपास्मत्स्य॑न्दतामघम् । (आ. 4-26)?]
वकारपरश्च - मघवन्न् (सं. 1-4-4,23,46,1-5-24,1-8-7,4-6-19,6-4-28,29; ब्रा. 1-4-7,2-8-12,37,78,3-7-114,; ए. 1-15) मघवा (सं. 1-6-50,2-6-65,4-2-13,4-6-11; ब्रा. 2-5-8,13,2-8-21,34; आ. 7-59; ए. 1-7), मघवान् (ब्रा. 2-6-40), मघवानम् - (सं. 1-4-52; ब्रा. 2-4-36,2-5-42,2-7-54), मघवद्भ्यः (सं. 4-5-24), मघवत्सु (सं. 1-5-48) । तेषां मखं वैष्णवं यश॑ आर्च्छत् । (आ. 8-2) इति वर्जयित्वा ।
अन्यत्र, अग्नीषोमाभ्यां मखस्य शिरो॑ऽसि (सं. 1-1-12..), रेज॑ते अग्ने पृथिवी मखेभ्यः॑ । (सं. 4-1-46; ब्रा. 2-8-35), मखस्य शिरः॑ । (आ. 7-3).. ॥34॥
मूलम् - 1.35
- अग्निहोत्रं, बर््हिषो द्वितीयं, प्रजापतिस्तास्तृतीयं, सर्वाणि, यत्पुण्यं, प्रजापतिः पशून्, प्रजापतिः पशूनसृजत । अन्यत्र प्रजापतिः प्रजा असृजत ॥35॥
..जवै ब्रह्म क्षत्रमग्निश्छंदकॢप्ताः होतानूर्ध्वमसतोधि पूर्वमसृज्यत । अन्यत्र सृजत । वाजो नो मा सृजामि ।
सुवर्गाय नमस्करोम्युद्धन्यमानं मिताश्चतुर्ध्यात्माजीदोम च ।
पकायं येपाः .. बहूनां परस्समनश्शब्दश्च । वस्व्यस्यूर्ध्वा यज्ञस्य .. श्चेशमकारः ।? Adyar 115
अग्निहोत्रं - प्रजापतिः पशूनसृजत (सं. 1-5-42)
बर््हिषः (द्वितीयं) - प्रजाप॑तिः पशून॑सृजत (सं. 1-7-15). द्वितीयमिति किम्? प्रथमे, प्रजाप॑तिः प्रजा अ॑सृजत (सं. 1-7-15)
प्रजापतिस्ताः (तृतीयं[-उत्तरं*]) - प्रजाप॑तिः पशून॑सृजत (सं. 2-4-13). तृतीयमिति किम्? प्रथम,द्वितीययोः, प्रजाप॑तिः प्रजा अ॑सृजत (सं. 2-1-7,2-2-1[,2-4-12*])
* - अत्र संहितायामादितः द्वितीयकाण्डचतुर्थप्रश्नचतुर्थानुवाकस्य -प्रजापतिस्ताः- इत्यनुवाकस्य तृतीयत्वेऽपि, तस्मिन्नेवानुवाके आरम्भे, प्रजाप॑तिः प्रजा अ॑सृजत इति सत्त्वात्,
प्रजापतिस्तास्तृतीयोत्तरमिति ज्ञेयम् । अस्य (उत्तरमित्यस्य) कण्ठोक्त्या निर्देशस्य प्रसक्तिः प्रजापतिस्ता इति ग्रहणेनैव प्रतिषिध्यत इति ।
सर्वाणि - प्रजाप॑तिः पशूनसृ॑जत (सं. 2-4-33) [प्रजाप॑तिः खलु वै पशून॑सृजत (सं. 2-4-33) इत्यपि ।]
यत्पुण्यं - प्रजाप॑तिः पशून॑सृजत । (ब्रा. 1-5-9)
प्रजापतिः पशून् - प्रजाप॑तिः पशून॑सृजत । (ब्रा. 2-7-46)
अन्यत्र, प्रजाप॑तिः प्रजा अ॑सृजत (सं. 1-7-15,2-1-7,2-2-1,2-4-12,5-1-41,5-2-36,5-3-26,6-4-1,6-6-18,20,7-1-2,7-2-10, 7-4-21,7-5-12,25,28; ब्रा. 1-1-18,28,38,75,1-6-12, 21,52,2-2-3,38,59,2-7-25,3-1-28; आ. 8-56), …. असृ॑जत (सं. 5-1-46,5-4-35,6-1-16; ब्रा. 2-2-2,3).
[पदान्तरव्यवहिताः - वायव्यं - स प्रजाः पशून॑सृजत (सं. 2-1-4), इन्द्रं वृत्रं - प्रजाप॑तिः पशून॑ब्रवीत् (सं. 2-5-17); प्रजाप॑तिः सविता भूत्वा प्रजा अ॑सृजत । (ब्रा. 1-6-29),
ततो वै स प्रजा अ॑सृजत । (सं. 3-1-1; ब्रा. 2-2-1), स प्रजन॑नादेव प्रजा अ॑सृजत । .. प्रजन॑नाद्ध्ये॑ना असृ॑जत । (ब्रा. 2-2-55), तेन॑ प्रजा अ॑सृजत । (आ. 8.105)] ॥35॥
असृज्यत - यज्ञः पूर्वं (सं. 3-3-19), [यज्ञान्, यज्ञं पूर्वं (सं. 1-6-29, 6-1-13) चेत् असृजत एव ।]
ब्रह्म पूर्वं (सं. 4-3-18), क्षत्रं पूर्वं (सं. 4-3-19), (अग्निः, इन्द्रः, छन्दः, कॢप्तः) अनु पूर्वं (सं. 7-1-4,6), अत्र अन्विति सामान्येनोक्तस्य अग्निर्देवतानु, इन्द्रो देवतानु, अनुष्टुप्छन्दोनु, अनवकॢप्तो न हि देवता अनु इत्यादयः व्यावर्तकाः ज्ञेयाः ।
ऊर्ध्वं पूर्वं (ब्रा. 1-1-75), होता (अनु) पूर्वं (ब्रा. 2-2-52), असतोऽधि पूर्वं (ब्रा. 2-2-59). अन्यत्र असृजत ॥
(सं) मा॑ सृजामि - वाजो नः (सं. 4-7-22). [वि पाजसा - सꣳ सृ॑जामि (सं. 4-1-19)].
सुवर्गाय - नम॑स्करोमि (सं. 5-5-31, 32). [अपितु, न प्रथमः - नम॑स्करोति (सं. 5-5-30)].
अन्यत्र, नम॑स्करोति (सं. 2-6-56, 5-5-22, 6-3-44; ब्रा. 1-3-30,63; 3-3-43).
[शमीगर्भात् (ब्रा. 1-1-68)].
उद्धन्यमानं - (सं)मिताः (ब्रा. 1-2-8). [सम्मि॑ताः - यदुभौ (सं. 6-2-4), शमीगर्भात् (ब्रा. 1-1-69)].
अन्यत्र, (सं)मिताम् (सं. 2-6-22, 5-1-34; ब्रा. 3-2-78). [पृथिव्यै त्वेति - सम्मि॑ता (सं. 6-3-21)].
प्रजाप॑तिना यज्ञमुखेनेत्यस्योपरि संमिताः, संमितां वा इति सन्देहनिरासकमेतत् ।
मूलम् - 1.36
- भुवनम,स्याकूत्या, आ दद ऋतस्य, यो वै, वाजस्येमं, वैश्वानर,मग्निं वै, देवा वै नर्चि न प्रथम,मग्नीधे, प्रजापतिरकामयतै,ष ते गायत्रः, प्राजापत्या द्वितीयं, यो वै, पूर्णाष्टनव, सर्वाभ्यो, नृषदे, यदेकेन पञ्चमं, चित्तिं, वाग्वै, वारुणो वै नोत्तमं, यदुभौ, बद्ध,मिषे, पर्यग्नि, पशोर्द्वितीयं, तृतीयं, देवा वा आग्रयणाग्रा, नैन्द्रवायवाग्रान्, प्रजव,मृक्षा वै, सव्वँथ्सराया,ऽक्रा,नारभ्यारभते । प्र वो, यद्धस्तेन, स एन,मृध्नो,त्यक्ष्णया ,ऽग्नि,स्सप्त, मुष्टी, पत्न्ये,त,द्वपाश्रपण्य,स्मि,न्न, दतो, या, अथो, अभिधाः परꣳ रभते । अनुपूर्वमारभते । अन्यत्रालभ्यालभते ॥36॥
भुवनमसि - वीर्या॑णि समारभ्योर्ध्वः (सं.1-1-21)
आकूत्यै - ते वामा र॑भे ते मा (सं. 1-2-3), यज्ञं वातादा र॑भे । (सं. 1-2-5)
आ दद ऋतस्य - पाशेना र॑भे धर््ष॑ (सं. 1-3-14)
यो वै - श्रद्धामना॑रभ्य यज्ञेन॑ .. श्रद्धामेवारभ्य॑ यज्ञेन॑ (सं. 1-6-25)
वाजस्येमं - वरु॑णमग्निमन्वार॑भामहे । (सं. 1-7-42)
वैश्वानरं - देवता॑ एवान्वारभ्य॑ सुवर्गं (सं. 2-2-27)
अग्निं वै - ब्रह्मणो हस्त॑मन्वारभ्य पर्या॑हुः (सं. 2-3-44)
[देवासुरा अब्रुवन् - अनु॑ समार॑भामहै (सं. 2-4-5)?]
देवा वे नर्चि न (प्रथमं) - प्रजाप॑तिमा र॑भते प्र वो वाजाः (सं. 2-5-41). प्रथममिति किम्? द्वितीये, उत्त॑रमर्धर्चमा ल॑भेत प्राणेन॑ (सं. 2-5-42)
अग्नीधे - प्रजापतिरकामयत - एष ते गायत्रः - चमसं वाऽन॑न्वारभ्याश्रावयेत् .. तस्मा॑दन्वारभ्याश्राव्यम् (सं. 3-1-8)
प्राजापत्या (द्वितीयं) - यत्पशुस्तय्यँद॑न्वारभे॑त (सं. 3-1-15). द्वितीयमिति किम्? प्रथमे, प्रतिप्रोच्याल॑भत आत्मनः॑ (सं. 3-1-15)
यो वै - अनु त्वाऽऽर॑भे स्वस्ति (सं. 3-2-1)
पूर्णा (अष्ट नव) -यज्ञमेवारभ्य प्र त॑नुते .. साक्षादा र॑भत ऋध्नोत्याभ्यां (सं.3-5-4). अष्ट, नवेति किम्?
आद्यसप्तके, आऽल॑भन्त, आलभ॑मानः, आ ल॑भते, आ ल॑भेत यः, आ ल॑भेत प्रतिलोमम्, आ ल॑भेतामुम् (सं. 3-5-3), आ ल॑भते (सं. 3-5-4) लकार एव ।
सर्वाभ्यः - ता एवान्वारभ्य॑ सुवर्गं लोकमे॑ति । (सं. 5-3-39)
नृषदे - यदेकेन (पञ्चमं) - पञ्चममिति किम्? प्रथमचतुष्टये - अग्निभ्य॑ आलभ्यन्ते, तूपरमा ल॑भते, एष आल॑भ्यते (सं. 5-5-1), पशूनां प्रत्याल॑भ्यते (सं. 5-5-2) लकार एव ।
चित्तिं - वाग्वै (नोत्तमं?) - वातादा र॑भ इत्या॑ह, साक्षादा र॑भते (सं. 6-1-26,27). नोत्तममिति किम्? स एवैनं॑ व्रतमा ल॑म्भयति देवः (6-1-30) इत्यत्र उत्तमत्वात् लकार एव ।
वारुणो वै(नोत्तमं) - देवता॑ एवान्वारभ्योत्ति॑ष्ठति (सं. 6-1-71), आत्मान॑मारभ्य॑ चरति (सं. 6-1-76). नोत्तममिति किम्? पशुमालभ॑त आत्मनिष्क्रय॑णः, पशुमालभ॑ते वार्त्र॑घ्नः (सं. 6-1-76).
यदुभौ - [सुवर्गं - देवा हस्तान्थ्सꣳरभ्यैच्छन्न् (सं.6-2-21)?]
बद्धं - यज्ञस्यान्वारम्भोऽन॑वच्छित्त्यै (सं. 6-2-46)
इषे - पाशेना र॑भ इत्या॑ह (सं. 6-3-34), यो मेधा॑यारभ्यते स्वात्तं (सं. 6-3-35)
पर्यग्नि - अन्वारभ्यः॑ पशू(३)र्नान्वारभ्या (३) इति॑ .. यद॑न्वारभे॑त! प्रमायु॑कः (सं. 6-3-41), यन्नान्वारभे॑त! .. नेवान्वार॑ब्धं नेवान॑न्वारब्धम् (सं. 6-3-42)
पशोः (द्वितीयं, तृतीयं) - द्वितीयं तृतीयमिति किम्? प्रथमे, पशोर्वा आल॑ब्धस्य प्राणान् (सं. 6-3-45)
[देवा वै यज्ञं - यज्ञमेवारभ्य॑ गृहीत्वा (सं. 6-4-6), पशूनेवारभ्य॑ गृहीत्वा (सं. 6-4-7)] तन्त्रेण द्वितीय, अन्तिमानुवाकयोः ग्रहणम् ।
देवा वा आग्रयणाग्रान् - यज्ञमारभ्य वाचम् (सं. 6-4-50)
ऐन्द्रवायवाग्रान् - प्रजवं - तमेवान्वारभ्य सम॑श्ञुते (सं. 7-3-1)
ऋख्षा वै - एवार॑भन्ते प्रति॑ष्ठित्यै (सं. 7-4-11)
सव्वँथ्सराय - सव्वँथ्सरमारभ्य॑ दीख्षन्ते (सं. 7-4-28,29)
आऽक्रान् - अनु त्वाऽऽर॑भे स्वस्ति (सं. 7-5-45,46)
[वैश्वदेवेन - अना॑रभ्योप॑ मन्थति । (ब्रा. 1-6-56)
अग्निष्टोमं - यज्ञमुखमेवारभ्य॑ सवमा(ब्रा. 1-8-27)
पूर्वेद्युः - यज्ञमेवारभ्य॑ गृहीत्वोप॑ वसति । (ब्रा. 3-2-16), अन्वारभ्य वाच॑य्यँच्छति । (3-2-21), अवा॑चय्यँमोऽन॑न्वारभ्योत्त॑राः । (3-3-23)
कर्मणे वां - श्रद्धां, यज्ञम्, देवता॑ एवारभ्य॑ प्रणीय प्रच॑रति । (ब्रा. 3-2-28,29,30)
अग्निना वै - समारभ्योर्ध्वो अ॑ध्वरः (ब्रा. 3-3-45)
धिष्णियाः - तस्माथ्साऽन्वारभ्या । (ब्रा. 3-3-52)
सर्वान् वै - पय॑ एवारभ्य॑ गृहीत्वोप॑ वसति । (ब्रा. 3-7-6)
याः पुरस्तात् - श्रद्धां यज्ञमा र॑भे । देवाः (3-7-24)
सख्षेदं - भूरार॑भे । श्रद्धां (3-7-80)]
प्र वः - प्रजाप॑तिमा र॑भते प्र वो वाजाः (सं. 2-5-41) {देवा वै नर्चि न प्रथमं}
यद्धस्तेन - एवैनमा र॑भते यद्धस्ते॑न प्रमीवेत् (सं. 2-6-50) {अग्नीधे}. हस्तेनेति किम्? निष्क्रीया ल॑भते यद्वायुः (सं. 3-4-7), प्रत्या ल॑भ्यते यच्छ्म॑श्रुणः (सं. 5-5-2), पुरस्ताथ्सव्वँथ्सर आल॑भ्यते । यत्प्रजाप॑तिः (ब्रा. 3-9-79), श्रोत्रे हृद॑यमालभ्य यत्त्रिः (आ. 2-14)
स एनं - एवान्वार॑भते स ए॑नꣳ सम्पा॑रयति (सं. 3-1-4)^{प्रजापतिरकामयत}
ऋध्नोति - साक्षादा र॑भत ऋध्नोत्याभ्यां (सं. 3-5-4) {पूर्णा (अष्ट, नव)}
अक्ष्णया - यज्ञमुखमा र॑भतेऽक्ष्णया व्याघा॑रयति (सं. 5-4-19), {नृषदे} ऋतेना र॑भतेऽक्ष्णया (सं. 6-3-34) {इषे}
अग्निः - यज्ञं चा र॑भतेऽग्निर॑वमः (सं. 5-5-4) {यदेकेन (पञ्चमं)}
सप्त - यज्ञमुखमा र॑भते सप्त ते (सं. 5-7-13) {चित्तिं}
मुष्टी - साक्षादा र॑भते मुष्टी क॑रोति (सं. 6-1-27) {वाग्वै}
पत्नी - पत्न्यन्वार॑भते पत्नी हि (सं. 6-2-1)^ {यदुभौ}
तत् - वपाश्रप॑णीभ्यामन्वार॑भते तन्नेव॑ (सं. 6-3-42)^ {पर्यग्नि}
वपाश्रपणी, अस्मिन्न् - नीयमा॑नमन्वारभ॑ते# वपाश्रप॑णी पुन॑रन्वार॑भतेऽस्मिन्नेव (सं. 6-3-48)^ {पशोः (द्वितीयं, तृतीयं)}
न (ततः?) - एवान्तमा र॑भते न ततः॑ (सं. 7-2-24) {ऐन्द्रवायवाग्रान्}
याः - ताभिरा र॑भते यास्तृतीयाः (सं. 7-2-39/40)
अथो - यज्ञमा र॑भते । अथो यदेतत् (ब्रा. 3-2-9), मुखत आ र॑भते । अथो प्रजाप॑तिः (ब्रा. 3-3-40)
अभिधाः - ऋतेना र॑भते । अभिधा असीत्या॑ह । (ब्रा. 3-8-10)
अनुपूर्वमारभते - सोऽन्वार॑भते । राष्ट्रमेव .. त्रिष्टुभाऽन्वार॑भते । इन्द्रियं (ब्रा. 1-7-54),
[वरु॑णमग्निमन्वार॑भामहे । (सं. 1-7-42), अनु॑ समार॑भामहै (2-4-5), वातं॑ प्राणं मन॑साऽन्वार॑भामहे (ब्रा. 3-7-80), पुच्छ॑मन्वार॑भन्ते । सुवर्गस्य॑ (3-8-87), अनड्वाह॑मन्वार॑भामहे (आ. 4-23) ?]
^अन्वार॑भते, #अन्वारभ॑ते !अन्वारभे॑त इत्येषां समस्तत्वेन एकपदत्वात् ते पूर्वमेव उत्तरपदानुबन्धेन सङ्गृहीताः । व्यस्तपदानि तु इयन्त्येव ?।
[अभि सꣳर॑भन्ताम् । (ब्रा. 1-2-19), दिवि ज्येति॑रजरमार॑भेताम् । (ब्रा. 3-7-53), आर॑भेथामनु सꣳ र॑भेथाꣳ समानं .. जाया॑पती सꣳर॑भेथाम् (आ. 2-9)?]
अन्यत्र, आलभ्यालभते - व्रतमा ल॑भते बर््हिषा (सं. 1-6-22) .. (18 स्थलेषु), पशुमा ल॑भन्ते (सं. 7-5-17,22), श्वेतमा ल॑भेत (सं. 2-1-1) .. (78 स्थलेषु),
तावालभ्येष्ट॑काः (सं. 5-7-2), पशुमालभ्याग्निं, पुरोडाशं (सं. 6-3-28,29,51), सद॑ आलभ्याव॑ (सं. 6-5-5), ऐन्द्रमालभ्य॑ मारुतं (सं. 6-6-22),
तानालभ्य॑ परिगृह्य॑ (सं.7-4-32) .. ॥36॥
मूलम् - 1.37
- आप उन्दन्तू,दायुषा, युञ्जते,ऽयं वां,देवासुरा, इन्द्र,न्देवस्याह,मग्नाविष्णू, इन्द्रꣳ, हिरण्यगर्भो, मारुत, न्नवोनवो, निवीत,मुशन्तस्त्वा, निग्राभ्यास्स्था,ऽग्निना रयि,मुपयामगृहीतोऽसि, समितं, मा नो हिꣳसी,न्नमो ज्येष्ठाय, द्रापे,ऽग्नाविष्णू, बलाय, वाज,महः, प्राचीनवꣳशꣳ, सोमो वा, ईङ्काराया,ऽर्वाङ्श्रु । शुपूर्वश्च । नणकारपरः । यच्छ्मश्रुणस्तदिति वर्जयित्वा । असि, ततो, गण, ऋषिꣳ, हृदयेन, देवाश्च परः स्वाहापरः श्रुतेति श्रु ॥37॥ अन्यत्र श्र ॥
आप उन्दन्तु - मैनꣳ॑ हिꣳसीर्देवश्रूरेतानि॑ (सं. 1-2-1)
उदायुषा - धूर््षाहावनश्रू अवी॑रहणौ (सं. 1-2-16)
युञ्जते - आ व॑द देवश्रुतौ॑ देवेष्वा (सं. 1-2-25)
अयं वां - ममेदिह श्रु॑तꣳ हवम् । (सं. 1-4-6)
देवासुराः - यदश्र्वशी॑यत तद्र॑जतꣳ हिर॑ण्यमदक्षिण्यम॑श्रुजꣳ हि (सं. 1-5-1,2)
इन्द्रं - ऋषि॑र््ह दीर्घश्रुत्त॑मः (सं. 1-6-47; आ. 1-33)
देवस्याहं - अर्व॑न्तो हवनश्रुतो हवं विश्वे॑ शृण्वन्तु (सं. 1-7-35)
अग्नाविष्णू - श्रवयतं युवाना श्रुतं मे॑ मित्रावरुणा (सं. 1-8-40; ब्रा. 2-7-54,2-8-47)
इन्द्रं - इमं मे॑ वरुण श्रुधी हवम् (सं. 2-1-65) [श्रुधि ब्रह्म॑ वावृधस्वोत गीर्भिः । (ब्रा. 2-5-44)]
हिरण्यगर्भः - दुरो न वाज श्रुत्या अपा॑वृधि । (सं. 2-2-69), प्रेदु॑ हरिवः श्रुतस्य॑ । (2-2-71)
मारुतं - अयम॑वृषादिति॑ श्रुतरावृत् (सं. 2-4-20)
नवोनवः - ऋतुभि॑र््हवनश्रुतः॑ । (सं. 2-4-48)
निवीतं - तिष्ठन्न् ह्याश्रु॑ततरं वद॑ति (सं. 2-5-61)
उशन्तस्त्वा - त इह श्रु॑वन्त्वधि॑ ब्रुवन्तु (सं. 2-6-67)
निग्राभ्यास्स्थ - निग्राभ्यास्स्थ देवश्रुत आयु॑र्मे (सं. 3-1-23)
अग्निना रयिं - सुभरो॑ वयोधाः श्रुष्टी वीरो जा॑यते (सं. 3-1-36), [श्रुष्टीवानं॑ धितावा॑नम् । (ब्रा. 2-4-16)]
उपयामगृहीतोऽसि - उपयामगृ॑हीतोऽसि श्रुतसद॑सि (सं. 3-2-42)
समितं - गिरा च॑ श्रुष्टिः सभ॑रा अस॑न्नः (सं. 4-2-23), [श्रुष्टी नो॑ अस्य हविषो॑ जुषाणः । (ब्रा. 2-5-8)]
मा नो हिꣳसीत् - श्रुत्क॑र्णꣳ सप्रथ॑स्तमं त्वा (सं. 4-2-31), [श्रुधि श्रु॑त्कर्ण वह्नि॑भिः । (ब्रा. 2-7-39)]
नमो ज्येष्ठाय - नमः॑ श्रुताय॑ च श्रुतसेनाय॑ च । (सं. 4-5-14)
द्रापे - स्तुहि श्रुतं ग॑र्तसदं युवा॑नं (सं. 4-5-24)
अग्नाविष्णू - श्रावश्च॑ मे श्रुति॑श्च मे (सं. 4-7-1)
बलाय - त्वाष्ट्राः प्र॑तिश्रुत्का॑यै वाहसः । (सं. 5-5-52) [प्रतिश्रुत्का॑या ऋतुलम् । (ब्रा. 3-4-13)]
वाजं - आदित्याञ्छ्मश्रु॑भिरुपयामं (सं. 5-7-44)
अहः - ह्रादुनिमश्रु॑भिः पृष्वान्दिवम् (सं. 5-7-52)
प्राचीनवꣳशं - अभिजि॑त्यै केशश्मश्रु व॑पते .. यत्के॑शश्मश्रु मृतामेव (सं. 6-1-2; ब्रा. 3-8-2)
सोमो वै - प्रिये प्रेय॑सि महि विश्रु॑त्येतानि॑ ते (सं. 7-1-28)
ईङ्काराय - शृण्वते स्वाहा श्रुताय स्वाहा (सं. 7-1-50)
अर्वाङ् - आज्य॑भागावाश्रु॑तं प्रत्याश्रु॑तमा शृ॑णामि ते । (सं. 7-3-31)
शुपूर्वश्च - गतश्रि॑यः शुश्रुवान्ग्रा॑मणीः (सं. 2-5-26), यच्छु॑श्रुवाꣳसः॑ कविशस्त इत्या॑ह कवयो ह्ये॑ते यच्छु॑श्रुवाꣳसः॑ (सं. 2-5-52), वाच॑मुद्यासꣳ शुश्रूषेण्याम्मनुष्येभ्यः (सं. 3-3-4; आ. 7-1), दक्षिणतः शु॑श्रुवाꣳसो वै (सं. 5-3-16), ऋषि॑रार््षेयो यश्शु॑श्रुवान्तस्मात् (सं. 6-6-5), शुश्रू॑षमाणाय स्वाहा॑ शृण्वते (सं. 7-1-50), तस्माच्छुश्रूषुः पुत्राणाꣳ हृद्य॑तमः । (ब्रा. 2-3-50), शुश्रुवाꣳसो वै कवयः॑ । (ब्रा. 3-2-9), नृचक्षाः सोम॑ उत शुश्रुग॑स्तु । (ब्रा. 3-7-123). नणकारपरः, यच्छ्म॑श्रुणस्तत् (सं. 2-1-5,5-5-2) इति वर्जयित्वा ।
अथ श्मश्रू॑णि । (ब्रा. 1-5-25,26), स श्मश्रूण्यग्रे (ब्रा. 1-5-27), मुखे श्मश्रू॑णि न व्याघ्रलोमम् । (ब्रा. 2-6-18), त्विषिः केशा॑श्च श्मश्रू॑णि । (ब्रा. 2-6-23),
प्रजाप॑तेर्वा एतानि श्मश्रू॑णि । (ब्रा. 3-3-70).
असि - उपाशृ॑णोः सुश्रवा वै श्रुतो॑ऽसि । (ब्रा. 1-2-6)
ततः - (तमः?) - दीर्घश्रु॑त्तमो भव॑ति । .. ऋषि॑र््ह दीर्घश्रुत्त॑मः । (आ. 1-32,33); (तपः?) - सत्यन्तपः॑ श्रुतन्तपः॑ (आ. 6-18)
गणः - श्रुतो गण आ त्वा॑ विशन्तु । (ब्रा. 2-4-30,3-7-101), इन्द्रो नाम॑ श्रुतो गणे । (ब्रा. 3-7-100)
ऋषिं - श्रुतर््षि॑मुग्रम॑भिमातिषाहम् । (ब्रा. 2-5-25)हृदयेन - यः श्रुतेन हृद॑येनेष्णता च॑ । (ब्रा. 3-7-59)
देवाश्च परः - ?
स्वाहापरः - श्लोका॑य स्वाहा श्रुताय स्वाहेति॑ । (ब्रा. 3-1-48), श्रोत्रा॑य स्वाहा श्रुत्यै स्वाहेति॑ । (ब्रा. 3-1-54), वाता॑पेर््हवनश्रुतः स्वाहा । (आ. 3-3)
[श्रुतं मे॑ मित्रावरुणा (ब्रा. 2-7-54,2-8-47), हावनश्रूर्नो॑ रुद्रेह बो॑धि । .. स्तुहि श्रुतम् । मीढु॑ष्टम (ब्रा. 2-8-48), कर्ण॑योः श्रुतं मा च्योढ्वं (आ. 6-17), सत्यन्तपः॑ श्रुतन्तपः॑ (आ. 6-18), व्रत श्रुतञ्च मेऽश्रु॑त़ञ्च मे तन्म॑ उभयं॑ व्रतं (ए. 2-5)?]
अन्यत्र च, कर्णाभ्यां भूरि विश्रु॑वम् । (आ. 5-7), आर्जी॑कीये श्रुणुह्या सुषोम॑या । (आ. 6-8), आश्रु॑तिरुत्तरतः । (आ. 7-14), सम्राज्ञी श्वश्रुवां भ॑व । (ए. 1-6) ॥37॥
मूलम् - 1.38
- पशुर्वृष्टिसनीर्देवासुरास्तेनपूर्वं छन्दश्चितं यथा वै तृतीयं ता उपाधत्त । यथा वै शेषन्तामुपाधत्त । अन्यत्र ता उपादधत ॥38॥
पशुः - अपस्या॑ अपश्यत्ता उपा॑धत्त ततो वा इमां (सं. 5-2-56)
वृष्टिसनीः - स एता य॑शोदा अ॑पश्यत्ता उपा॑धत्त ताभिर्वै सः (सं. 5-3-43)
देवासुरास्ते न (पूर्वं) - सएता इन्द्र॑स्तनूर॑पश्यत्ता उपा॑धत्त ताभिर्वै सः (सं. 5-4-1). पूर्वमिति किम्? उत्तरत्र, त एता य॑ज्ञतनूर॑पश्यन्ता उपा॑दधत ताभिर्वै ते (5-4-2).
छन्दश्चितं - स एता जमद॑ग्निर्विहव्या॑ अपश्यत्ता उपा॑धत्त ताभिर्वै सः (सं. 5-4-54)
यथा वै (तृतीयं) - तं दिश्या॑भिरुपैत्ता उपा॑धत्त ता दिशः॑ (सं. 5-7-20). तृतीयमिति किम्? यथा वै शेषं तामुपाधत्त - प्रथमे, प्रजाप॑तिः प्रथमां चिति॑मपश्यत्तामुपा॑धत्त तदियम् (5-7-19) इति, द्वितीये, स एतान्द्वितीयां चिति॑मपश्यत्तामुपा॑धत्त तदन्तरि॑ख्षम् (5-7-20) इति च ।
पुनः चतुर्थे, स एतां तृतीयाञ्चिति॑मपश्यत्तामुपा॑धत्ततदसाव॑भवत् (सं. 5-4-21) इति ।
अन्यत्र, ता उपादधत - द्वे पुरस्ताथ्समीची उपा॑दधत द्वे (सं. 5-2-17), उत्त॑रलक्ष्माणं देवा उपा॑दधताध॑र-लक्ष्माणमसु॑राः (सं. 5-2-43), दिश्या॑ अपश्यन्ता उपा॑दधत ताभिर्वै (सं. 5-3-7), अन्यथानूच्यान्यथोपा॑-दधत तदसु॑राः(सं. 5-3-11), व्यु॑ष्टीरपश्यन्ता उपा॑दधत ततो वै (सं. 5-3-22), वरि॑वश्छन्द इति ता उपा॑दधत ताभिर्वै (सं. 5-3-26), इष्ट॑का अपश्यन्ता उपा॑दधत भूयस्कृत् (सं. 5-3-44), यज्ञतनूर॑पश्यन्ता उपा॑दधत ताभिर्वै (5-4-2), चत॑स्रः स्वयमातृण्णा अ॑पश्यन्ता दिक्षूपा॑दधत तेन॑ सर्वत॑श्चक्षुषा (सं. 5-5-25)
[प्रजापतिः प्रेणा - इमामेवेष्ट॑कां कृत्वोपा॑धत्ताऽन॑तिदाहाय (5-5-11), कृत्तिकासु - स इन्द्रो ब्राह्मणोब्रुवा॑ण इष्ट॑कामुपा॑धत्त । (ब्रा. 1-1-10)?] ॥38॥
मूलम् - 1.39
- याऽग्नेरग्निर्हिरण्य वान्देव मन्द्रयोत्सादेन तेन* सरस्वतीमुप मा सप्ताऽथ तद्यद्यज्ञस्य शुचि सवने सां वैपूर्वो जिह्वा । पवित्रं मे शुचयो मन्मान्यसि सन्धानं देवानां गुरुपरश्च । अन्यत्र जुह्वा । तपूꣳष्यग्न इति वर्जयित्वा ॥39॥
पूर्वानुबन्धाः –
या - धाम या जिह्वा जा॑तवेदः (सं. 5-7-33)
अग्नेः - विनै॑दग्नेर्जिह्वाऽसि॑ (सं. 1-1-18), अध्वरं नोऽग्नेर्जिह्वामभि गृ॑णीतम् । (सं. 4-1-30)
अग्नि - ये अ॑ग्निजिह्वा उत वा यज॑त्राः (सं. 2-4-48; ब्रा. 2-8-44), देवेभ्योऽग्निजिह्वेभ्य॑स्त्वा (सं. 3-5-25,27), अग्निजि॑ह्वा असश्च॑त । (आ. 1-15)
हिरण्य - हिर॑ण्यजिह्वस्सुविताय नव्य॑से (सं. 1-4-25; ब्रा. 2-4-40)
वां - प्रति॑ वाञ्जिह्वा घृतं (सं. 1-8-38)
मन्द्रया - मन्द्रया॑ देव जिह्वया । (सं. 1-3-31,1-5-19,4-6-2), मन्द्र॑जिह्वाम॑र्त्यस्य ते (सं. 1-6-5)
उत्सादेन, सरस्वतीं - शर्क॑रामुत्सादेन॑ जिह्वाम॑वक्रन्देन तालुꣳ सर॑स्वतीं जिह्वाग्रेण॑ । (सं. 5-7-43)
ते - प्रति॑ ते जिह्वा घृतमुच्च॑रण्येत् (सं. 1-4-50), तिस्रस्ते॑ जिह्वा ऋ॑तजात पूर्वीः । (सं. 3-2-44)
उप - यदत्त्यु॑पजिह्वि॑का यद्वम्रः (सं. 4-1-38)
सप्त - समिध॑स्सप्त जिह्वाः (सं. 1-5-8,11,15,4-6-25,5-4-34,5-7-13; आ. 6-2; का. 2-29,58)
अथ, तत्, यत् - अथ॑ जिह्वाया अथ वक्ष॑सः .. तज्जिह्वया॑ वदति यज्जिह्वया वद॑ति (सं. 6-3-54)
यज्ञस्य - यज्ञस्य॑ जिह्वाम॑विदाम गुह्याम् । (सं. 1-3-25)
शुचि - सहस्रंभरः शुचि॑जिह्वो अग्निः । (सं. 3-5-33,4-1-12)
सवने, वै - अधिषव॑णे जिह्वा चर्म॑, खलु वै जिह्वया॑ दथ्स्वधि॑ (सं. 6-2-59)
सां - सुवर््षाञ्जिह्वाम॑ग्ने चकृषे (सं. 4-4-10; ब्रा. 3-5-10)
परगतानुबन्धाः –
पवित्रं - जिह्वा पवित्र॑मश्विना (ब्रा. 2-6-17)
मे - जिह्वा मे॑ भद्रम् । (ब्रा. 2-6-23), जिह्वा मे मधु॑मत्तमा । (आ. 5-7)
शुचयः - त्वाञ्जिह्वाꣳ शुच॑यश्चक्रिरे कवे । (ब्रा. 2-7-40)
मन्मानि - मध्वा॑ समञ्जन्थ्स्व॑दया सुजिह्व । मन्मा॑नि (ब्रा. 3-6-6)
असि - अग्नेर्जिह्वाऽसि॑ सुभूर्देवानामित्या॑ह । (ब्रा. 3-3-18)
सन्धानं - जिह्वा॑ सन्धानम् । इत्यध्यात्मम् । (आ. 5-6)
देवानां - गुह्यय्यँदस्ति॑ जिह्वा देवाना॑ममृत॑स्य नाभिः॑ । (आ. 6-22)
{गुरु - यद्वो॑ देवाश्चकृम जिह्वया॑ गुरुमन॑सो वा (आ. 10-78 आन्ध्रपाठे?}
[तमजि॑ह्वा असश्च॑त । (आ. 1-52), सोऽजि॑ह्वो असश्च॑त । (आ. 1-54), चक्षुःश्रोत्रजिह्वाघ्राणरेतः (आ. 6-52),
मस्तिष्काज्जिह्वाया वि वृ॑हामि ते । (ए. 1-18), अव॑जिह्वक निजिह्वकाव॑ त्वा (ए. 2-21)]
अन्यत्र, जुह्वा - तपूꣳ॑ष्यग्ने जुह्वा॑ पतङ्गान् (सं. 1-2-28) हव्यवाड्जुह्वास्यः । (सं. 1-4-54,3-5-36; ब्रा. 2-7-37), इमा जुह्वा॑ना युष्मदा नमो॑भिः । (ब्रा. 2-4-51), सम॑ग्रासो जुह्वो॑ जातवेदः । (2-5-7), दुर्मद आ हि जुह्वे । (2-5-14), इमा जुह्वा॑ना यस्ते स्तनः॑ । (2-8-14), चतुर्जुह्वाङ्गृ॑ह्णाति । गृह्णन्, यज्जुह्वां (ब्रा. 3-3-24,25,26), जुह्वामु॑पभृतम् । (ब्रा. 3-3-66), हव्या जुह्वा॑न आसनि॑ । (3-6-17), उप॑ क्षरन्ति जुह्वो॑ घृतेन॑ । (3-7-124), अच्छि॑द्रया जुह्वा । (आ. 3-4) ॥
[आजुह्वान - आजुह्वा॑नस्य मीढुषः॑, सर्पिषः॑ (सं. 4-4-14,17), आजुह्वा॑नः सुप्रती॑कः (सं. 4-6-23; ब्रा. 3-7-88), आजुह्वा॑नमम॑र्त्यम् । (2-6-34), आजुह्वा॑नो हविषा शर्ध॑मानः । (2-6-39), इडेडित आजुह्वा॑नस्सर॑स्वतीम् । (2-6-52), आजुह्वा॑ना सर॑स्वती । (2-6-61), आजुह्वा॑न ईड्यो वन्द्य॑श्च । (3-6-7)] ॥39॥
मूलम् - 1.40
- कवचतपरस्रु । सृकꣳ सꣳशाय, सृकावन्तः सृकाविभ्य इति वर्जयित्वा ॥40॥ सपउपप्रविसिशवाज-पूर्वः ॥ सपउपप्रविशवाजपूर्वः ॥
कपरः स्रु - बर््हिर॑सि स्रुग्भ्यस्त्वा (सं. 1-1-19; ब्रा. 3-3-29),स्रुग्वा अ॑स्य स्वम् (सं. 3-1-7), स्रुग्वै विराट् (सं. 5-2-40),
स्रुग्घ्ये॑षा । (ब्रा. 1-6-73,3-3-5), तस्य चित्तिः स्रुगासीत् । (ब्रा. 2-2-21; आ. 3-1), अया॑मि स्रुग्घृतव॑ती सुवृक्तिः । (ब्रा. 2-4-22), स्रुक्षु (3-3-61), स्रुख्संमार्ज॑नानि (ब्रा. 3-3-6,9) इत्यादिषु सन्धि/समासवशात् कवर्गपरत्वमिति ज्ञेयम् ।
वपरः स्रु - यस्य॑ खादिरः स्रुवो भव॑ति (सं. 3-5-22), औदु॑म्बरेण स्रुवेण॑ जुहोति (सं. 5-4-44; ब्रा. 1-3-49), स्रुवेण चत॑स्रो जुहोति (सं. 6-1-10), स्रुवेणा॑घारमा घा॑रयति (सं. 6-2-17), स्रुवेणा॑घारमाघार्य॑, स्रुवेणो॑पसदम् (1-5-40,41), पर्णमये॑न स्रुवेण॑ जुहोति । (ब्रा. 1-7-9), स्रुवञ्च स्रुच॑श्च सम्मृ॑ड्डि । (3-2-81), स्रुवमग्रे । (ब्रा. 3-3-1), प्राणो वै स्रुवः । (ब्रा. 3-3-5), वेदेनो॑पयत्य॑ स्रुवेण॑ प्राजापत्यम् (3-3-40), स्रुवस्य बुध्ने॑नाभि निद॑ध्यात् । (ब्रा. 3-7-16), वेत्वाज्य॑स्य स्वाहेति॑स्रुवेणो॑पहत्या॑हवनीये॑ जुहुयात् । (का. 2-57)
चपरः स्रु - अध्वर्यो स्रुचमास्य॑स्व (सं. 2-5-56; ब्रा. 3-5-7), आग्नेय्या स्रुचो॑ वायव्य॑या (सं. 3-1-17), एतद्वै स्रुचाꣳ रूपं यस्यैवꣳरू॑पाः स्रुचो भव॑न्ति (सं. 3-5-24), अग्नि स्रुचो॑ अध्वरेषु॑ (4-1-29), ईड॑ते स्रुचा देवम् (सं. 4-3-36), स्रुचेव ता हविषः॑ (सं. 4-6-45), धिष्णि॑याश्च मे स्रुच॑श्च मे (4-7-15), स्रुचावुप॑दधाति (5-2-38), यत्स्रुचा॑वुपदधा॑ति (5-2-40), आज्य॑स्य पूर्णाꣳ स्रुच॑ञ्जुहोति (5-5-48), परिधिना स्रुचा वेद्या॑ च (सं. 5-7-31), दीक्षितत्वाय॑ स्रुचा प॑ञ्चमीं (सं. 6-1-10), भूतेभ्यस्त्वेति स्रुचमुद्गृ॑ह्णाति (6-2-41), मे प्र स्रुचोऽह॑रन्न्, प्रस्तर स्रुचान्निष्क्रय॑णम् (6-3-27), मेद॑सा स्रुचौ प्रोर्णो॑ति (6-3-57), स्रुचीव॑ घृतं (ब्रा. 1-4-7), स्रुचा जु॑होति । (ब्रा. 1-6-25), स्रुचाऽऽज्ये॑न जुह्व॑तः । (ब्रा. 2-4-42), ब्रह्म स्रुचो॑ घृतव॑तीः । (ब्रा. 2-4-72), स्रुचा जु॑हुत नो हविः । (ब्रा. 2-5-35), स्रुवञ्च स्रुच॑श्च सम्मृ॑ड्डि । (3-2-81), स्रुचः सम्मार्ष्टि । (ब्रा. 3-3-1), इमे वै लोकाः स्रुचः॑ । (3-3-2,61), गौर्वै स्रुचः॑ । (3-3-25), यज॑मानः स्रुचः॑ । .. अथ तत॑स्सह स्रुचा पुरस्तात् (ब्रा. 3-3-29), अथ स्रुचा॑वनुष्टुग्भ्याम् (3-3-60), स्रुचौ सम्प्रस्रा॑वयति । (3-3-66), तस्मिन्थ्स्रुचो अध्यासा॑दयामि । (3-7-62), इध्मः प॑रिधयः स्रुचः॑ । (3-7-72).
तपरः स्रु - पुनातु॑ ते परिस्रुतम् (सं. 1-8-37; ब्रा. 1-8-19,2-6-2,), नमः स्रुत्या॑य च पथ्या॑य च (सं. 4-5-15), यज्ञस्याञ्जसाय॑नी स्रुती ताभ्या॑मेव (7-2-27,7-3-13,18,24,7-4-3,7,17), द्वे स्रुती अ॑शृणवं (ब्रा. 1-4-9,2-6-13), अन्नात्, दृष्ट्वा प॑रिस्रुतो रसम् । (ब्रा. 2-6-7,8), रसं॑ परिस्रुता न रोहि॑तम् । (2-6-15), परिस्रुता पय॑सा सारघं मधु॑ । (2-6-19), पयस्सोमः॑ परिस्रुता॑ घृतं मधु॑ । (2-6-50 to 57,59), सोमꣳ॑ शुक्रं प॑रिस्रुता । (2-6-61), तीव्रं प॑रिस्रुता सोमम् । (2-6-63), लोकस्याञ्जसाय॑निः स्रुतिः । (का. 3-23), आ त्वा॑ परिस्रुतः॑ कुम्भाः (ए. 2-15) ।
सृकꣳ सꣳशाय॑ (सं. 1-6-50), सृकाव॑न्तो निषङ्गिणः॑ । (4-5-27), सृकाविभ्यो जिघाꣳ॑सद्भ्यः (4-5-7) इति वर्जयित्वा ॥
[सम॑सृक्ष्महि (सं. 1-4-51,53; ए. 2-6), मा सꣳसृ॑क्षाथां (ब्रा. 1-4-8,2-6-4), याः पूर्वाः प्रजा असृ॑क्षि । (1-6-15), विश्वसृक्ते॑जोदाः (आ. 6-78), स्रुख्षु प्र॑स्तरम॑नक्ति । (ब्रा. 3-3-61), वाजꣳ॑ ससृवाꣳसः॑, ..सम् । (सं. 1-7-37; ब्रा. 3-7-71), प्र बाहवा॑ सिसृतं (सं. 1-8-40; ब्रा. 2-7-54), उप॑सृतः (सं. 2-1-26), वाजसृते (2-2-19), वाजसृत्, वाजसृतम् (2-2-20), द्वाभ्यामसृद्द्वाभ्याम् (7-4-31), वाजसृद्भ्यः॑, वाजसृतः॑ (ब्रा. 1-3-50), पूर्वे॑णोपसृत्याः, पूर्वोपसृतस्य॑ (1-4-32), सव्यः प्रसृ॑तः । (1-6-30), सꣳसृद्भिः॑, सꣳसृपाꣳ॑ सꣳसृत्त्वम् । (1-8-1), सृत्वेव काम॑स्य (2-4-56), जातमतिसृत्प्र सृꣳ॑सते । (2-8-32,46), इमाम॑नुविसृत्य॑ । (3-2-57), प्रसृ॑तेन, नप्रसृ॑तेन, प्रसृ॑तः, अप्र॑सृतः, प्रसृ॑त्यै (आ. 2-1), मृगस्य॑ सृतम॑क्ष्णया (ए. 1-14)] ॥40॥
मूलम् - 1.41
-
ङमुक्षद्धरष्टषपरक्रु ॥ अकृष्टाः कृष्टजाः कृष्टय कृष्टे कृष्टिषिष्टुत क्रुष्टापि ।[पच्यहवृष्टशब्दे टकारः । पुरुषमा.. उकारः । ?]
क्रु इति कृ इत्यस्मात् व्यावृत्तिज्ञानार्थमुच्यते । तथाहि -
ङपरक्रु - क्रुङ्ङाङ्गिरसो धिया । (ब्रा. 2-6-7)
मुपरक्रु - क्रुमुकम् (सं. 5-1-49), क्रुमुकमपि॑ । .. यत्क्रु॑मुकः । (ब्रा. 1-4-41)
क्षपरक्रु - अक्रु॑क्षदिति॑ (ब्रा. 2-5-24)
द्धपरक्रु - क्रुद्धः (सं. 1-5-11,14; 5-5-32), अक्रुद्धस्य (आ. 1-13).
रपरक्रु - पुरा क्रूरस्य॑ विसृपः॑ (सं. 1-1-15), यत्ते क्रूरय्यँत् (1-3-16), क्रूर आसञ्जुहोमि॑ (4-2-20), अक्रू॑रङ्काराय (5-1-35), रुद्रो वै क्रूरः (6-1-52, 6-2-16), क्रूरेव वै .. क्रूर इ॑व (6-2-26), क्रूरकृता॑मिव (ब्रा. 1-4-36), क्रूरम् । .. क्रूरेण॑ (2-2-7), अक्रू॑रेणेव (2-4-64), क्रूरम् (आ. 4-23, 6-8; ए. 1-1,18; 2-15), वाचः॑ क्रूराणि । (आ. 7-68).
ष्टपरक्रु - अति॑क्रुष्टाय (ब्रा. 3-4-1). अपितु, अकृष्टा ये च कृष्ट॑जाः । (आ. 1-118), अकृष्टपच्यस्य॑,
अकृष्टपच्यम् (सं. 2-4-14, 4-7-10; ब्रा. 1-6-11), कृष्टपच्यम् (सं. 4-7-9), अकृष्टपच्याः (सं. 6-1-23), कृष्टीनाम् (सं. 1-3-25; ब्रा. 2-4-31; ए. 2-2), कृष्टीः (सं. 1-5-50, 3-4-45; ब्रा. 2-7-15, 2-8-10, 3-7-13), कृष्टयः॑ (सं. 2-6-62), कृष्टम्, अकृ॑ष्टम् (सं. 5-2-26,27), कृष्टे (सं. 5-2-29), विश्वकृ॑ष्टयः (ब्रा. 2-7-37; आ. 1-121)
षपरक्रु - अप मत्क्रूरं चक्रुषः॑ पशवः॑ क्रमिष्यन्तीति॑ (सं. 6-4-35). अपितु, चकृषे (सं. 4-4-10; ब्रा. 3-5-10). -
ध्रुव इत्यैन्द्रमेकादशकपालꣳ सर्वाणि देवा वै नर्चि न निवीतमग्नीधे राष्ट्रकामायाऽग्निना देवेन पुरुष-मात्रेणोथ्सन्नयज्ञो नृषदे वड्विश्वकर्माऽग्न उदधे समीची तेभ्य उत्तरवेदिरिषे त्वेत्यग्निना वै होत्रा देवा वा इन्द्रियं वीर्यमसावादित्योऽर्क्येणैवैनान् । दिग्भ्य एवैनां प्रोख्षतीति वर्जयित्वा । अन्यत्रैभ्य एवैनाम् ॥42॥
ध्रुव इति - ध्रुवानेवैनान्कुरुते (सं. 1-6-33)
ऐन्द्रमेकादशकपालं - भागधेये॑नैवैनान्॑ यथायथं (2-2-60)
सर्वाणि - तस्मा॑देवैनान्थ्सृजत उपै॑नं (2-4-33)
देवा वै नर्चि न - तत॑ एवैनान्प्र यु॑ङ्क्ते (2-5-39)
निवीतं - पुनात्येवैनान्त्रिर्म॑ध्यमं (2-5-65)
अग्नीधे - पुनात्येवैनान्थ्सकृथ्स॑कृत् (2-6-49)
राष्ट्रकामाय - गृहाः स्व एवैना॑नायत॑ने शमयति (3-4-25)
अग्निना देवेन - अध॑रान्पादयाम्यवै॑नान्बाधे (3-5-10)*
पुरुषमात्रेण - तामेवैनाननूथ्सृ॑जति (5-2-28)
उथ्सन्नयज्ञः - प्र ज॑नयत्येवैना॑नेष वै (5-3-2)
नृषदे वट् - अप॑रिवर्गमेवैनान्प्रीणाति (5-4-21)
विश्वकर्मा - करोति नैनान्॑ हिनस्ति (5-5-23)*
अग्न उदधे - भागधेये॑नैवैनाञ्छमयति (5-5-38)
समीची - भागधेये॑नैवैनाञ्छमयति (5-5-44), भागधेये॑नैवैनान्प्रीणाति (5-5-45), अप॑रिवर्गमेवैनान्प्रीणाति (5-5-47)
तेभ्य उत्तरवेदिः - वित्ता ह्ये॑नानाव॑त् (6-2-35)*
इषे त्वेति - स्वदय॑त्येवैनान्देव॑ त्वष्टः (6-3-33)
अग्निना वै होत्रा - पुनात्येवैनान्त्रिस्त्रिस्सं (6-3-37)
देवा वा इन्द्रियं वीर्यं - समाव॑द्वीर्यानेनान्कुरुत एतान् वै (6-6-33)* [*चिह्नितेषु स्थलेषु ‘एनान्’ इत्येतावदेव ग्राह्यम् ।]
असावादित्यः - सुवर्ग एवैनाल्लोँक उ॑भयतः॑ (7-3-26)
अर्क्येण - पुनात्येवैनान्थ्स यः (7-5-30)
‘दिग्भ्य एवैनां प्रोख्ष॑ती’ (6-2-37)ति वर्जयित्वा - तेभ्य उत्तरवेदिरित्यनेन प्राप्तिः । [वस्तुतः तत्रापि एवैनानिति नास्तीति * चिह्नेन प्रदर्शितम् ।]
अन्यत्र, एभ्य एवैनाम् - इत्या॑हैभ्य एवैनां लोकेभ्यः॑ (6-2-50) । [‘एवैनामि’ति तु बहुषु स्थलेषु दृश्यते ।] ॥42॥ -
पशुर््ऋतव्याः पूर्वं यस्यैता उपधीयान्तै य उ चैना एवं वेददिति । अग्नेर्यस्यैषा विधा विधीयते य उ चैनामेवं वेद । छन्दाꣳस्यपान्देवेभ्य उत्तमं य उ चैना एवं वेद ।
अपां परं यस्यैष उपधीयते य उ चैनमेवं वेद । सावित्रं देवस्य रशनां मेध्यानेवैनान् करोति । अन्यत्र मेध्यामेवैनां करोति ॥43॥
पशुः - ब्रह्मणान्नं यस्यैता उ॑पधीयान्तै य उ॑ चैना एवं वेददिति॑ प्राणभृतः॑ (सं. 5-2-56)
ऋतव्याः (पूर्वं) - ब्रह्मणान्नं यस्यैता उ॑पधीयान्तै य उ॑ चैना एवं वेददिति॑ सव्वँथ्सरः (सं. 5-4-6). पूर्वमिति किम्? अधि॑पत्नीर्नामेष्ट॑का यस्यैता उ॑पधीयन्तेऽधि॑पतिरेव (5-4-7) इत्युत्तरत्र न ।
अग्नेः - आस्यान्नादो जा॑यते यस्यैषा विधा वि॑धीयते य उ॑ चैनामेवं वेद सृष्टीरुप॑ दधाति (5-3-22)
छन्दाꣳसि - गृहे दृ॑श्यते यस्यैता उ॑पधीयन्ते य उ॑ चैना एवंवेदान्नं वा आपः॑ (5-3-37)
अपां - सर्वमायु॑रेति यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेदान्नं वा आपः॑, पशुमान्भ॑वति यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद द्वाद॑श भवन्ति (5-6-6),
पात्रान्न छि॑द्यते यस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद॑ कुम्भाश्च॑ (5-6-7), मिथुनैर्जा॑यतेयस्यैता उ॑पधीयन्ते य उ॑ चैना एवं वेद शुग्वा अग्निः (5-6-7/8)
देवेभ्यः (उत्तमं) - य उ॑ चैना एवं वेद॑ । तास्व॑न्विष्टि । (का. 3-10,21). उत्तममिति किम्? पूर्वत्र सर्वत्र, य उ॑ चैनदेवं वेद॑ । सोऽत्र॑ जुहोति । (का. 3-3 to 9, 3-16 to 20)
अपां (परं) - ब्रह्मवर्चसी भ॑वति यस्यैष उ॑पधीयते य उ॑ चैनमेवं वेद॑ । (5-6-10). परमिति किम्? पूर्वत्र, य उ॑ चैना एवं वेद॑ (5-6-6,7,8)
सावित्रं - मेध्या॑नेवैनान्करोति । (ब्रा. 1-3-29,30)
देवस्य रशनां - मेध्या॑नेवैनान्करोति । (आ. 8-61)
अन्यत्र, मेध्या॑मेवैनां करोति - (सं. 2-6-24; ब्रा. 1-6-35), मेध्या॑मेवैनां देवयज॑नीं करोति । (ब्रा. 3-2-70,75)*, मेध्या॑मेवैनां केव॑लीं कृत्वा । (3-3-12)* ।
* चिह्नितेषु स्थलेषु ‘मेध्यामेवैनाम्’ इति इयदेव ग्राह्यम् । [मेध्य॑मेवैन॑त्करोति (सं. 2-6-24)?] ॥43॥
विदुषो हविषा पूर्वो य उ चैनदेवं वेद ॥ यजते चिनुते य उ चैनमेवं वेद । अन्यत्र य उ चैनामेवं वेद ॥ 4421, 10268, 2567, 4159, 991, 144, 10266, 9387, 1141, 6063, 10265, 2346, 1456, 992, 2262, 115
विदुषः पूर्वं - एनदेवं (ब्रा. 2-1-53,59).
हविषा (यजते) पूर्वं - एनदेवं (ब्रा. 3-1-27 to 40, 42 to 55, 57 to 62; का. 3-3 to 9, 16 to 20).
अत्र यजते हविषापूर्वमिति निर्देशः, यजते इति इष्टिभिःपूर्वं चेत्, य उ॑ चैना एवं वेद॑ (का. 3-10,21) इत्यर्थम् ।
यजते - एनमेवं (सं. 5-3-48; ब्रा. 1-5-59, 2-7-12,14,25,33,34,62,64,66; 3-8-74, 3-9-37,75,81,82; आ. 1-102).
अत्र हविषा इति पूर्वत्र न स्याच्चेदिति ज्ञेयम् ।
चिनुते - एनमेवं (का. 2-41,47,51,53,55,56,60,62; आ. 1-102, 112).
अन्यत्र, एनामेवं (सं. 5-3-22). ॥
{योनिर्यजै यजामहै वहै महस्तस्माद्गर्भस्थ एष पूर्व ऋत्वियः । अन्यत्र ऋत्विजः ॥41॥
योनिः - अयन्ते योनि॑र््ऋत्वियः॑ (सं. 1-5-18,26,3-4-39,4-2-16,4-7-28; ब्रा. 1-2-16,2-5-41)
यजै - यज्ञं यथा यजै । ऋत्वि॑यवती स्थः (ब्रा. 1-2-14)
वृणामहै - वरं॑ वृणामहा ऋत्वि॑यात्प्रजां (सं. 2-5-5)
तस्मात् - संभ॑वामेति तस्मादृत्वि॑यात्स्त्रियः॑ (सं. 2-5-5)
गर्भः - अयं वो गर्भ॑ ऋत्वियः॑ (सं. 4-1-17,5-1-30)
स्थः - यज्ञस्य हि स्थ ऋत्वियौ । (ब्रा. 3-7-95)
यः - य ऋत्वियः प्र ते॑ वन्वे । (ब्रा. 2-4-30,3-7-101), एष ब्रह्मा य ऋत्वियः॑ । (ब्रा. 3-7-100)
तनूं- स्वायां तनूꣳऋत्विये नाथ॑मानाम् । (ए. 1-11)
अन्यत्र, ऋत्विजः - देवा ऋत्विजो॑ मार्जयन्तां (सं. 1-6-15,1-7-23), एते यदृत्विजः॑ (1-7-12), दधात्यृत्विजः पर्या॑हुर्याव॑न्त एवर्त्विजस्त ए॑नं (2-3-44), अध्वर्युर्वा ऋत्विजां प्रथमो यु॑ज्यते (3-1-33), प्रबाहुग्वा ऋत्विजा॑मुद्गीथाः (3-2-39), यज्ञस्य॑ देवमृत्विजम् । (4-3-31), ये दैव्या॑ ऋत्विजस्तेभि॑रग्ने । (सं. 4-3-32; ब्रा. 3-5-14,3-6-30), युक्ता यज्ञं वह॑न्त्यृत्विजः॑ । (5-7-32), तामृत्विजो यज॑माने (6-1-26), ऋत्विजो वा अ॑स्य सखा॑यः (6-2-12), ऋत्विजो॑ दुहन्ति (6-2-59), ऋत्विजो वै वह्न॑य उशिजः॑ (6-3-32), ऋत्विजो॑ वृणीते (6-3-40), अति॑रिक्त उन्नेतर्त्विजाम् (7-1-19), प्रथमेनाह्नर्त्विजां यज॑मानः (7-3-5), इष्टर्गो वा ऋत्विजा॑मध्वर्युः । (ब्रा. 1-4-35), य एवर्त्विजो॑ वृताः स्युः ।(1-4-45), चत्वार॑ ऋत्विजः॑ । (2-3-24,3-8-16), पञ्चर्त्विजः॑ । (2-3-25), ऋत्विजो ये ह॑विष्कृतः॑ । (2-4-73), चत्वारो ह्ये॑ते ह॑विर्यज्ञस्यर्त्विजः॑ । (3-3-55), मर्त्विजो मो इमाः प्रजाः । (3-7-95), स महर्त्वि॑जः प्रावि॑शत् । (3-8-6), सप्तर्त्विजः सूर्याः, सप्तहोता॑र ऋत्विजः॑ । (आ. 1-23,24), एते वाव त ऋत्विजः॑ । (आ. 8-35), ऋत्विजोऽवेख्षन्ते । (आ. 8-55) [आर्त्वि॑जीनः (1-3-14), आर्त्वि॑ज्यात् (2-3-4), आर्त्वि॑ज्यं (3-7-56)] ॥41॥
- उपहोमाच्छिद्रारण्यकाठकमानुषीणाम् । अन्यत्र मानुषाणाम् ॥44॥
जुष्टो दमूनाः, प्राणो रक्षतीति प्रश्नयोरुपहोम इति संज्ञा । भद्रञ्च सह संज्ञानं लोकस्तुभ्यमिति क्रमात् । एते काठकसंज्ञाः स्युः पञ्च प्रश्ना न चेतरे ॥
उपहोम (जुष्टः) - वृषास्यंशुः - प्रियो विशामति॑थिर्मानु॑षीणाम् । ब्रह्म॑ज्येष्ठा (ब्रा. 2-4-72), स प्रत्नवत् - अग्निर्विशां मानु॑षीणाम् । तूर्णी रथः॑ (2-4-75) [, येनानुकं मानु॑षी भोज॑ते विट् । (2-5-43)?]
अच्छिद्र(ाश्वमेध) - ? [दैवीश्च मानु॑षीश्च । (ब्रा. 3-7-49), अन्तर्दूतश्च॑रति मानु॑षीषु । (3-7-58)?]
आरण्य (हरिं हरन्तं) - यः प्रजाना॑मेकराण्मानु॑षीणाम् । मृत्युं (आ. 3-46), आरण्य (अपश्यं गोपां) - विश्वा॑सां मानु॑षीणाम् । शतं (आ. 7-26)[, इति मानुषीस्समाज्ञाः । (5-42)?]
काठक - ? [पर्जन्यः॑ पुरुषीणाम् । (ब्रा. 2-4-49; आ. 1-121)?]
अन्यत्र, मानुषाणां - उप॑ यज्ञं च मानु॑षाणाम् । (सं. 1-4-39), सꣳ हव्या मानु॑षाणाम् । (2-1-63), विश्वे॑षामति॑थिर्मानु॑षाणाम् । (ब्रा. 2-7-39), हव्यवाह॑मरतिं मानु॑षाणाम् । (2-8-10), श्रेष्ठो॑ देवाना॑मुत मानु॑षाणाम् । (3-1-21), पिता माता सदमिन्मानु॑षाणाम् । (3-6-23).
[त्वाम॑ग्ने मानु॑षीरीडते (सं. 3-3-33), प्रजाभ्यो मानु॑षीभ्यस्त्वम॑ङ्गिरः । (4-1-16,5-1-26), प्रमुञ्चन्मानु॑षी-र्भियः (4-1-27), दैवीश्च विशो मानु॑षीश्च (4-6-26), कल्पय॑तं मानु॑षीः । (ब्रा. 1-1-4), दैवी॑षु च मानु॑षीषु च । (ब्रा. 1-6-5), सप्त च मानु॑षीरिमाः (ए. 2-17)?] ॥44॥
अग्ने जनामिपरो विचर््षणे ॥
जातवेदः परं अग्ने जनामिपरश्चेत् विचर्षणे । अन्यत्र विरोचसे । इति ज्ञापनार्थमेतत् सूत्रम् । यथा -
विच॑र््षणे । अग्ने जना॑मि (सं. 1-3-28).
वि रो॑चसे । त्वं घृतेभिः॑, । रक्षोहा, । अग्ने तत्ते (सं. 1-3-28, 1-4-53; ब्रा. 2-4-79).}
मूलम् - 1.42
संहितायां वाक्यान्ताः(/अर्धान्ताः) पञ्चाशतः
उभा वाꣳ होतर्दोषाऽगन्म सुवस्सं ज्योतिषा सोमाय पितृमते सुवानस्सोमो वर्धन्तु त्वा राजन्दिवोऽस्य जगतो रराणो वीहि कव्यवाहन पितॄन् कर्मण्यः स्वधायै नमो मन्यासै शं प्र देवꣳ
सन्ते वायुरग्ने यं क्षये पाथा ध्रुवक्षितिरपामतिं व्रतमेकाऽस्य सुमतावग्निर्वृत्राणि चर््षणीनां य इमा वीरश्शतमन्युः पयसा महीङ्गाꣳ सुहिरण्ये सुशिल्पे शुक्रास्ताः पुष्टं पशु मन्यते त्रिꣳशत् ॥30॥
- उभा वां - (1-1-25) - इन्द्राग्नी वृत्रहणा जुषेथाम् ।
- होतर्दोषा - (1-3-26) - अग्ने द्युमन्तमा भ॑र ।
- अगन्म सुवः - (1-6-17) - निर्भ॑जामि निर्भ॑क्तस्स यं द्विष्मः ।*
- सञ्ज्योतिषा - (1-6-18) - अस्मे वर्च॑स्सुवीर्यम् ।*
- सोमाय पितृमते - (1-8-7) - योजान्वि॑न्द्र ते हरी ।
- सुवानस्सोमः - (2-2-67) - तन्मे॑ जुषस्य शिपिविष्ट हव्यम् ।*
- वर्धन्तु त्वा - (2-2-68) - यदन्यरू॑पस्समिथे बभूथ॑ ।*
- राजन्दिवः - (2-3-54)- सोम॑स्य ता मद इन्द्र॑श्चकार ।
- अस्य जगतः - (2-4-46) - यन्ते॑ सुषाव॑ हर्यश्वाद्रिः॑ ।
- रराणो वीहि - (2-5-73) - इयख्षवे॑ पूरवे प्रत्न राजन्न् ।
- कव्यवाहन पितॄन् - (2-6-69) - स्वाहाऽन्ये स्वधयाऽन्ये म॑दन्ति ।
- कर्मण्यः - (3-1-36) - धुख्षीमहि॑ प्रजामिषम् ।
- स्वधायै नमः - (3-2-21) - विश्वा॑ जातानि परि ता ब॑भूव ।
- मन्यासै शं - (3-3-35) - सा नो॑ देवी सुहवा शर्म॑ यच्छतु ।
- प्र देवं - (3-5-32) - अग्ने॑ हव्याय वोढ॑वे ।
- सन्ते वायुः - (4-1-14) - आऽग्ने॑ याहि सुशस्तिभिः॑ ।
- अग्ने यं - (4-1-43) - दीनैर्दख्षैः प्रभू॑ती पूरुषत्वता ।
- ख्षयो पाथ - (4-2-47) - कया शचि॑ष्ठया वृता ।
- ध्रुवक्षितिः - (4-3-7) - रयिं नो॑ वर्ध बहुलꣳ सुवीरम् ।*
- अपामतिं - (4-3-8) - विष्टम्भ॑नी दिशामधि॑पत्नी भुव॑नानाम् ।*
- व्रतमेका - (4-3-22) - समानं केतुं प्र॑तिमुञ्चमा॑नाः ।
- अस्य सुमतौ - (4-3-24) - समानमूर्ध्नीरभि लोकमेकम् ।
- अग्निर्वृत्राणि - (4-3-29) - उपाक आ रोच॑ते सूर्य॑स्य ।
- चर््षणीनां - (4-3-34)-अनर्वाणꣳ॑ रथेशुभम् ।
- य इमा - (4-6-6) - यो न॑स्सतो अभ्या सज्जजान॑ ।
- वीरश्शतमन्युः - (4-6-18) - अस्माकं या इष॑वस्ता ज॑यन्तु ।
- पयसा महीङ्गाम् - (4-6-25) - सत्यश्च॑र्तपाश्चात्यꣳ॑हाः ।
- सुहिरण्ये सुशिल्पे - (5-1-58) - त्वष्टुरर्वा॑जायत आशुरश्वः॑ ।
- शुक्रास्ताः - (5-6-2) - ताश्शीभꣳ॑ समव॑ल्गत ।
- पुष्टं पशु मन्यते - (7-4-49) - अग्रं॑ वृख्षस्य॑ रोहतः ॥ *चिह्निताः अनन्तराः पञ्चाशतः ॥
मूलम् - 1.43
अथ पूर्वदीर्घिणः ॥
वशान्नायाकवारिं महेन्द्राय म(ा?)हेन्द्रस्यैतुमैतोरष्टाश्रिरष्टाक्षरेणाष्टाक्षरामष्टापद्यष्टाक्षराण्यष्टाक्षराऽऽजेदेयाता-मार्पयन्ति याज्यानुवाक्ये याज्यानुवाक्ययोर्याज्यानुवाक्याभ्यां याज्यानुवाक्याः परेत्य परोच्यः परोवप पराऽपतत्पराऽवधीद्दूर्वेष्टकामाऽन्तमाराग्रामाराग्राञ्जनमा़ञ्जत आञ्जीतऽजावयो जिह्वाग्रेण यथोदितमेत्याऽयनाय विश्वाहाऽञ्जसायनी आर्तोर्महेन्द्रमित्येते पूर्वदीर्घिणः ॥
वशान्नायेति॑ वशा-अन्नाय (1-3-30)
अक॑वारिमित्यक॑वा-अरिम् (1-4-18)
महेन्द्रायेति॑ महा-इन्द्राय॑ (1-4-21,22,5-5-59)
महेन्द्रस्येति॑ महा-इन्द्रस्य॑ (1-6-7,12,45,6-5-17)
ऐतुमित्या-एतुम् (2-5-10)* एष उभयदीर्घी ।
ऐतोरित्या-एतोः (1-5-43)* एष उभयदीर्घी ।
अष्टाश्रिरित्यष्टा-अश्रिः (6-3-18)
अष्टाक्ष॑रेणेत्यष्टा-अक्षरेण (1-7-43)
अष्टाक्षरेत्यष्टा-अक्षरा (2-2-27)
अष्टापदीत्यष्टा-पदी (3-3-31,3-4-4)* उत्तरपदादिः हलिति न युज्यतेऽत्र पठितुम् ।
अष्टाक्ष॑राणीत्यष्टा-अक्षराणि (6-1-15)
अष्टाक्ष॑रामित्यष्टा-अक्षराम् (7-3-6)
आजेदित्या-अजेत् (2-2-34)एयेतामित्या-इयाता॑म् (2-5-69)
आर्पयन्तीत्या-अर्पय॑न्ति (3-2-13)
याज्यानुवाक्ये॑ इति॑ याज्या-अनुवाक्ये (2-2-8,…)
याज्यानुवाक्य॑योरिति॑ याज्या-अनुवाक्य॑योः (1-6-26)
याज्यानुवाक्याभ्यामिति॑ याज्या-अनुवाक्याभ्याम् (7-3-31)
याज्यानुवाक्या॑ इति॑ याज्या-अनुवाक्याः (1-5-5)
परेत्येति॑ परा-इत्य॑ (6-2-59,7-1-27)
परोच्य इति॑ परा-उच्यः॑ (2-5-69)
परोवपेति॑ परा-उवप॑ (1-5-11,14)
पराप॑तदिति॑ परा-अप॑तत् (2-1-41,42,5-5-18)
पराव॑धीदिति॑ परा-अव॑धीत् (7-4-48)
दूर्वेष्टकामिति॑ दूर्वा-इष्टकाम् (5-2-43)
आन्तमित्या-अन्तम् (6-2-53,6-3-21,6-6-16)
आराग्रामित्यारा-अग्राम् (6-2-19)
आराग्रेत्यारा-अग्रा (6-2-19)
आञ्जनमित्या-अञ्जनम् (6-1-5)
आञ्जत इत्या-अञ्जते (6-1-6)
आञ्जीतेत्या-अञ्जीत (6-1-6)
अजावय इत्य॑जा-अवयः॑ (6-5-36)
जिह्वाग्रेणेति॑ जिह्वा-अग्रेण॑ (5-7-43)
यथोदितमिति॑ यथा-उदितम् (6-6-12)
एत्येत्या-इत्य॑ (2-3-47)
आय॑नायेत्या-अय॑नाय (7-1-42)
विश्वाहेति॑ विश्वा-अहा (4-6-29)
अञ्जसाय॑नी इत्य॑ञ्जसा-अय॑नी (7-2-2,…)
आर्तोरित्या-अर्तोः (2-2-21)
महेन्द्रत्वमिति॑ महेन्द्र-त्वम् (6-5-17)
माहेन्द्रमिति॑ माहा-इन्द्रम्, माहेन्द्र इति॑ माहा-इन्द्रः (6-5-17,4-7-14) ॥
[उक्थउ॑क्थ इत्युक्थे-उक्थे (1-4-52,4-2-9), आङ्क्त इत्या-अङ्क्ते (2-5-7,6-1-5), महेन्द्रमिति॑ महा-इन्द्रम्, महेन्द्र इति॑ महा-इन्द्रः (2-5-25), गवि॑ष्टय इति गो-इष्टये (2-6-63), दूरेअ॑मित्रः (4-6-26), गोअश्वेभ्यः॑, गोअश्वान् (5-2-51), अष्टाव॑ष्टौ (5-4-55,6-4-21), अन्येन्ये (5-4-57), अया॑तयाम्नियाऽयातयाम्निया (6-1-63), गोअर्घं (6-1-66)] ॥
मूलम् - 1.44
अथ उत्तरदीर्घिणः ॥
उपायवो विश्वायुरदब्धायो तिग्मायुधा वृद्धायुꣳ शतायुस्सत्यायुस्सर्वायुश्चित्रायुर्यज्ञायुधान्युपाप्नोति साऽशीर्केणो-पावर्तेतामक्षावापस्य यवाचितं प्राप्नुयात्प्राप्तुं प्राप्नोति प्रेरते पुरुषाहुतिर्घृताहवनो मध्यमेषायां प्राचीनावीतमुपा-वर्तन्त उपाकरोत्युपाकुर्यादप्राप्य साशिरमुपाकृतं वैश्वदेवाग्निमारुते उपागुः पुरीषायतनः[ꣳ] सायतनꣳ शृतातङ्क्येन सात्मा यजमानायतनमुपावर्तते यत्राकूतायापात्मानꣳ सात्मानमुपाववर्तीत्युपाकृत्योपायन्ति तूषाधानꣳ हस्तादाना अपाकृतमुपाकृतमुपागामुपाकरोति निष्कृताहावमुपावृतश्शतायुषमुपावर्थ्स्यत्युपावर्थ्स्य-तोऽप्रतीक्षं वीक्षिष्यते वीक्षमाणाय वीक्षिताय मृगाखर इत्येते उत्तरदीर्घिणः ॥
व्या - अत्र ऐदम्पर्येण अवर्णगतोदाहरणानि, सवर्णदीर्घस्थलानि च अधिकतया उपात्तानि । अपितु अन्ये बहवः सन्ति । अतः केवलं सवर्णदीर्घोदाहरणान्येव न ग्राह्यानि ।
प्रेरते, मध्यमेषायां, इतिवत् अन्यान्यपि वक्तव्यानि । अप्रतीक्षं, वीक्षिष्यते, वीक्षमाणाय, वीक्षिताय इत्यादिषु इवर्णगतसवर्णदीर्घे गृहीतेऽपि, समग्रतया अत्र अकारादिक्रमेण सङ्गृह्यते । उदा -
अनु॑पौष्येत्यनु॑प-ओष्य (3-3-24)
अन॑न्वारब्धमित्यन॑नु-आरब्धम् (6-3-42)
अन॑न्वारभ्येत्यन॑नु-आरभ्य (3-1-8)
अन्वे॑तवा इत्यनु॑-एतवै (1-4-49)
अपात्मानमित्यप॑-आत्मानम्, अपात्मेत्यप॑-आत्मा (5-5-36)
अप्राप्येत्यप्र॑-आप्य (6-1-40)
अप्र॑तीख्षमित्यप्र॑ति-ईख्षम् (5-2-24)
अव्या॑कृतेत्यवि॑-आकृता (6-4-33)
अव्या॑वृत्तमित्यवि॑-आवृत्तम् (5-3-22)
अख्षावापस्येत्य॑ख्ष-आवापस्य॑ (1-8-16)
अग्न्याधेयेनेत्य॑ग्नि-आधेये॑न (5-4-50)
अञ्ज्येतायेत्य॑ञ्जि-एताय॑ (7-3-39)
अत्याक्रम्येत्य॑ति-आक्रम्य॑ (6-2-17)
अत्यासारिणीत्य॑ति-आसारिणी (2-6-27)
अत्येतीत्य॑ति-एति॑ (6-6-6)
अदब्धायो इत्य॑दब्ध-आयो (1-1-24)
अध्याहेत्य॑धि-आह॑ (2-5-69)
अध्येतीत्य॑धि-एति॑ (2-3-47)
अन्वाक्र॑मतेत्य॑नु-आक्र॑मत (6-5-20)
अन्वाग्मन्नित्य॑नु-आग्मन्न्॑ (7-3-11)
अन्वाताꣳ॑सीदित्य॑नु-आताꣳ॑सीत् (4-7-28)
अन्वाभ॑जतीत्य॑नु-आभ॑जति (6-1-64)
अन्वाभ॑जदित्य॑नु-आभ॑जत् (6-4-29)
अन्वाभ॑विष्यन्तीत्य॑नु-आभ॑विष्यन्ति (6-3-25)
अन्वाय॑त्तमित्य॑नु-आय॑त्तम्, अन्वाय॑त्त इत्य॑नु-आय॑त्तः (1-6-39)
अन्वायन्तीत्य॑नु-आय॑न्ति (6-5-4)
अन्वार॑ब्धमित्य॑नु-आर॑ब्धम् (6-3-42)
अन्वार॑भत इत्य॑नु-आर॑भते (3-1-4)
अन्वार॑भामह इत्य॑नु-आर॑भामहे (1-7-42)
अन्वार॑म्भयतीत्य॑नु-आर॑म्भयति (2-6-12)
अन्वारो॑हयेदित्य॑नु-आरो॑हयेत् (3-4-39)
अन्वारो॑हतीत्य॑नु-आरो॑हति (5-4-48)
अन्वारो॑हन्तीत्य॑नु-आरो॑हन्ति (7-2-2)
अन्वाव॑र्त इत्य॑नु-आव॑र्ते (1-6-18)
अन्वाह॑रतीत्य॑नु-आह॑रति (1-7-12)
अन्वाह॑रन्तेत्य॑नु-आह॑रन्त (1-7-13)
अन्वाहेत्य॑नु-आह॑ (1-5-33)
अन्वागन्तेत्य॑नु-आगन्ता (5-7-30)
अन्वारभ॑त इत्य॑नु-आरभ॑ते (6-3-48)
अन्वारभेतेत्य॑नु-आरभे॑त (3-1-15)
अन्वारभ्य इत्य॑नु-आरभ्यः॑, अन्वारभ्या(३) इत्य॑नु-आरभ्या(३)ः (6-3-41)
अन्वारभ्येत्य॑नु-आरभ्य॑ (2-2-27)
अन्वारम्भ इत्य॑नु-आरम्भः (6-1-75)
अन्वारोहेदित्य॑नु-आरोहेत्, अन्वारोह इत्य॑नु-आरोहः (5-6-30)
अन्वारोहा इत्य॑नु-आरोहाः (3-2-2)
अन्वारोहानित्य॑नु-आरोहान् (3-2-1)
अन्वाहार्य॑ इत्य॑नु-आहार्यः॑ (1-7-12)
अन्वाहार्य॑मित्य॑नु-आहार्यम् (1-7-11)
अन्वाहार्य॑स्येत्य॑नु-आहार्य॑स्य (1-7-12)
अन्वाहार्ये॑णेत्य॑नु-आहार्ये॑ण (1-7-11)
अन्वीख्षेतेत्य॑नु-ईख्षे॑त, अन्वीख्ष्य इत्य॑नु-ईख्ष्यः॑ (6-5-22)
अपाकृ॑तमित्य॑प-आकृ॑तम् (6-4-51)
अपाकरोतीत्य॑प-आकरोति॑ (2-5-31)
अपोर्ण्वीतेत्य॑प-ऊर्ण्वीत (6-1-19)
अप्येतीत्य॑पि-एति॑ (3-1-33)
अभ्यात॑नुत इत्य॑भि-आत॑नुते (3-4-18)
अभ्यात॑नक्तीत्य॑भि-आत॑नक्ति (2-5-20)
अभ्यात॑न्वतेत्य॑भि-आत॑न्वत (3-4-17)
अभ्यारू॑ढ इत्य॑भि-आरू॑ढः (1-5-40)
अभ्यारो॑हतीत्य॑भि-आरो॑हति (2-5-31)
अभ्यारो॑हन्तीत्य॑भि-आरो॑हन्ति (7-2-1)
अभ्याव॑र्तध्वमित्य॑भि-आव॑र्तध्वम् (5-7-16)
अभ्याव॑र्तस्वेत्य॑भि-आव॑र्तस्व (4-2-29)
अभ्याव॑वृथ्स्वेत्य॑भि-आव॑वृथ्स्व (4-2-23)
अभ्याताना इत्य॑भि-आतानाः (3-4-17)
अभ्यातानानामित्य॑भि-आतानानाम् (3-4-18)
अभ्यातानानित्य॑भि-आतानान् (3-4-17)
अभ्यातानैरित्य॑भि-आतानैः (3-4-18)
अभ्यादध्यादित्य॑भि-आदध्यात् (2-2-57)
अभ्यारुह्येत्य॑भि-आरुह्य॑ (7-4-15)
अभ्यारोह॑न्त इत्य॑भि-आरोह॑न्तः (7-5-6)
अभ्यारोहतीत्य॑भि-आरोह॑ति (2-5-32)
अभ्यावृत्येत्य॑भि-आवृत्य॑ (6-2-29)
अभ्यावर्तिन्नित्य॑भि-आवर्तिन्न् (4-2-2)
अभ्याह्वय॑त इत्य॑भि-आह्वय॑ते (3-2-35)
अभ्यैख्षन्तेत्य॑भि-ऐख्ष॑न्त (3-1-12)
अभ्यैख्षे॑तामित्य॑भि-ऐख्षे॑ताम् (4-1-33)
अरुणैता इत्य॑रुण-एताः (5-6-49)
अरुणैतायेत्य॑रुण-एताय॑ (7-3-39)
अवैतीत्य॑व-एति॑ (3-3-22)
अवैर्यतेत्य॑व-ऐर्य॑त (7-1-17)
अवैष्यन्नित्य॑व-एष्यन्न् (3-3-22)
उपाकु॑र्यादित्यु॑प-आकु॑र्यात् (3-1-8)
उपाकृ॑तायेत्यु॑प-आकृ॑ताय (5-7-52)
उपाकृ॑तमित्यु॑प-आकृ॑तम् (3-1-13)
उपाक॑रोतीत्यु॑प-आक॑रोति (3-1-15)
उपागामित्यु॑प-आगाम् (5-7-4)
उपागुरित्यु॑प-आगुः॑ (4-7-33)
उपागहीत्यु॑प-आग॑हि (3-3-36)
उपायन्तीत्यु॑प-आय॑न्ति (6-6-13)
उपायन्नित्यु॑प-आयन्न्॑ (5-7-23)
उपाव॑र्तत इत्यु॑प-आव॑र्तते (5-4-28)
उपाव॑र्तन्त इत्यु॑प-आव॑र्तन्ते (5-2-24)
उपाव॑र्ततेत्यु॑प-आव॑र्तत (1-7-3)
उपाव॑र्तन्तेत्यु॑प-आव॑र्तन्त (2-4-12)
उपाव॑र्तेतामित्यु॑प-आव॑र्तेताम् (6-1-17)
उपाव॑र्तेतेत्यु॑प-आव॑र्तेत (5-4-44)
उपाव॑र्थ्स्यन्तीत्यु॑प-आव॑र्थ्स्यन्ति (2-4-12)
उपाव॑वर्तीत्यु॑प-आव॑वर्ति (6-2-37)
उपास॑त इत्यु॑प-आस॑ते (4-1-32)
उपाकुर्यादित्यु॑प-आकुर्यात् (3-2-2)
उपाकुर्वन्नित्यु॑प-आकुर्वन्न् (3-3-3)
उपाकृत्येत्यु॑प-आकृत्य॑ (3-1-15)
उपाकरोतीत्यु॑प-आकरोति॑ (3-1-8)
उपाप्नोतीत्यु॑प-आप्नोति॑ (1-6-29)
उपायव इत्यु॑प-आयवः॑ (1-1-1)
उपावृत इत्यु॑प-आवृतः॑ (4-2-3)
उपावर्थ्स्यतीत्यु॑प-आवर्थ्स्यति॑ (2-4-9)
उपावर्थ्स्यत इत्यु॑प-आवर्थ्स्यतः (6-1-17)
उपाव्याध इत्यु॑प-आव्याधः (2-2-47)
उपेतनेत्यु॑प-एत॑न (3-1-13)
उपैतीत्यु॑प-एति॑ (5-7-28)
उपैदित्यु॑प-ऐत् (5-7-20)
उपैष्यथेत्यु॑प-ऐष्य॑थ (5-7-23)
उपैष्यसीत्यु॑प-ऐष्य॑सि (5-7-20)
उपैष्यन्नित्यु॑प-एष्यन्न् (1-6-22)
उपैष्यामीत्यु॑प-एष्यामि॑ (2-3-24)
उभयत॑एनीत्यु॑भयतः॑-एनी (7-1-20)
कृष्णैता इति॑ कृष्ण-एताः (5-6-49)
कृष्णैतायेति॑ कृष्ण-एताय॑ (7-3-39)
घृताह॑वन इति॑ घृत-आहवनः, घृताहुतिरिति॑ घृत-आहुतिः (2-5-52)
चित्रायुरिति॑ चित्र-आयुः (4-1-44)
चित्रोत॑य इति॑ चित्र-ऊतयः (4-2-31)
जुह्वास्य इति॑ जुहु-आस्यः (1-4-54)
तिग्मायु॑धा इति॑ तिग्म-आयुधाः (1-2-34)
तूषाधानमिति॑ तूष-आधानम् (6-1-3)
त्र्या॑वृदिति त्रि-आवृत् (6-3-37)
त्र्यालिखितेति॑ त्रि-आलिखिता (5-2-43)
दार्वाघाट इति॑ दारु-आघातः (5-5-53)
निष्कृ॑ताहावमिति निष्कृ॑त-आहावम् (4-2-22)
नस्योता इति॑ नसि-ओताः (2-1-2)
न्याग॑च्छदिति॑ नि-आग॑च्छत् (7-1-21)
न्यायमिति॑ नि-आयम् (2-2-41)
न्यू॑नयेति नि-ऊनया, न्यू॑नादिति नि-ऊनात् (5-1-46)
न्येतीति॑ नि-एति॑ (7-3-1)
पर्याप्तुमिति परि॑-आप्तुम् (7-3-4)
पर्याप्त्या इति परि॑-आप्त्यै (5-1-15)
पुरी॑षायतन इति पुरी॑ष-आयतनः (5-1-8)
पुरुषाहुतिरिति॑ पुरुष-आहुतिः (2-2-10)
पर्याग॑त इति॑ परि-आग॑ते (1-6-35)
पर्याचि॑कीऱ्षन्निति॑ परि-आचि॑कीर््षन्न् (6-5-7)
पर्यान॑ह्यतीति॑ परि-आन॑ह्यति (6-1-72)
पर्याल॑भ्यन्त इति॑ परि-आल॑भ्यन्ते (2-1-12)
पर्याव॑र्तत इति॑ परि-आव॑र्तते (1-7-27)
पर्याव॑र्तन्त इति॑ परि-आव॑र्तन्ते (5-2-28)
पर्याव॑र्तयतीति॑ परि-आव॑र्तयति (2-5-1)
पर्याव॑र्ततेति॑ परि-आव॑र्तत (2-5-48)
पर्याव॑र्तेते इति॑ परि-आव॑र्तेते (3-2-4)
पर्याणीयेति॑ परि-आनीय॑ (7-1-26)
पर्याप्लाव इति॑ परि-आप्लावे (7-5-20)
पर्यावर्त॑त इति॑ परि-आवर्त॑ते (2-4-28)
पर्यावर्तयेदिति॑ परि-आवर्तयेत् (6-4-1)
प्राप्तुमिति प्र-आप्तुम् (2-1-30)
प्राचीनावीतमिति॑ प्राचीन-आवीतम् (2-5-61)
प्राप्नुयादिति॑ प्र-आप्नुयात् (2-1-30)
प्राप्नोतीति॑ प्र-आप्नोति॑ (2-1-32)
प्रतीख्ष॑त इति॑ प्रति-ईख्ष॑ते (3-2-39)
प्रत्यान॑ह्यतीति॑ प्रति-आन॑ह्यति (6-1-74)
प्रत्याव॑र्तयेति॑ प्रति-आव॑र्तय (4-6-33)
प्रत्याश्रु॑तमिति॑ प्रति-आश्रु॑तम् (7-3-31)
प्रत्याह्व॑यतइति॑ प्रति-आह्व॑यते (3-2-39)
प्रत्याख्यायमिति॑ प्रति-आख्यायम् (3-1-10)
प्रत्यासाभ्यामिति॑ प्रति-आसाभ्याम् (5-7-51)
प्रत्योषतीति॑ प्रति-ओष॑ति (1-5-42)
प्रेफ्सतीति॑ प्र-ईफ्सति॑ (5-4-9)
प्रेफ्सन्त इति॑ प्र-ईफ्सन्तः॑ (2-3-4)
प्रेफ्सन्निति॑ प्र-ईफ्सन्न् (6-4-25)
प्रेरत इति॑ प्र-ईरते (2-2-8)
प्रैषमिति॑ प्र-एषम् (2-5-20)
प्रैषानिति॑ प्र-एषान् (7-3-31)
ब्रह्मौदनमिति॑ ब्रह्म-ओदनम् (3-4-28)
मृगाखर इिति॑ मृग-आखरे (7-5-48)
मध्यमेषायामिति॑ मध्यम-ईषायाम् (2-3-5)
यजमानायतनमिति॑ यजमान-आयतनम् (5-3-31)
यज्ञायुधानीति॑ यज्ञ-आयुधानि॑ (1-6-26)
यत्राकूतायेति॑ यत्र-आकूताय॑ (5-4-47)
यवाचितमिति॑ यव-आचितम् (1-8-34)
रथौ॑जा इति रथ॑-ओजाः (4-4-7)
रोहितैता इति॑ रोहित-एताः (5-6-49)
रोहितैतायेति॑ रोहित-एताय॑ (7-3-39)
लोहितोर्णीति॑ लोहित-ऊर्णी (5-6-43)
विश्वायुरिति॑ विश्व-आयुः (1-1-4)
वीख्षि॑तायेति वि-ईख्षिताय, वीख्ष॑माणायेति॑ वि-ईख्ष॑माणाय (7-1-51)
वीख्षिष्यत इति॑ वि-ईख्षिष्यते (7-1-50)
वृद्धायुमिति॑ वृद्ध-आयुम् (1-3-2)
वैश्वदेवाग्निमारुते इति॑ वैश्वदेव-आग्निमारुते (4-4-6)
व्याकुर्विति॑ वि-आकु॑रु, व्याक॑रोदिति॑ वि-आक॑रोत्, व्याकृतेति॑ वि-आकृ॑ता (6-4-33)
व्याघा॑रयतीति॑ वि-आघा॑रयति (5-2-40)
व्याघा॑रयन्तीति॑ वि-आघा॑रयन्ति (6-2-34)
व्याच॑ष्ट इति॑ वि-आच॑ष्टे (2-3-42)
व्यात्तमिति॑ वि-आत्तम् (7-5-53)
व्यादि॑शदिति॑ वि-आदि॑शत् (1-7-12)
व्यान॑यतीति॑ वि-आन॑यति (6-4-15)
व्यानडिति॑ वि-आन॑ट् (4-2-45)
व्याय॑च्छन्त इति॑ वि-आय॑च्छन्ते (3-1-21)
व्याय॑च्छेतामिति॑ वि-आय॑च्छेताम् (7-1-18)
व्याय॑च्छेते इति॑ वि-आय॑च्छेते (7-5-30)
व्यावृ॑त्त इति॑ वि-आवृ॑त्ते, व्यावृ॑त्तमिति॑ वि-आवृ॑त्तम् (6-2-33)
व्यावृ॑त्त्या इति॑ वि-आवृ॑त्त्यै (2-6-26)
व्याव॑र्तन्त इति॑ वि-आव॑र्तन्ते (5-3-2)
व्याव॑र्तयतीति॑ वि-आव॑र्तयति (6-1-20)
व्याव॑र्तन्तेति॑ वि-आव॑र्तन्त (7-1-36)
व्याहृ॑तय इति॑ वि-आहृ॑तयः (1-6-34)
व्याहृ॑तीरिति॑ वि-आहृ॑तीः (1-6-36)
व्याहेति॑ वि-आह॑ (7-3-1)
व्याघारयतीति॑ वि-आघारय॑ति (5-2-40)
व्यानशुरिति॑ वि-आनशुः (5-7-32)
व्यावृतमिति॑ वि-आवृतम् (2-2-44)
व्यूषुषीति॑ वि-ऊषुषी (4-3-25)
व्येतीति॑ वि-एति॑ (4-1-33)
व्यो॑मन इति वि-ओमने (3-3-11)
व्यो॑मन्निति वि-ओमन्न् (4-2-43)
व्यो॑मेति वि-ओम (3-3-14)
व्यौच्छदिति॑ वि-औच्छ॑त् (4-3-21)
शित्योष्ठायेति॑ शिति-ओष्ठा॑य (7-3-39)
शित्योष्ठ इति॑ शिति-ओष्ठः॑ (5-6-45)
शतायु॑धायेति॑ शत-आयुधाय (5-7-6)
शतायु॑षमिति॑ शत-आयुषम् (4-2-42)
शतायुरिति॑ शत-आयुः (1-5-6)
शतोत॑य इति॑ शत-ऊतये (5-7-6)
सत्यौ॑जसेति सत्य॑-ओजसा (4-7-34)
सात्मा॑नमिति स-आत्मानम्, सात्मेति स-आत्मा (5-3-24)
साय॑तनमिति स-आयतनम् (5-1-8)
साशि॑रमिति स-आशिरम् (6-1-67)
साशीर्केणेति स-आशीर्केण (1-6-36)
सत्यायुरिति॑ सत्य-आयुः, सत्यौजा इति॑ सत्य-ओजाः (1-6-1)
सर्वायुरिति॑ सर्व-आयुः (2-4-10)
सोमैन्द्रा इति॑ सोम-ऐन्द्राः (5-6-46)
स्वायुरिति॑ सु-आयुः॑ (4-1-26)
स्वा॑हुत इति सु-आहुतः (4-4-13)
स्वाग्रयण इति सु-आग्रयणः (1-4-11)
स्वायुषेति॑ सु-आयुषा (1-2-15)
स्वायुधायेति॑ सु-आयुधाय॑ (4-5-15)
स्वावेश इति॑ सु-आवेशः (1-3-10)
स्वासस्थमिति॑ सु-आसस्थम् (1-1-19)
स्वासस्थेति॑ सु-आसस्था (4-3-7)
स्वे॑तव्यमिति सु-एतव्यम् (6-1-1)
स्वौपशेति॑ सु-औपशा (4-1-20)
हस्ता॑दाना इति हस्त॑-आदानाः (6-4-26)
हृदयौपशाभ्यामिति॑ हृदय-औपशाभ्याम् (5-7-48) ॥
उक्षान्नायोपावहरन्नुपावहरेदनवानं परार्धायेत्येते उभयह्रस्विणः ॥
[अत्रापि बहूनामुदाहरणानां अपेक्षा विद्यते । पूर्वोक्तवत् अत्रापि सवर्णदीर्घ, गुण, यण् सन्धिविषयाः दृष्टान्ताः प्रदर्श्यन्ते । पूर्वदीर्घिणां उभयदीर्घिणामेव पट्टिका मूले सम्पूर्णप्रायाऽस्तीति ज्ञेयम् ।] ॥
अग्नीदित्यग्नि॑-इत् (6-3-2)
अच्छे॑त इत्यच्छ॑-इतः (4-4-25)
अत्यꣳ॑हा इत्यति॑-अꣳहाः (1-8-26)
अत्य॑ग्रमित्यति॑-अग्रम् (2-6-27)
अत्रात्रेत्यत्र॑-अत्र (5-6-11)
अदा॑यादीरित्यदा॑य-अदीः (6-5-27)
अध्य॑ख्षाभ्यामित्यधि॑-अख्षाभ्याम्(3-2-42)
अध्य॑ख्षायेत्यधि॑-अख्षाय (1-2-10)
अध्य॑ख्षमित्यधि॑-अख्षम् (1-6-1)
अध्य॑ख्षेणेत्यधि॑-अख्षेण (4-7-29)
अनु॑पाक्त इत्यनु॑प-अक्तः (2-6-16)
अनु॑पोप्त इत्यनु॑प-उप्ते (6-5-7)
अन॑न्ववचारायेत्यन॑नु-अवचाराय (1-6-28)
अन॑पेता इत्यन॑प-इताः (5-7-32)
अन॑पोब्ध इत्यन॑प-उब्धः (2-4-43)
अन॑भ्यक्ता इत्यन॑भि-अक्ताः (7-1-3)
अन॑वानमित्यन॑व-अनम् (6-6-37)
अन॑वेतावित्यन॑व-इतौ (2-6-18)
अन॑वेत इत्यन॑व-इतः (2-6-18)
अन्त्य॑मित्र इत्यन्ति॑-अमित्रः (4-6-26)
अन्न॑स्यान्नस्येत्यन्न॑स्य-अन्नस्य (5-2-29)
अन्वि॑तिरित्यनु॑-इतिः (3-5-6)
अन्वृ॑जव इत्यनु॑-ऋजवे, अन्वृ॑जुमित्यनु॑-ऋजुम्(2-2-40)
अपोब्ध इत्यप॑-उब्धः (2-4-43)
अप्रा॑णत इत्यप्र॑-अनते (7-5-35)
अप्र॑तीत्तमित्यप्र॑ति-इत्तम् (3-3-23)
अप्रो॑दितामित्यप्र॑-उदिताम् (2-2-50)
अब्राह्मणोक्त इत्यब्राह्मण-उक्तः (2-6-57)
अवेष्टा इत्यव॑-इष्टाः (1-8-27)
अव्यु॑ष्ट्या इत्यवि॑-उष्ट्यै (1-5-29)
अव्य॑र्धुक इत्यवि॑-अर्धुकः (5-3-30)
अव्य॑वच्छिन्नानीत्यवि॑-अवच्छिन्नानि (7-1-17)
अश्वा॑जनीत्यश्व॑-अजनि (1-7-34)
अग्धादित्य॑ग्ध-अत् (3-3-23)
अग्निहोत्रोच्छेषणमित्य॑ग्निहोत्र-उच्छेषणम् (2-5-20)
अग्नीदित्य॑ग्नि-इत् (6-5-30)
अग्नीध इत्य॑ग्नि-इधे (1-8-34)
अग्नीदित्य॑ग्नि-इत् (2-6-29)
अतीयादित्य॑ति-इयात् (6-4-8)
अत्यशि॑ष्यतेत्य॑ति-अशि॑ष्यत (2-4-36)
अध्यति॑ष्ठदित्य॑धि-अति॑ष्ठत् (4-6-10)
अध्यव॑साययतीत्य॑धि-अव॑साययति (5-2-14)
अध्यव॑स्यतीत्य॑धि-अव॑स्यति (5-2-7)
अध्यवसायेत्य॑धि-अवसाय॑ (6-1-34)
अध्यवसाययतीत्य॑धि-अवसायय॑ति (5-2-14)
अध्यस्थादित्य॑धि-अस्थात् (2-1-8)
अनूच्यानीत्य॑नु-उच्या॑नि (2-4-30)
अनूच्यमित्य॑नु-उच्यम् (2-5-61)
अनूच्येत्य॑नु-उच्य॑ (2-1-14)
अनूचीनाहमित्य॑नूचीन-अहम् (7-1-17)
अनूच्यत इत्य॑नु-उच्यते (2-5-47)
अनूच्यमा॑न इत्य॑नु-उच्यमा॑ने (2-2-29)
अनूत्थायेत्य॑नु-उत्थाय॑ (3-4-38)
अनूद्धृत्य इत्य॑नु-उद्धृत्यः॑ (2-2-21)
अनूपदध्यादित्य॑नु-उपदध्यात् (5-2-37)
अनूपयन्तीत्य॑नु-उपयन्ति॑ (1-7-24)
अन्धाहेरित्य॑न्ध-अहेः (5-7-49)
अन्नाद॑नमित्य॑न्न-अद॑नम् (2-5-1)
अन्नाद्यादित्य॑न्न-अद्यात् (1-6-17)
अन्नाद्यायेत्य॑न्न-अद्या॑य (1-5-10)
अन्नाद्य इत्य॑न्न-अद्ये (2-2-37)
अन्नाद्यमित्य॑न्न-अद्यम् (1-5-13)
अन्नाद्यस्येत्य॑न्न-अद्य॑स्य (1-5-14)
अन्नाद्येनेत्य॑न्न-अद्ये॑न (2-6-33)
अन्नाद इत्य॑न्न-अदः (1-6-6)
अन्नादमित्य॑न्न-अदम् (1-5-10)
अन्नादा इत्य॑न्न-अदाः (7-3-20)
अन्नादायेत्य॑न्न-अदाय॑ (2-2-15)
अन्यस्यान्यस्येत्यन्यस्य॑-अन्यस्य (6-3-60)
अन्वति॑ष्ठतेत्य॑नु-अति॑ष्ठत (2-4-42)
अन्वत॑प्यन्तेत्य॑नु-अत॑प्यन्त (3-2-31)
अन्वप॑श्यदित्य॑नु-अप॑श्यत् (5-1-19)
अन्वर्जे॑युरित्य॑नु-अर्जे॑युः (7-5-10)
अन्ववा॑जिगाꣳसन्नित्य॑नु-अवा॑जिगाꣳसन्न्, अन्ववा॑यन्नित्य॑नु-अवा॑यन्न् (3-2-6)
अन्ववास्यतीत्य॑नु-अवास्यति (6-6-29)
अन्वव॑सृजेदित्य॑नु-अव॑सृजेत् (6-5-22)
अन्वव॑स्रावयतीत्य॑नु-अव॑स्रावयति (5-6-12)
अन्ववै॑तामित्य॑नु-अवै॑ताम् (2-4-12)
अन्ववैतीत्य॑नु-अवै॑ति (6-6-9)
अन्वस्यतीत्य॑नु-अस्य॑ति(7-2-11)
अन्वित्येत्य॑नु-इत्य॑ (6-2-46)
अन्ववायन्नित्य॑नु-अवायन्न्॑ (6-3-2)
अन्ववसृजतीत्य॑नु-अवसृजति॑ (6-5-30)
अन्वहमित्य॑नु-अहम् (2-4-27)
अपाघ्नन्नित्य॑प-अघ्नन्न्॑, अपाकृ॑न्तन्नित्य॑प-अकृ॑न्तन्न् (2-1-8)
अपाव॑पदित्य॑प-अव॑पत् (3-3-21)
अपान इत्य॑प-अनः (1-3-18)
अपान इत्य॑प-अने (6-3-5)
अपानमित्य॑प-अनम् (1-1-10)
अपानस्येत्य॑प-अनस्य॑ (6-4-29)
अपाना इत्य॑प-अनाः (4-6-23)
अपानायेत्य॑प-अनाय॑ (1-1-9)
अपानतीत्य॑प-अनती (1-5-10)
अपानतीरित्य॑प-अनतीः (5-3-29)
अपानेनेत्य॑प-अनेन॑ (1-7-7)
अपराह्ण इत्य॑पर-अह्ने (2-1-11)
अपोम्भ॑नादित्य॑प-उम्भ॑नात् (2-4-43)
अप्राशित्रिय इत्य॑प्र-अशित्रियः (2-6-46)
अभीत्व॑रीरित्य॑भि-इत्व॑रीः (4-1-39)
अभीद्धेत्यभि-इद्धा (5-1-37)
अभीष्टा इत्यभि-इष्टाः (2-4-29)
अभ्यज्येत्य॑भि-अज्य॑ (2-6-17)
अभ्यञ्ज॑नमित्य॑भि-अञ्ज॑नम् (2-5-6)
अभ्यति॑रिच्यत इत्य॑भि-अति॑रिच्यते (7-1-19)
अभ्यनू॑वाचेत्य॑भि-अनू॑वाच (5-6-25)
अभ्यनूच्यत इत्य॑भि-अनूच्यते (7-1-18)
अभ्यर्तीत्य॑भि-अर्ति॑ (2-3-56)
अभ्यव॑र्तन्तेत्य॑भि-अव॑र्तन्त (1-6-51)
अभ्यषि॑ञ्चन्नित्य॑भि-असि॑ञ्चन्न् (1-8-20)
अभ्युथ्स॑र्जेदित्य॑भि-उथ्स॑र्जेत् (6-2-45)
अभ्युद्धरे॑युरित्य॑भि-उद्धरे॑युः (2-2-20)
अभ्यङ्क्त इत्य॑भि-अङ्क्ते (2-5-7)
अभ्यनक्तीत्य॑भि-अनक्ति॑ (5-2-46)
अभ्यर्ध इत्य॑भि-अर्धः (2-3-29)
अभ्यवायन्नित्य॑भि-अवायन्न्॑ (2-6-15)
अभ्यवेत्यमित्य॑भि-अवेत्यम् (3-1-31)
अभ्यवेत्येत्य॑भि-अवेत्य॑ (1-5-16)
अभ्यश्ञुत इत्य॑भि-अश्ञुते (7-1-2)
अर्काश्वमेधयोरित्य॑र्क-अश्वमेधयोः (5-7-19)
अर्काश्वमेधावित्य॑र्क-अश्वमेधौ (2-2-39)
अर्काश्वमेधीत्य॑र्क-अश्वमेधी (5-7-19)
अर्थेत इत्य॑र्थ-इतः॑ (1-8-20)
अर्धर्च इत्य॑र्ध-ऋचः (6-3-59)
अर्धर्च इत्य॑र्ध-ऋचे (1-6-37)
अर्धर्चमित्य॑र्ध-ऋचम् (2-5-42)
अर्धर्चादित्य॑र्ध-ऋचात् (3-2-39)
अर्धर्चावित्य॑र्ध-ऋचौ (2-5-43)
अर्धर्चेनेत्य॑र्ध-ऋचेन॑ (5-1-16)
अर्धेन्द्राणीत्य॑र्ध-इन्द्राणि॑ (5-4-39)
अवारु॑न्धतेत्य॑व-अरु॑न्धत(3-3-16)
अवार्च्छतीत्य॑व-ऋच्छ॑ति (2-6-17)
अवास्येत्य॑व-अस्य॑ (3-2-4)
अवान्तरमित्य॑व-अन्तरम् (7-4-20)
अवोख्षतीत्य॑व-उख्ष॑ति (5-4-20)
अश्वाभिधानीमित्य॑श्व-अभिधानीम् (5-1-5)
अहुतादित्य॑हुत-अत् (3-3-23)
अहुताद इत्य॑हुत-अदः॑ (4-6-4)
आग्नीध्रादित्याग्नि॑-इध्रात् (4-4-25)
आग्नीध्र इत्याग्नि॑-इध्रे (3-1-10)
आग्नीध्रमित्याग्नि॑-इध्रम् (3-1-17)
आहि॑ताग्निरित्याहि॑त-अग्निः (1-7-31)
आहि॑ताग्नेरित्याहि॑त-अग्नेः (1-5-42)
आग्नीध्रीय इत्याग्नि-इध्रीयः॑ (6-3-3)
आग्रयणाग्रानित्याग्रयण-अग्रान्, आग्रयणाग्रा इत्याग्रयण-अग्राः (6-4-48)
आत्मेष्टका इत्यात्म-इष्टकाः (5-5-36)
आदित्येष्टका इत्या॑दित्य-इष्टकाः (5-3-41)
आप्तेष्ट॑कमित्याप्त-इष्टकम्(5-3-41)
आमादमित्या॑म-अदम् (1-1-10)
आश्वश्वि॑यमित्या॑शु-अश्वि॑यम् (1-8-41)
आश्विनाग्रानित्याश्विन-अग्रान् (7-2-23)
आहुतीष्टकाइत्या॑हुति-इष्टकाः (3-4-36)
इन्द्राग्नी इतीन्द्र॑-अग्नी (1-1-25)
इन्द्रे॑षिता इतीन्द्र॑-इषिताः (1-6-51)
इतासुरितीत-असुः (2-1-4)
इन्द्राग्नियोरितीन्द्र-अग्नियोः (1-3-21)
इन्द्राग्नी इतीन्द्र-अग्नी (1-1-22)
इन्द्राग्नी इतीन्द्र-अग्नी (1-1-25)
इष्वग्रेणेती॑षु-अग्रेण॑ (5-2-14)
इहेहेतीह-इह (1-8-37)
ईर्मान्ता॑स इतीर्म-अन्तासः (4-6-37)
उपोत्त इत्युप॑-उत्तः (4-4-25)
उपोप्त इत्युप॑-उप्ते (6-5-7)
उपोपेत्युप॑-उप (1-4-23)
उक्थ्याग्रानित्युक्थ्य-अग्रान् (7-2-25)
उख्षान्नायेत्युख्ष-अन्नाय (1-3-30)
उत्तरार्धादित्यु॑त्तर-अर्धात् (2-6-34)
उत्तरार्ध इत्यु॑त्तर-अर्धे (2-6-8)
उत्तरार्ध्य॑मित्यु॑त्तर-अर्ध्यम् (2-5-66)
उपर्यु॑परीत्युपरि॑-उपरि (6-2-21)
उपाजी॑विष्मेत्यु॑प-अजी॑विष्म (7-3-11)
उपाद॑धादित्यु॑प-अद॑धात् (5-6-17)
उपाम॑न्त्रयन्तेत्यु॑प-अम॑न्त्रयन्त (2-6-34)
उपावा॑रोहन्नित्यु॑प-अवा॑रोहन्न् (7-3-25)
उपावास्रागित्यु॑प-अवास्राक् (1-6-41)
उपाव॑यन्तीत्यु॑प-अव॑यन्ति (6-5-40)
उपाव॑रोहन्तीत्यु॑प-अव॑रोहन्ति (7-3-26)
उपाव॑रोहन्त्वित्यु॑प-अव॑रोहन्तु (1-3-22)
उपाव॑रोहेत्यु॑प-अव॑रोह (1-3-22)
उपाव॑सृजतीत्यु॑प-अव॑सृजति (1-7-3)
उपाव॑हरतीत्यु॑प-अव॑हरति (5-1-30)
उपासी॑दन्नित्यु॑प-असी॑दन्न् (6-2-17)
उपास्येत्यु॑प-अस्य॑ (5-1-12)
उपान्त इत्यु॑प-अन्ते (6-6-16)
उपावसृजतीत्यु॑प-अवसृजति॑ (1-6-31)
उपावस्यतीत्यु॑प-अवस्यति॑ (2-6-54)
उपावहरन्नित्यु॑प-अवहरन्न्॑ उपावहरेदित्यु॑प-अवहरेत् (6-4-12)
उपावह्रियमा॑ण इत्यु॑प-अवह्रियमा॑णः (4-4-25)
उपाꣳशावित्यु॑प-अꣳशौ (6-4-27)
उपाꣳशुमित्यु॑प-अꣳशुम् (3-2-4)
उपाꣳशुरित्यु॑प-अꣳशुः (4-3-2)
उपाꣳशोरित्यु॑प-अꣳशोः (2-3-39)
उपाꣳश्वित्यु॑प-अꣳशु (1-5-7)
उपाꣳश्व॑ग्रा इत्यु॑पाꣳशु-अग्राः (6-4-20)
उपाꣳश्वन्तर्यामयोरित्यु॑पाꣳशु-अन्तर्यामयोः (6-5-41)
उपाꣳश्वन्तर्यामावित्यु॑पाꣳशु-अन्तर्यामौ (6-4-30)
उपेत्येत्यु॑प-इत्य॑ (7-2-17)
उपेयादित्यु॑प-इयात् (2-5-36)
उपेयुरित्यु॑प-इयुः (7-2-6)
उपोत्थायेत्यु॑प-उत्थाय॑ (7-1-28)
ऊनातिरिक्ता इत्यू॑न-अतिरिक्ता (5-1-42)
एका॑दशाख्षरामित्येका॑दश-अख्षराम् (7-3-6)
एका॑दशाख्षरेणेत्येका॑दश-अख्षरेण (1-7-44)
एका॑दशाख्षरेत्येका॑दश-अख्षरा (2-2-51)
एका॑दशारत्निमित्येका॑दश-अरत्निम् (6-3-18)
एकाख्षरेणेत्येक॑-अख्षरेण (1-7-43)
एक॑विꣳशत्यरत्निमित्येक॑विꣳशति-अरत्निम् (6-3-18)
एकोन्नत इत्येक॑-उन्नते, एकोन्नतादित्येक॑-उन्नतात्, एकोन्नतमित्येक॑-उन्नतम् (6-2-31)
एत्येत्या-इत्य॑ (2-3-47)
एकाष्टकामित्ये॑क-अष्टकाम् (7-4-29)
एकाष्टकायामित्ये॑क-अष्टकायाम् (3-3-25)
एकाष्टकेत्ये॑क-अष्टका (4-3-23)
ऐन्द्राग्न इत्यैन्द्र-अग्नः (4-7-14)
ऐन्द्राग्नमित्यैन्द्र-अग्नम् (1-8-2)
ऐन्द्राग्नीत्यैन्द्र-अग्नी (5-5-27)
ऐन्द्राग्नेनेत्यैन्द्र-अग्नेन॑ (6-6-21)
ऐन्द्रवायवाग्रा इत्यैन्द्रवायव-अग्राः (6-4-31)
ऐन्द्रवायवाग्रानित्यैन्द्रवायव-अग्रान् (7-2-22)
औपो॑दितिमित्यौप॑-उदितिम् (1-7-7)
कृशा॑नविति कृश॑-अनो (1-2-14)
कृशानुरिति॑ कृश-अनुः (1-3-5)
कृष्णाजिन इति॑ कृष्ण-अजिने (2-4-24)
कृष्णाजिनमिति॑ कृष्ण-अजिनम् (1-6-27)
कृष्णाजिनस्येति॑ कृष्ण-अजिनस्य॑ (5-1-32)
कृष्णाजिनेनेति॑ कृष्ण-अजिनेन॑ (5-1-17)
क्रव्यादमिति॑ क्रव्य-अदम् (1-1-10)
गन्धर्वाफ्सरस इति॑ गन्धर्व-अफ्सरसः॑, गन्धर्वाफ्सरसामिति॑ गन्धर्व-अफ्सरसाम् (3-4-25)
घृतानुषिक्तामिति॑ घृत-अनुषिक्ताम् (5-2-11)
घृतेष्टका॑ इति घृत-इष्टकाः (5-3-42)
चतु॑रख्षरमिति चतुः॑-अख्षरम् (1-6-39)
चतु॑रख्षरेणेति चतुः॑-अख्षरेण (1-7-43)
चतु॑रख्षरेति चतुः॑-अख्षरा (6-1-41)
चतु॑र्दशाख्षरेणेति चतु॑र्दश-अख्षरे (1-7-44)
चतु॑र्दशाख्षरेति चतु॑र्दश-अख्षरा (6-1-40)
चतु॑र्विꣳशत्यख्षरेति चतु॑र्विꣳशति-अख्षरा (2-5-59)
चन्द्राग्रा इति॑ चन्द्र-अग्राः (1-1-26)
चमसाध्वर्यविति॑ चमस-अध्वर्यो (6-4-14)
जघनार्धस्येति॑ जघन-अर्धस्य॑ (6-3-56)
जघनार्धादिति॑ जघन-अर्धात् (6-4-1)
जघनार्धेनेति॑ जघन-अर्धेन॑ (2-6-10)
तिक्तायनीति॑ तिक्त-अय॑नी (1-2-22)
तीख्ष्णेष॑व इति॑ तीख्ष्ण-इष॑वे (4-5-15)
त्रयो॑दशाख्षरेणेति त्रयो॑दश-अख्षरेण (1-7-44)
त्रयो॑दशाख्षरेति त्रयो॑दश-अख्षरा (6-1-40)
त्र्यविरिति॑ त्रि-अविः॑ (4-3-5)
त्र्यव्य इति॑ त्रि-अव्य॑ः (5-6-46)
त्र्यु॑द्धिमिति त्रि-उद्धिम् (5-1-34)
त्र्यु॑न्नत इति त्रि-उन्नते, त्र्यु॑न्नतादिति त्रि-उन्नतात् (6-2-31)
त्र्यु॑न्नतमिति त्रि-उन्नतम्(6-2-32)
त्र्य॑ख्षरेणेति त्रि-अख्षरेण (1-7-43)
त्र्य॑तिरात्र इति त्रि-अतिरात्रः (7-3-7)
त्र्य॑म्बकानिति त्रि-अम्बकान् (3-2-6)
त्र्य॑म्बकमिति त्रि-अम्बकम् (1-8-11)
त्र्यङ्गाणामिति॑ त्रि-अङ्गानाम् (6-3-56)
त्र्यवीति॑ त्रि-अवी (4-7-17)
त्र्यह इति॑ त्रि-अहः (7-3-12)
त्र्यहमिति॑ त्रि-अहम् (5-5-13)
त्र्यहा इति॑ त्रि-अहाः (7-3-23)
त्र्यहानिति॑ त्रि-अहान् (7-4-17)
त्र्यहाभ्यामिति॑ त्रि-अहाभ्याम् (7-3-11)
दश॑ऱ्षभामिति दश॑-ऋषभाम् (2-1-21)
दशाख्षर इति दश॑-अख्षरः (5-6-41)
दशाख्षरामिति दश॑-अख्षराम् (7-3-6)
दशाख्षरेणेति दश॑-अख्षरेण (1-7-44)
दशाख्षरेति दश॑-अख्षरा (2-6-2)
दख्षिणार्ध इति॑ दख्षिण-अर्धे (2-6-8)
दख्षिणार्धमिति॑ दख्षिण-अर्धम् (3-2-15)
दख्षिणार्ध्य॑मिति॑ दख्षिण-अर्ध्यम् (2-5-65)
दशर्चमिति॑ दश-ऋचम् (5-4-27)
देवेद्धेति देव॑-इद्ध (1-6-5)
देवावीरिति॑ देव-अवीः (3-5-33)
देवाश्वा इति॑ देव-अश्वाः (1-7-17)
देवाश्वैरिति॑ देव-अश्वैः (1-7-18)
देवासुरा इति॑ देव-असुराः (1-5-1)
देवासुरानिति॑ देव-असुरान् (3-3-19)
देवेद्ध इति॑ देव-इद्धः (2-5-51)
द्र्व॑न्न इति द्रु-अन्नः (4-1-36)
द्वाद॑शाख्षरामिति द्वाद॑श-अख्षराम् (7-3-6)
द्वाद॑शाख्षरेणेति द्वाद॑श-अख्षरेण (1-7-44)
द्वाद॑शाख्षरेति द्वाद॑श-अख्षरा (2-2-51)
द्वाद॑शोद्याममिति द्वाद॑श-उद्यामम् (5-1-55)
द्वादशाह इति॑ द्वादश-अहः (7-3-7)
द्वादशाह इति॑ द्वादश-अहे (7-2-40)
द्वादशाहमिति॑ द्वादश-अहम् (5-5-14)
द्वादशाहस्येति॑ द्वादश-अहस्य॑ (7-3-5)
द्वादशाहेनेति॑ द्वादश-अहेन॑ (7-2-37)
द्व्य॑ख्षरमिति द्वि-अख्षरम् (1-6-39)
द्व्य॑ख्षरेणेति द्वि-अख्षरेण (1-7-43)
द्व्यख्षर इति॑ द्वि-अख्षरः (1-6-39)
द्व्यनीका इति॑ द्वि-अनीकाः, द्व्यनीकेति॑ द्वि-अनीका (7-4-21)
धनार्घ इति॑ धन-अर्घः (2-2-33)
नवा॑रत्निमिति नव॑-अरत्निम्(6-3-18)
नवा॑वसानमिति नव॑-अवसानम् (1-6-23)
नवा॑शीत्या इति नव॑-अशीत्यै (7-2-41)
नवाख्षरेणेति नव॑-अख्षरेण (1-7-43)
नवाश्रिमिति नव॑-अश्रिम् (5-1-34)
नख्षत्रेष्टका इति॑ नख्षत्र-इष्टकाः (5-4-3)
न्यक्रा॑मदिति॑ नि-अक्रा॑मत् (2-6-36)
न्यधायीति॑ नि-अधा॑यि (2-2-66)
न्यमे॑हदिति॑ नि-अमे॑हत् (2-2-41)
न्यय॑नमिति॑ नि-अय॑नम् (4-6-3)
न्यष॑दामेति॑ नि-अस॑दाम (7-5-7)
न्य॑क्त इति नि-अक्तः (3-3-28)
न्य॑क्तमिति नि-अक्तम् (1-5-8)
न्य॑र्बुदायेति नि-अर्बुदाय (7-2-50)
न्य॑र्बुदमिति नि-अर्बुदम् (4-4-32)
न्यङ्काविति॑ नि-अङ्कौ (1-7-33)
न्यर्थादिति॑ नि-अर्थात् (4-7-31)
पञ्चा॑रत्निमिति पञ्च॑-अरत्निम् (6-3-17)
पञ्चा॑विरिति पञ्च॑-अविः (4-3-10)
पञ्चा॑वीरिति पञ्च॑-अवीः (5-6-47)
पञ्चाख्षरामिति पञ्च॑-अख्षराम् (7-3-5)
पञ्चाख्षरमिति पञ्च॑-अख्षरम्(1-6-39)
पञ्चाख्षरेणेति पञ्च॑-अख्षरेण (1-7-43)पञ्चाख्षरेति पञ्च॑-अख्षरा (6-1-6)
पञ्च॑दशाख्षरेणेति पञ्च॑दश-अख्षरेण (1-7-44)
पञ्च॑दशारत्निमिति पञ्च॑दश-अरत्निम् (6-3-18)
पञ्चेष्टक इति पञ्च॑-इष्टकः (5-6-18)
पर्य॑ग्नाविति परि॑-अग्नौ (3-4-11)
पर्यग्नीति परि॑-अग्नि (6-3-41)
पापावहीयमिति॑ पाप-अवहीयम् (7-3-1)
पिङ्गाख्ष्येति॑ पिङ्ग-अख्ष्या (6-1-45)
पुर्वणीकेति॑ पुरु-अनीक (1-3-25)
पूर्वापरा इति॑ पूर्व-अपराः (2-2-10)
पूर्वार्ध इति॑ पूर्व-अर्धे (2-6-8)
पूर्वार्धमिति॑ पूर्व-अर्धम् (5-6-39)
पूर्वार्धस्येति॑ पूर्व-अर्धस्य॑ (6-3-56)
पूर्वार्धेनेति॑ पूर्व-अर्धेन॑ (2-6-10)
पृषोदर इति॑ पृष-उदरः (5-5-61)
पृषोदरा इति॑ पृष-उदराः (5-6-45)
पङ्क्त्यु॑दयन इति॑ पङ्क्ति-उदयनः (2-6-60)
पञ्चावीति॑ पञ्च-अवी (4-7-17)
पञ्चाह इति॑ पञ्च-अहः (7-3-20)
पञ्चाहा इति॑ पञ्च-अहाः (7-4-19)
परार्ध इति॑ पर-अर्धः (4-4-32)
परार्धायेति॑ पर-अर्धाय॑ (7-2-50)
परीत्येति॑ परि-इत्य॑ (6-3-6)
परीध्य इति॑ परि-इध्यः॑ (5-7-17)
पर्यध॑त्था इति॑ परि-अध॑त्थाः (1-1-23)
पर्यप॑श्यदिति॑ परि-अप॑श्यत् (4-1-34)
पर्यभू॑षदिति॑ परि-अभू॑षत् (1-7-48)
पर्यमु॑ष्णादिति॑ परि-अमु॑ष्णात् (6-1-75)
पर्यवि॑शन्निति॑ परि-अवि॑शन्न् (6-3-3)
पर्यव॑द्यतीति॑ परि-अव॑द्यति (2-3-32)
प्रत्यु॑ष्टमिति प्रति॑-उष्टम्, प्रत्यु॑ष्टा इति प्रति॑-उष्टाः (1-1-2)
प्रत्य॑स्त इति प्रति॑-अस्तः (1-2-16)
प्राणा॑पानाविति प्राण॑-अपानौ (3-1-20)
प्राय॑णायेति॑ प्र-अय॑नाय (7-1-42)
प्राय॑णमिति॑ प्र-अय॑नम् (1-6-39)
प्रार्प॑ण इति॑ प्र-अर्प॑णः (4-2-8)
प्राशि॑तमितिप्र-अशितम् (2-6-48)
प्राश्येति॑ प्र-अश्य॑ (2-6-46)
प्रास्येति॑ प्र-अस्य॑ (3-5-17)
प्राण इति॑ प्र-अनः (1-3-14)
प्राण इति॑ प्र-अने (3-2-25)
प्राणथेनेति॑ प्र-अनथे॑न (4-1-14)
प्राणदिति॑ प्र-अनत् (4-7-33)
प्राणन्निति॑ प्र-अनन्न् (5-2-56)
प्राणमिति॑ प्र-अनम् (1-1-10)
प्राणस्येति॑ प्र-अनस्य॑ (3-2-30)
प्राणा इति॑ प्र-अनाः (2-5-65)
प्राणादिति॑ प्र-अनात् (1-5-10)
प्राणानामिति॑ प्र-अनानाम् (2-5-40)
प्राणानिति॑ प्र-अनान् (1-3-16)
प्राणायेति॑ प्र-अनाय॑ (1-1-9)
प्राणाविति॑ प्र-अनौ (5-2-42)
प्राणापानयोरिति॑ प्राण-अपानयोः (3-1-20)
प्राणापानाभ्यामिति॑ प्राण-अपानाभ्याम् (2-1-3)
प्राणापानाविति॑ प्राण-अपानौ (1-6-10)
प्राणापानोदानेष्विति॑ प्राणापान-उदानेषु॑ (7-3-7)
प्राणत इति॑ प्र-अनतः (4-1-32)
प्राणत इति॑ प्र-अनते (7-5-35)
प्राणतीरिति॑ प्र-अनतीः (5-3-29)
प्राणेनेति॑ प्र-अनेन॑ (1-3-18)
प्राणेभ्य इति॑ प्र-अनेभ्यः॑ (3-5-31)
प्राणेष्विति॑ प्र-अनेषु॑ (5-2-50)
प्राणैरिति॑ प्र-अनैः (3-5-31)
प्रायणीय इति॑ प्र-अयनीयः॑ (6-1-34)
प्रायणीय इति॑ प्र-अयनीये (3-5-30)
प्रायणीयमिति॑ प्र-अयनीयम् (6-1-36)
प्रायणीयस्येति॑ प्र-अयनीय॑स्य (6-1-38)
प्राशित्रमिति॑ प्र-अशित्रम् (2-6-48)
प्राशिष्यामीति॑ प्र-अशिष्यामि॑ (6-5-18)
प्राश्ञन्तीति॑ प्र-अश्ञन्ति॑ (1-7-4)
प्राश्ञन्तमिति॑ प्र-अश्ञन्तम् (2-6-47)
प्राश्ञातीति॑ प्र-अश्ञाति॑ (1-7-22)
प्राश्ञीयादिति॑ प्र-अश्ञीयात् (2-6-42)
प्रत्यख्षमिति॑ प्रति-अख्षम् (1-7-11)
प्रत्यगृ॑ह्णादिति॑ प्रति-अगृ॑ह्णात् (2-4-42)
प्रत्यति॑ष्ठदिति॑ प्रति-अति॑ष्ठत् (3-5-24)
प्रत्यदु॑हन्निति॑ प्रति-अदु॑हन्न् (2-5-17)
प्रत्यव॑रूढ्या इति॑ प्रति-अव॑रूढ्यै (7-3-13)
प्रत्यव॑रोहतीति॑ प्रति-अव॑रोहति (1-7-26)
प्रत्यव॑रोहन्तीति॑ प्रति-अव॑रोहन्ति (3-3-17)
प्रत्यव॑रोहेदिति॑ प्रति-अव॑रोहेत् (5-5-20)
प्रत्यस्येदिति॑ प्रति-अस्येत् (2-6-27)
प्रत्युत्पिपी॑त इति॑ प्रति-उत्पिपी॑ते (1-6-33)
प्रत्यपोर्णुत इति॑ प्रति-अपोर्णुते (6-1-19)
प्रत्यवरोह॑त इति॑ प्रति-अवरोह॑तः (5-5-20)
प्रत्यवरोह॑न्त इति॑ प्रति-अवरोह॑न्तः (7-5-11)
प्रत्यवरोहतीति॑ प्रति-अवरोह॑ति (5-6-36)
प्रत्यवरोहे॑युरिति॑ प्रति-अवरोहे॑युः (7-3-28)
प्रत्यवरोहेदिति॑ प्रति-अवरोहेत् (1-7-26)
प्रत्यवरोह इति॑ प्रति-अवरोहः (1-7-26)
प्रयाजानूयाजा इति॑ प्रयाज-अनूयाजाः (2-6-5)
प्रयाजानूयाजानिति॑ प्रयाज-अनूयाजान् (1-7-1)
प्रेतिरिति प्र-इतिः (3-5-6)
प्रेद्ध इति प्र-इद्धः (4-6-24)
प्रेषि॑ता इति प्र-इषिताः (5-6-2)
प्रोख्षि॑ता इति प्र-उख्षिताः (1-1-7)
प्रोख्षि॑त इति प्र-उख्षितः (5-5-41)
प्रोख्षि॑तमिति प्र-उख्षितम् (7-1-41)
प्रोख्ष॑णीनामिति॑ प्र-उख्ष॑णीनाम् (6-2-38)
प्रोख्ष॑णीरिति॑ प्र-उख्ष॑णीः (1-6-32)
प्रोख्ष॑णमिति॑ प्र-उख्ष॑णम् (2-2-54)
प्रोतेति प्र-उता (5-7-39)
प्रोख्षतीति॑ प्र-उख्षति॑ (2-6-24)
प्रोह्यमा॑ण इति॑ प्र-उह्यमा॑नः (4-4-25)
भूतेष्टका इति॑ भूत-इष्टकाः (5-6-11)
भ्रातृ॑व्यापनुत्त्या इति भ्रातृ॑व्य-अपनुत्त्यै (3-5-27)
भ्रातृ॑व्याभिभूत्या इति भ्रातृ॑व्य-अभिभूत्यै (2-6-5)मन्वि॑द्ध इति मनु॑-इद्धः (2-5-51)
मन्विद्धेति मनु॑-इद्ध (1-6-5)
मण्डलेष्टका इति॑ मण्डल-इष्टकाः (5-3-39)
मन्थ्य॑ग्रानिति॑ मन्थि-अग्रान् (7-2-24)
मैत्रावरुणाग्रानिति॑ मैत्रावरुण-अग्रान् (7-2-22)
यमेष्टमिति॑ यम-इष्टम् (1-8-28)
रिशाद॑स इति॑ रिश-अद॑से (5-6-51)
रिशादस इति॑ रिश-अदसः (4-3-31)
रुद्राव॑सृष्टेति॑ रुद्र-अवसृष्टा (3-5-20)रथाख्षेणेति॑ रथ-अख्षेण॑ (6-6-14)
रोहि॑ताञ्जिरिति रोहि॑त-अञ्जिः (5-5-62)
लोहिताहिरिति॑ लोहित-अहिः (5-5-52)
वाताग्रमिति॑ वात-अग्रम् (1-7-33)
विप्रा॑नुमदित इति विप्र॑-अनुमदितः (2-5-51)
विष्ण्व॑नुस्थित इति विष्णु॑-अनुस्थितः (2-4-38)
वित्तायनीति॑ वित्त-अय॑नी (1-2-22)
विद्मनाप॑समिति॑ विद्मन-अपसम् (3-3-36)
वीन्द्रमिति वि-इन्द्रम् (2-4-36)
वीड्व॑ङ्ग इति॑ वीडु-अङ्गः (4-1-15)
वेद्यन्तस्येति॑ वेदि-अन्तस्य॑ (6-6-14)
व्यख्य इति॑ वि-अख्यः॑ (1-5-48)
व्यति॑षक्ता इति॑ वि-अति॑षक्ताः (6-2-32)
व्यति॑षजेदिति॑ वि-अति॑षजेत्, व्यति॑षजतीति॑ वि-अति॑षजति (6-6-15)
व्यति॑षज्यन्त इति॑ वि-अति॑षज्यन्ते (7-4-14)
व्यति॑षक्तेति॑ वि-अति॑षक्ता (7-4-13)
व्यवादिति॑ वि-अवात् (3-4-8)
व्यव॑सर्पतीति॑ वि-अव॑सर्पति (2-2-47)
व्यव॑साययतीति वि-अव॑साययति (2-1-52)
व्यवैर्यतेति॑ वि-अवैर्यत (7-1-17)
व्यश्ञि॑य इति॑ वि-अश्ञि॑यः (1-7-38)
व्यस्थादिति॑ वि-अस्थात् (4-4-9)
व्यस्यन्निति॑ वि-अस्यन्न्॑ (3-4-43)
व्यान इति॑ वि-अनः (1-7-39)
व्यानमिति॑ वि-अनम् (3-1-23)
व्यानायेति॑ वि-अनाय॑ (1-1-9)
व्यानेनेति॑ वि-अनेन॑ (1-7-7)
व्युच्यमिति॑ वि-उच्यम् (7-3-2)
व्यु॑त्ते इति वि-उत्ते (3-1-28)
व्यु॑प्तकेशायेति वि-उप्तकेशाय (4-5-11)
व्यु॑ष्टाविति वि-उष्टौ (2-5-72)
व्यु॑ष्टिमिति वि-उष्टिम् (1-5-29)
व्यु॑ष्टीरिति वि-उष्टीः (4-3-24)
व्यु॑ष्ट्या इति वि-उष्ट्यै (6-4-36)
व्युच्छन्तीति॑ वि-उच्छन्ती (2-1-59)
व्युच्छन्तीमिति॑ वि-उच्छन्तीम् (1-4-34)
व्युदूह्येति॑ वि-उदूह्य॑ (5-7-42)
व्युन्दन्तीति॑ वि-उन्दन्ति॑ (2-4-21)
व्यृ॑द्धमिति वि-ऋद्धम् (3-4-1)
व्यृ॑द्धेनेति वि-ऋद्धेन (1-6-34)
व्य॑ष्टकेति वि-अष्टका (7-5-19)
व्य॑स्तमिति वि-अस्तम् (1-7-4)
व्यत्यासमिति॑ वि-अत्यासम् (2-3-28)
व्यवसाययादिति॑ वि-अवसाययात् (1-8-11)
शते॑षुध इति शत॑-इषुधे (4-5-4)
शित्यꣳसायेति॑ शिति-अꣳसा॑य (7-3-39)
शुष्काग्रमिति शुष्क॑-अग्रम् (6-3-16)
शुक्रऱ्षभेति॑ शुक्र-ऋषभा (4-3-25)
शुक्राग्रानिति॑ शुक्र-अग्रान् (7-2-23)
शूद्रार्याविति॑ शूद्र-अर्यौ (4-3-19)
शताख्ष॑रा इति॑ शत-अख्षराः (1-5-6)
शतारि॑त्रामिति॑ शत-अरित्राम् (1-5-51)
शतेन्द्रि॑य इति॑ शत-इन्द्रियः (1-5-6)
शस्तोक्थस्येति॑ शस्त-उक्थस्य (1-4-29)
शुक्रऱ्षभेति॑ शुक्र-ऋषभा (4-3-25)
श्येताख्ष इति॑ श्येत-अख्षः (5-6-42)
श्वेतानू॑काशायेति॑ श्वेत-अनूकाशाय (7-3-39)
षोड॑शाख्षरेणेति षोड॑श-अख्षरेण (1-7-44)
सप्तऱ्षय इति॑ सप्त-ऋषयः॑ (4-3-18)
सप्तऱ्षीनिति॑ सप्त-ऋषीन् (3-2-18)
सह॑स्राख्षेति सह॑स्र-अख्ष (4-2-42)
साख्षादिति॑ स-अख्षात् (1-6-24)
साह्न इति॑ स-अह्ने (6-6-41)
साह्नस्येति॑ स-अह्नस्य॑ (6-2-25)
सूद्गातेति सु-उद्गाता (7-1-33)
सून्नीयमिति सु-उन्नीयम् (6-2-20)
सूक्तमिति॑ सु-उक्तम् (4-7-4)
सूक्तयोरिति॑ सु-उक्तयोः (5-4-23)
सूक्तानीति॑ सु-उक्तानि॑ (2-3-52)
सूक्ताभ्यामिति॑ सु-उक्ताभ्याम् (5-4-23)
सूक्तेनेति॑ सु-उक्तेन॑ (5-2-31)
सूक्तैरिति॑ सु-उक्तैः (3-4-42)
सूपायन इति॑ सु-उपायनः (1-5-22)
सूपावसानेति॑ सु-उपावसाना, सूपचरणेति॑ सु-उपचरणा (2-6-54)
सूपसदन इति॑ सु-उपसदनः (7-5-47)
सूपस्था इति॑ सु-उपस्थाः (1-2-5)
सूपस्थानेति॑ सु-उपस्थाना (7-5-47)
सूर्याग्नी इति॑ सूर्य-अग्नी (5-7-44)
सूषेति॑ सु-उषा (4-7-6)
सत्त्राभि॑जितमिति॑ सत्त्र-अभिजितम् (7-5-2)
सत्यानृते इति॑ सत्य-अनृते (5-6-1)
सप्तद॑शाख्षरेणेति॑ सप्तद॑श-अख्षरेण (1-7-44)
सप्तद॑शारत्निमिति॑ सप्तद॑श-अरत्निम् (6-3-18)
सप्ताख्ष॑रमिति॑ सप्त-अख्षरम् (6-1-15)
सप्ताख्ष॑रेणेति॑ सप्त-अख्षरेण (1-7-43)
सप्तार॑त्निमिति॑ सप्त-अरत्निम् (6-3-18)
सप्तऱ्षय इति॑ सप्त-ऋषयः॑ (4-3-18)
सप्तऱ्षीनिति॑ सप्त-ऋषीन् (3-2-18)
समानोद॑र्का इति॑ समान-उदर्काः (5-3-2)
समसनादिति॑ समसन-अत् (3-3-23)
सहऱ्षभेति॑ सह-ऋषभा (2-6-38)
सहस्राख्ष इति॑ सहस्र-अख्षः (2-3-54)
सहस्राख्षायेति॑ सहस्र-अख्षाय॑ (45003)
सहस्राख्षेति॑ सहस्र-अख्ष (4-6-22)
सेन्द्रा इति स-इन्द्राः (2-5-48)
सेन्द्रानिति स-इन्द्रान् (7-3-32)
सेन्द्राविति स-इन्द्रौ, सेन्द्र इति स-इन्द्रः (2-5-22)
सेन्द्रमिति स-इन्द्रम् (2-5-19)
सेन्द्रेति स-इन्द्रा (2-5-22)
सोद॑कमिति स-उदकम् (1-7-22)
स्वङ्ग इति॑ सु-अङ्गः॑ (4-2-4)
स्वपा इति॑ सु-अपाः (1-3-31)
स्वपसेति॑ सु-अप॑सा (5-7-46)
स्ववसेति॑ सु-अव॑सा (2-3-53)
स्वश्वा इति॑ सु-अश्वाः (1-2-31)
स्वश्वि॑यमिति॑ सु-अश्वि॑यम् (3-5-18)
स्वश्व इति॑ सु-अश्वः॑ (1-2-31)
स्वार्थेतामिति॑ स्वार्थ-इताम् (6-2-20)
स्वि॑ष्टिमिति सु-इष्टिम् (3-1-27)
स्वि॑ष्टमिति सु-इष्टम् (2-6-44)
स्वि॑ष्टेनेति सु-इष्टेन (4-6-40)
स्व॑ध्वर्युरिति सु-अध्वर्युः (7-1-33)
स्व॑रङ्कृतेनेति सु-अरङ्कृतेन (4-6-40)
स्व॑र्वाचीति सु-अर्वाची (3-2-16)
स्वङ्गुरिरिति॑ सु-अङ्गुरिः (3-1-38)
स्वधिचरणेति॑ सु-अधिचरणा (2-6-54)
स्वध्यख्षमिति॑ सु-अध्यख्षम् (7-5-47)
स्वध्यवसानेति॑ सु-अध्यवसाना (2-6-54)
स्वध्वर इति॑ सु-अध्वरः (4-4-17)
स्वध्वरमिति॑ सु-अध्वरम् (3-5-35)
स्वध्वरेति॑ सु-अध्वर (4-1-14)
स्वनीकेति॑ सु-अनीक (3-5-33)
स्वपत्यस्येति॑ सु-अपत्यस्य॑ (1-3-29)
स्वपत्यायेति॑ सु-अपत्याय॑ (5-5-21)
स्वपस्यमानेति॑ सु-अपस्यमा॑ना (4-3-25)
स्वपस्य॑येति॑ सु-अपस्य॑या (1-5-47)
स्वरित्रामिति॑ सु-अरित्राम् (1-5-51)
स्वर्का इति॑ सु-अर्काः (1-7-35)
स्वस्त्ययनीति॑ स्वस्ति-अय॑नी (1-2-17)
हिरण्येष्टका इति॑ हिरण्य-इष्टकाः (5-5-22)
हुताद इति॑ हुत-अदः॑ (5-4-19)
हुताद्यायेति॑ हुत-अद्याय (5-7-8)
हृथ्स्वस इति॑ हृथ्सु-असः॑ (4-2-48)
हर्यश्वेति॑ हरि-अश्व (1-7-49) ॥
[ऐतोरैतुं] पराह दक्षिणावृतो [दक्षिणावृतं?] यथायतनं यथायतनादित्येत उभयदीर्घिणः ॥
पराहेति॑ परा-आह॑ (2-5-69)
दक्षिणावृ॑त इति॑ दक्षिणा-आवृतः (5-3-9,20)
दक्षिणावृतमिति तु नास्त्येव ।*
यथायतनमिति॑ यथा-आयतनम्, यथायतनादिति॑ यथा-आयतनात् (7-5-18)[, ऐतोरित्या-एतोः (1-5-43), ऐतुमित्या-एतुम् (2-5-10)] ॥
अगाद्धिषणा त्रिꣳशद्धामोदजयद्धातैद्धरुण उपरिष्टाद्धिनोति ध्वनयिद्धूमगन्धिर्गोजिद्धनजिद्यद्धावेदन्नाद्याद्धावे-देतावद्धा यद्धा[?] चात्वालाद्धिष्णियान््यद्धिष्णियानेतद्धिष्णिया यद्धानाभिरित्येतासु संहितासु पदाध्ययने धकार उत्तरपदादिः ॥
अगाद्धिषणा (1-1-2), त्रिꣳशद्धाम॑ (1-5-10), उद॑जयद्धाता (1-7-43), ऐद्धरुणः॑ (1-7-46), उपरि॑ष्टाद्धिनोति (2-5-19), ध्वनयिद्धूमग॑न्धिः (4-6-44), गोजिद्ध॑नजित् (4-7-32), यद्धावेत्, अन्नाद्याद्धावेत् (5-4-44), एतावद्धा (6-2-48), यद्धा ?, चात्वा॑लाद्धिष्णि॑यान् (6-3-1), यद्धिष्णि॑याः (6-3-5), एनद्धिष्णि॑याः (6-3-2), यद्धानाभिः॑ (6-5-33)
[उपभृद्ध्रुवा (1-1-20), यद्धूम्रः (2-1-57), वसुविद्ध्रुवः, (2-3-35), अशपद्धियाधि॑या (2-6-30), पुरस्ताद्धत्ते (3-5-4,5-3-8,6-6-5,22), अङ्गिरस्वद्ध्रुवा (4-2-17,….), उपदध॑द्ध्यायेत् (5-3-32,5-4-7), पश्चाद्धनुः॑, उत्तराद्धनुः॑ (5-5-31), यद्ध्रुवः (6-5-6,7), तद्ध्रुवस्य॑ (6-5-7), आग्नीध्राद्धिष्णि॑यान् (6-3-1), श्रद्धां, श्रद्धा (1-6-25), श्रद्धया, अश्र॑द्धया (7-5-8)] ।
अत्र संहितायां धकारप्राप्तिः हकारादौ परेऽपि संभवतीति {यथा, यद्ध॑ (1-5-50,2-1-60,2-3-54,4-1-45,4-3-35,4-4-15), यद्धिर॑ण्यम् (2-4-35,6-1-46), यद्धि (2-5-65,6-1-47,49), यद्धस्ते॑न (2-6-50,6-1-23), यद्धुते (3-4-39), यद्धविष्यम् (4-6-40), यद्धस्त॑योः (4-6-42), न्यू॑नाद्धि, भविष्यद्धि (5-1-46), यद्धि॑रण्यशल्कैः (5-4-7), यद्धि॑रण्येष्टकाः (5-5-23), यद्धविः (6-2-7), यद्ध॑विर्धानम् (6-2-47,48,56,58), यद्धुतस्य॑, त्र्या॑वृद्धि (6-3-41), यद्धोष्यामि॑ (6-5-32), यद्धा॑रियोजनीः (6-5-33), यद्धिर॑ण्येन (6-6-2), यद्धोता (6-6-5), यद्ध॑रिणी (7-4-48) इत्यादिषु} तादृशस्थलेषु सन्देहनिरासाय यत्र पदपाठे धकारादित्वम् उत्तरपदस्य, तत् ज्ञाप्यत इति अस्य ब्राह्मणादिषु व्याप्त्यभावः सुगमः, तत्र पदपाठस्य अविद्यमानत्वात् ॥
मूलम् - 1.45
यो हि प्राप्तिः - (वेदेषु तिङन्तपदस्वरनिरूपणम्)
यो हि यद्यतो यावत् सोमे सोममुभयान् विमुक्तः सौम्यो यदि यानि येन यत्र यस्य यस्मिन् ययोर्येषां यासां यथा यस्मात् कस्मात् तेषां आसप्तमपरपदात् स्वरितं वा समासं वा अन्तोदात्तं वा भवति ।
प्रजां पशून् प्राणो वसन्ताय प्र वै सपूर्वश्च । द्वित्वष्टा सोमं तेभ्यः पूर्वं यदग्नेः यत्सौम्यो ब्रह्मवर्चसं यतः पुरोडाशो यद्वेणोर्यत्पुरीषं यदन्तरिख्षं यत्त्रैधातवीयं यद्द्वादशोद्यामं पश्चात्सृष्टꣳ हि पुनर्यद्दशममहः यच्चतुर्थमहः यत्पञ्चममहर्यथ्षष्ठमहर्यथ्सप्तममहस्सोममरक्षन्थ्सोममाहरन्थ्सोममघ्नंस्तस्मिन्नुत्क्रोधो न ह्यासामिति वर्जयित्वा ॥ न वासारुद्वयो पूर्वन्त्रिषु मध्यम् वानः । इति शब्दनिषेधः ।
यः - योऽस्मान्धूर्व॑ति (1-1-5)
हि - हि वाꣳ॑ सुहवा जोह॑वीमि (1-1-26)
यत् - यच्छक्नवा॑म (1-1-27), यदभिजुहुयात् (), यद्यद्भ्रातृ॑व्यस्याभिध्यायेत् (1-7-20), यत्का॑मास्ते जुहुमः (1-8-28,3-2-22), यत्का॑म एना़ञ्जुहोति॑ (5-7-11)
यतः - यतो व्रतानि॑ पस्पशे । (1-3-11)
यावत् - याव॑दग्निहोत्रमासीत्, याव॑दग्निष्टोमेनो॑पाप्नोति॑, याव॑दुक्थ्ये॑नोपाप्नोति॑ (1-6-29), याव॑दतिरात्रेणो॑पा-प्नोति॑ (1-6-30), याव॑दूर्ध्वः प॑राविध्य॑ति (2-4-36), याव॑देवा{स्या}स्ति॑ (2-5-23,{3-5-29},6-3-9,{7-3-6,7-5-14}), याव॑च्च सप्त सिन्ध॑वो वितस्थुः । (3-2-23), याव॑दियꣳ स॑लावृकी त्रिः प॑रिक्राम॑ति (6-2-23), [याव॑देव भे॑षजं तेन॑ करोति (6-4-39) तच्छब्दयोगात् न?; यावत्त्मूतꣳसं व॑पति (6-1-57) इति तु न योग्यम् ।];
{यावच्छः - यावच्छो वै रेत॑सस्सिक्तस्य त्वष्टा॑ रूपाणि॑ विकरोति॑ (1-5-36/37)
यावतः - यावतोऽश्वान्प्रतिगृह्णीयात् (2-3-46), याव॑तः प्रस्कद्य॑ पाꣳसून्थ्स॑ङ्गृह्णात् (2-6-58), याव॑त एव पशूनभि दीख्षे॑त (6-1-31)
यावतीः - याव॑तीः समा॑ एष्यन्मन्ये॑त (2-3-45),याव॑तीर्वाऽऽसा॑महै (7-5-7) [वाक्यादिः?]
यावद्भिः - याव॑द्भिर्वै राजा॑ऽनुचरैरागच्छ॑ति (6-2-2)
यावन्तः - याव॑न्तो गृह्याः स्मः (1-8-10), याव॑न्तोऽस्य रथास्स्युः (3-4-23), याव॑न्तो वै देवा यज्ञायापु॑नत (6-1-10)
यावन्तं - याव॑न्तं मिमी॑ते (6-1-64)}
*सोमे - सोमे प्र स्रुचोऽह॑रन्न्, प्र प्र॑स्तरꣳ हर॑ति (6-3-27) [प्र यूपं - अनेकान्वयि?] [सोमेऽपोर्णुते (6-1-19), सोमे॑ मैत्रावरुणाय॑ दण्डं प्रय॑च्छति (6-1-25), सोम उपै॑ति (6-2-18), सोमेऽध्वर्युः प्रत्यङ्ख्सदोऽती॑यात् (6-3-6)?], [सोमे सोम॑मभिगृ॑ह्णाति (6-5-25), सोमे॑ हन्यमा॑ने यज्ञो ह॑न्यते (6-6-35) अत्र न?]
*सोमम् - प्रत्येव सोम॑ स्थापय॑ति (3-1-8) [प्रति स्तोमं, प्रत्युक्थानि॑ - अनेकान्वयि?]
*उभयान् - उभया॑नन्तराऽपक्रम्याति॑ष्ठत् (6-2-36) [‘ह्ये॑षा रूपं कृत्वा’इति हिपूर्वत्वमत्र युक्तम्!], उभया॑नन्वाभ॑जत्, अन्वाभ॑जति (6-4-28,29)
[‘ये चाव॑रे तान्’ इति यद्वृत्तपूर्वत्रमत्र युक्तम्!]
[उभयान्प्रीणाति । (3-1-16,5-4-20,5-5-46), उभया॑नन्तराऽपक्रम्या॑तिष्ठत् (6-2-34)?]
*विमुक्तः - विमु॑क्तोऽन्यो॑ऽनड्वान्भव॑ति (6-2-1)[समर्थेन अन्यशब्देन स्वरभेदः], [यथा विमु॑क्तं पुन॑र्युनक्ति॑ (6-5-34) इत्यत्र ‘यथा’योगात् स्वरभेदः]
*सौम्यः - (यत्) सौम्यो भव॑ति (2-3-12,6-6-26) [यद्वृत्तात्] [पवित्रं वै सौम्य आत्मान॑मेव प॑वयन्ते (6-6-27) अत्र न]
[*चिह्निताः कोष्टकान्तर्दर्शितप्रकारेण आख्यातस्वरभेदे न पृथग्घेतवः]
यदि - यदि॑ नो जेष्यन्ति॑ (1-5-1)
यानि - यानि॑ घर्मे कपालान्युपचिन्वन्ति॑ (1-1-11)
येन - येन विश्वाः परि द्विषो॑ वृणक्ति॑ (1-2-17), येन॑येन छन्दसाऽनु प्रायु॑ञ्जत (7-4-15)
यत्र - यत्र॑ पीपर॑त् (1-6-48), यत्र॑यत्र न्यक्रा॑मत् (2-6-36), यत्र॑यत्र कामय॑ते (4-6-28), यत्र॑यत्राव॑सत् (5-1-4), यत्र॑यत्रैव मृत्युर्जाय॑ते (सं. 5-6-11; ब्रा. 1-7-45), यत्र॑यत्र जातवेदः संबभूथ॑ । (ब्रा. 1-2-22), स यत्र॑यत्र पराक्र॑मत । (आ. 8-16).
यस्य - यस्यामतिर्भा अदि॑द्युतत् (1-2-13)
यस्मिन् - यस्मिन्थ्सꣳ सौभ॑गानि दधिरे (1-3-26)
ययोः - ययोः प्राणोऽसि॑ (2-3-38)
येषां - येषां भागः स्थ(1-3-23)
यासां - यासाꣳ राजा वरु॑णो याति॑, यासान्देवा दिवि कृण्वन्ति॑ (5-6-1; ए. 1-2)
यथा - यथा॑ शार्याते अपि॑बः (1-4-19)
यस्मात् - यस्मा॑देव योनेः प्रजाप॑तिः पशूनसृ॑जत (2-4-33)
*कस्मात् - कस्माथ्सत्याद॑नस्थिके॑न प्रजाः प्रवीय॑न्ते (6-1-46), कस्माथ्सत्यादेक॑पात्रा द्विदेवत्या॑ गृह्यन्ते (6-4-39)
[अन्यत्र चतुर्दशस्थलेषु प्रश्नार्थक इति साकाङ्क्षवाक्यत्वमेव हेतुः ।]
प्रजां (पूर्वः) -
पशून् (पूर्वः) -
प्राणः (पूर्वः) -
वसन्ताय प्र (पूर्वः) - अह॑ वसन्ताय प्राय॑च्छत् (7-2-37)
वै (पूर्वः) -
सः (पूर्वः) - सो॑ऽरोदीत् (1-5-1)
अथ वर्जनीयाः -
द्वि त्वष्टा - वीन्द्रꣳ सोममाह॑रत् (2-4-36,2-5-8), यदेवादः सोममाह॑रत् (6-1-42), सोमम्, तेभ्यः पूर्वं - सोम॑मरख्षन्तेभ्योऽधि सोममाह॑रन्न् (6-1-70), सोम॑मरख्षन्न् (6-3-2)
यदग्नेः - ?
यत्सौम्यो ब्रह्मवर्चसं - यत्सौम्यो ब्र॑ह्मवर्चसन्तेन॑ कृष्णग्री॑व आग्नेयो भ॑वति (2-1-14) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
[यत्सौम्यो ब्र॑ह्मवर्चसन्तेनाग्नेयस्य॑ च सौम्यस्य॑ चैन्द्रे समाश्ले॑षयेत् (2-3-16) आख्यातात्पूर्वं तच्छब्दघटितत्वेऽपि कथम्?]
यतः पुरोडाशः - यतः पु॑रोडाशः॑ कूर्मो भूत्वाऽनु प्रास॑र्पत् (5-2-44) [अत्र यतः इति सुबन्तम्, अतः स्वरभेदे न स्वरूपयोग्यत्वम्]
यद्वेणोः - यद्वेणोः सुषिरꣳ सु॑षिराऽभ्रि॑र्भवति (5-1-4) [वाक्यभेदः]
यत्पुरीषं - यत्पुरी॑षमग्निमेव वैश्वानरञ्चि॑नुते (5-6-26) [वाक्यभेदः]
यदन्तरिख्षं - यदन्तरि॑ख्षन्तदु॑ मे पिताऽभूत् (3-5-16) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
यत्त्रैधातवीयं - यत्त्रै॑धातवीयं कामा॑यकामाय प्रयु॑ज्यते, सर्वे॑णैव यज्ञेन॑ यजते (2-4-31,32,34) [वाक्यभेदः]
यद्द्वादशोद्यामं - यद्द्वाद॑शोद्यामꣳ सव्वँथ्सरेणैव मौञ्जं भ॑वति (5-1-55) [वाक्यभेदः]
पश्चात्सृष्टꣳ हि - पश्चात्सृष्ट ह्येका॑दशानूयाजान् य॑जति (6-3-62) [वाक्यभेदः]
पुनः - ?
यद्दशममहः - यद्द॑शममह॑र्दशमेऽह॑न्नैन्द्रवायवो गृ॑ह्यते (7-2-31) [वाक्यभेदः]
यच्चतुर्थमहः - यच्च॑तुर्थमहस्तस्मि॑न्नाग्रयणो गृ॑ह्यते (7-2-32) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
यत्पञ्चममहः - यत्प॑ञ्चममहस्तस्मि॑न्नैन्द्रवायवो गृ॑ह्यते (7-2-32/33) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
यथ्षष्ठमहः - यथ्षष्ठमहस्तस्मि॑ञ्छुक्रो गृ॑ह्यते (7-2-33) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
यत्सप्तममहः - यत्स॑प्तममहस्तस्मिन्नुथ्सृ॑जेयुः (7-5-20) [आख्यातात्पूर्वं तच्छब्दघटितत्वात् न]
सोममरख्षन्न् - सोम॑मरख्षन्न् (6-1-70,6-3-2)
सोममाहरन्न् - सोममाह॑रन्न् (6-1-70), सोममाहरत् (2-4-36,2-5-8,6-1-42)[?]
सोममघ्नन्न् - सोम॑मघ्नन्न् (6-2-11,6-3-40)
तस्मिन् - तस्मि॑न्प्रजाप॑तिर्वायुर्भूत्वाऽच॑रत् (7-1-14)
उत्क्रोदं - न ह्यासां - न ह्या॑सामिषमूर्ज॑मादद॑त उत्क्रोदं कु॑र्वते (7-5-29) इति वर्जयित्वा ॥
योहिप्राप्तिः (वेदेषु तिङन्तपदस्वरनिरूपणम्)
षड्विंशतिमिते सूत्रे तैत्तिरीयस्य लक्षणे । योहीत्यादिप्रकरणे ह्याख्यातस्वरनिर्णये ॥
अनुक्तपूरणार्थोऽयमारम्भः क्रियतेऽधुना । वात्स्यरामानुजार्येण तैत्तिरीयमधीयता ॥
अग्निहोत्रोपाह्वरामावरजेन विपश्चिता । वेदलक्षणवित्त्यर्थं कृते ग्रन्थोत्तमे पुरा ॥
सिद्धाञ्जनाख्यया युक्तेऽप्युक्तांशानुपजीव्य च । वेदवेद्यस्य तृप्त्यर्थं तथा वेदविदामपि ॥
भगवद्दत्तसामग्रिः तनवै च तदर्पणम् । सगुणत्वे प्रसादश्च सदोषत्वेऽर्थ्यते क्षमा ॥
अस्य सूत्रस्य विषयभूताः तिङन्तशब्दा एव इति प्रकरणादिभ्यः ज्ञायते । ‘अनुदात्तं पदमेकवर्जमि’ति (पा.सू. 6-1-158), ‘फिषोऽन्त उदात्तः’ (फि.सू. 1) इति शान्तनवसूत्रेण च सुबन्तपदानां (व्यस्तानां) एकोदात्तत्व-ज्ञापनात् तिङन्तपदानामेव विचारोऽत्र युज्यते । तिङन्तानां उत्सर्गतः सर्वानुदात्तत्वं ‘तिङ्ङतिङः’ (पा.सू. 8-1-28) इति सूत्रात् लभ्यते । अत्र ‘निपातैर्यद्यदि हन्त ..’ (8-1-30), ‘हि च’ (8-1-34), ‘चवायोगे प्रथमा’ (8-1-59), ‘एकान्याभ्यां समर्थाभ्याम्’ (8-1-65), ‘यद्वृत्तान्नित्यम्’ (8-1-66), ‘तिङि चोदात्तवति’ (पा.सू. 8-1-71), आमन्त्रितस्य च (पा.सू. 8-1-19), ‘आमन्त्रितं पूर्वमविद्यमानवत्’ (8-1-72) इत्यादिबहुमूलशास्त्रसूत्राणामपि परामर्शेन तिङन्तस्वराणां निर्णयः कार्यः, स च विस्तरेण ज्ञेय इति विव्रियते । अत्र ‘योहि’प्राप्तेः स्वरितत्वं, अन्तोदात्तत्वं, समासत्वं च विधीयमानं तादृशनिमित्तभूतशब्दात् परेषु तमभिव्याप्य सप्तमपदान्तर्गतेषु विद्यमानतिङन्तस्येति ज्ञेयम् । आसप्तमपरपदादिति किम्? यास्ते॑ सहस्रꣳ॑ हेतयोऽन्यमस्मन्नि व॑पन्तु (4-5-25), यैवास्य॑ घोरा तनूस्तान्तेन॑ शमयति, यैवास्य॑ शिवा तनूस्तान्तेन॑ प्रीणाति (5-7-11; ब्रा. 1-1-58 च द्रष्टव्यम्) इत्युभयत्रापि अष्टमत्वात् न । वस्तुतः अत्र अनुवादकत्वाभाव एव हेतुः मन्तव्यः, यतः यच्छब्दस्य विशेषणत्वं व्यक्तम् अत्र । आख्यातात्पूर्वं तच्छब्दघटितत्वञ्च अनुवादक-त्वभञ्जकम् । याः स्त्रियः सम॑नसस्ता अहं का॑मये, ये स॑जाताःकु॑मारास्सम॑नसस्तानहं कामये (2-3-35, 36), याश्च॑ ते हस्त इष॑वः परा ता भ॑गवो वप । (4-5-3/4), या इष॑वस्ता ज॑यन्तु । (4-6-18), या उ॑त्तमास्ता यज॑मानव्वाँचयति (5-4-13), याः पा॑वकास्ता न आपश्श स्योना भ॑वन्तु । (5-6-1), याः प्रा॑यणीय॑स्य पुरोनुवाक्यास्ता उ॑दयनीय॑स्य याज्याः करोति (6-1-38), या एव मेध्या॑ यज्ञियास्सदे॑वा आपस्तासा॑मेव गृ॑ह्णाति (6-4-8), याः प्र॑थमा यज्ञन्ताभिस्म्भ॑रति, या द्वितीया॑ यज्ञन्ताभिरा र॑भते (7-2-39), यास्तृतीयाः पात्रा॑णि ताभिर्निर्णे॑निक्ते, याश्च॑तुर्थीरपि ताभि॑रात्मान॑मन्तरतः शु॑न्धते (7-2-40), या प्र॑थमा व्य॑ष्टका तस्या॑मुत्सृज्यमित्या॑हुः (7-5-19), यास्ते॑ सोम प्राणाꣳस्ताञ्जु॑होमि । (आ. 6-63); या मा॑नुषी मेधा सा मामावि॑शतात् (ए. 2-4) इत्यादिष्वप्येतत् स्फुटम् । (ये पायवो॑ मामतेयन्ते॑ अग्ने पश्य॑न्तो अन्धन्दु॑रितादर॑ख्षन्न् । (1-2-32), यस्मै त्वꣳ सुकृते॑ जातवेद उ लोकम॑ग्ने कृणवः॑ (1-4-52), यो ब्राह्मणस्सन्ना तृतीयात्पुरु॑षात्सोमं न पिब॑ति (2-1-33/34), यदेतया॑ देवा असु॑राणामोजो बल॑मिन्द्रियं वीर्यं॑ प्रजां पशूनवृ॑ञ्जत (2-4-11), याश्च॑ माया मायिनाव्विँश्वमिन्व त्वे पूर्वीस्स॑न्दधुः (3-1-40/41), यास्ते रात्रीस्सवितर्देवयानी॑रन्तरा द्यावा॑पृथिवी वियन्ति॑ । (3-5-12/13), यास्ते॑ अग्ने सूर्ये रुच॑ उद्यतो दिव॑मातन्वन्ति॑ (4-2-39), यत्ते॑ सादे मह॑सा शूकृ॑तस्य पार्ष्णि॑या वा कश॑या वा तुतोद॑ । (4-6-44/45),
यस्मिन्थ्सूर्या अर्पि॑ताः सप्त साकम् । तस्मिन्राजा॑नमधि विश्र॑य (ब्रा. 2-7-51), यस्माज्जाता न परा नैव किञ्चनास॑ (आ. 6-21), यथा वै पर्जन्यः सुवृ॑ष्टं वृष्ट्वा । प्रजाभ्यः सर्वान्कामान्थ्संपूरय॑ति । (का. 2-61),
ये ग॑न्धर्वा अ॑प्सरस॑श्च देवीरेषु वृक्षेषु॑ वानस्पत्येष्वास॑ते । (ए. 1-7), याꣳ स्वस्तिमग्निर्वायुस्सूर्य॑श्चन्द्रमा आपोऽनु॑ सञ्चर॑न्ति (ए. 2-3), या दैवीश्चत॑स्रः प्रदिशो वात॑पत्नीरभि सूर्यो॑ विचष्टे । (ए. 2-12), यत्ते॑ऽमावास्या॑याञ्च पौर्णमास्याञ्च विष॑बलिꣳ हर॑न्ति (ए. 2-17) इत्यादिषु सप्तमपदादूर्ध्वमपि कार्यदर्शनात्) तच्च प्रायिकविषयमिति, वस्तुतः साकाङ्क्षत्वमेव हेतुरिति, वर्ज्यत्वेनोक्तपदसमभिव्याहारादिभिः च स्पष्टम् । भूमिरिति॑ त्वा जना॑ विदुर्निर््ऋ॑तिरिति॑ त्वाहं (4-2-20) इत्यत्र अन्ये जनाः एवं विदुः अहं तु अन्यथेत्यर्थेन सापेक्षत्वेन, त्वं नक्ष॑त्राणां मेथ्यसि॑ (ए. 1-9) इत्यत्र स मा पाहीत्युत्तरत्र तच्छब्दसत्त्वात् तदन्वयाय यच्छब्दाध्याहारस्यपेक्षितत्वात् स्वरभेदः ॥
व्याकरणे वेदलोकसाधारणत्वेन सर्वशाखासाधारण्येन च आख्यातस्वराः निरूपिताः इति तत्तच्छाखागता-ख्यातस्वरनियमार्थं योहिप्रकरणं प्रवृत्तम् । अस्य सूरिभट्टीय,सुन्दरराजीयादि व्याख्यानसत्त्वं, तदनुसारेण विषयप्रतिपादनं च श्रीमद्भिः श्रोत्रियवरैः अग्निहोत्रं रामानुजताताचार्यमहाभागैः स्वकीये वेदलक्षणसिद्धाञ्जने सम्यक् विहितम् । तस्य च विमर्शपुरस्सरं अत्र विषयाः निरूपिताः ।
[पदस्य (8-1-16)] तिङन्तस्य {1-1-72} अतिङः [पदात् (8-1-17) {परं - 1-1-67} अनुदात्तं (8-1-18)] इति तिङ्ङतिङः (8-1-28) इति पूर्वशास्त्रवत् अत्रापि अनुदात्तमाख्यातम् (फि.सू.?) इति
उत्सर्गतः आख्यातानांअनुदात्तस्वरः प्राप्तः । अस्मात्, वायवः॑ स्थ, प्रति॑गृह्णातु इत्यादिस्थलेषु अनुदात्तस्वरः उपपद्यते ।
अथ बहुविधापवादानां विचारः क्रियते । तत्रापि,पूर्वोक्त यद्वृत्तान्नित्यं (), चादिलोपे विभाषा (पा.सू. 8-1-63), हि च () इत्यादिपूर्वशास्त्रोक्तविधय एव प्रकारान्तरेण प्रकाश्यन्ते ।
अर्धादिः पादादिश्च (फि.सू.?)इति वाक्यपादानां प्रारम्भेस्थिताख्यातानां उदात्तस्वरः नियतः । अस्मात्, दहाशसो॑ रख्षसः॑ पाह्य॑स्मान् (1-2-33), याहि साध्या हविः (5-1-59) इत्यादौ आख्यातानि सोदात्तानि ।
यच्छब्दस्य लिङ्गत्रयेऽपि एकविंशतिविभक्तीनामन्वयवत्सु आख्यातेषु सोदात्तत्वम् यद्वृत्तान्नित्यमित्युच्यते । यः कामये॑त (2-1-9,…), या रज्जुꣳ॑ सृजति॑ (2-5-7), यान्यासन्थ्सवितुः (ब्रा. 1-2-13),
इत्यादिषु यः इत्यादयः आख्यातान्वयादेव उदात्तवन्तः ।तथैव यथा, यदा, यदि, यावत्, यर्हि, यत्र इत्यादिपदान्वय्याख्यातस्यापि उदात्तः विधीयते । यथा ख्षेत्रवित् (5-2-45) ख्षेत्रज्ञोऽञ्ज॑सा नय॑ति (ब्रा. 3-8-87), यदा वा जीये॑रन्न् (7-2-4), यदि नश्येत् (2-6-19), याव॑देवा{स्या}स्ति॑ ({2-5-23,3-5-29,6-3-9},7-3-6,7-5-14; ब्रा. 1-3-44,2-2-7), यर््हि होतेडा॑मुपह्वये॑त (1-7-2), यर््हि॑ पशुमा-प्री॑तमुद॑ञ्चन्नय॑न्ति (3-1-10), यत्रैव देवा अश्र॑यन्त (2-5-39) इत्यादिषु उदात्तप्राप्तिः । यदनेन॑ हविषाशास्ते (ब्रा. 3-5-24) इत्यादिषु यदादियोगसत्त्वेऽपि आख्याते उदात्ताभावः अपवादसूत्रात् सिध्यति ॥
लोके यदादियोगेन वाक्ये प्रयुज्यमाने सामान्यस्थलापेक्षया स्वरभेदः सम्प्रतिपन्नः । तथैव वेदे स्वरभेदसद्भावावगमकान्येतानि सूत्राणि । अत्र अन्यवाक्यसाकाङ्क्षत्वेन रूपेण आख्यातस्वरभेदकारणवर्णनं न युज्यते, यो भ्रातृ॑व्यवान्थ्स्यात् स एताञ्जु॑हुयात् (3-4-18) इत्यादिस्थलेषु तच्छब्दघटितवाक्येष्वपि स्वरभेदप्रसङ्गात् । साकाङ्क्षनिराकाङ्क्षत्वे तु न आख्यातनिष्ठे, अपितु तदन्वयिपदान्तरनिष्ठे । अत्र सोदात्ताख्यातघटितप्रथमवाक्ये यः इत्येव वाक्यान्तरसापेक्षः । तथैव सः इत्युत्तरवाक्यस्थेऽपि स्वरभेदः अनिवार्यः । अत एव सूत्रकाराः साकाङ्क्षत्वादीन् अनुक्त्वा यदादियोगमेव आख्यातोदात्तकारणमभ्यधुः । अनुवादकत्वेन प्रथमाख्यातस्वरभेदनिर्वाहमभिप्रयन्ति बहवः । यथ्स॑मीचीनं॑ पशुशीर््षैरु॑पदध्यात् (5-2-53) इत्यत्र सर्पशीर्षमुप॑दधाति (5-2-52) इति विध्यन्तरप्राप्तानुवादकत्वं, यं कामये॑त पशुमान् (6-3-16) इत्यत्र लोकसिद्धानुवादकत्वं च स्वरभेदसत्त्वे स्वरसकारणतां भजेत् । अवान्तरक्रियापदत्वेन स्वरभेद इति चेत् आख्यायिकासु, तिस्रः पुर॑ आसन्न् (6-2-8) इत्यादिषु सर्वानुदात्तस्वरे अधीयमाने उदात्तस्वरापत्तिः प्रसजति ।अतः यदादियोग एव स्वरभेदकारणमित्येव निरवद्यम् ॥
हियुक्ताख्यातञ्च सोदात्तं भवति । अस्मादेव, अति ह्यप्र॑वत (7-1-2) इत्यादिषु आख्याते उदात्तः । प्रायः हि इत्येतत् अनुवादबोधकम्, स ह्ये॑तेनाग्रेऽय॑जत (7-1-4,7-2-38), हि ते तां प्रावे॑शयन्न् (6-1-2) इत्यादिषु चैतत्स्पष्टम् । अन्यतस्सिद्धार्थानुवादकत्वेन प्रसिद्धेषु वै इत्यादिनिपातानां मध्ये [इन्द्राणी वा अग्रे॑ देवता॑नाꣳ सम॑नह्यत (ब्रा. 3-2-13)] हि इति पदेन अनूद्यमान एव स्वरभेदः इति सूत्रकाराभिप्रायः ।
च, वा, एक, अन्य, इत्यादिशब्दान्वयिनः प्रथमाख्यातस्य स्वरे भेदः (उदात्त इति यावत्) तत्प्र च॑ सुव प्र च॑ यज (3-2-26), यज्ञो वा वै यज्ञप॑तिं दुहे (3-2-27/28), सूर्यस्यैका चर॑ति निष्कृतेषु॑ (4-3-25),
प्राची॑रन्या आहु॑तयो हूयन्ते (6-44-5), आऽन्यः क्रोश॑ति (7-5-30), परोख्षं वा अन्ये देवा इज्यन्ते प्रत्यख्ष॑मन्ये (1-7-11), दख्षं॑ मे अन्य आवातु॑ । पराऽन्यो वा॑तु (ब्रा. 2-4-8; आ. 7-90) इत्यादीन्यत्रोदाहरणानि ॥
अत्र अर्थैक्यप्रतिपादकविशिष्टवाक्यस्थप्राथमिकतिङन्तपदमेव प्रथमपदवाच्यम् । चकारस्य समुच्चेयपदार्थान्त-रापेक्षा, विकल्पार्थकवाशब्दस्य पदार्थान्तरापेक्षा च विद्यते ।
तत्प्र च॑ सुव प्र च॑ यज इत्यत्र वाक्यद्वयेऽपि चकारस्य सत्त्वेऽपि, तयोः परस्परसाकाङ्क्षत्वेऽपि पाठक्रमगतप्रथमचकारस्यैव स्वरभेदकत्वं, द्वितीयवाक्यगतस्य साकाङ्क्षस्यापि तस्य न तदिति ।
ईड्यश्चासि वन्द्य॑श्च, आशुश्चासि मेध्य॑श्च (5-1-56), चितश्चासि सञ्चि॑तश्चासि, एतावाꣳश्चासि भूयाꣳ॑श्चासि (का.1-6,2-33), वर्ध॑स्व चाप्या॑यस्व च (ए. 2-6) इत्यादीनि च उदाहरणान्तराणि ।
एकान्यशब्दौ साकाङ्क्षौ चेदेव तत्संयुक्ताख्यातस्य स्वरभेदः । प्रजामेका रक्षत्यूर्जमेका (4-3-21) इत्यत्र यद्यपि वाक्यद्वयेऽपि एकशब्दोऽस्ति, तथाऽपि पाठक्रमे प्रथमभूत एकपदस्यैव स्वरभेदकत्वम् ।
एका॑मेव य॑जेत (2-5-29) इत्यत्र एकशब्दस्य साकाङ्क्षत्वाभावादेव न स्वरभेदः । आऽन्यः क्रोश॑ति प्राऽन्यः शꣳ॑सति इत्यत्र प्रथमस्य अन्यशब्दस्यैव एवं स्वरभेदकत्वम् । अन्या दक्षि॑णा नीयन्ते (ब्रा. 3-3-59),
[अन्या देवता॑ऽऽसीत् (2-4-38)] इत्यत्र अन्यशब्दस्य साकाङ्क्षत्वाभावादेव न स्वरभेदः ॥
चकारवाकारौ गम्यौ चेदपि (तयोः अदर्शने सत्यपि इति यावत्) प्रथमाख्यातस्य स्वरभेदकत्वं भवति । स द्यामौर्णोत् (2-2-64) इत्यत्र प्रजापतिः स्तूयते । तत्राभिधेयानां गुणानां समुच्चय एव । अपितु अत्र चकारः
न पठितः । अत्र और्णोत् इत्याख्यातस्य सोदात्तत्वात् चकारः अध्याहार्यः । (सः द्याञ्चौर्णोदन्तरिख्षञ्चौर्णोत् इति) । तस्मादेव प्रथमस्य और्णोदित्याख्यातस्यैव स्वरभेदः । न ख्षोधु॑को भव॑ति
नास्य॑ रुद्रः पशूनभिम॑न्यते (1-6-24), यथा॑ऽऽदित्या वसु॑भिः सम्बभूवुः मरुद्भी॑ रुद्रास्समजा॑नताभि । (2-1-63) इत्यत्र दृष्टान्तद्वयस्य सापेक्षत्वं दार्ष्टान्तिके विद्यमानत्वात् गम्यमान चवार्थत्वम् ।
तच्च यथा आदित्याः वसुभिः संबभूवुः, यथा च (/वा) रुद्राः मरुद्भिः अभिसमजानत, तथा उक्तलक्षणाः विश्वेदेवाः अस्मभ्यं अस्माकं वा समनसः भवन्त्विति प्रार्थनारूपत्वादस्य मन्त्रस्य ।
ख्षोधु॑कोऽध्वर्युः स्यात् ख्षोधु॑को यज॑मानः (6-1-59) (क्षोधुकश्च न भवति, रुद्रश्चास्य पशून्नाभिमन्यते; अध्वर्युश्च क्षोधुकः स्यात् स यजमानश्च क्षोधुकः स्यात्), येन जया॑सि [न पराजया॑सै] (2-4-70)
{अन्वयव्यतिरेकाभ्यामुक्तार्थसमुच्चयः दृढीकरणञ्चात्र}, यस्मि॑न्वीरो न रिष्य॑त्यन्येषां विन्दते वसु॑ । (ए. 1-6) इत्यादिषु च चादिलोपे विभाषा इत्यनेन उपपत्तिर्ज्ञेया ।
द्वयोर्वाक्ययोः एकाख्यातविवक्षायामपि चकाराध्याहारः एव अभिमतः, यथा - आ सोमं वह॑न्ति, अग्निना प्रति॑तिष्ठते (6-1-76), मा भेर्मा सं वि॑क्थाः (1-1-5) इत्यादौ ।
कपालै॑रेव छन्दाꣳ॑स्याप्नोति॑ पुरोडाशैः सव॑नानि (2-2-52), अग्निरमुष्मि॑ल्लोँक आसीद्यमोस्मिन् (2-6-33), अन्नाद्ये॑न देवा अग्निमुपाम॑न्त्रयन्त, राज्येन॑ पितरो॑ यमं (2-6-34), इयं ममास्तु॑ एतद्युवयोः (7-1-21) बृहस्पति॑र्देवानां पुरोहि॑त आसीच्छण्डामर्कावसु॑राणाम् (6-4-42), एतत्त्वमसीदमहं भू॑यासं (1-5-30) इत्यत्रापि ।
वस्व्य॑सि रुद्रासि॑ (1-2-11) इत्यत्र सोमक्रयण्या एव विशेष्यत्वेऽपि, समुच्चये योग्येऽपि, स्वरभेदो नास्ति, स्वरितवतः पदस्य सत्त्वात् । चादिलोपे विभाषा (पा.सू. 8-1-63) ।
स्वरितशिक्षया स्वरितवतां पदानां नियमः क्रियते ॥
नेत्, कुवित्, अह इति निपातैः युक्तस्य आख्यातस्य स्वरभेदः विधीयते । नेदेष त्वद॑पचेतया॑तै (1-1-23), विराजं नेद्वि॑च्छिनदानीति॑ (7-1-18), कुवित्सु नो गवि॑ष्टयेऽग्ने॑ संवेषि॑षः (2-6-63), कस्य वाऽह॑ देवा यज्ञमागच्छ॑न्ति कस्य॑ वा न (1-6-21), किं वाऽहैतस्य॑ क्रियते किं वा न (5-3-1,5-7-33) इत्यादयः अत्र लक्ष्यभूताः । अग्निरेवास्मै प्रजां प्र॑जनय॑ति (2-2-18,2-5-28), अग्निरेवास्मै॑ पशून् प्र॑जनय॑ति (2-3-13), तस्य वरु॑ण एवर्णयात् (1-5-9), देवता॑भिरेव देवताः प्रतिचर॑ति, एव यज्ञञ्च॑ मध्यतो व्यव॑सर्पति (2-2-47), [कपालै॑रेव छन्दाꣳ॑स्याप्नोति॑ पुरोडाशैः सव॑नानि (2-2-52)?]
इत्यादिस्थलेषु एवकारस्यापि स्वरभेदकत्वं इष्यते इति दिक् ॥
यद्द्वाद॑शोद्यामꣳ सव्वँथ्सरेणैव मौञ्जं भ॑वति (5-1-55) इत्यादिस्थलेषु यदादयः वाक्यान्तरस्था इति स्वरभेदप्रसक्तिः नास्ति । यद्द्वादशोद्याममिति शिक्यब्राह्मणगतम् । तत्र मौञ्जं भवति इति शिक्यद्रव्यविधिः ।
ततः पूर्वं पठितं यद्द्वाद॑शोद्यामꣳ सव्वँथ्सरेणैव इति वाक्यं द्वादशोद्यामार्थवादभूतं तत्रैव अवसन्नम् । अत्रत्य यच्छब्दः अर्थवादगतः नतु विधिगत इति विधिवाक्यस्थ भवति इत्याख्यातस्य स्वरभेदको न भवति ।
भिन्नवाक्यत्वात् इति हेतोः ।
निमित्ताभासाः - यतः पु॑रोडाशः॑ कूर्मो भूत्वाऽनु प्रास॑र्पत् (5-2-44), यतो रख्षाꣳ॑स्यजिघाꣳसन्न् (6-3-7) इत्यत्र तु यतः इत्यस्य शत्रन्तत्वेन (अत्र द्वितीयाबहुवचनं) यद्वृत्तत्वाभावात् स्वरूपयोग्यतैव नास्ति आख्यातस्वरं भेत्तुमिति च ज्ञेयम् ॥ तस्मान्नानादेवत्या॑नि सन्ति॑ वायव्यान्युच्यन्ते (6-4-32) इत्यत्र सन्ति इत्येतत् सुबन्तं शत्रन्तत्वेन (अत्र प्रथमाबहुवचनं) तिङन्तत्वाभावात् तस्य स्वरविचारः अत्र न विषयः प्रसक्तः वा इति ज्ञेयम् ॥ एवमेव आवत् इति सुप्तिङन्तयोः रूपसम्भवात् यत्र तिङन्तं तत्रैव योहिप्राप्त्या विचार इति स्फुटम् । यथा - एक॑ एवावत्पूर्वः॑ (6-4-36), भागधे अ॑सावावदधि॑ (2-5-37/38) इत्यादौ सुबन्ते अस्मच्छब्दद्विवचनरूपं (अन्तोदात्तं); विष्णुर्यद्धावद्वृष॑णं (4-1-45), ह्ये॑नानाव॑त् (6-2-35) इत्यादौ तिङन्तं, अवधातोः लङि रूपं, स्वरश्च (आद्युदात्तं) योहिप्राप्त्या नियम्यते इत्यवधेयम् ॥
वेदेषु आख्यातानामुपसर्गैः सह समासः भवति । वैयाकरणैरप्यभ्युपगतोऽयं, ‘सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥’ इति (सि.कौ. 1-2-73) । प्रातिशाख्यादिषु च प्रसिद्धः ।
‘स्वरितं वा समासं वा’ इत्यत्र वाकारः, वायुर्वा त्वा मनु॑र्वा त्वा (1-7-33) इत्यत्रेव समुच्चयार्थकः । सोपसर्गस्थलेषु अयं विधिः स्वरित (अथवा अन्तोदात्त) उपसर्गसमास उभयसमुच्चायकः भवति ।
अत्र विधौ यः इत्यादयः प्रत्येकमनुयन्ति । अत्र व्याख्याता उपसर्गसमासनिरूपणप्रकरणे ‘स्पष्टमुक्तं पार्षदान्तरे’ इत्युक्त्वा उपसर्ग आख्यातेनोदात्तेन समस्यते, अनेकोनुदात्तेनापि इति शौनकपार्षदेन उपसर्गसमासं निरूपयति ।
अत्रापि तथैव विव्रियते ॥
आख्यातनिष्ठोदात्तस्वरः स्वाव्यवहितपूर्ववृत्त्येकोपसर्गेण समासप्रयोजकः । यदु॑पदधा॑ति (5-2-53) इत्यत्र दधाति इत्याख्यातस्य उदात्तत्वात् तदव्यवहितपूर्ववर्तिना उप इत्यनेन उपसर्गेण समासः । तथा च, एकोपसर्गसमासस्य आख्योतादात्त एव कारणम् । यं पाञ्च॑जन्यं बहवः॑ समिन्धते (4-7-33) । व्यादि॑शत् (1-7-12) इत्यादिस्थलेषु आख्यातस्यानुदात्तत्वादेव एकोपसर्गसमासं विहाय उपसर्गद्वयसमासः प्रसक्तः ।
कुत्रचित् अनुदात्ताख्यातेन उपसर्गसमासाभावश्च श्रुतिस्वातन्त्र्यप्रयुक्तः । तथैव, यत्प॑र्यावर्तयेत् (6-4-1) इत्यत्र एकौपसर्गसमासेनैव चरितार्थे, द्व्युपसर्गसमासश्च स्वातन्त्र्यप्रयुक्त एव । यदिमाल्लोँकानभ्य॑तिरिच्या॑तै (2-3-27) इत्यत्रेव एकोपसर्गसमास एव पर्याप्तः किल? अतः उदात्ताख्यातेन एकद्व्याद्युपसर्गसमासः, अनुदात्ताख्यातेन उपसर्गद्वयस्यैव समासश्च सिद्धः । यत्त्रिः प्राय॑च्छत्(2-4-42) इत्यादिस्थलेषु आख्यातस्य उदात्तत्वेऽपि उपसर्गसमासाभावः अपवादवचनैः ज्ञायते । उपसर्गसमाससत्त्वे गतिर्गतौ, तिङि चोदात्तवति (पा.सू. 8-1-70,71) इत्यादिसूत्रैः स्वरः निर्णीयते ॥
अत्र तिङ्ङतिङः इत्यस्य उदाहरणानि यथा - अनन्तरश्रुततिङन्तद्वये -
समानपदरूपे - तृप्य॑त तृप्य॑त तृप्य॑त । (ए. 2-2); ता वि॑ष्णो पाहि पाहि यज्ञं (1-1-20), यथापूर्वं क॑ल्पन्ते कल्प॑न्तेऽस्मै (1-6-43), सुवो रोहा॑व रोहा॑व हि (1-7-38), भागधेयेनोप॑धावति धाव॑ति वाजम् (2-2-20), अन्न॑मदन्त्यदन्त्यु॑वेव (2-3-32), सर्वग॑णं मा तर्पयत तर्पय॑त मा (3-1-23), उतैन॑ङ्गोपा अ॑दृशन्नदृ॑शन्नुदहार्यः॑ (4-5-3), सर्वं॑ पाप्मानं॑ तरति तर॑ति ब्रह्महत्यां (5-3-47/48), उपाव्याधो भ॑वति भव॑त्यात्मना (7-2-16); यद्युवे युवे ह वा (आ. 6-19), देहि देहि ददापयिता (6-75), सुबी॑रिण सृज सृज शुन॑क सृज॑ (ए. 2-16) अत्र सुबामन्त्रिते पराङ्गवत्स्वरे इति प्रथम सृजशब्दः वाक्यादित्वात् सोदात्तः, द्वितीयः तिङ्ङतिङः इति, पुनः शुनकेति संबोधनं, ततः सृजेति वाक्यादिः ।
असमानपदरूपे - असि धूर्व॑ (1-1-5), सम॑प्लावयन््यजेति॑ (1-6-41), प्रति॑तिष्ठति भव॑त्येव (2-2-37), यः कामये॑त कल्पे॑रन्निति॑, यथायथं क॑ल्पयति कल्प॑न्त एव (2-2-60), अभूमाद॑र्श्म (3-2-19),
वह॑सि यासि॑ (3-5-18), ऊर्णुते जाय॑ते (6-1-19), हर॑ति जुहोति॑ (6-3-27), अनु॑कल्पते कल्प॑न्ते (7-2-10), भव॑ति जीव॑ति (7-2-12,26); यज॑ते ददा॑ति (ब्रा. 2-4-59); समेत पश्य॑त । (ए. 1-9), अकृ॑न्तन्नव॑यन्न् (2-2), अमु॑ञ्चन्नसृ॑जन्न् (2-12), अपे॑त नश्य॑तात् (2-13),
अनेकतिङन्ते अनन्तरश्रुते - आश्रा॑वयास्तु श्रौषड्यज॑ (1-6-40,42,3-3-20,21), अह्वदस्तु श्रौष॑ट्, अजनयन्नस्तु श्रौष॑ट् (1-6-40/41), पिब॑न्तु मद॑न्तु वियन्तु सोमम् । (ब्रा. 2-6-59), यस्माद्भीषाऽवे॑पिष्ठाः पलायि॑ष्ठाः समज्ञास्थाः (ब्रा. 3-7-94), यथ्सञ्चर॑त्युपविश॑त्युत्तिष्ठ॑ते च (आ. 6-79)
सुबामन्त्रिते पराङ्गवत्स्वरे (पा.सू. 2-1-2), अनुदात्तं सर्वमपादादौ (पा.सू. 8-1-18), आमन्त्रितस्य च (8-1-19), आमन्त्रितं पूर्वमविद्यमानवत् (पा.सू. 8-1-72) इत्यादिभ्यः -
वाक्यादौ - पाहि माऽग्ने,माऽद्य, मा मा (1-1-21,1-3-5,1-1-24,1-2-4), पाह्य॑स्मान्द्रुहः (1-2-33), पाहि सोमम् (1-4-4), पादादौ - इन्द्राग्नी वृत्रहणा जुषेथाम् (1-1-25), भवा॑ तोकाय तन॑याय (1-1-28), ओष॑धे त्राय॑स्वैनं (1-2-1,1-3-9,17,6-3-14,45), दाधार॑ पृथिवीमभितः॑ (1-2-26), याहि राजे॑व, भवा॑ पायुर्विशः (1-2-28), शिशी॑ते शृङ्गे (1-2-34), शृणोत्वग्निः, शृण्वन्त्वापः॑, शृणोत॑ ग्रावाणः, शृणोतु॑ देवः (1-3-22/23), अश्याम तं, अश्याम॑ रयिं, अश्याम वाजम्, अश्याम॑ द्युम्नं (1-3-26), अस्तु॑ स्म ते (1-8-4), अग्ने॑ संवेषि॑षो रयिम् (2-6-63)* [कुविद्योगाच्च?], असि॑ यमः, अस्या॑दित्यः, असि॑ त्रितः, असि सोमे॑न (4-6-34), असि होता॑ नः (का. 2-34)
(अथो॑) तर्पय॑त्येवैनाः (2-5-63), कल्प॑न्तामापः॑ (4-4-29)
हि - ह्ये॑ष तर॑ति (2-5-53)
यः - योऽस्मान्धूर्व॑ति (1-1-5),………
[यौ - यौ स॑ममाते (2-2-31), यावात्मन्वद्बि॑भृतः, यौ च रक्ष॑तः, यौ विश्व॑स्य परिभू ब॑भूवतुः॑ (4-7-35) {, या नो गय॑माविवेश॑ (1-8-42), या राजा॑नꣳ सरथं॑ याथः (4-7-34)}; यावा॑तस्थतुः (ब्रा. 2-4-50)
ये - ये पूर्व॑तरामप॑श्यन्न्, ये अ॑परीषु पश्यान्॑ (1-4-33; आ. 3-49),; ये अन्तरि॑ख्षं पृथिवीं ख्षियन्ति॑ ।, ये दिव॑न्देवीमनु॑ सञ्चर॑न्ति । (3-1-6); ये ग॑न्धर्वा अ॑प्सरस॑श्च देवीरेषु वृक्षेषु॑ वानस्पत्येष्वास॑ते । (ए. 1-7)
यं - यं वयं धूर्वा॑मः (1-1-5), यञ्च॑ वयन्द्विष्मः (1-1-13,14), यमब॑ध्नीत (1-1-17), यं प॑रिधिं पर्यध॑त्थाः (1-1-23),………यंयं॑ क्रतुमधी॑ते (आ. 2-18)
यान् - यानाऽव॑ह उशतः (1-4-47), यान््हवा॑महे (1-5-45), यान्कामये॑त (1-6-37), {यतरान््वा इयमु॑पावर्थ्स्यति॑ (2-4-9,6-2-34)}, याꣳश्च॑ देवा वा॑वृधुः (2-6-69), यान्प्राचीन॑माग्रयणाद्ग्रहान्गृह्णीयात् (3-1-26), यानग्नयोऽन्वत॑प्यन्त (3-2-31), यान् (न) निवप॑ति (6-3-6), यान्पशूनुपाजी॑विष्म (7-3-11); याꣳस्तेऽपु॑ष्यन्न् । (ब्रा. 2-3-10), याꣳश्च॑ विद्म याꣳ उ॑ च न प्र॑विद्म (ब्रा. 3-1-7; ए. 2-19), यान् वद॑न्ति (3-1-21), यान्देवानयाट् । याꣳ अपि॑प्रेः । (3-5-19,3-6-33,36),; याꣳश्चाहं द्वेष्मि॑ (ब्रा. 3-7-71; आ. 2-7), याꣳ स्वस्तिमग्निर्वायुस्सूर्य॑श्चन्द्रमा आपोऽनु॑ सञ्चर॑न्ति (ए. 2-3).
येन - येन विश्वाः परि द्विषो॑ वृणक्ति॑ (1-2-17), येन॑ देवा अमृत॑न्दीर्घ श्रवो॑ दिव्यैर॑यन्त । (2-4-15), येन शर्ध॑ उग्रमव॑सृष्टमेति॑ (2-4-19), येनाहमिदमस्मि॑ (2-4-40/41), येनान्यतो॑दतश्च पशून्दाधार॑ (2-6-9), येन॑ यमस्य॑ बलिना चरा॑मि । (3-3-23), येन कर्मणेर्थ्सेत् (3-4-17), [येन केन॑ च स्तृणुते (3-4-26)* अत्र येनकेन इत्यस्य अनिर्धारणार्थत्वात्, अनुवादकत्वाभावाच्च न स्वरभेदकत्वमिति मन्तव्यम् ।], येनेन्द्रा॑य समभ॑रः (3-5-13), येन॑ हव्यं वह॑सि (3-5-18), येनान्तरि॑क्षमुर्वा॑ततन्थ॑ (4-2-16), येन॑ प्रजा विश्वक॑र्मा व्यान॑ट् (4-2-45), येनर््ष॑यस्तप॑सा सत्रमास॑त (4-7-25/26), येना॑ सहस्रं वह॑सि (4-7-27,5-7-32), येन॑ सङ्गच्छ॑ते (5-1-8/9), येन॑ देवा ज्योति॑षोर्ध्वा उदायन्न्॑ (5-7-5,6), येनाग्ने॑ दक्षि॑णा युक्ता यज्ञं वह॑न्ति, येनाग्ने सुकृतः॑ पथा मधोर्धारा व्यानशुः । (5-7-32), येन हिर॑ण्येन सोममक्री॑णन्न्, क्रीणीयात् (6-1-68,69), येन प्र जातान्भ्रातृ॑व्यान्नुदते (6-2-26), येन जीवन्थ्सुवर्गं लोकमेति॑ (6-6-35), येन पात्रेणान्नं बिभ्र॑ति (7-2-38), येन॑येन छन्दसाऽनु प्रायु॑ञ्जत (7-4-15)^ अत्र येनयेन इत्यस्य आम्रेडितत्वेऽपि, अनुवादकत्वात् स्वरभेदकत्वमिति मन्तव्यम् ।], येन कामे॑न न्यष॑दाम (7-5-7); येन॑ देवा अपु॑नत । (ब्रा. 1-4-48), येन॑ देवाः पवित्रे॑ण । आत्मानं॑ पुनते (1-4-51), येन ते ते प्रजापते । ईजानस्य न्यव॑र्तयन्न् । (1-5-24), येनैष एतथ्सञ्चर॑ति । (1-5-59), येन कामे॑न प्रतिगृह्णाति॑ (2-2-33), येन जया॑सि [न पराजया॑सै] (2-4-70), येन प्राच्या॑ उत द॑क्षिणा । प्रतीच्यै॑ दिशः शृण्वन्ति॑ (2-5-3), येन॑ हता दीर्घमध्वा॑नमायन्न्॑ (2-5-28), येन ज्योतिरज॑नयन्न् (2-5-37), येनानुकं मानु॑षी भोज॑ते (2-5-43), येनाव॑पत् (तै.ब्रा. 2-7-60; ए. 2-1), येन गच्छ॑थः (2-8-55), येन कामे॑न यज॑ते (3-1-41,56), येन स्कन्देत् (3-7-16), येनासि॑ञ्चत् (3-7-67), येन॑ त्रितो अ॑र्णवान्नि॑र्बभूव॑ (आ. 2-3), [येना॑रेपसः॑ स्यामेति॑ (आ. 2-10), येनेमा विश्वा भुव॑नानि तस्थुः । (आ. 3-28), येनै॑ष भूतस्ति॑ष्ठति (आ. 6-20)?], स येन॑ यज्ञक्रतुना॑ याजयेत् (आ. 2-20), येना॑दित्यस्तप॑ति (आ. 6-1), येन विश्वा पुष्य॑सि (7-28), येन॑ पूतस्तर॑ति (का. 3-14), येन॒ सूर्य॒स्तप॑ति (का. 3-55); येन त्वाऽब॑ध्नात् (ए. 1-5), [येन माऽति॑ च येनायुरावृ॑क्षि । (का. 1-6)?; येनेन्द्रो॑ हविषा॑ कृत्य॑भवत् (ए. 1-17)?];
याभ्यां - याभ्याꣳ रख्षाꣳ॑स्यपहस्य॑ग्ने । (4-7-24); याभ्याꣳ सुवरज॑यन्न् (ब्रा. 2-4-50), याभ्या॑मिदं विश्वमेजत्समे॑ति । (ब्रा. 2-6-13), [याभ्यां यमस्य साद॑नꣳ सुकृताञ्चापि॑ गच्छतात् (आ. 4-1)?].
यैः - {येभिः - येभि॑र्देवाꣳ ऋतुभिः॑ कल्पया॑ति । (1-1-28); येभिश्शिल्पैः पप्रथानामदृꣳ॑हत् । (ब्रा. 2-7-50); येभिः सखा॑यो यन्ति॑ (ए. 1-1), येभिः॑ सपित्वं पितरो॑ न आयन्न्॑ । (ए. 2-3)}
यस्मै - यस्मै कं पुने (1-2-2,6-1-9), यस्मै त्वꣳ सुकृते॑ जातवेद उ लोकम॑ग्ने कृणवः॑ (1-4-52), यस्मै प्रत्त॑मिव सन्न प्र॑दीयेत॑ (2-2-43), यस्मा॑ एव परोख्षं वद॑न्ति (2-5-1), यस्मै वा अल्पे॑नाहर॑न्ति, यस्मै॑ महता तृप्य॑ति (2-5-24), यस्मै कामा॑य निरुप्यन्ते (3-4-35), यस्मै॑ चाहं खना॑मि (4-2-28), यस्मा॑ एवैनं॑ चित्तायोद्यच्छ॑ते (5-2-9,5-4-25); यस्मै तद्धर॑न्ति (ब्रा. 2-1-15), यस्मै कामा॑याग्निश्चीयते । (का. 3-30).
येभ्यः - येभ्यो नर्ते पव॑ते (4-6-4), [येभ्य॑श्चैनत्प्राहुः॑ । (का.3-56)?]
यस्मात् - यस्मा॑देव योनेः प्रजाप॑तिः पशूनसृ॑जत (2-4-33), यस्माद्योने॑रुदारि॑थ (4-6-24); यस्माद्दारो॑रुद्वायेत् (ब्रा. 1-4-41), यस्मा॑देव योनेः प्रजाप॑तिः प्रजा असृ॑जत । (2-2-3), यस्मात्पशवः प्रप्रेव भ्रꣳशे॑रन्न् ।
(2-7-48), यस्मिन्थ्सूर्या अर्पि॑ताः सप्त साकम् । तस्मिन्राजा॑नमधि विश्र॑य (2-7-51), यस्मान्न जातः परो॑ अन्यो अस्ति॑ । (3-7-100); यस्माज्जाता न परा नैव किञ्चनास॑ (आ. 6-21), यस्मात्परं नाप॑रमस्ति॑ (6-23), [यस्माद्देवा ज॑ज्ञिरे (का. 3-12,13)?]
यस्य - यस्यामतिर्भा अदि॑द्युतत् (1-2-13), यस्य॑ देव दधिषे (1-4-5), यस्य क्षया॑य जिन्व॑थ । (4-1-18,5-6-4,7-4-50; आ. 7-92), यस्याहमस्मि॑ (आ. 2-7), यस्याण्डकोशꣳ शुष्म॑माहुः (आ. 3-23),
यस्यैवं विदुषः॑ प्रवर्ग्यः॑ प्रवृज्यते । (आ. 8-95), यस्य॑ ते प्रथमवास्यꣳ॑ हरा॑मः (ए. 2-6), ………….
ययोः - ययोः प्राणोऽसि॑ (2-3-38); ययो॑रि॒दव्विँश्व॒म्भुव॑नमा वि॒वेश॑ । (ब्रा. 2-4-50).
येषां - येषां भागः स्थ (1-3-23), येषां भागोऽसि॑ (1-4-3,6-4-23), येषां पूर्वापरा अन्वञ्चः॑ प्रमीय॑न्ते (2-2-10), येषां प्राणोऽसि॑ (2-3-39), येषामीशे (3-1-11), येषाꣳ सोम॑स्समृच्छते (3-1-21), येषाꣳ ह्ये॑ष भागस्तेभ्य॑ एनङ्गृह्णाति॑ (6-4-23), येषान्दीख्षितानां प्रमीये॑त, प्रमीय॑ते (7-2-22,23); येषाꣳ॑ संवथ्सरेऽनाप्तेऽथ॑ । एकादशिन्याप्यते । (ब्रा. 1-2-40), येषान्दीख्षिताना॑मग्निरुद्वाय॑ति । (1-4-39), येषा॑मिमे पूर्वे अर्मा॑स आसन्न्॑ । (2-4-58), येषा॑मनुयन्ति॑ (3-1-5), येषा॑माश्रेषा अ॑नुयन्ति॑ (3-1-6).
यस्मिन् - यस्मिन्थ्सꣳ सौभ॑गानि दधिरे (1-3-26), यस्मि॑न्थ्सप्त वा॑सवास्तिष्ठ॑न्ति (1-6-47), यस्मि॑ञ्जात एतामिष्टिं॑ निर्वप॑ति (2-2-25); यस्मि॑न्निदमधि तिष्ठ॑ति (ब्रा. 1-1-19), यस्मि॑श्चन्द्रमा॑ विभाति॑ । (1-4-63), यस्मि॑न्वृत्रं वृ॑त्रतूर्ये॑ ततार॑ । (ब्रा. 3-1-13), यस्मिन्नख्ष॑त्रे यम एति॑ (3-1-23), यस्मि॑न्म्रख्ष्यध्वे (3-2-65), यस्मि॑न्नेवाग्नावाहु॑तिञ्जुहुयात् । (3-7-19),; यस्मिन्थ्सप्त वा॑सवाः । रोह॑न्ति (आ. 1-32), यस्मिन्नेतत्कर्म प्र॑युञ्जीत । (1-125), यस्मिन्नस्य काले सर्वा आहुतीर््हुता॑ भवेयुः । (1-126), यस्मि॑न्देवा अधि विश्वे॑ निषेदुः (2-14,6-1; का. 1-36), यस्मिन्थ्सप्त पेर॑वः । मेह॑न्ति (3-25), यस्मि॑न्निदꣳ सञ्च वि चैति॑ (आ. 6-1), यस्मि॑न्वीरो न रिष्य॑ति (ए. 1-6).
येषु - येषु चर॑न्ति (आ. 6-20).
या - या ते धामा॑नि हविषा यज॑न्ति (1-2-18; ब्रा. 2-8-15), या ते प्राणाञ्छुग्जगाम॑ (1-3-16), या वश्शर्म॑ शशमानाय सन्ति॑ (1-5-51; ब्रा. 2-8-36), या प्राणेन॑ देवान्दाधार॑ (1-7-7), या यज्ञे दीयते, या प्रजाः प्रभव॑न्तीः प्रत्याभव॑ति (1-7-8), या प्रजाः प॑राभव॑न्तीरनुगृह्णाति॑ (1-7-9), या नो गय॑माविवेश॑ । (1-8-42), या वेहद्भव॑ति (2-1-31), या व॑रिवोवित्तराऽस॑त् । (2-1-63), या भू॑मि प्रवत्वति मह्ना जिनोषि॑ (2-2-65), या वाजन्न हेष॑न्तं पेरुमस्य॑सि (2-2-66), या स्नाति॑, अभ्यङ्क्ते, प्रलिखते, आङ्क्ते, दतो धाव॑ते, नखानि॑ निकृन्तते, कृणत्ति॑, रज्जुꣳ॑ सृजति॑, पर्णेन पिब॑ति, खर्वेण पिब॑ति (2-5-6,7), या देवानामसि॑ (3-1-37), या जाय॑मानस्य वेद॑ (4-2-21), या शतेन॑ प्रतनोषि॑ (4-2-37), या द्यां भासि॑ (4-3-11), या प्र॑थमा व्यौच्छ॑त् (4-3-21,25; ब्रा. 2-5-20; ए. 2-20), या ते गात्रा॑णामृतुथा कृणोमि॑ (4-6-45), या यज्ञस्य निष्कृ॑तिरासीत् (5-4-7), या स॑हस्रतम्यासीत् (7-1-18); या स॑व्वँथ्सर उ॑पजीवाऽऽसीत् । (ब्रा. 1-5-28), या प्रेव नश्य॑सि । (2-5-23), या देवी सुभगा॑ जजान॑ । (2-7-16),; [या तम॑सा प्रावृ॑ताऽसि (आ. 4-27)?], या पुरस्तात्, उपरि॑ष्टात् विद्युदाप॑तत् । (आ. 7-53); या स्वप॑न्तं बोधय॑ति (ए. 2-14)
याः - या अयाक्ष्म (2-6-54), याश्चैव देवता यज॑ति (2-6-56), याश्च॑ माया मायिनाव्विँश्वमिन्व त्वे पूर्वीस्स॑न्दधुः (3-1-40/41), या वै देवतास्सदस्यार्ति॑मार्पय॑न्ति (3-2-12/13), यास्ते रात्रीस्सवितर्देव-यानी॑रन्तरा द्यावा॑पृथिवी वियन्ति॑ । (3-5-12/13), यास्ते विश्वाः समिधस्सन्ति॑ (3-5-18), यास्ते॑ मयोभुव॑ ऊतयस्सन्ति॑ (4-1-43), या आ॑विविशुः (4-2-27), याश्चेदमु॑पशृण्वन्ति॑ (4-2-28), यास्ते॑ अग्ने सूर्ये रुच॑ उद्यतो दिव॑मातन्वन्ति॑ (4-2-39), या अ॑भिरख्ष॑न्ति (4-6-35), या गर्भं॑ दधिरे, या अन्तरि॑ख्षे बहुधा भव॑न्ति ।, याः पृ॑थिवीं पय॑सोन्दन्ति॑ (5-6-1; ए. 1-2), या आहु॑तीरजु॑हवुः (6-2-5), या न॑ इमाः प्रियास्तनुवस्ताः समव॑द्यामहै (6-2-8)[आख्यातात्पूर्वं तच्छब्दघटितेऽपि स्वरभेदः?], याः प्रातरु॑पसद॑ उपासी॑दन्न् (6-2-17), याः प्रातर्याज्याः स्युः (6-2-18), याः प्राचीराहु॑तीरजु॑हवुः (6-3-4,6-4-44), या देवेषु॑ तनुवमैर॑यन्त (7-4-43), याश्च शृङ्गाण्यस॑न्वन्न्, याश्चोर्ज॑मवारु॑न्धत (7-5-8); यास्ते विशस्तप॑सा सम्बभूवुः । (ब्रा. 2-5-5), या देवा दे॑वदानान्यदुः॑ । (ब्रा. 2-6-74,3-6-37), या विप्रुषः सन्ति॑ (ब्रा. 3-7-75),; या वै प्रजा भ्र॑श्यन्ते ।, याः प्रति॑तिष्ठन्ति । (आ. 1-11), या विप्रुषो॑ विपरा॑पतन्न् । (1-95), यास्ते॑ धानाः प॑रिकिरा॑मि (4-21); या अकृ॑न्तन्न्, या अत॑न्वत [याश्च॑ देवीरन्ता॑नभितो॑ऽददन्त ।?] (ए. 2-2), यास्तिष्ठ॑न्ति, या धाव॑न्ति (2-19).
यां - यामैर॑यन्न् (1-1-15), यान्दिशꣳ॑ सनिमेष्यन्थ्स्यात् । (ब्रा. 2-3-42); यां द्वितीयां, तृतीया॑मुपदधा॑ति । (का. 2-59); याञ्जनाः प्रतिनन्द॑न्ति (ए. 2-20),
यया - ययाऽति विश्वा॑ दुरिता तरे॑म (1-2-4), यया॑ मनुष्या॑ जीव॑न्ति (1-7-8), यया रज्ज्वोत्तमां गामाजेत् (2-2-34); यया शश्वत्पिब॑सि (ब्रा. 2-4-33); यया॑ सपत्नीं बाध॑ते, यया॑ संविन्दते (ए. 1-16)
याभिः - याभिर्मदे॑म । (1-7-51,2-2-71,2-4-47), याभि॑र्मित्रावरु॑णावभ्यषि॑ञ्चन्न् (1-8-20), याभिर्यासि॑ (2-2-70/71, [याभि॑र्यासि (ब्रा. 2-5-22) इत्यत्र कुतो न ?]), याभिर्ददा॑सि (3-3-36),
याभिरदृꣳ॑हत् (ब्रा. 1-2-4), याभिर्यज॑ते (2-4-59),; याभि॑रादित्यस्तप॑ति (आ. 6-78)
यस्यै - यस्यै॑ निक्रम॑णे घृतं प्रजाः संजीव॑न्तीः पिब॑न्ति (1-7-10), यस्यै॑ वीर्ये॑ण प्र जातान्भ्रातृ॑व्यान्नुदते, यस्यै॑ वीर्ये॑णोभयोर्लोकयोर्ज्योति॑र्धत्ते, यस्यै॑ वीर्ये॑ण पूर्वार्धेना॑नड्वान्भुनक्ति॑ (2-6-10), यस्यै॑यस्यै देवता॑यै दख्षि॑णामन॑यत् । (ब्रा. 2-2-28), यस्या॑ एव देवता॑या आलभ्यते । (3-8-12) [यस्यै तान्देवैः सम॑जीगमम् । (3-3-30) आख्यातात्पूर्वं तच्छब्दघटितं, अतो न ।]
याभ्यः - याभ्य॑ एवैनं॑ प्रच्यावय॑ति (5-1-30); याभ्य॑ एवैनं॑ विन्दति॑ (ब्रा. 3-9-63)
यस्याः - यस्यास्ते अस्याः क्रूर आसञ्जुहोमि॑ (4-2-20) [यस्यास्ते हरि॑तो गर्भ इत्या॑ह (3-4-1)?]
यासां - यासाꣳ राजा वरु॑णो याति॑, यासान्देवा दिवि कृण्वन्ति॑ (5-6-1; ए. 1-2), यासाꣳ सोमो विश्वा॑ रूपाणि वेद॑ । (7-4-43), यासान्ना (ञ्चा) जा॑यन्त (7-5-1); यासा॑मषाढा अ॑नुयन्ति॑ (ब्रा. 3-1-15),
यस्यां - यस्या॑मिदं विश्वं भुव॑नमाविवेश॑ (1-7-32),यस्या॑मिदं प्रदिशि यद्विरोच॑ते (3-3-35); यस्यान्दिशि महीय॑से ।(का. 1-8); यस्यां बीजं॑ मनुष्या॑ वप॑न्ति ।, यस्या॑मुशन्तः॑ प्रहरे॑म (ए. 1-11)
यासु - यासु वर्ध॑से । (1-4-10)
यत् - यच्छक्नवा॑म (1-1-27), यद्वो॑ वयं प्र॑मिनाम॑ (1-1-28), ………………. यत्ते॑ऽमावास्या॑याञ्च पौर्णमास्याञ्च विष॑बलिꣳ हर॑न्ति (ए. 2-17)
ये - ये चरा॑वः (1-5-43), ये अप्र॑थेताम्, ये प्र॑तिष्ठे अभ॑वताम् (4-7-38)
यानि - यान्येव पुरस्तात्, अभितो, पश्चात् रख्षाꣳस्यासन्न्॑ (2-4-2/3), यान्यासन्न्॑ (ब्रा. 1-2-13), यान्य॑पामित्यान्यप्र॑तीत्तान्यस्मि॑ । (3-7-103), यानि॑ चकृम । (3-7-121),]
यत्र - [यत्र देवैस्सधमादं मदेम । (ब्रा. 3-1-8)?]
यथा - [यथा देवैस्सधमादं मदेम । (का. 3-13)?]
वाक्यादिषु यथा - {पाहि यज्ञं, पाहि यज्ञप॑तिं, पाहि मां य॑ज्ञनियम् । (1-1-20), पाहि माऽद्य दिवः, पाहि प्रसि॑त्यै, पाहि दुरि॑ष्ट्यै, पाहि दु॑रद्मन्यै, पाहि दुश्च॑रितात् (1-1-24), पाहि मा (1-2-4), पाह्य॑स्मान् (1-2-33), पाहि माऽग्ने, पिपृहि मा (1-3-5), पाहि सोमम् (1-4-4), अक्ष॑न्पितरः॑, अमी॑मदन्त पितरः॑, अती॑तृपन्त पितरः॑, अमी॑मृजन्त पितरः॑ (1-8-6), धाव॑ति वाजम्, हन्ति॑ वृत्रम्, जय॑ति तꣳ स॑ङ्ग्रामम् (2-2-20), पश्ये॑म, जीवे॑म, नन्दा॑म, मोदा॑म, भवा॑म, शृणवा॑म, प्रब्र॑वाम शरदश्शतम् (आ. 7-93; ए. 2-5), मार्जय॑न्तां मम पितरः॑, तृप्य॑न्तु भवन्तः, तृप्य॑न्तु भवत्यः (ए. 2-20) इत्यादिषु वाक्यादित्वात् स्वरभेदः ।}
[मा त्वं वि॑केश्युर आवधि॑ष्ठाः (ए. 1-4), पुनः पति॑भ्यो जायां दाः (1-5), ऋतेना॑दित्यास्तिष्ठ॑न्ति, अन्येषां विन्दते (1-6), मा हिꣳ॑सिषुः (1-7), उप मामुच्चा यु॑वतिर्बुभू॑याः (1-11), इमां खना॑मि (1-16), ब्रह्मोत शꣳ॑सति । (1-18), यथा त्वꣳ सुश्रव॑स्सुश्रवो॑ देवानां निधिगोपो॑ऽसि, (2-5), यत्र॑ वयं व॑दामसि, यत्र॑ चाभिमृ॑शामसि (2-13), माता ज॑घन्या॑ सर्प॑ति (2-14), मा भै॑षीर्न म॑रिष्यसि॑ । (2-16), अहि॑र्जघान॑ (2-17)?]
इत्थम् अन्येऽपि बहवः अंशाः विस्तरेण प्रतिपादनीयाः सन्ति । इदानीमेतावता विरम्यते ॥
मूलम् - 1.46
अथ इतिकरणे रेफान्तपदानि । पुनरकस्सुवरन्तरावर्विवरजीगरेनोः (णोः)स्युः कर्होतरिति रेफेण ॥
सुवः पुनरकर्होतरन्तरावर्विवश्च कः । अजीगरिति रेफेण सहावृत्या पदावलिः । इति रेफान्तपदानि । - ।
पुनः - पुनरेहि॑ (1-2-10,6-1-53), पुनरिति पुनः॑ । (1-5-10), पुन॑रूर्जा, पुन॑रग्ने, पुन॑र्नः (1-5-12), पुन॑रिमं (1-5-39), पुन॑रयाचत, पुन॑रददात्, पुन॑र्देहि (2-1-7,2-3-24), पुन॑रागत्य॑ (2-2-34), पुनरुप॑ (2-2-45), पुनरेत्य॑ (2-3-47,3-1-34,5-2-13,), पुनरिन्द्रः॑ (3-2-19), पुन॑रासद्य॑ (4-2-12), पुन॑रुदैति॑ (5-2-12), पुन॑रात्मन्न् (6-1-53), पुनः॑पुनर्ह्य॑स्मात्, पुनः॑पुनरिव (6-5-3,39), पुन॑र््ऋतुना (6-5-10,11), …
अकः - अध॑राꣳ अकः । अकरित्य॑कः । (1-1-22,1-6-12,4-6-15), अकर्देववी॑तिं (1-3-25), अकरुत (1-4-49), अकरुपाꣳशु (1-5-7), अकरन्तर्वेदि (2-4-24), अकर््हिम् (2-5-39), अकरथो (2-6-6), अकर्विष्णो (3-1-34), अकरप॑रिवर्गं (3-4-39), अकरजक्षीरेण॑ (5-1-38), अकर्यं (5-2-4), अकर्वैष्णव्या (5-2-47), अकरिति॑ (6-4-34).
सुवः - सुव॑रभि (1-1-6,1-3-7; ब्रा. 3-2-34), सुवरुच्छु॑ष्मः (1-6-5), सुव॑रगन्म (1-6-17,1-7-25,5-6-30; आ. 4-15), सुव॑रहं (1-7-38), सुव॑र्देवान् (1-7-39; ब्रा. 1-3-44), सुवर्ण (2-2-69), सुव॑रपः (2-3-56), सुव॑रानशानाः (3-1-27), सुव॑र्मा (3-3-2), सुव॑र्यतः (4-1-1), सुव॑र्धेहि (4-3-8), सुवराभ॑रन्न् (4-3-22), सुवर्न (4-4-17,5-7-18), सुव॑रुदृचम् (4-4-25), सुव॑र्गत्वा (4-6-21), सुवर्यन्तः॑ (4-6-22,5-4-30), सुव॑राभर॑न्तः (4-7-26), सुवरिति॑ (5-2-57,5-5-24), सुव॑रसि (5-7-25; आ. 7-31,8-66), सुव॑र्देवेषु॑ (5-7-31,32), सुवर्वष॑ट् (7-3-33), सुवर्वस॑वः (7-4-51); सुव॑रायन्न् । (ब्रा. 2-3-19), सुव॑रेव (3-2-34), सुव॑र्विन्द (3-7-44), सुव॑रगमम् । (3-7-82); सुव॑र्गताः । (आ. 4-7), सुव॑र्गच्छ (4-22), सुव॑रादित्याय॑ (आ. 6-12); सुव॑रपां (ए. 2-14).
अन्तः - (भात्यन्तः, ख्षेष्यन्तः, अप्स्व॑न्तः, मातृतमस्वन्तः ।) अन्तरित्यन्तः । (1-3-25,4-2-2,7,1-3-30,1-4-50,1-8-22), अन्तर्य॑च्छ (1-4-4,2-2-67), अन्तरमृतम् (1-7-33), अन्तरे॑षाम् । (2-1-64), अन्तरेव (2-4-43), अन्तर्द॑धाति (2-6-26,3-5-17,6-5-21), अन्तरा॑यन्न् (2-6-44,6-5-20), अन्तरे॑ति (2-6-56,3-1-21,22,3-2-10,5-1-54,5-2-44,5-7-33,34,6-1-58,6-4-29,6-6-11), अन्तर्ध॑त्ते (3-2-35,36,5-1-53,5-4-17,6-4-28), अन्तर्भ॑रिष्यन्ती (4-1-11), अन्तर॑ग्ने (4-1-37,4-2-5), अन्तर्वि (4-1-42,4-6-22,4-7-23), अन्तर॑भूः (4-2-4), अन्तर्नृचख्षाः (4-2-6), अन्तरस्यां (4-2-12,4-3-21), अन्तर््हृदा (4-2-41), अन्तरायुः॑ (4-7-25), अन्तर्मृत्योः (5-4-17),
अन्तर्द॑ध्यात् (5-5-29), अन्तरि॑यात् (5-6-40,6-1-29,37), अन्तरम॑र्त्यः (5-7-36), अन्तरेष्यामि (5-7-58), अन्तर॑धत्त (6-4-27), अन्तरुरु (6-4-28), अन्तर्द॑धीत (6-4-40), अन्तर्य॑न्ति (6-4-49,7-1-8,9,10), अन्तरिति॑, अन्तर्वरु॑णः (6-6-12); [अन॑न्तरित्यै (5-2-30), अन॑न्तरायाय (5-4-58), अन॑न्तरायं (6-1-57,6-2-50)], ….
आवः - वेन आ॑वः । आवरित्या॑वः । (4-2-34) (ब्रा. 2-8-66).
विवः - अस॑तश्च विवः॑ । विवरिति विवः॑ । (4-2-34) (ब्रा. 2-8-67).
अजीगः - ओष॑धीरजीगः । अजीगरित्य॑जीगः । (4-6-36).
एनोः - कतरश्चनैनोः । एनोरित्ये॑नोः । (3-2-45,7-1-27).
स्युः - स्युर्यत् (1-6-26,3-2-24,5-1-41,5-2-53,6-1-24), स्युरिति॑ (2-2-42/43,2-3-20), उत स्युः । स्युरिति स्युः । (2-4-46), स्युरप्र॑तिष्ठिताः (5-4-47), स्युरथो (5-6-36),
स्युर्मयि॑ (5-7-37), स्यू रास्व॑ (6-1-31), स्युर्बद्धम् (6-1-47), स्युरिदं (6-1-69), स्युर्विवि॑वधं (7-3-1218,24).
कः - क॑र्भागधेयम् । (1-3-13), कर््हस्ते (2-2-64), मिथू॑ कः । करिति॑ कः । (4-6-46)
होतः - होत॑र्यविष्ठ (1-2-32), होतर्दोषा (1-3-26), होतर्मूर्धन्न् (1-6-5), होतर्मनु॑षः (4-3-30), होतरिति॑ (5-1-20,6-4-14), यख्षि होतः । होतरिति॑ होतः । (5-1-59), होतर््हव्या (6-3-42).
[अन्येऽपि बहवः ईदृशाः शब्दाः सन्ति । प्रातिशाख्ये च ह्लारभार् (8-8) इत्यादि सूत्रेषु निर्दिष्टाः । ह्वार्वसू॑नां, ह्वार्मित्रस्य॑ (1-1-4,5), अभारुखा । (4-2-19), वार्णाम॑ (5-6-3), हारस्ति॑ (2-4-38,39,6-5-1,2),
हार्येन॑ (2-4-40), हारावं (2-5-10), प्र हा॑रावयोः (2-5-12), अहार्जातवे॑दाः (3-2-19), अह॑रहराहृत्य॑, अह॑रहर्याचिष्यति (1-5-41), अह॑रहरुपतिष्ठ॑ते (1-5-42), अह॑रहर््हविर्धानिनाम् (2-5-35),
अह॑रहर्मनुष्याः (2-5-38), प्रातराग्नेयीं, प्रातर्ग्रीष्मे (2-1-11,22), प्रातरेतेन॑ (3-3-25), प्रातर्गव्याः (5-6-53), प्रातरु॑पसदः॑ (6-2-17), प्रातर्याज्याः (6-2-18), प्रातर्मध्यन्दि॑ने (6-2-28), प्रातर्न (6-4-6),
दोषा॑वस्तर्दीदिवाꣳसम् (1-2-31), दोषा॑वस्तर्धिया (1-5-22), शमितरिति॑ (6-3-51), सवितर्वामं (1-4-24,2-2-65), सवितरेतत् (2-6-50,3-2-26), सवितर्देवयानीः (3-5-12/13), सवि॑तर्विश्व॑चर््षणे (3-5-16), सवितरीशा॑नं (3-5-34), सवितर्यज्ञं (4-1-3), सवितर्बोधय॑ (4-1-27), सवितर्मानु॑षेषु (4-1-44), सवितराधि॑पत्यैः (4-4-37), सनुतर्यु॑योतु । (1-7-51), स्तोतरेतेन॑ (7-4-51), मातर्मा (3-3-4), यष्ट॑रिदं (1-1-21), एष्टा रायः॑ (1-2-20,6-2-13), त्वष्टर्वसु॑ (1-3-12,6-3-33), त्वष्टर्भूरि॑ (1-3-18,6-3-58), त्वष्टर्वि (3-1-35), त्वष्टरिह (3-1-36).]
मूलम् - 1.47
नैयग्रोधः प्रैयङ्गवं प्रैयमेधा वैयाघ्रे दोहै यज्ञन्दैयाम्पातीत्येतेष्वैकारः । त्रय्योऽयस्मय्यस्तेनोदय्यद्वय्यश्चतुष्टय्य इति वर्जयित्वा ॥
नैय॑ग्रोध औदु॑म्बरः (3-3-25) [नैय॑ग्रोधेन जन्यः॑ । (ब्रा. 1-7-52)], प्रैय॑ङ्गवं चरुं (2-2-61; ब्रा. (3-1-30), त्रयो वै प्रै॑यमेधा आ॑सन्न् । (ब्रा. 2-1-54), व्याघ्रो वैयाघ्रेऽधि॑ । (2-7-51), दोहै॑ यज्ञं (ब्रा. 3-7-63)*, प्लक्षन्दैयाम्पातिं, प्लक्षो दैयाम्पातिः (का. 1-25,27) *[एवास्मै॑ युनक्ति {यज्ञं} (1-5-25,{2-1-50},3-4-23,{6-1-13}; ब्रा. 1-3-34,1-7-53,3-9-12,13,14), तस्यै॑ यमः (5-2-14), कॢप्त्यै॑ युग्मदयुजे (5-4-41), शान्त्यै॑ यातया॑मानि (6-6-29); यस्यै॑यस्यै (ब्रा. 2-2-28), यम्यै॑ यमसूम् । (3-4-11)?].
त्रय्यः सूच्यः॑, अयस्मय्यः॑ (ब्रा. 3-9-29) [अयस्मय्य॑वमा (6-2-15) इति तु सांहितं], त्रय्येव॑ (आ. 6-28), त्रय्या विद्यया (का. 1-48), त्रय्यै विद्यायै (ए. 2-10), तेनोदय्यासु॑रान् (ब्रा. 2-2-39), द्वय्यो वै (ब्रा. 3-8-66), चतु॑ष्टय्य आपः॑ (ब्रा. 3-8-3; आ. 1-98), [अनपजय्यं (1-7-24,5-2-1; ब्रा. 1-5-9,3-1-46), उभय्यः॑ (7-5-8), अक्षय्यात् (आ. 1-4), क्षय्यं (का. 2-40), अक्षय्यं (आ. 2-17, का. 2-41, ए. 2-20), अक्षय्यः॑ (का. 2-1), रय्यै (4-4-18, 7-1-40, 7-5-37; ब्रा. 1-4-24,3-8-12), रय्या (1-2-10,1-5-12,16,4-2-3,13,5-2-12,6-1-53,7-1-26; ब्रा. 2-7-60; आ. 4-27,7-60,), रय्यां (7-1-30), ह्रदय्या॑य (4-5-19), हृदय्य॑या (ब्रा. 2-8-65), हृदय्ये (का. 2-48)].
मूलम् - 1.48
ईकारान्त(स्त्रीलिङ्ग)पदानि
(1) पृथिव्याङ्गिरसी वस्वी स्वस्त्ययनी प्रणीत्युर्वश्यूती मधुमती भाग्यपानती कर्णकावती तेजस्वी वाजीन्द्रियावी सूनरी यावती समावती हविष्मती देवी विश्वरूप्यवित्री ॥{21}
(2) ग्रामी ब्रह्मवर्चसी ज्योगामयावी भुञ्जती प्रतीची सरस्वती गायत्री ह्रीतमुखी सोमयाजी बहुयाजी हविर्धान्यत्यासारिणी स्त्री घृतपदी मैत्रावरुणी ॥ {15}
(3) देवयशस्यामयावी स्वर्वाची पीवरी सप्तपदी परमेष्ठ्योजस्वी सिनीवाली पौर्णमास्याश्वत्थी ॥ {10}
(4) श्रौत्री शारदी राज्ञ्यधिपत्नी यन्त्री धर्त्री धरित्री वदन्ती व्यूषुषी यानी प्राची वज्री सहस्वती विष्णुपत्नी बाहुशर्ध्युखाभ्राजन्ती ॥ {16}
(5) वारुणी कार्ष्मर्यमयी जगती बृहती पत्नी मही गृही तिरश्च्येणी नैर््ऋती पापीयसी चतुर्थी सप्तम्येकादशी ॥ {14}
(6) सावित्री वैश्वदेवी पौष्णी सती [उभयतःशीर्ष्णी] पराच्ययस्मयी परोवरीयसी मन्थ्यत्र्यर्धी तथ्षोडशी ॥ {11}
(7) सहस्रतमी पयस्वती ॥ {2}
अत्र संहितायां सन्धिवशात् सन्देहास्पदानां ईकारान्तानां पदानां प्रथमवारं यस्मिन्काण्डे यत्र उपलम्भः सः एव काण्डक्रमेणात्र पठ्यते । प्रगृह्याणामत्र अनन्तर्भावः तु स्वाभाविक एव ।
तत्र प्रथमकाण्डे -
पृथिवी - पृथिव्य॑सि (1-1-4,4-1-20,4-2-36), पृथिव्यासीत् (2-1-9), पृथिव्यु॑दपुरम् (4-4-18), पृथिव्य॑ब्रवीत् (5-5-10),
पृथिव्य॑भवत् (7-1-14), पृथिव्य॑न्तरि॑ख्षम् (7-3-33)
[अप॑द्यमाना पृथिव्याशाः (4-1-24,5-1-37) इत्यत्र न । अन्यत्र पृथिवि इति सम्बोधनान्तस्य सन्देहाभावः ।]
[महिषी - महि॑षीव (1-1-28) इति स्यात् ।]
आङ्गिरसी - आङ्गिरस्यूर्णम्रदाः (1-2-4)
वस्वी - वस्व्य॑सि (1-2-11,6-1-54). [अस्य आङ्गिरसी (1-2-4) इत्यस्मात् पूर्वमप्युपलम्भेऽपि (1-1-15), तत्र सन्ध्यभावात् अत्रैव प्रथमवारं पाठः ।]
स्वस्त्ययनी - स्वस्त्यय॑न्यसि (1-2-17,6-1-75). [अस्य स्थाने ‘अयनी’ इत्येव पर्याप्तं, नानापदत्वा-दिङ्ग्यानां, वित्तायनी, तिक्तायनी इत्यत्र च अविरोधात् ।]
प्रणीती - प्रणीत्यश्याम (1-2-33). [अस्य स्थाने नीतीति च पर्याप्तं व्यावर्त्याभावात् ।]
उर्वशी - उर्वश्य॑सि (1-3-12,6-3-30)
ऊती - तवोत्य॑श्याम॑ (1-3-26), ऊत्यु॑ग्र (1-7-48), ऊत्य॑र्वाक् (2-6-66)
मधुमती - मधु॑मत्यश्वि॑ना (1-4-7). [मधुमतीत्यस्यापि ‘मती’तीयदेव स्यात् धेनु, सुरभि, वसु, वायु इत्युपबन्धेष्वप्यविरोधात् ।]
भागी - भाग्य॑सानि (1-5-2)
अपानती - अपानत्यन्तः (1-5-10). [अस्य स्थाने अनतीति पर्याप्तम् ।]
कर्णकावती - कर्णकावत्येतया (1-5-30,5-4-32). [अस्य स्थाने वती इति पाठे इन्द्रियावती, घृतवती, इत्यनयोरपि ग्रहणं स्यात्, अन्यत्र अप्रगृह्यस्थलेषु (सूनृता, वाजिनी, वृधन्न्, मूर्धन्न्, ओमन्न्,
विश्वदेव्य, सुवः, सत्, सावित्र, अनुचर, परिगृह्य, इत्युपबन्धवत्सु) सन्देहाभावेन विरोधाभावाच्च ।
तेजस्वी - तेजस्व्ये॑व (1-5-35,1-7-29,2-2-14,2-5-14,3-5-28,6-2-54,6-3-18), तेजस्व्य॑न्नादः (2-2-26), तेजस्व्या॑सीत् (5-1-19)
वाजी - वाज्यर्वा (1-5-50,4-1-8,4-6-38,7-5-45), वाज्य॑सि (1-7-34,7-1-41), वाज्यध्व॑नः (4-1-7,5-1-10), वाज्य॑र्वन्न् (4-1-15), वाज्यप्ये॑तु (5-1-56), वाज्य॑न्तरि॑ख्षं, वाज्याक्र॑स्त (7-5-45)
इन्द्रियावी - इन्द्रियाव्य॑न्नादः (1-6-7,44), इन्द्रियाव्ये॑व (1-6-44,2-1-38,6-2-54,6-3-18)
सूनरी - सूनर्य॑सि (1-6-8)
यावती - याव॑त्यमावास्या (1-6-29), याव॑त्येव (2-2-50,6-1-54,6-4-13), याव॑त्येकविꣳशस्य॑ (ब्रा. 1-5-46,49),
समावती - समाव॑त्येनान् (1-6-37)
[मघोनी (1-7-4) इति तु स्यात् ।]
हविष्मती - हविष्म॑त्यसि (1-8-1)
देवी - देव्यदि॑तिः (1-8-22), देव्या नः॑ (2-5-70,3-1-36), देव्य॑वतु (4-4-36), वैश्वदेव्ये॑तेन॑ (6-1-15)
[देव्यदिते (1-5-10), देवीष्टके (4-2-37) इत्यत्र न(, सम्बुद्धित्वात् । अतः अन्तोदात्तत्वं निमित्तीकरणीयम् । फिषोऽन्त उदात्तः इति व्यस्ते, समासे चअन्तोदात्तत्वहेतुव्याप्तेः ।?)]
विश्वरूपी - विश्वरूप्यावि॑न्नः (1-8-22) [अस्य स्थाने रूपीत्येव पर्याप्तम् ]
अवित्री - अवित्र्य॑वतु । (1-8-38)
पत्नी इत्यस्य प्रथम, तृतीय, चतुर्थकाण्डेषु सन्ध्यभावात् सन्देहाभावः, अतः प्रथमं पञ्चमकाण्ड एव सन्देहास्पदत्वरूपनिमित्तसत्त्वेन तत्रैव पाठः इति ज्ञेयम् । पत्नि इति ह्रस्वान्तश्च (4-4-36) असन्दिग्धः ।
[मही इति तु सर्वत्र असन्धेः असन्दिग्धः । अपितु मह्युरुधा॑रा (7-1-26) इत्यस्य ह्रस्वत्वं मही इत्यत्र अग्रहणादेव सिध्यतीति ज्ञेयम् ।?]
तथ्षो॑डशीति षष्ठकाण्डे ग्रहणात् प्रथमकाण्डे षोडशी शर्म॑ (1-4-42) इत्यत्र असन्देहान्न दोषः । षोडश्युत्त॑रे (7-1-13) इत्यत्र ह्रस्वश्च व्यावर्त्यतया सिध्यति ।
ब्रह्मवर्चसी इति तु एव,अभवत्परश्चेत् सन्देहास्पदत्वात् द्वितीयकाण्डे पठितः । प्रथमकाण्डे सन्ध्यभावात् सन्देहाभावः । ब्राह्मणेऽपि, तद्ब्र॑ह्मवर्चसि । (ब्रा. 2-1-18) इत्यत्र वाक्यान्तस्थत्वात् तथा ।
*गायत्री इत्यस्य (2-4-9) इत्यत्रैव प्रथमवारं सन्देहास्पदत्वात् ततः पूर्वं प्रथमकाण्डे (श्रुतानाम्) अग्रहणम् ।
*सरस्वती इति तु सर॑स्वत्येहि॑, सर॑स्वत्यभि (1-6-8,7-2-25) इत्यत्र ह्रस्वत्वात् ससन्देहत्वात् प्रथमकाण्ड एव इन्द्रियावी इत्यस्य अनन्तरं वक्तव्यत्वेऽपि द्वितीयकाण्डे
प्रथमवारं दीर्घान्तत्वात् तत्रैव पाठः युक्तः ।
यावती इत्यस्यानन्तरं पौर्णमासीति (1-6-29) न स्यात्, तत्र सन्देहाभावात् । अतः प्रथमवारं सन्धौ श्रुते पौर्णमास्यनु॑मतिः (3-4-34) इत्यत्र तृतीयकाण्डे पठितः ।
समावती इत्यस्यानन्तरं वज्री इति न स्यात् तत्र (1-7-50) सन्देहाभावात् । चतुर्थकाण्डे प्रथमवारं सनिमित्तस्थले (4-4-24) पाठात् ।
जगती इत्यस्य प्रथमवारं सनिमित्तत्वं जग॑त्यनुष्टुक् (5-2-61) इत्यत्रैवेति तत्र पाठः ॥ {24}
द्वितीयकाण्डे -
ग्रामी - ग्राम्ये॑व (2-1-2,…)
ब्रह्मवर्चसी - ब्रह्मवर्चस्ये॑व (2-1-11,…), ब्रह्मवर्चस्यभवत् (7-2-8). अत्र व्यावर्त्याभावात् वर्चसीत्येव पर्याप्तमिति ज्ञेयम् ।
ज्योगामयावी - ज्योगा॑मयाव्यग्निं (2-1-13), आमयाव्यवेख्षेत (3-2-9). अस्य स्थाने आमयावीत्येव च सुवचं, नानापदत्वात् इङ्ग्यानाम् । तेनैव तृतीयकाण्डेऽपि पुनः/पृथक् पाठानपेक्षा।*
भुञ्जती - भुञ्जत्ये॑नं (2-1-28)
प्रतीची - प्रतीच्य॑स्मै (2-1-59)
सरस्वती - सर॑स्वत्याज्य॑भागा (2-2-46)*
गायत्री - गायत्र्योजः॑ (2-4-9)*
[वारुणी इत्यस्य अत्र (2-1-43,44,54) असन्देहात् पञ्चमकाण्डे पाठः । पराची इति पदे अत्र (2-1-59) सन्देहाभावात् षष्ठकाण्डे सनिमित्तस्थले एव पाठः ।]
[इन्द्राणी इति तु ब्राह्मणे एव सन्देहास्पदम्, इन्द्राण्य॑ग्नाय्यश्विनी राट् । (ब्रा. 3-5-26)]
[इन्द्रियावती - इन्द्रियावतीत्य॑ब्रवीत् (2-4-5/6) इति तु स्यात् सन्देहास्पदत्वात् ।]
[सिनीवाली (2-4-18) इत्यस्य तु तृतीयकाण्डे (3-4-34) एव सनिमित्तत्वमिति तत्रैव पाठः ।]
ह्रीतमुखी - ह्रीतमुख्य॑पगल्भः (2-5-6,2-5-29). अस्य स्थाने मुखीत्येव पर्याप्तं व्यावर्त्याभावात् ।
सोमयाजी, - सोमयाज्ये॑व (2-5-27), बहुयाजी - बहुयाज्यप॑रिमितं (2-5-60). अनयोः द्वयोः स्थाने याजीत्येव पर्याप्तम् । अन्यत्र (दर्शपूर्णमास, असोम, इत्युपबन्धवत्सु) च सन्देहाभावात् विरोधाभावः ।
हविर्धानी - हविर्धान्य॑स्मि (2-5-35). अस्य स्थाने धानीत्येव पर्याप्तं, व्यावर्त्याभावात् ।
अत्यासारिणी - अत्यासारिण्य॑ध्वर्योः (2-6-27). अस्य स्थाने आसारिणी इति च ।
स्त्री - स्त्र्य॑स्य जायेत (2-6-28,6-6-16)
घृतपदी - घृतप॑द्युच्यते (2-6-36), घृतपदीति॑ (2-6-39). अस्य स्थाने पदीत्येव पाठे सप्तपदीत्यस्यापि ग्रहणं भवेत्*, अन्यत्र चाविरोधः (एक, द्वि, त्रि, चतुः, पञ्च, षट्, अष्टा इत्युपबन्धवत्सु) असन्देहादेव ।
मैत्रावरुणी - मैत्रावरुणीत्या॑ह (2-6-39). अस्य वरुणीति च पर्याप्तम् ।
बृहती (2-5-59) इत्यस्य प्रथमवारं सनिमित्तत्वं बृहत्यु॑ष्णिहा (5-2-61) इत्यत्रैवेति तत्र पाठः ।
[एतावती इति ब्राह्मण एव सन्देहास्पदं, तस्यैताव॑त्येव वागासीत् (ब्रा. 2-2-21) इत्यत्र ।] {16}
तृतीयकाण्डे -
देवयशसी - देवयशस्ये॑व (3-1-26). अस्य स्थाने यशसीत्येव पर्याप्तं मनुष्योपबन्धे सन्देहाभावादविरोधात्।
आमयावी - (3-2-9).* एतत्तु अधिकं/चिन्त्यं, नानापदत्वात् इङ्ग्यानां, ज्योगामयावीत्यनेनैव चरितार्थत्वात्।
स्वर्वाची - स्व॑र्वाच्यदि॑तिः (3-2-16). अस्य स्थाने अर्वाची इत्यपि पर्याप्तं, व्यस्ते सन्देहाभावात् ।
पीवरी - पीव॑र्यस्य (3-2-33).
सप्तपदी - सप्तप॑द्यष्टाप॑दी (3-3-31).*
परमेष्ठी - परमेष्ठ्यधि॑पतिः (3-4-20,4-3-20).
ओजस्वी - ओजस्व्ये॑व (3-4-23,5-3-21).
सिनीवाली - सिनीवाल्य॑नुष्टुप् (3-4-34).
पौर्णमासी - पौर्णमास्यनु॑मतिः (3-4-34).*
आश्वत्थी - आश्व॑त्थ्युपभृत् (3-5-23) ॥ {10}
चतुर्थकाण्डे -
श्रौत्री, शारदी - श्रौत्र्य॑नुष्टुप्, शारद्य॑नुष्टुभः॑ (4-3-3)
[मन्थी पदस्य (4-3-3) इत्यत्र सन्देहाभावात् षष्ठकाण्ड एव सनिमित्तस्य पाठः ।]
राज्ञी - राज्ञ्य॑सि (4-3-12,4-4-4)
अधिपत्नी - अधि॑पत्न्यसि (4-3-12,4-4-5), अधि॑पत्न्यासीत् (4-3-18)*
*पत्नी इत्येतावन्मात्रग्रहणे अप्रगृह्यभूत अधिपत्नी, विष्णुपत्नी, व्यस्त पत्नीपदानां च ग्रहणं सिध्येत् । सन्देहाभावादन्यत्र च न विरोधः ।
[यमि॑त्री - यमि॑त्रीषे (4-3-14) इति च स्यात् सन्देहास्पदत्वात् ।]
यन्त्री, धर्त्री, धरित्री - यन्त्र्य॑सि, धर्त्र्य॑सि धरित्र्यायु॑षे (4-3-14)
वदन्ती - वदन्त्यन्वि॑च्छे (4-3-23)
व्यूषुषी - व्यूषुष्यपां (4-3-25). अस्य स्थाने ऊषुषी इत्यपि पर्याप्तम् ।
यानी - यान्य॑सि, अग्नेयान्य॑सि, वायोयान्य॑सि, अन्तरिख्षयान्य॑सि (4-4-21). [देवयानीत्यस्य तु सन्देहा-भावान्न ग्रहणम् ।]
प्राची - प्राच्य॑सि(4-4-22,5-3-44), प्राच्युदानी॑यते (6-3-43)
वज्री - वज्र्यृ॑तुभिः॑ (4-4-24), वज्र्यश्वः॑ (5-1-7)
सहस्वती - सह॑स्वत्यृतुः (4-4-35)
विष्णुपत्नी - विष्णु॑पत्न्यघो॑रा (4-4-37)*
बाहुशर्धी -बाहुशर्ध्यूर्ध्वधन्वा (4-6-16). अस्य स्थाने शर्धीति पर्याप्तम् ।
[वक्ष्यन्ती - वख्ष्यन्तीवेत् (4-6-27) इति तु स्यात् ससन्देहात् ।]
उखाभ्राजन्ती - मोखा भ्राज॑न्त्यभि वि॑क्त (4-6-44). उखेति किम्? महि॑ भ्राजन्त्यर्चयः॑ (4-2-30)इत्यत्र न ॥ {18}
पञ्चमकाण्डे -
वारुणी - वारुण्यु॑खा (5-1-37)
कार्ष्मर्यमयी - कार्ष्मर्यमय्यसौ (5-2-38). [अस्य स्थाने मयीत्येतावत्येव पठिते अयस्मयीत्यस्यापि ग्रहणमनेनैव सिध्येत् । पर्णमयी, शरमयीत्यत्र चासन्देहादविरोधः ।]
जगती, बृहती - जग॑त्यनुष्टुक्, बृहत्यु॑ष्णिहा (5-2-61)
पत्नी - पत्न्यन्वास्ते (5-3-33)*
मही - ? [एतत्तु सनिमित्तं न दृश्यते ।]
गृही - गृह्य॑सानि, गृह्ये॑व (5-5-9)
तिरश्ची - तिरश्च्यनूची (5-5-30)
एणी - एण्यह्ने (5-5-53)
नैर््ऋती- नैर््ऋत्यु॑खा (5-6-24)
पापीयसी - पापी॑यस्यस्य (5-6-31)
चतुर्थी - चतुर्थ्योष॑धीनां (5-7-53)
सप्तमी - सप्तम्य॑र्यम्णः (5-7-54)
एकादशी - एकादश्यदि॑त्यै (5-7-54) ॥ {13}
षष्ठकाण्डे -
सावित्री - सावित्र्ये॑तेन॑ (6-1-14)
वैश्वदेवीति - वैश्वदेव्ये॑तेन॑ (6-1-15)
पौष्णी - पौष्ण्ये॑तेन॑ (6-1-15)
सती - सत्य॑जया (6-1-41)
पराची - पराच्येव (6-1-52), पराच्यव्या॑कृता (6-4-33)
[सोमक्रयणी - सोमक्रय॑णीयात् (6-1-52) ससन्देहात् स्यात् ।]
अयस्मयी - अयस्मय्य॑वमा (6-2-15)
परोवरीयसी - परोव॑रीयस्यवान्तरदीख्षा (6-2-19)
मन्थी - मन्थ्य॑पिगृह्य॑ (6-4-43)
अत्त्री - अत्त्र्य॑स्य (6-4-46)
थ्सारी - थ्सारीय॑ति (6-4-50)
अर्धी - अर्ध्यवाङ्॑ (6-5-7)
तथ्षोडशी - तथ्षो॑डश्य॑भवत् (6-6-38). तदिति किम्? नैति॑ षोडश्युत्त॑रे (7-1-13) इत्यत्र ह्रस्वः ॥ {12}
सप्तमकाण्डे -
सहस्रतमी - सहस्रतम्य॑भवत्, सहस्रतम्यासीत्, सहस्रतम्यन्वेती ३, सहस्रतम्यन्वि॑यात् (7-1-16,18,32)
पयस्वती - पय॑स्वत्या त्वा (7-1-26) ॥ {2}
मूलम् - 1.49
यणादेशसूत्रम् - पूर्वोक्तानां संहितायां सन्देहास्पदानाम् ईकारान्तानां पदानां यत्र पदकाले ह्रस्वत्वमेव (सम्बुद्ध्यादिनिमित्तैः) तेषाम् उल्लेखः अत्र कृतः । (पूर्वप्राप्तिवर्जिताः ॥)
देव्यदिते - दे॒वि॒ । अ॒दि॒ते॒ । (1-5-10)
सरस्वत्या - सर॑स्वति । एति॑ । इ॒हि॒ । (1-6-8), सर॑स्वत्यभि - सर॑स्वति । अ॒भीति॑ । (7-2-25)
वदन्त्याग्नेयी(यम्?) - व॒द॒न्ति॒ । आ॒ग्ने॒यम् । (2-1-13)
वदन्त्यकूटया - व॒द॒न्ति॒ । अकू॑टया । (6-1-45) ।
यान्येव - यानि॑ । ए॒व । (1-7-24), (2-4-2), (2-4-3), (5-3-26), (6-4-32)
यान्यस्थानि - यानि॑ । अ॒स्थानि॑ । (6-2-43)
पृथिव्याशा - पृ॒थि॒वि॒ । आशाः । (4-1-24), (5-1-37)
भ्राजन्त्यर्चयः - भ्रा॒ज॒न्ति॒ । अ॒र्चयः॑ । (4-2-30)
वाप्युपस्थाने -
षोडश्युत्तरे (एति षोडशि ।) - षो॒ड॒शि । उत्त॑र॒ इत्युत्-त॒रे॒ । (7-1-13)
मन्थ्यग्रान् - म॒न्थ्य॑ग्रा॒निति॑ म॒न्थि-अ॒ग्रा॒न्॒ । (7-2-24)
मूलम् - 1.50
ह्रस्वविरळाः
नप्त्रिय प्रिय त्रिय ध्रिय ह्रिय भ्रिय म्रिय श्रिय स्त्रिय इत्येतेषु पदान्तेषु रेफ इकारात्परो यकारो ह्रस्वविरळाः।
अत्र विरळो नाम रेफयकारयोः विविच्योच्चारणं, पृथक् श्रवणं तयोर्यथा स्यादिति यावत् । संयोगाभावः निर्दिश्यते । विरळे इकार, ईकारयोः यकारे परे स्पष्टोच्चारणं (इयङादेशः) भवतीति यावत् । सूर्यस्य सूरिय इति, सत्यस्य सतीयमिति च विरळप्रयोगस्य श्रुतत्वात् । कात्यायनेन इयादिपूरण इत्युक्तत्वाच्च । एवमेव नकारस्य वकार, हकार, यकारेषु परेषु विभज्योच्चारणं विरळ इति कथ्यते । (रेफोष्मसंयोगे तु स्वरभक्तिरिति कथ्यते ।)
ह्रस्वविरळेषु रेफयुतः स्वरः (इकारः) ह्रस्वो भवति । यथा -
नप्त्रिय - नप्त्रियः॑ - (ब्रा. 2-4-47)
प्रिय - प्रियः (सं. 3-2-16…; ब्रा. 3-3-10), प्रियासः॑ (सं. 1-6-51, 3-4-46), प्रियं (सं. 1-2-13…; ब्रा. 2-2-26), प्रियं (आ. 5-18), प्रियम् (आ. 5-28), प्रियाणि॑ (1-5-12, 4-6-25), प्रियेण॑ (सं. 1-1-20), प्रियाय॑ (ब्रा. 3-4-7), प्रियस्य॑ (सं. 2-1-61, 4-2-47), प्रियाणाम् (सं. 7-4-38), प्रिये (सं. 1-1-20, 4-1-45), प्रियेषु॑ (सं. 2-6-67), प्रिया (सं. 1-6-9…), प्रियाः (सं. 1-5-16…), प्रियाम् (सं. 5-2-2…), प्रियया (सं. 5-1-23,32; 5-2-21), प्रियायाम् (सं. 5-7-12), प्रिये (7-1-28), माꣳस्ता प्रि॑ये (आ. 4-2), प्रियधा (सं. 1-3-14, 6-3-42), प्रियव॑ती (सं. 2-2-61), प्रियत॑मा (सं. 2-2-10, 2-5-52), प्रियत॑मं (आ. 1-7), प्रियङ्ग॑वः (सं. 2-2-61, 4-7-8), प्रियङ्गुतण्डुलैः, प्रियाङ्गाः (ब्रा. 3-8-55), प्रियवादिनम् (ब्रा. 3-3-7), प्रियस्तोत्रः (सं. 3-4-41)
पुरुप्रियम् (सं. 1-8-40), पुरुप्रियः (सं. 4-1-37), अभिप्रियम् (सं. 4-6-39), विप्रि॑याः (सं. 2-2-62; 6-2-8), विप्रि॑यः (सं. 2-2-63), संप्रि॑यः (सं. 4-2-15; ब्रा. 1-1-56,57; 1-2-17), संप्रि॑यं (ब्रा. 1-1-62; आ. 7-56), संप्रि॑याः (सं. 4-2-15; ब्रा. 1-2-17), संप्रि॑यौ (सं. 4-2-18; ए. 1-3), अप्रि॑यं (ब्रा. 1-2-43; 2-2-24,26), अप्रि॑यः (ब्रा. 3-3-9), अप्रियाः (आ. 5-42), आप्रियः॑ (ब्रा. 3-3-106, 3-9-19), परोक्ष॑प्रियाः (ब्रा. 1-5-37, 2-3-47,48,49,50; का. 3-2,15), याव॑त्प्रियः, ताव॑त्प्रियः (ब्रा. 3-3-10)….
त्रिय - क्षत्रिया (सं. 1-2-10), क्षत्रिया॑य (सं. 1-8-21), गायत्रियै (सं. 2-1-41..; ब्रा. 3-7-56), क्षत्रियान्॑ (सं. 2-1-64), गायत्रियः (सं. 2-5-47..), मैत्रिया (सं. 5-1-37; आ. 8-26), गायत्रिया (सं. 2-2-22..; ब्रा. 1-2-5..; आ. 2-2), अप्राशित्रियः (2-6-46), पात्रि॑यः (सं. 3-2-), रात्रि॑यै (सं. 4-4-), सावित्रिया (सं. 5-1-54; ब्रा. 3-2-37), मैत्रियः॑ (सं. 5-6-43), रात्रि॑याः (सं. 1-5-38), नक्षत्रियाम्, नक्षत्रिया॑याम् (7-1-9), अभिमन्त्रियः॑ (ब्रा. 1-1-64), नक्षत्रियः॑, नक्षत्रियम् (1-5-7), गायत्रियाम् (ब्रा. 2-2-20), सावित्रियः॑ (ब्रा. 3-9-49), सत्रियम् (का. 2-51), सत्रियम् (आ. 1-86,107), चातुर््होत्रियम् (आ. 1-87,107), गायत्रियाः (ब्रा. 2-3-6..; आ. 2-11), श्रोत्रियस्य (आ. 5-31), रात्रिया (आ. 6-40), क्षत्रियः॑ (ब्रा. 1-7-54), क्षत्रिया॑णाम् (ब्रा. 2-4-69), क्षेत्रिय॑ध्वगत्? (ब्रा. 2-5-1), क्षेत्रियै (ब्रा. 2-5-25; ए. 2-12), क्षेत्रियात् (ब्रा. 2-4-27), सावित्रियाः (ब्रा. 3-8-30), क्षत्रियस्य॑ (का. 3-50), सुक्षेत्रिया (आ. 4-25)
ध्रिय - सध्रिय॑ञ्चः (सं. 1-2-32), उद्ध्रियते (सं. 2-2-21), अध्रि॑यत (सं. 2-3-38), अध्रियत (सं. 2-6-16; ब्रा. 1-5-20; आ. 8-17), ध्रियस्व (सं. 2-6-16; ब्रा. 3-7-25), ईध्रिया॑य (सं. 4-5-16), अध्रियन्त (सं. 6-1-34; ब्रा. 2-1-22), उद्ध्रियमा॑णे, णः (ब्रा. 1-1-60; ए. 2-15), सध्रिय॑क्कः (ब्रा. 2-5-43), ध्रियते (आ. 6-79),
ह्रिय - आह्रियमा॑णाम् (सं. 1-7-1), आह्रियते(सं. 1-7-12,…), ह्रियेत (सं. 2-2-22), आह्रियमा॑णायाम् (सं. 3-1-16), उपावह्रियमा॑णः (सं. 4-4-25), आह्रियमा॑णम् (सं. 6-1-43,75), प्रह्रियमा॑णाय (सं. 6-3-31), प्रह्रियते (सं. 7-5-31), ह्रियमा॑णस्य (ब्रा. 1-2-5,..), ह्रियमा॑णः (ब्रा. 1-5-52; आ. 8-103), ह्रियमा॑णम् (ब्रा. 2-1-50,52), ह्रियते (ब्रा. 1-2-34,42; 3-9-39), उप॑ह्रियते (ब्रा. 1-4-53), प्रह्रि॑येत (ब्रा. 3-7-15), ह्रि॑या (आ. 5-20), भ्रिय - अभ्रिय॑स्य (सं. 3-4-43), भ्रियते (सं. 5-1-48, 5-4-53), भ्रियते (सं. 5-6-36), प्रभ्रि॑येत (ब्रा. 3-6-33), भ्रियमा॑णः (आ. 3-41),
भ्रियमा॑णा (आ. 4-27), सम्भ्रियमा॑णः (आ. 8-100).
म्रिय - म्रियसे (सं. 4-6-46; ब्रा. 3-7-92, 95), म्रियते (सं. 5-7-17), म्रियते (सं. 5-7-17; ब्रा. 1-4-18, 21), अम्रियत (सं. 6-1-7, 6-4-8; ब्रा. 3-2-35), म्रियन्ते (आ. 5-42).
श्रिय - शिश्रिये (सं. 1-5-10, 1-7-40; ब्रा. 2-5-6), शिश्रियाणः (सं. 3-3-29), घृतश्रियम् (सं. 3-3-33; ब्रा. 2-6-37), शिश्रियाणम् (सं. 4-4-12; ब्रा. 2-5-13), शिश्रियाणाम् (सं. 4-6-1), श्रियम् (सं. 6-1-68, 6-3-43, 7-3-16, 7-4-4,15,16; ब्रा. 1-1-79, 1-7-28,64; 2-6-63,66,89; 2-7-23, 2-8-56, 3-1-17, 3-6-8, 3-7-29, 3-9-19,30,31,36,52; आ. 1-124, 3-25,26, 5-8, 6-7; ए. 2-18,21), श्रियः॑ (ब्रा. 2-4-60,74), अभिश्रियम् (ब्रा. 2-4-73), श्रिया (ब्रा. 2-6-89, 3-9-52; आ. 2-14), अग्निश्रियः॑ (ब्रा. 2-7-37), शिश्रियाणाः (ब्रा. 2-8-36),
स्त्रिय - स्त्रियः॑ (सं. 2-3-36…; ब्रा. 2-3-45..; का. 3-35; आ. 1-51), स्त्रियाः (सं. 2-5-6), स्त्रियम् (सं. 2-5-32…; ब्रा. 1-1-71…, आ. 2-11), स्त्रियै (ब्रा. 2-4-56; का. 3-10,21), स्त्रिया (सं. 6-1-43), स्त्रियाम् (ब्रा. 2-4-55)
एतत्सूत्र-व्यावर्त्यास्तु -
त्र्य॑क्षरेण (सं. 1-7-43),त्र्य॑म्बकम् (सं. 1-8-11; ब्रा. 1-6-75), त्र्य॑म्बकान् (सं. 3-2-6), त्र्यविः॑ (सं. 4-3-5,..; ब्रा. 2-6-84), त्र्यवी (सं. 4-7-17), त्र्यु॑द्धिम् (सं. 5-1-34; आ. 8-23), त्र्या॑लिखिता (सं. 5-2-43,44), त्र्यहम् (सं. 5-5-13), त्र्यव्यः॑ (सं. 5-6-46), त्र्यु॑न्नते, त्र्यु॑न्नतात्, त्र्यु॑न्नतम् (सं. 6-2-31,32), त्र्यङ्गाणाम् (सं. 6-3-56), त्र्या॑वृत् (सं. 6-3-37,..; ब्रा. 3-2-38,..; आ. 8-31,40), त्र्य॑तिरात्रः (सं. 7-3-7), त्र्यहाभ्याम् (सं. 7-3-11,..), त्र्यहः (सं. 7-3-12,..), त्र्यहाः (सं. 7-3-23,..), त्र्यहान् (सं. 7-4-17), गायत्र्याह॑रत् (ब्रा. 1-1-23,..), त्र्यहे (ब्रा. 1-1-74), अग्निहोत्र्युप॑सृष्टा (ब्रा. 1-4-12), त्र्य॑म्बकैः (ब्रा. 1-4-65, …), त्र्यविम् (ब्रा. 2-6-77), सावित्र्यु॑पभृत् (ब्रा. 3-3-43), त्र्या॑वृतः (ब्रा. 3-8-40), पात्र्या (ब्रा. 3-9-57), स्त्र्य॑स्य (सं. 2-6-28,6-6-16), स्त्र्ये॑व (सं. 6-6-16),
स्त्र्य॑स्मि (आ. 1-51), त्र्यायुषम् (ए. 2-7), जैत्र्या॑य (ए. 2-8), स्थवित्र्यव॑पद्यस्व (ए. 2-11).
वस्तुतस्तु, एषु दृष्टान्तेषु मध्ये - पात्र्या, जैत्र्याय इत्येव व्यस्तपदत्वात् अपवादविषये भवत इति ज्ञेयम् ।
रात्र्या मंत्र्य पित्र्य भर्त्र्यो जनयित्र्यो धिष्ण्यात्काठके ॥ स्वस्रीयेण यकारादिर्यणेव च ॥ स्त्रियं तेरभपाकु ॥ हन उस्र धेनुः ॥
काठके तु -
रात्र्या - रात्र्याम् (आ. 2-21), रात्र्या (का. 1-9), काठक इति किम् - रात्रिया (आ. 6-40), रात्रि॑या, रात्रि॑यै, रात्रि॑याः (सं. 1-5-38, 5-5-53; ब्रा. 1-5-41,..,1-6-64; आ. 7-39; 8-79). [अपवादः - रात्र्या (ए. 2-15)]
मन्त्र्य - आमन्त्र्य॑ (का. 1-46). अनेन अभिमन्त्रियः॑ (ब्रा. 1-1-64) इत्यत्र, पाठभेदत्वेन सूचित मन्त्र्य इति पाठोपि चिन्त्य इति भाति ।
पित्र्य - पित्र्यम् - (आ. 2-9)
भर्त्र्य - भर्त्र्यः॑ (का. 2-5,19), भर्त्र्यौ (का. 2-18)
जनयित्र्य - जनयित्र्यः॑ (का. 2-5,19), जनयित्र्यौ (का. 2-18)
धिष्ण्य - धिष्ण्यात् (का. 2-57). काठक इति किम् - अन्यत्र, धिष्णि॑यः (सं. 3-1-9), धिष्णि॑यम् (ब्रा. 1-7-33), धिष्णि॑याः (सं. 3-2-31,..; ब्रा. 3-3-49), धिष्णि॑ये (सं. 5-4-54), धिष्णि॑येषु (सं. 5-4-55), धिष्णि॑यान् (सं. 6-3-1), धिष्णि॑यैः (आ. 3-11),[वृष्णि॑यम् (सं. 3-2-18,..), वृष्णि॑यावतः (सं. 3-5-20), वृष्णि॑यानि (ब्रा. 2-4-45), वृष्णि॑येभिः (ब्रा. 2-8-20),वृद्धवृ॑ष्णियम् (सं. 4-4-34), पार्ष्णि॑या (सं. 4-6-44), पौष्णियः॑ (सं. 5-6-43), परुष्णिया (आ. 6-8)?]
स्त्री यु॑वतिः (ब्रा. 3-8-48) ।
सहस्रियः॑ (सं. 2-4-15, 4-7-27), सहस्रियम् (सं. 4-2-15, 4-3-34, 4-4-34), हनी॑यसे (सं. 4-5-17), उस्रिया॑सु (सं. 1-8-42), उस्रियाः (सं. 2-3-54; ब्रा. 3-1-25).
धेनुर्यः (सं. 2-6-11), नवी॑यसा (सं. 2-2-64; ब्रा. 2-4-74), नवी॑यसे (ब्रा. 2-4-29), नवी॑याꣳसम् (आ. 7-50),
[नव्यम् (सं. 1-1-25; ब्रा. 3-6-24), नव्यः॑ (सं. 1-1-28; ब्रा. 2-8-11; आ. 6-11), नव्य॑से (सं. 1-4-25, 4-4-11; ब्रा. 2-4-40; आ. 7-44), नव्ये (सं. 1-7-49), नव्य॑सीभिः (सं. 4-1-46; ब्रा. 2-8-29), नव्ये॑भिः (ब्रा. 3-6-21), ]
हारियोजनः (सं. 1-4-29, 4-7-14, 6-5-32), हारियोजनम् (सं. 6-5-33), हारियोजनीः (सं. 6-5-33,34,35),
नारिय?
मूलम् - 1.51
दीर्घविरळाः
असुरो निष्परि विक्रीय नप्त्रीयꣳस्वस्रीयꣳ होत्रीयꣳ होत्रीय आग्नीध्रीयः शतरुद्रीयꣳ शतरुद्रीयस्य स्तोत्रीया गायत्रियां नेष्ट्रीयां पोत्रीयां शुनासीरीयेण दीर्घविरळाः ॥ विक्रीयत इति वर्जयित्वा ॥
..तयन्त सून्नीयं परोवरीयसपि यूषः पीयति आर्तीयेतां ..वियश्चीयते क्षीयते व्लीयत मार्जालीय द्वितीय तृतीय वसीयान् पापीयान् ह्रसीयाꣳसमितादानसी ..
दीर्घविरळेषु रेफयुतः स्वरः (यकारात्पूर्वः) (ईकारः) दीर्घो भवति । यथा -
असुरः - ? (स्वस्रीयोऽसु॑राणाम् (सं. 2-5-1)?
निष्(क्रीय) - निष्क्रीय॑ (सं. 2-2-56, 2-3-14, 3-4-7, 6-4-14; ब्रा. 1-3-57, 1-7-28)
परि(क्रीय) - परिक्रीय॑ (ब्रा. 1-3-37),
विक्रीय - विक्रीय॑ (सं. 6-1-53) [क्रीयमा॑णः (सं. 4-4-25)]
नप्त्रीयम् - अपोनप्त्रीयम् (सं. 2-3-47)
स्वस्रीयम् - स्वस्रीयः॑ (सं. 2-5-1)
होत्रीयम् - होत्रीयम् (सं. 3-2-12)
होत्रीय, आग्नीध्रीयः - आग्नीध्रीयः॑ होत्रीयः॑ (सं. 6-3-3)
शतरुद्रीयम् - शतरुद्रीयम् (सं. 5-4-9,..; का. 2-61)
शतरुद्रीयस्य - शतरुद्रीय॑स्य (का. 2-58)
स्तोत्रीया - स्तोत्रीयाः (सं. 7-1-20,..; ब्रा. 1-8-35)
गायत्रियां - अयं न दीर्घः ।
नेष्ट्रीयां - नेष्ट्रीयाम् (का. 3-53)
पोत्रीयां - पोत्रीयाम् (का. 3-53)
शुनासीरीयेण - शुनासीरीये॑ण (ब्रा. 1-4-58,…)
[व्यावर्त्याः - चन्द्र्य॑श्विनोः (ब्रा. 2-6-51)?]
{तुरी॑य (सं. 1-4-23), वरी॑यसीम् (सं. 2-6-54), तुरीया (सं. 3-4-6,..), क्रीयमा॑णः (सं. 4-4-25), वरी॑यः (सं. 4-6-20), परोव॑रीयसीम्, परोव॑रीयसी (सं. 6-2-19),
तुरीयम् (सं. 7-5-18), गरी॑यः (ब्रा. 1-2-46), इन्द्रतुरीयस्य॑, इन्द्रतुरीयत्वम् (ब्रा. 1-7-3), तुरीयः॑ (ए. 1-3), वरी॑यान् (ब्रा. 2-4-31; आ. 7-26), वरी॑याꣳसः (का. 2-40,60)
[परी॑यात् (ब्रा. 1-4-37; आ. 8-42), परी॑याम (ब्रा. 3-1-49) इति तु क्रियापदम् ।]}
श्रायन्तीयम् वारवन्तीयम्
मूलम् - 1.52
संहितायां थकारधकारयोर्मध्ये सन्देहास्पदस्थलेषु (थकार)द्वितीयाक्षरयुक्तपदानि काण्डक्रमेण निरूप्यन्ते -
इषे - प्रथकाण्डस्थपदानि ।
विजिहाथाम् - वीति॑ । जि॒हा॒था॒म्॒ । (1-1-21)
पर्यधत्थाः - प॒र्यध॑त्था॒ इति॑ परि-अध॑त्थाः । (1-1-23)
जुषेथाम् - जु॒षेथाम् । (1-1-25)
सयूथ्यः - सयूथ्य॒ इति॒ स-यू॒थ्यः॒ । (1-2-10)
नाथितम् - ना॒थि॒तम् । (1-2-22)
आघोषेथाम् - एति॑ । घो॒षे॒था॒म्॒ । (1-2-25)
अत्र रमेथाम् - अत्र॑ । र॒मे॒था॒म्॒ । (1-2-26)
व्यथिः - व्यथिः॑ । (1-2-29)
प्रथिष्ठम् - प्रथि॑ष्ठम् । (1-2-33)
आपृणेथाम् - एति॑ । पृ॒णे॒था॒म्॒ । (1-3-2), (6-2-53)
दधाथाम् - द॒धा॒था॒म्॒ (1-3-12), (1-4-2)
त्रायेथाम् - त्रा॒ये॒था॒म्॒ (1-3-14)
भवथ - भव॑थ (1-3-18), भ॒व॒थ॒ (1-7-33)
वीडयेथाम् - वी॒ड॒ये॒था॒म्॒ । (1-4-2)
विमुच्येथाम् - वीति॑ । मु॒च्ये॒था॒म्॒ । (1-4-8)
प्रत्नथा - प्र॒त्नथा । (1-4-10)
पूर्वथा - पू॒र्वथा । (1-4-10)
विश्वथा - वि॒श्वथा । (1-4-10)
इमथा - इ॒मथा । (1-4-10)
नीथेनीथे - नी॒थेनी॑थ॒ इति॑ नी॒थे-नी॒थे॒ । (1-4-52)
शिश्रथः - शि॒श्र॒थः॒ । (1-5-49)
श्रथाय - श्र॒था॒य॒ ॥ (1-5-11)
अह्वथाः - अ॒ह्व॒थाः॒ (1-7-7), (1-7-9), (1-7-10)
समिथेषु - स॒मि॒थेष्विति॑ सम्-इ॒थेषु॑ । (1-7-35)
मन्थम् - म॒न्थम् । (1-8-7)
अर्थेतः - अ॒र्थेत॒ इत्य॑र्थ-इतः॑ । (1-8-20)
ततश्चक्षाथाम् ॥ - ततः॑ । च॒ख्षा॒था॒म्॒ । (1-8-23)
वायव्यम् - द्वितीयकाण्डस्थपदानि ।
त्रीणि व्रता विदथे - त्रीणि॑ । व्र॒ता । वि॒दथे । (2-1-64)
मन्थेत् - म॒न्थे॒त्॒ । (2-2-22)
मथितम् - म॒थि॒तम् । (2-2-54)
बडित्था - बट् । इ॒त्था । (2-2-65)
समिथे बभूथ - स॒मि॒थ इति॑ सम्-इ॒थे । ब॒भूथ॑ ॥ (2-2-68)
बभूवथुः - ब॒भू॒व॒थुः॒ (2-3-51)
चक्रथुः - च॒क्र॒थुः॒ (2-3-52)
वृथा - वृथा । (2-3-55)
पथिभिः - प॒थिभि॒रिति॑ प॒थि-भिः॒ । (2-3-55), (3-1-11), (3-2-45), (4-6-36), (4-6-46), (4-7-22), (5-7-31), (7-5-52)
र्दीर्घयाथैः - दी॒र्घ॒या॒थैरिति॑ दीर्घ-या॒थैः । (2-3-55)
अग्नावनाथन्त - अ॒ग्नौ । अ॒ना॒थ॒न्त॒ । (2-4-2)
भविष्यथ - भ॒वि॒ष्य॒थ॒ । इति॑ । (2-4-5)
उदीरयथ - उदिति॑ । ई॒र॒य॒थ॒ । (2-4-22)
वर्षयथ - व॒र्ष॒य॒थ॒ । (2-4-22)
होतारमवृथाः - होता॑रम् । अवृ॑थाः । (2-5-55)
रुरोजिथ - रु॒रोजि॑थ ॥ (2-6-64)
ततन्थ ॥ - त॒त॒न्थ॒ (2-2-64), (2-6-66)
प्रजापतिरकामयत - तृतीयकाण्डस्थपदानि ।
निर्मन्थ्यम् - नि॒र्म॒न्थ्य॑मिति॑ निः-म॒न्थ्यम् । (3-1-10)
मन्थिनः - म॒न्थिनः॑ । (3-1-19), (3-1-31), (3-1-33), म॒न्थिनः॑ (4-3-3)
निरयाचथाः - नि॒रया॑चथा॒ इति॑ निः-अया॑चथाः । (3-1-29)
यत्क्रीडथ - यत् । क्रीड॑थ । (3-1-39)
(पिन्वथ) - पि॒न्व॒थ॒ । (3-1-42)
सिञ्चथ - सि॒ञ्चथ॑ । (3-1-42)
वर्चसे पवेथां - वर्च॑से । प॒वे॒था॒म्॒ । (3-2-8)
जनप्रथनाय - ज॒न॒प्रथ॑ना॒येति॑ जन-प्रथ॑नाय । (3-2-29)
उद्गीथाः - उ॒द्गी॒था इत्यु॑त्-गी॒थाः । (3-2-39)
(उद्गीथः) - उ॒द्गी॒थ इ॑त्युत्-गी॒थः । (3-2-39)
सख्यमाविथ - स॒ख्यम् । आवि॑थ ॥ (3-2-44)
जिग्यथुः - जि॒ग्य॒थुः॒ । (3-2-45)
(जयेथे) - ज॒ये॒थे॒ इति॑ । (3-2-45)
अपस्पृधेथाम् - अप॑स्पृधेथाम् । (3-2-45)
ऐरयेथाम् - ऐ॒र॒ये॒था॒म्॒ ॥ (3-2-45)
विदथा - वि॒दथा । (3-2-46)
श्ञथिष्टम् - श्ञ॒थि॒ष्ट॒म्॒ ॥ (3-2-46)
(हथः) - ह॒थः । (3-2-46)
आश्वत्थ्युपभृत् ॥ - आश्व॑त्थी । उ॒प॒भृदित्यु॑प-भृत् । (3-5-23,24) ((आश्व॑त्थे (1-8-16), आश्व॑त्थान् (2-3-5), आश्व॑त्थाः (2-3-5), अ॒श्व॒त्थः (2-3-5), (3-5-24), (5-1-52), आश्व॑त्थः (3-4-25), अ॒श्व॒त्थे (4-2-25), आश्व॑त्थीम् (5-1-52), आश्व॑त्थी॒ इति॑ (7-2-3))
युञ्जानः - चतुर्थकाण्डस्थपदानि ।
विदथेषु - वि॒दथे॑षु । (3-1-41), (4-1-5), (7-1-40)
संवसाथाम् - समिति॑ । व॒सा॒था॒म्॒ । (4-1-11)
प्राणथेन - प्रा॒णथे॒नेति॑ प्र-अ॒नथे॑न । (4-1-14)
मा सुभित्थाः - मा । स्विति॑ । भि॒त्थाः॒ । (4-1-35)
करिष्यथः - क॒रि॒ष्य॒थः॒ ॥ (4-1-36)
श्रथाय - श्र॒था॒य॒ । (4-2-4)
आजगन्थ - आ॒ज॒गन्थेत्या-ज॒गन्थ॑ ॥ (4-2-6)
वसुनीथ - व॒सु॒नी॒थेति॑ वसु-नी॒थ॒ । (4-2-13)
सङ्कल्पेथाम् - समिति॑ । क॒ल्पे॒था॒म्॒ । (4-2-18)
किलासथ - किल॑ । अ॒स॒थ॒ । (4-2-25), यथा । अस॑थ ॥ (4-6-19)
सनवथ - स॒नव॑थ । (4-2-25)
अव्यथमाना(म्) - अव्य॑थमाना । (4-2-36), अव्य॑थमानाम् । (4-3-11), अव्य॑थमानाम् । (5-3-6)
भूषथः - भू॒ष॒थः॒ ॥ (4-2-46)
श्ञथत् - श्ञथ॑त् । (4-2-46), (4-3-36)
रिरिचाथे - रि॒रि॒चा॒थे॒ इति॑ । (4-2-46)
विथुरेव - वि॒थु॒रा । इ॒व॒ । (4-3-35)
अव्यथयन्ती - अव्य॑थयन्ती॒ इति॑ । (4-4-6)
प्रथन्तु - प्र॒थ॒न्तु॒ । (4-4-6)
प्रोथत् - प्रोथ॑त् । (4-4-9)
(प्रोथ) - प्रो॒थ॒ । (4-6-33)
(व्यस्थात्) - व्यस्था॒दिति॑ वि-अस्थात् ॥ (4-4-9)
नाथितः - ना॒थि॒तः । (4-7-33), (4-7-34), (4-7-35), (4-7-36), (4-7-37), (4-7-38)
नुदेथे - नु॒देथे॒ इति॑ ॥ (4-7-34)
याथ उग्रा - या॒थः । उ॒ग्रा॒ । (4-7-34)
विदथानि - वि॒दथा॑नि । (4-7-35)
शिश्रथो विष्वक् ॥ - शि॒श्र॒थः॒ । विष्व॑क् । (4-7-39)
सावित्राणि - पञ्चमकाण्डस्थपदानि ।
निरमन्थत् - निरिति॑ । अ॒म॒न्थ॒त्॒ । (4-1-11), (5-1-18)
तमुत्वापाथ्यः - तम् । उ॒ । त्वा॒ । पा॒थ्यः । (3-5-35), (4-1-12), (5-1-19)
सरथिना - स॒र॒थिनेति॑ स-र॒थिना । (5-1-58)
यथापूर्वम् - य॒था॒पू॒र्वमिति॑ यथा-पू॒र्वम् । (1-6-43), (1-7-24), (2-5-19), (2-5-54), (2-6-3), (2-6-6), (5-2-1), (5-5-21), (6-3-54), (7-2-22), (7-3-29), (7-5-47), (7-5-27)
मान्थीलवः - मा॒न्थी॒लवः॑ । (5-5-56)
पृश्ञिसक्थे(म्) - पृ॒श्ञि॒स॒क्थमिति॑ पृश्ञि-स॒क्थम् । (3-1-17), पृ॒श्ञि॒स॒क्थ इति॑ पृश्ञि-स॒क्थः । (2-1-18), पृ॒श्ञि॒स॒क्था इति॑ पृश्ञि-स॒क्थाः । (5-6-54), पृ॒श्ञि॒स॒क्थायेति॑ पृश्ञि-स॒क्थाय॑ । (7-3-40)
यथा - यथा (1-4-19 .. 95पञ्चाशत्सु), य॒था॒ (1-6-47, 2-6-61, 2-6-63, 3-1-42, 3-4-46, 4-2-25).
यूथेयूथे - यू॒थेयू॑थ॒ इति॑ यू॒थे-यू॒थे॒ । (5-7-4)
अनुजीवाथ - अन्विति॑ । जी॒वा॒थ॒ । (5-7-16)
निर्मन्थ्यम् - नि॒र्म॒न्थ्य॑मिति॑ निः-म॒न्थ्यम् । (5-7-17)
उपैष्यथेति - उ॒पैष्य॒थेत्यु॑प-ऐष्य॑थ । (5-7-23)
आनन्दन्नन्दथुना ॥ - आ॒न॒न्दम् । न॒न्दथु॑ना । (5-7-51)
प्राचीनवꣳशम् - षष्ठकाण्डस्थपदानि ।
अनुशृन्थति - अन्विति॑ । शृ॒न्थ॒ति॒ । (6-1-65)
अनुपग्रथ्य - अनु॑पग्र॒थ्येत्यनु॑प-ग्र॒थ्य॒ । (6-1-69)
नरथायैतद्वै - न । रथा॑य । ए॒तत् । वै । (6-2-31)
साथो - सा । अथो॒ इति॑ । (6-2-35)
नाथितम् (तान्) - ना॒थि॒तम् । (6-2-35), ना॒थि॒तान् (6-2-35)
व्यथितम् (तान्) - व्य॒थि॒तम् । (1-2-22), (6-2-35), व्य॒थि॒तान् (6-2-35)
अत्र रमेथाम् - अत्र॑ । र॒मे॒था॒म्॒ । (6-2-47)
मन्थी - म॒न्थी । (4-3-3), (4-4-25), (4-7-13), (6-4-43), (6-4-46)
मेथीं निहन्ति - मे॒थीम् । नीति॑ । ह॒न्ति॒ । (6-2-48)
अग्निम्मन्थेत् - अ॒ग्निम् । मन्थेत् । (6-3-28)
एनम्मन्थति - ए॒व । ए॒न॒म्॒ । म॒न्थ॒ति॒ । (6-3-30)
वृषणन्दधाथाम् - वृष॑णम् । द॒धा॒था॒म्॒ । (6-3-30)
मथ्यमानाय - म॒थ्यमा॑नाय । (6-3-30)
पशुं त्रायेथाम् - त्रा॒ये॒था॒म्॒ (6-3-40)
सलक्ष्माणो भवथ ॥ - भव॑थ (6-3-58)
प्रजननम् - सप्तमकाण्डस्थपदानि ।
उभा जिग्यथुः - उ॒भा । जि॒ग्य॒थुः॒ । (7-1-18, 7-1-27)
जयेथे - ज॒ये॒थे॒ इति॑ । (7-1-27)
अपस्पृधेथाम् - अप॑स्पृधेथाम् । (7-1-27)
तदैरयेथाम् - तत् । ऐ॒र॒ये॒था॒म्॒ ॥ (7-1-27)
(प्र)प्रोथते - प्र॒प्रोथ॑त॒ इति॑ प्र-प्रोथ॑ते । (7-1-49)
उत्थास्यते - उ॒त्था॒स्य॒त इत्यु॑त्-स्था॒स्य॒ते । (7-1-51)
मन्थ्यग्रान् - म॒न्थ्य॑ग्रा॒निति॑ म॒न्थि-अ॒ग्रा॒न्॒ । (7-2-24)
मन्थिपात्रम् - म॒न्थि॒पा॒त्रमिति॑ मन्थि-पा॒त्रम् । (7-2-24)
शवसा जघन्थ - शव॑सा । ज॒घन्थ॑ । (7-4-41)
संप्रोर्ण्वाथां - सम् । प्रेति॑ । ऊ॒र्ण्वा॒था॒म्॒ ॥ (7-4-47), प्रेति॑ । ऊ॒र्ण्वा॒था॒म्॒ । (1-4-17), (6-3-74)
गाथाभ्यस्स्वाहा ॥ - गाथाभ्यः । स्वाहा । (7-5-34).
संहितायां थकारधकारयोर्मध्ये सन्देहास्पदस्थलेषु (धकार)चतुर्थाक्षरयुक्तपदानि कानिचन निरूप्यन्ते -
आयुषे धाम् - आयु॑षे । धा॒म्॒ । (1-1-9)
उभा राधसः - उ॒भा । राध॑सः । (1-1-25), उ॒भा । राध॑सः । (1-5-18)
उशते धेष्ठा - उ॒श॒ते । धेष्ठा ॥ (1-1-26)
शुरुधः - शु॒रुधः॑ । (1-1-26)
वर्चोधाः - व॒र्चो॒धा इति॑ वर्चः-धाः । (1-2-1), (1-6-17), व॒र्चो॒धामिति॑ वर्चः-धाम् । (1-2-6),
राधसा - राध॑सा । (1-2-7)
रत्नधाम् - र॒त्न॒धामिति॑ रत्न-धाम् । (1-2-13)
रत्नधातमम् - र॒त्न॒धात॑म॒मिति॑ रत्न-धात॑मम् ॥ (3-3-33), (4-3-31)
अनुष्वधम् - अ॒नु॒ष्व॒धमित्य॑नु-स्व॒धम् । (1-4-20)
नेमधिता - ने॒मधि॒तेति॑ ने॒म-धि॒ता॒ । (1-6-46)
गावीधुकम् - गा॒वी॒धु॒कम् । (1-8-12), (1-8-16), (1-8-18), (5-5-40)
सन्निधाय - स॒न्नि॒धायेति॑ सम्-नि॒धाय॑ । (2-2-22)
तम(द)वरुधम् - तत् । अ॒व॒रुध॒मित्य॑व-रुधम् । (2-3-29), तम् । अ॒व॒रुध॒मित्य॑व-रुधम् । (5-4-2)
ता अरीरधाम - ताः । अ॒री॒र॒धा॒म॒ । (2-6-55)
अग्धादेकः - अ॒ग्धादित्य॑ग्ध-अत् । एकः॑ । (3-3-23)
नैयग्रोधः - नैय॑ग्रोधः । (3-4-25)
हवमानाय साध - हव॑मानाय । सा॒ध॒ ॥ (4-2-16)
भृत्यामृणधत् - भृ॒त्याम् । ऋ॒णध॑त् । (4-2-48)
वयोनाधैः - व॒यो॒ना॒धैरिति॑ वयः-ना॒धैः । (4-3-9)
अविदद्धि गाधं - अवि॑दत् । हि । गा॒धम् ॥ (4-3-24)
देवꣳ राधः - दे॒वम् । राधः॑ । (4-4-14)
सेध - से॒ध॒ (1-1-10), (4-6-33)
समिध्यमानाय - स॒मि॒ध्यमा॑ना॒येति॑ सम्-इ॒ध्यमा॑नाय । (6-3-36)
एव यज्ञे धित्वा - ए॒व । य॒ज्ञे । धि॒त्वा । (7-2-35)
विविवधस्यात् - विवि॑वध॒मिति॒ वि-वि॒व॒ध॒म्॒ । स्या॒त्॒ । (7-3-12), (7-3-18), (7-3-24)
सविवधत्वाय ॥ - स॒वि॒व॒ध॒त्वायेति॑ सविवध-त्वाय॑ । (7-3-12), (7-3-18), (7-3-24).
अत्र यद्यपि अनेकपदानि (थकारवत्पदस्य पूर्वं परं वा) कुत्रचित् निर्दिष्टानि, तेषां व्यावर्तकत्वं नास्ति, व्यावर्त्याभावात् । अतः तेषां संहितोद्देशनिर्देश एव तात्पर्यं ग्राह्यम् इति भाति ॥
मूलम् - 1.53
मूलम् - 1.54
अथ त्रिक्रमाः ।
आकारान्तमुदात्तान्तान्तमाङ्परं यत्र दृश्यते । त्रिक्रमं तं विजानीयात् मोषूण ऊषुणस्तथा ॥
[आकारान्तत्वे आङ्परत्वे च हि सवर्णदीर्घसन्धेः ससन्देहत्वात् त्रिक्रमप्रसङ्गः । अतः आकारान्तमिति किम्? इति न परीक्ष्यते । उदात्तान्तमिति किम्? त्वाऽऽत॑नच्मि - त्वा । एति॑ । तनच्मि । (1-1-4),
त्वाऽऽवर्तयतु - त्वा । एति॑। वर्तयतु । (1-2-10,6-1-52), त्वाऽऽदधे - त्वा । एति॑ । दधे ।, नाम्नेहि - नाम्ना । एति॑ । इहि । (1-2-22,23), सहसाऽऽऽदित्सन्त - सह॑सा । एति॑ । अदिथ्सन्त । (1-5-1),
त्वष्टाऽऽऽधत्त - त्वष्टा । एति॑ । अधत्त । (1-5-3), माऽऽविशत - मा । एति॑ । विशत । (1-5-23), याज्यैव - याज्या । एति॑ । एव । (2-3-26), यथाऽऽनमस्व - यथा । एति॑ । नमस्व । (2-6-61),
माऽऽभज - मा । एति॑ । भज । (3-1-31), स्तनयित्नुनेहि - स्तनयित्नुना । एति॑ । इहि । (3-1-41),त्वाऽऽरभे - त्वा । एति॑ । रभे । (3-2-1,7-5-45,46), माऽऽविश - मा । एति॑ । विश । (3-2-16,7-1-31),
माऽऽगम्यात् - मा । एति॑ । गम्यात् । (3-2-27), तयेहि - तया । एति॑ । इहि । (3-4-40), छन्दसाऽऽददे - छन्द॑सा । एति॑ । ददे । (4-1-3,4), त्वाऽऽच्छृन्दन्तु - त्वा । एति॑ । छृन्दन्तु । (4-1-24),
ज्योतिषाऽऽऽगात् - ज्योति॑षा । एति॑ । अगात् । (4-2-4,4-3-25,5-2-5), द्रविणाऽऽयजस्व - द्रवि॑णा । एति॑ । यजस्व । (4-3-8), ज्योतिषाऽऽऽगुः - ज्योति॑षा । एति॑ । अगुः । (4-3-21),
अवसाऽऽगमन्तु - अव॑सा । एति॑ । गमन्तु । (4-7-21), पयसाऽऽच्छृणत्ति - पय॑सा । एति॑ । छृणत्ति । (5-1-38), मेत - मा । एति॑ । इत । (5-7-16), त्वाऽऽऽयानि - त्वा । एति॑ । अयानि । (5-7-19,20,21,22),
सतूलयाऽऽऽङ्क्ते - सतू॑लयेति स-तूलया । एति॑ । अङ्क्ते । (6-1-6), माऽऽविशतात् - मा । एति॑ । विशतात् । (7-1-26,30), माऽऽविशताम् - मा । एति॑ ।विशताम्, माऽऽविशतु - मा । एति॑ । विशतु । (7-3-34)].
मास्थात् प्रियधाविशत पूषाधत्त धाताधत्त कृत्वाधत्त ऊत्याप्र मावृख्षि मावृख्षि मोषूणोर्यमायाति दध्नातनक्त्यूषुणो महित्वनानाकमूषुण ऊषुणः कृत्वाहरति दख्षिणावर्ततर्चासादयति कृत्वालभते प्रियधाविशत भूत्वाहरद्भूताविश भूताविशत्यासन्दीमुद्गातारोहति चतुर्विंशतिस्त्रिक्रमाः ॥
- माऽऽस्थात् - मा । एति॑ । स्थात् । (1-1-3)
- प्रियधाऽऽविशत - प्रियधेति॑ प्रिय-धा । एति॑ । विशत । (1-3-14)
- पूषाऽऽऽधत्त - पूषा । एति॑ । अधत्त । (1-5-2)
- धाताऽऽऽधत्त - धाता । एति॑ । अधत्त । (1-5-3)
- कृत्वाऽऽधत्ते - कृत्वा । एति॑ । धत्ते । (1-5-13)
- ऊत्याऽऽप्र - ऊत्या । आ । प्रेति॑ । (1-5-47)
- माऽऽवृख्षि - मा । एति॑ । वृख्षि । (1-6-17)
- माऽऽवृख्षि - मा । एति॑ । वृख्षि । (1-7-25)
- मोषूणः - मो इति॑ । स्विति॑ । नः । (1-8-4)
- अर्यमाऽऽयाति - अर्यमा । एति॑ । याति । (2-3-54)
- दध्नाऽऽतनक्ति - दध्ना । एति॑ । तनक्ति । (2-5-19)
- ऊषुणः - उ । स्विति॑ । नः । (4-1-15)
- महित्वनाऽऽनाकम् - महित्वनेति॑ महि-त्वना । एति॑ । नाकम् । (4-1-45)
- ऊषुणः - उ । स्विति॑ । नः । (4-6-26)
- ऊषुणः - उ । स्विति॑ । नः । (5-1-23)16. कृत्वाऽऽहरति - कृत्वा । एति॑ । हरति । (5-1-39)
- दख्षिणाऽऽऽवर्तत - दख्षिणा । एति॑ । अवर्तत । (5-7-40)
- ऋचाऽऽसादयति - ऋचा । एति॑ । सादयति । (6-1-72)
- कृत्वाऽऽलभते - कृत्वा । एति॑ । लभते । (6-3-40)
- प्रियधाऽऽविशत - प्रियधेति॑ प्रिय-धा । एति॑ । विशत । (6-3-42)
- भूत्वाऽऽऽहरत् - भूत्वा । एति॑ । अहरत् । (7-1-14)
- भूताऽऽविश - भूता । एति॑ । विश । (7-1-31)
- भूताऽऽविशति - भूता । एति॑ । विशति । (7-1-32)
- [आसन्दीम्?]उद्गाताऽऽरोहति - उद्गातेत्यु॑त्-गाता । एति॑ । रोहति । (7-5-27) ॥
मूलम् - 1.55
अथ प्लुताः ।
संहितायाम् - बृहस्पतिसुतस्याग्निहोत्रꣳ सश्रवा द्वेद्वे मित्रोऽसि सप्त त्वष्टा ब्रह्मवादिनोऽद्भिर्मनुरेकमेकं यदेकेन यजुषा वै वाग्वै ब्रह्मवादिनो विचित्यः पर्यग्नि द्वेद्वे पशुमालभ्य ब्रह्मवादिनः स त्वै प्राणो वा एकमेकमिन्द्रो वृत्रमहन्नमध्यमꣳ समिष्टयजूꣳषि द्वेद्वेसोमो वा एकꣳ सहस्रतम्या न मध्यमं द्वे भूस्त्रीण्युथ्सृज्या न मध्यमं द्वे एकचत्वारिꣳशत्प्लुताः ॥41
[41 - 10268, 2567, 4159, 991, 1456, 4421, 992, 5512, 144, 10266, 1141, 115, PIVS 001, 002, 10265]; [861 - 39!]
नीरङ्गत्वे - .. मित्रोसि .. ब्रह्मवादिनोऽद्बिरेकमेकं … प्राणो वै प्रथमश्चैकमेकम् .. भूर्भुवः सुवःरुत्सृज्यां द्वेद्वे इति सप्तत्रिंशत्प्लुताः ।37। [115, 1118, 9387]
रङ्गानां गणनाभावे, मित्रोसीत्यत्र द्वयोः, मनुरित्यत्रैकस्य तथा भूर्भुवस्सुवरित्यत्रैकस्य च न्यूनत्वात् एकचत्वारिंशात् चतुर्ह्रासात् प्लुतानां सप्तत्रिंशत् भवतीति ज्ञेयम् ॥
ब्राह्मणे - द्वादशसु देवासुरा इन्द्रो वृत्रꣳ हत्वाऽग्निर्वाव संवथ्सरो द्वेद्वे मित्रोऽसि सप्त प्रजापतिरग्निन्न मध्यमं द्वे प्रजापतिर्व्यस्रꣳसत यज्ञो राय एकमेकं मित्रोऽसि त्रीणि
प्रजापतिस्ता ओदनन्ता सूर्याचन्द्रमसा द्वेद्वे उपहूतमुपहूतमेकमेकं यो वै ब्रह्मणे द्वे युञ्जन्ति त्रीण्यश्वस्य द्वे प्रजापतिर्देवान् द्वेद्वे एकचत्वारिꣳशत्प्लुताः ॥41
[4421, 5512, 144, 10264, PIVS 001, 002]
- द्वादशसु देवासुरा इन्द्रो वृत्रꣳ हत्वाऽग्निर्वाव संवथ्सरो द्वेद्वे मित्रोऽसि सप्त प्रजापतिरग्निर्न मध्यमं द्वे प्रजापतिर्व्यस्रꣳसत यज्ञो राय एकमेकं मित्रोऽसि त्रीणि
प्रजापतिस्ता ओदनन्ता सूर्याचन्द्रमसा द्वेद्वे उपहूतमुपहूतमेकमेकं यो वै ब्रह्मणे द्वे युञ्जन्ति त्रीण्यश्वस्य द्वे प्रजापतिर्देवान् द्वेद्वे नैकचत्वारिꣳशत्प्लुताः ॥39
[10268, 2567, एकान्नचत्वारिंशत् 4159, 991, 1456, 992, 10266, 1141, 10265, 861]
नीरङ्गत्वे - .. मित्रोसि पंच .. मित्रोस्येकं .. युञ्जन्ति द्वे .. द्वात्रिꣳशत्प्लुताः ॥32 [9387]
रङ्गानां गणनाभावे, द्विः मित्रोसीत्यत्र द्वयोः, उपहूतमुपहूतमित्यनयोः एकैकस्य, युञ्जन्तीत्यत्रैकस्य च न्यूनत्वात् एकचत्वारिंशात् सप्त ह्रासात् प्लुतानां द्वात्रिंशत् भवतीति ज्ञेयम् ॥
आरण्यके - विश्वा अग्निश्च सावित्रमसन्नेव द्वयंद्वयम् । देवा एकन्नकꣳ सप्त षोडशारण्यके प्लुताः ॥
अत्र नीरङ्गत्वे देवा एकमित्यस्य ह्रासात् प्लुतानां पञ्चदश भवेत् ॥
एकाग्निकाण्डे - कूर्कुर एकं च ग्राह्यम् ।
आहत्य अष्टनवतिः अह्रस्वादीर्घाणां संख्या भवति । तेषां लाघवार्थं, उपलक्षणत्वेन वा तन्त्रेण प्लुतनाम्ना व्यवहारः कृतः स्यादिति भाति । लोकतो भेदविवक्षया युज्येतापि ।
ऊकालोऽज्झ्रस्वदीर्घप्लुतः (पा. सू. 1-2-27) इति व्याकरणसूत्रानुसारेण कालतः नियतः त्रिमात्रिकः अच् प्लुतो भवति । ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि (द्र. पा.शि. 11) ।
प्लुतशिक्षायां च … ।
प्लुतानां निमित्तानि बहुधा व्याकरणे अनुशिष्टानि/प्रतिपादितानि । यथा -
वाक्यस्य टेः प्लुत उदात्तः । (पा.सू. 8-2-82) । यथा - न त्वा भीरि॑व विन्दती(३)* । (ब्रा. 2-5-23) ।
दूराद्धूते च । (पा.सू. 8-2-84) । यथा - अग्ना(३)इ पत्नीवा(३)ः (सं. 1-4-28), ब्रह्मा(३)न्त्वꣳ रा॑जन्, सत्य॑राजा(३)न् (सं. 1-8-31,32,..), लाजी(३)ञ्छाची(३)न् .. । (सं. 7-4-51), आत्मन् हा(३) इत्यह्व॑यत् । (ब्रा. 2-3-23) ।
विभाषा पृष्टप्रतिवचने हेः । (पा.सू. 8-2-93) । यथा - अस्तु ही(३) इत्य॑ब्रूतां (सं. 7-1-21) ।
विचार्यमाणानाम् । (पा.सू. 8-2-97) । यथा - उपस्थेयोऽग्नी(३) र्नोपस्थेया(३) इत्या॑हुः (सं. 1-5-41),
न छि॑नत्ती(३) इति॑ (सं. 1-7-7,..), … कश्चन ग॑च्छती(३) । (आ. 5-29), .. ।
उपरि स्विदासीदिति च । (पा. सू. 8-2-102) । उपरि॑ स्विदासी(३)*त् । (ब्रा. 2-8-75) ।
* अनुदात्तप्लुतोऽयम् । अनुदात्तं प्रश्नान्ताभिपूजितयोः (पा.सू. 8-2-100) इत्यनेन अनुदात्तः ॥
विचार्यमाणानामिति सूत्रविषय एव बहुत्र प्लुतउपलभ्यते । प्रायः उपर्युदाहृत सूत्रान्तरदृष्टान्तव्यतिरिक्तस्थलेषु विचार्यमाणत्वं वा पृष्टप्रतिवचनं वा दृश्यत इति बोध्यम् । तत्र प्लुतावैच इदुतौ । एचोऽप्रगृह्यस्य अदूराद्धूते पूर्वस्यार्धस्य अदुत्तरस्य । तयोर्य्वावचि संहितायाम् । (पा. सू. 8-2-106,107,108) इत्येतैः सूत्रैः [दूराद्धूतादिषु प्लुतः विहितः । तत्र] ऐचः (ए, ओ, ऐ, औ वर्णानां) प्लुतप्रसङ्गे तदवयवभूतौ इदुतौ प्लुतौ ।
अत्र यदा इवर्णोवर्णयोः अवर्णस्य च समविभागः तदा इदुतौ द्विमात्रौ अनेन प्लुतौ क्रियेते । इदुतौ प्लवेते वृद्धिं गच्छतः इत्यर्थः । तावती च सा प्लुतिः भवति यया तौ एचौ त्रिमात्रौ सम्पद्येते । यदा तु अर्धमात्रा अवर्णस्य, अध्यर्धमात्रा इवर्णोवर्णयोः, तदा तौ अर्धतृतीयमात्रौ क्रियेते इति । भाष्ये तूक्तम् इष्यत एव चतुर्मात्रः प्लुतः इति । तत्कथम् ? समप्रविभागपक्षे इदुतोः अनेन त्रिमात्रः प्लुतः विधीयते ॥ एचः अप्रगृह्यस्य अदूराद्धूते प्लुतविषयस्य पूर्वस्य अर्धस्य अकारः आदेशः भवति स च प्लुतः । उत्तरस्य इकारोकारौ आदेशौ भवतः । प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेषु इति वक्तव्यम् इति वार्तिकम् । इदुतौ पुनः उदात्तौ एव भवतः । तयोः इदुतोः यकारवकारादेशौ भवतः अचि सँहितायाम् विषये ॥ अत एव अग्ना३इ, गृहा३इ, यज्ञपता३विति, मीयता३, समश्ञुता३ उ इत्यादिषु यकारवकारौ श्रूयेते । हा३वु, ना३भाइ इति तु साम्नि ।
संहितायाम् -
बृहस्पतिसुतस्य (द्वे) - अग्ना(३)इ पत्नीवा(३)ः (1-4-28)
अग्निहोत्रं (द्वे) - उपस्थेयोऽग्नी(३) र्नोपस्थेया(३) इत्या॑हुः (1-5-41)
सश्रवाः (द्वे) - न छि॑नत्ती(३) इति॑ छिनत्ति॑ (1-7-7), न छि॑नत्ती(३) इति न छि॑नत्ति (1-7-10)
मित्रोऽसि (सप्त) - सुक्रतुर्ब्रह्मा(३)न्, सत्यस॑वो ब्रह्मा(३)न् (1-8-31), सत्यौजा ब्रह्मा(३)न्, सुशेवो ब्रह्मा(३)न्, सुश्लोकाँ(4) सुम॑ङ्गलाँ (4) सत्य॑राजा(३)न् । (1-8-32)
[प्रथम]त्वष्टा (एकं) - त्वी(३) इत्य॑ब्रवीत् (2-4-41)
ब्रह्मवादिनोऽद्भिः (एकं) - अगा(३)न॑ग्नीदित्या॑ह (2-6-29)
मनुः (एकं) - उप॑हूताँ(4) हो इत्या॑ह (2-6-38)
यदेकेन (द्वे) - वायव्यः॑ कार्या(३)ः प्रा॑जापत्या(३) इत्या॑हुः (5-5-3)
यजुषा वै (द्वे) - न्य॑ङ्ङग्निश्चे॑तव्या(३) उ॑त्ताना(३) इति॑ (5-5-16)
वाग्वै (द्वे) - होतव्य॑न्दीख्षितस्य॑ गृहा(३)इ न हो॑तव्या(३)मिति॑ (6-1-29)
ब्रह्मवादिनो विचित्यः (द्वे) - विचित्यस्सोमा(३) न विचित्या(३) इति॑ (6-1-59)
पर्यग्नि (द्वे) - अन्वारभ्यः॑ पशू(३)र्नान्वारभ्या(३) इति॑ (6-3-41)
पशुमालभ्य (एकं) - शृतꣳ हवी(३)श्श॑मितः (6-3-51)
ब्रह्मवादिनः स त्वै (एकं) - अध्वर्योऽवे॑रपा(३) इत्या॑ह (6-4-15)
प्राणो वा (एकं) - अग्ना(३) इत्या॑ह (6-5-29)
इन्द्रो वृत्रमहन् (न मध्यमं द्वे) - जुहवानी(३) मा हौषा(३)मिति॑ (6-5-32) [मा इत्यत्र प्लुताभावः न मध्यममित्यनेनोच्यते ।]
समिष्टयजूꣳषि (द्वे) - यज्ञे यज्ञं प्रत्य॑तिष्ठिपा(३) यज्ञपता(३)विति॑ (6-6-8)
सोमो वा (एकं) - अस्तु ही(३) इत्य॑ब्रूतां (7-1-21)
सहस्रतम्या (न मध्यमं द्वे) - सहस्रꣳ॑ सहस्रतम्यन्वेती(३) स॑हस्रतमीꣳ सहस्रा(३)मिति॑ (7-1-32) [सहस्रतमीमित्यत्र प्लुताभावः न मध्यममित्यनेनोच्यते ।]
भूः (त्रीणि) - लाजी(३)ञ्छाची(३)न््यशो॑ममा(4)म् । (7-4-51)
उथ्सृज्या (न मध्यमं द्वे) - उथ्सृज्या(३)न्नोथ्सृज्या(३)मिति॑ (7-5-19) [नो इत्यत्र प्लुताभावः न मध्यममित्यनेनोच्यते ।] एकचत्वारिꣳशत्प्लुताः ॥
ब्राह्मणे -
द्वादशसु (द्वे) - द्वाद॑शविक्रामा(३) इति॑ । (1-1-26), अद्रा(३)गित्या॑ह । (1-1-27)
देवासुराः (द्वे) - होतव्य॑मग्निहोत्रा(३)न्न हो॑तव्या(३)मिति॑ (1-1-53)
इन्द्रो वृत्रꣳ हत्वा (द्वे) - प्राश्या(३)न्न प्राश्या(३)मिति॑ । (1-3-61)
अग्निर्वाव संवथ्सरो (द्वे) - प्र चा॑तुर्मास्ययाजी मी॑यता(३) न प्रमी॑यता(३) इति॑ । (1-4-66)
मित्रोऽसि (सप्त) - ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्रह्मासि॑ सवितासि॑ (1-7-60), ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्रह्मासीन्द्रो॑ऽसि, ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्रह्मासि॑ मित्रो॑ऽसि, ब्रह्मा(३)न्त्वꣳ रा॑जन्ब्रह्मासि वरु॑णोऽसि (1-7-61),
सुश्लोकाँ(4) सुम॑ङ्गलाँ (4) सत्य॑राजा(३)नित्या॑ह । (1-7-64)
प्रजापतिरग्निं (न मध्यमं द्वे) - जुहवानी(३)मा हौषा(३)मिति॑ । (2-1-5) [मा इत्यत्र प्लुताभावः न मध्यममित्यनेनोच्यते ।]
प्रजापतिर्व्यस्रꣳसत (एकं) - आत्मन् हा(३) इत्यह्व॑यत् । (2-3-23)
यज्ञो राय (एकं) - न त्वाभीरि॑व विन्दती(३) । (2-5-23)* अनुदात्तप्लुतः अयम् ।
मित्रोऽसि (त्रीणि) - सुश्लोकाँ(4) सुम॑ङ्गलाँ (4) सत्य॑राजा(३)न् । (2-6-22)
प्रजापतिस्ता ओदनं (द्वे) - अवेत्यो॑ऽवभृथा(३) ना(३) इति॑ । (2-7-29)
ता सूर्याचन्द्रमसा (द्वे) - अधः स्वि॑दासी(३)दुपरि॑ स्विदासी(३)*त् ।(2-8-75) * अनुदात्तप्लुतः अयम् । [द्र. पा.सू. 8-2-102]
उपहूतम् (एकं) - उप॑हूताँ(4) हो । इडोप॑हूता । (3-5-17)
उपहूतम् (एकं) - उप॑हूताँ(4) हो । इडोप॑हूता । (3-5-29)
यो वै ब्रह्मणे (द्वे) - द्वाद॑शारत्नी रशना क॑र्तव्या(३) त्रयो॑दशारत्नी(३)रिति॑ । (3-8-9)
युञ्जन्ति (त्रीणि) - लाजी(३)ञ्छाची (३)न््यशो॑ममाँ(4) इत्यति॑रिक्तं (3-9-19)
अश्वस्य (द्वे) - अश्वस्तोमीयं पूर्वꣳ॑ होतव्या (३)न्द्विपदा (३) इति॑ । (3-9-48)
प्रजापतिर्देवान् (द्वेद्वे) - वेत्थ॑ सावित्रा (३)न्न वेत्था(३) इति॑ । वेत्थ॑ सावित्रा(३)न्न वेत्था(३) इति॑ । (का. 1-25)*{द्विः}
[कूर्कुरः - अवि॑द हा(३) इत्यवि॑दꣳ हीति॑ (ए. 2-16)] - एक(ान्न?)चत्वारिꣳशत्प्लुताः? ॥
आरण्यके -
विश्वा (द्वयं) - होतव्य॑मग्निहोत्रा(३)न्न हो॑तव्या(३)मिति॑ । (आ. 8-79)
अग्निश्च (द्वयं) - सोमपा(३) असोमपा(३) इति निगद॑व्याख्याताः । (आ. 1-40)
सावित्रम् (द्वयं) - होतव्य॑न्दीख्षितस्य॑ गृहा(३)इ न हो॑तव्या(३)मिति॑ । (आ. 8-9)
असन्नेव (द्वयं) - कश्चन ग॑च्छती(३) । … । कश्चित्सम॑श्नुता(३) उ । (आ. 5-29)
देवा (एकं) - यद्घ्राँ(4) इत्यप॑तत्। (आ. 8-5)
नकं (सप्त) - हा(३)वु हा(३)वु हा(३)वु॑ । अहमस्मि प्रथमजा ऋता(३)स्य । पूर्वन्देवेभ्यो अमृतस्य ना(३)भाइ । यो मा ददाति स इदेवमा(३)वाः । अहमन्नमन्न॑मदन्तमा(३)द्मि । (आ. 5-42) - षोडशारण्यके प्लुताः ॥
तर्हि चतुर्मात्रस्य रङ्गसंज्ञकस्य प्लुते अन्तर्भावः कथं योयुज्यते इति विचारे प्रवृत्ते - सत्यम्, रङ्गाणां प्लुतेभ्यः पृथक् गणनं अपेक्षितम् ।
[रङ्गाः -]
अकारान्तः प्लुतो यश्चेदनुनासिक उच्यते । अमत्रध्वनितुल्यश्च रङ्गसंज्ञ इतीर्यते ॥ श्लोकां सुमंगलां यद्घ्रां उपहूतां ममां प्लुताः ।
दीर्घास्ता इमे देवा उ स्वा अहममृवा अ.. प्लुताः ॥ ADYAR 115
एवं उपहूताँ, सुश्लोकाँ, सुमङ्गलाँ, इति त्रयोऽपि त्रिः, यशो ममाँ इति द्विः, तथा यद्घ्राँ इति सकृत् च श्रूयन्ते ॥ आहत्य द्वादशस्थलेषु रङ्गाः तैत्तिरीयके सन्ति ॥
संहितायां चत्वारः, ब्राह्मणे सप्त, तथा आरण्यके एकः इति द्वादश रङ्गाः विभक्ताः ॥
अस्मिन् श्लोके अपरो विशेषश्चास्ति यत् दीर्घाणां प्लुतवदुच्चार्यमाणानां संङ्ग्रहोऽपि कृत इति ।
आरण्यके दीर्घाः तावत् -
ता इमे - ता (2)म् इ॑मि । (आ. 1-57),
देवा उ - देवा (2)म् उप॑प्रैत् (आ. 1-62).
स्वा अह - स्वा (2)ꣳ अहम् । (आ. 2-7). [वीर्य() म् बलम् । (आ. 2-7) इति तु ह्रस्वः कम्पः, स्वरितश्च ।]
ममृवां अ - कश्चि॑न्ममृवा (2)ँ अवा॑हाः । (आ. 1-42). (एते चत्वारः उदात्तप्लुताः ।)
केचित्, अहमन्नादो() हमन्नादो() हमन्नादः । (आ. 5-42) इत्यत्र कम्पस्यापि प्लुतत्वमिच्छन्ति ॥
प्लुतसङ्ग्रहे च - KUML 2938, ORIMYS 2262
तैत्तिरीयस्य वेदस्य प्लुतानामनुशासनं । यथाश्रुति यथान्यायं सकलं क्रियते मया ।
आद्येषु त्रिषु वर्णेषु प्लुतानामिह संग्रहः । तत्र वर्णाः प्लुताः पञ्च पदान्ते सानुनासिकाः ॥
यशो ममाँ4 यद्घ्राँ4 उपहूताँ4 सुश्लोकाँ4 सुमङ्गलाँ4 । अन्येषु सर्ववर्णेषु प्लुता निरनुनासिकाः ।
चेतव्या3 उत्ताना3 इत्यवभृथा3 ना3भ्यः पदद्वये । होतव्या3 द्विपदा3ःकार्या3ःप्राजापत्या3स्तथा पुनः ॥
तथैव कर्तव्या3 त्रयोदशारत्नी3ः पदद्वये । द्वे सोमपा3 असोमपा3 लाजी3 ञ्छाची3 न्पदद्वयं ॥
एकैकस्य पदस्यैतान् प्लुतानन्त्यस्वरान् विदुः । अव्यस्तमुत्सृज्या3 प्राश्या3 न्न मध्यञ्चेत्पदद्वयं ।
सोमा3 विचित्या3 स्सावित्रा3 वेत्था3 द्वेद्वे न मध्यमे । तथाग्निहोत्रा3 होतव्या3ं पदयुग्मन्न मध्यमं ॥
तथैवाग्निरुपस्थेया3 स्तादृगेव पदद्वयं । न मध्यमं पशूरन्वारभ्या3 इति च तादृशं ॥
तथैव न प्र मध्यञ्चेदव्यस्तमीयता3 पदं । मामध्यञ्चेज्जुहवानी3 हौषा3 मिति पदद्वयं ॥
एती3 सहस्रा3 म्मध्यञ्चेत् सहस्रतमीं पदद्वयं । पदत्रयाणामेतेषां नान्यत्र पदयोः प्लुतिः ॥
अतिष्ठिपा3 यज्ञपता3 वित्यन्तोपान्तयोः प्लुतिः । सव्यस्तमग्ना3 इ पत्नीवा3 इत्याद्यन्तपदे क्रमात् ॥
एवं गृहा3 होतव्या3 न्न मध्यञ्चेत् पदद्वयं । अगा3 नग्नीदिति चतुः ब्रह्मा3 न्त्वं राजन्नित्यपि ॥
प्लुतपूर्वपदस्यान्तमुत्तरस्योर्ध्वमष्टसु । इत्यस्तु ही3 पदात्मन् हा3 त्रिः पृच्छति शृतꣳ हवी3 ः ॥
अधः स्विदासी3 दुपरि स्विदासी3 दिति च पदद्वयं । अध्वर्योवेरपा3 दास्यामीति त्वी3 इति च त्रिषु ॥
तथा सा न छिनत्ती3ति त्रिषु त्रिषु पदेषु च । सत्यमद्रा3 क् द्वादशविक्रामा3 भीरिव विन्दती3 ॥
त्रयाणां द्विपदानां च सत्यराजा3 न्पदस्य च । अग्ना3 इत्याह त्रिपदे ग्ना शब्दः प्लुत इष्यते ॥
उताविद्वान्न गच्छती3 आहो विद्वान् समश्ञुता3 । पदान्त्यपदयोरन्त्यौ प्लुतपूर्वोपलक्षितौ ॥
साम्नि त्रि हा3 ऋता3 स्यादि नाभा3 मावा3 द्वयं द्वयं । मा3 द्मीति ते च सप्त स्युः इत्येष प्लुतसङ्ग्रहः ॥
केचिदेवाहमन्नादोहमन्नादौ प्लुतौ विदुः । प्रायशोन्त्ये तु तौ दीर्घाविति त्वार्या अधीयते ।
इत्येष कथितस्सर्वस्समासात्प्लुतनिर्णयः । यजुषान्तैत्तिरीयाणां सन्देहविनिवृत्तये ॥
इति प्लुतसङ्ग्रहस्समाप्तः ॥ शुभमस्तु ॥
प्लुतशिक्षा (सोदाहरणा) GOML 991
प्लुतशिक्षा । बृहस्पतिसुतस्याग्निहोत्रं जुहोति सश्रवा द्वेद्वे । मित्रोऽसि सप्त । प्रथम त्वष्टा ब्रह्मवादिनोऽद्भि-र्मनुरेकमेकं । यदेकेन यजुषा वै वाग्वै ब्रह्मवादिनो विचित्यः पर्यग्निर्द्वेद्वे । पशुमालभ्य ब्रह्मवादिनस्स त्वा अध्वर्युः स्याद्यस्सोमं प्राणो वा उपाꣳशुपात्रेणैकमेकं । इन्द्रो वृत्रमहन्तस्य न मध्यमꣳ समिष्टयजूꣳषि द्वेद्वे । सोमो वै सहस्रमेकं । सहस्रतम्या न मध्यमं द्वे । भूस्त्रीण्युथ्सृज्यां द्वे । एवं सर्वं चत्वारिंशत्संख्या प्लुताः । एतेषां मध्ये रङ्गप्लुता अप्युक्ताः । तत्पदानि वक्ष्यामः । ममां ततोपहूतां च श्लोकामथ सुमङ्गलां । वाक्ये यद्घ्रां ममां मां च पञ्च रङ्गप्लुताः स्मृताः । सꣳहितायां प्लुताः सप्तत्रिंशत् । रङ्गप्लुताः चत्वारि । परायते एकं एवं मिळित्वा एकचत्वारिꣳशत् ॥
अथ प्लुतोदाहरणवाक्यानि श्लोकरूपेण स्पष्टीकरोति । अग्ना इत्यथ पत्नीवाः स्थेयोग्नीश्च र्गृहा इ न । उपस्थेया छिनत्ती च छिनत्त्येती तथास्तु ही । ब्रह्मान् ब्रह्मान् तथा ब्रह्मान् ब्रह्मान् राजानगानपि । प्राजापत्यास्ततः कार्याः होतव्यां च हवीस्ततः । सोमा विचित्या उत्तानाः अन्वारभ्या अवेरपाः । पशूर्न जुहवानी च मा हौषा ग्ना इति स्मृतः । अतिष्ठिपा यज्ञपता उत्सृज्यां द्वयमेव च । लाजीञ्छाचीन् सहस्रां च सप्तत्रिंशत्प्लुताः स्मृताः । ममां इत्यादि पञ्च रङ्गप्लुताः श्लोकरूपेण पूर्वेणैवोक्तः । हौषां पूर्वं मकारस्तु सहस्रां पूर्वतस्तमीं । यद्विकर्णी यद्विकर्णी चत्वारो न प्लुताः स्मृताः । इति प्लुतविचारः । करोतु तामभीमां च इन्द्रस्य तनुवं प्रियां । मयि दक्षक्रतू स्विन्नः स्नात्वी न प्लुतसंज्ञिकाः । प्लुतप्रकरणं समाप्तं ।
अन्यत्र च, अप्लुतपदानि, हौषां पूर्वं मकारस्तु सहस्रां पूर्वतस्तमीं । यद्विकर्णी यद्विकर्णी इन्द्रस्य तनुवं प्रियां । करोतु तामभीमां च मयि दक्षक्रतू तथा । स्विन्नः स्नात्वीति न .. प्लुताः परिकीर्तिताः । इति संगृहीतानि।
मूलम् - 1.56
प्राण - व्यान - अपानाः -
सू. - विश्वकर्मात ऊर्ध्वं । व्यानं मध्यं । कस्त्वावर्जम् ॥
विश्वकर्मा (सं. 5-5-23,24; 7-1-49, 7-3-7,33, 7-4-52).
विश्वकर्मात ऊर्ध्वमिति किम् - पूर्वत्र (सं. 1-1-9, 1-7-38,39; 3-1-23, 3-2-7, 3-5-25, 4-2-36, 4-3-9,11,12; 4-4-9,22; 4-6-4,5; 4-7-1,2,18) इत्यादिषु प्राण - अपान - व्यान क्रम एव । *अपि तु, सश्रवा ह (1-7-7,8) इत्यत्र च अपवादः वक्तव्यः ।
कस्त्वा वर्जमिति किम् - (सं. 7-5-37). (कस्त्वा इत्यस्य विश्वकर्मात ऊर्ध्वमित्युक्तत्वात् ‘कस्त्वा युनक्तु’ ग्रहणं । नो चेत् ‘कस्त्वा छ्यति’ इत्यपि प्रसजेत् । तत्र निमित्ताभावश्च ज्ञेयः ।)
उत्तरत्रापि (सं. 7-5-46) व्यानं मध्यं ।
[अपि तु, अꣳशुना, ब्रह्मवादिनो विचित्यः, देवा वा उपाꣳशौ (1-2-13, 6-1-65, 6-4-30; ब्रा. 1-5-19,20) इत्यत्र अपवादः वक्तव्यः ?।
अत्र प्रथमयोः प्राण-व्यानयोरेव श्रुतेः व्यानमध्यत्वहानिः, तथैव (ब्रा. 2-6-18,3-8-70,3-9-25) च । अन्तिमयोः प्राणापानयोः समस्तत्वेन व्यानस्य तदनन्तरत्वेन तन्मध्यपातित्वेन च अपवादविषयत्वं ज्ञेयम् ।]
एतत्सूत्रं संहिताविषयत्वेन विवक्षितमिति भाति । परन्तु ब्राह्मणेपि एतत्संगच्छते । यथा - (ब्रा. 1-1-2,3; 1-5-32; आ. 5-11, 6-48,49,51,66) ।
अत्र अपवादः (आ. 5-14,25) । (द्र. भा. शि. ).
मूलम् - 1.57
अमुंपूर्वं - इमंपरं -
सू. - प्रान्यान्यमुं पूर्वमम्भाꣳसि पर्यन्तममुंपूर्वमिमंपरं । प्रजापतिर्नवरात्रवर्जं । यां प्रथमामिष्टकामितिवर्जं ॥
प्रान्यानि - (सं. 6-5-39), (सं. 7-3-10,27), (ब्रा. 1-2-50, 1-3-21,51, 1-4-4 …), प्रान्यानीति किम् - ततः पूर्वत्र (सं. 1-5-15,38; 1-7-26, 2-5-40, 3-3-16, 5-2-7, 5-6-31) इत्यत्र इमं पूर्वत्वात् ।
परन्तु, अस्यापवादाः - असावादित्यः (2-1-21,26), आदित्येभ्यः (2-3-3,4) तथा, अश्मन्नूर्जं (4-6-1,2) ।
अम्भाꣳसि पर्यन्तमिति किम् - (ब्रा. 3-8-68, 3-9-5/6,9).
प्रजापतिर्नवरात्रवर्जं (सं. 7-2-11) । यां प्रथमामिष्टकामितिवर्जं (का. 2-59) ॥
अन्यापवादाः - आपो वा इदं (सं. 7-1-16), पवमानस्सुवः (ब्रा. 1-4-50), वृषास्यꣳशुः (2-4-69) इति च ॥ (द्र. भा. शि. ).
मूलम् - 1.58
अनुवाकार्धान्तिकाः ।
मर्त्येष्वानुद्यूनन्यकेषां कासुचिद्वावशानाः प्रणीतौ यह्वीरविदाम देवाना गम्यात्तत्तदेषां गवीन्यौ यत्परो दूराद्द्रुद्राः कृत्वाय परोङ्गिरस्वद्भरा पृथिवी दिदिहिहेच्छ सुमतीनां वा मतीनामेतदनीक दिदीहिस्वदितानि वक्षदावपनं महत्त्वेषां परमोतसंदृगसुरैर्गुहा यत्सुकृतꣳ सं प्रजां पशून्ममां ॥ इत्यनुवाकार्धान्तिकाः ।
मर्त्येष्वा - (1-1-28, 1-2-6)
अनु द्यून् - (1-2-31, 4-2-9)
अन्यकेषां -(1-7-51)
कासु चित् - (1-8-41)
वावशानाः - (2-1-61)
प्रणीतौ - (2-1-63, 4-1-18, 4-5-22)
यह्वीः - (2-5-70)
अविदाम देवान् - (3-2-19)
आ गम्यात् - (3-2-23,27)? (1-7-37, 3-2-26,28)
तदेषां - (3-3-29, 7-3-6, 7-5-14)
गवीन्यौ - (3-3-30)
यत्परः दूरात् - (3-4-45*), यत्पर इति किम् - (2-1-63, 4-6-32)
रुद्राः - (4-1-24, 4-5-2)? (5-5-39)
अङ्गिरस्वत् । कृत्वाय - (4-1-21)
भर (4-1-4, 4-4-13,15,16)
पृथिवी - (3-4-2)?
दिदीहीह - (4-1-26) (3-4-41, 4-1-27, 4-3-30, 4-6-5*)
सुमतीनां - (4-1-44)
वा मतीनां - (4-2-47) वेति किम् - (5-1-56)
एतत् -
अनीक दीदिहि - (4-4-14)
स्वदितानि वक्षत् - (5-1-59)
आवपनं महत् - (7-4-45,46) आवपनमिति किम् - (4-4-12)
तेषां - ?
परमोत संदृक् - (4-6-6, 5-7-16) परमोतेति किम् - (4-3-29)
असुरैर्गुहा यत् - (4-6-8) असुरैर्गुहेति किम् - (3-3-33, 4-2-6, 4-4-12, 5-7-45)
सुकृतꣳ सं प्रजां पशून् - (7-3-31)
ममाँ (4) - (7-4-51)
मूलम् - 1.59
स्वधा पूषा प्रपा प्रबुध्निया प्रमा प्रतिमा रेजते विमोन्मा ज्या मिथुन्यमिनन्त बृहस्पते द्रापे धर्मे अग्ने अंबे मंदे वंदे विश्वे श्येती नैर्ऋती त्वी अस्तु ही इति वृथा व्यक्तिः ॥
स्वधा - स्वधा अ॑सि (1-1-15, 2-6-23)
पूषा - पूषा ए॑तु (2-4-15)
प्रपा - प्रपा अ॑सि (2-5-73)
प्र बुध्निया - प्र बुध्निया॑ ईरते (4-3-34). प्रेति किम् - स बुध्निया॑ उप (4-2-34) इत्यत्र सविसर्गः एव ।
प्रमा प्रतिमा विमा उन्मा - प्रमा अ॑सि, प्रतिमा अ॑सि, विमा अ॑सि, उन्मा अ॑सि (4-4-31)
रेजते - रेज॑ते अग्ने (4-1-46)
ज्या - ज्या इयम् (4-6-28)
मिथुनी - मिथुनी एव (3-4-29)
अमिनन्त - अमिनन्त एवैः (3-1-39)
बृहस्पते - बृह॑स्पते अति॑ (1-8-39)
द्रापे - द्रापे अन्ध॑सः (4-5-21)
धर्मे - धर्मे॑ अस्थिरन्न् (4-7-35)
अग्ने - अग्ने॑ अङ्गिरः (1-2-22, 4-2-2, 6-2-36), अग्ने अस्तु (1-2-30), अग्ने अमृतत्वं (1-4-52), अग्ने अग्निना (1-4-54, 3-5-36), अग्ने अस्य (1-6-4,34),
अग्ने अच्छ॑ (1-7-41), अग्ने अनृणः (3-3-23), अग्ने अरुषं (4-1-13), अग्ने अधि॑ (4-1-26), अग्ने अङ्गिर॑सः (4-4-11)
अम्बे - अम्बे अम्बा॑लि (7-4-47)
मन्दे - मन्दे अध्वरेषु॑ (1-4-53)
वन्दे - वन्दे अग्ने (4-2-13)
विश्वे - विश्वे॑ अरपाः (3-2-32), विश्वे॑ अमृत॑स्य (4-1-2), विश्वे॑ अभि (4-3-8), विश्वे॑ अद्य (4-7-21)
श्येती - श्येती अ॑कुरुत (5-5-34)
नैर््ऋती - ? नोपलभ्यते ॥ नैर््ऋत्युखा (5-6-24) इति तु यणादेशवान् ।
त्वी - त्वी ३ इति॑ (2-4-41)
अस्तु ही - अस्तु ही ३ इति॑ (7-1-21) अस्त्विति किम् - हीति॑ (6-4-47).
दीर्घरेफपरो ह्रस्वविसर्जनीयाः
एष्टस्तन्यतुः शुचिर्जरायुर्भिः पतिः कविर्वृष्टिर्दुर्नहेतिस्तित्तिरी रुरुश्चितिस्स्युर्विष्णुरिन्दुश्चतुर्जिष्णुश्चरुरिति दीर्घ-रेफपरो ह्रस्वविसर्जनीयाः ॥
एष्टः - एष्टा रायः॑ (1-2-20, 6-2-13)
तन्यतुः - तन्यतू रो॑चनस्थाः (1-3-27)
शुचिः - शुची॑ रोचते (1-3-31, 1-5-19)
जरायुः - ज्योति॑र्जरायू रज॑सः (1-4-9)*
भिः - मतिभी॑ रिहन्ति (1-4-9)*, तनूभी॑ रुद्रिया॑भिः, मरुद्भी॑ रुद्राः (2-1-62)*, राष्ट्रभृद्भी॑ राष्ट्रम् (3-4-18), वसु॑भी रुद्रैः (4-1-19)*, सर्वा॑भी रुचे, रुचं॑ (4-2-39, 5-7-26)*, छन्दो॑भी रय्यै (4-4-18)*, त्रिष्टुग्भी॑ राजन्य॑स्य (5-1-20), दक्षि॑णाभी राधयेत् (5-6-38), पशुभी॑ रय्या, रय्यां (7-1-26,30)*, सुगेभी रक्ष॑ (7-5-52)*
पतिः - रयिपती॑ रयीणाम् (2-2-65)*, प्रजाप॑ती रुद्रः (5-5-22)*
कविः - कवी र॑यीणाम् (2-6-61)*
वृष्टिः - वृष्टी॑ रूपेण॑ (3-3-9)
दुः - दूरोहणं (4-3-28)
निः - नीरोहः (4-4-3)
हेतिः - हेती रक्षाꣳ॑सि (4-4-7)*
तित्तिरिः - तित्तिरी रोहित् (5-5-54)
रुरुः - रुरू॑ रौद्रः (5-5-57)
चितिः - चिती॑ राष्ट्रभृत् (5-7-16)
स्युः - स्यू रास्व॑ (6-1-31)
विष्णुः - विष्णू॑ रूपं (6-2-21)
इन्दुः - इन्दू रेतः॑ (6-5-28)
चतुः - चतूरात्रं, रात्रः, रात्रेण॑ (7-1-33,38,35)
जिष्णुः - जिष्णू र॑थेष्ठाः (7-5-44)*
चरुः - चरू रौद्रः (7-5-48). * - ह्रस्वरेफपराः
(दीर्घ)रेफपरो दीर्घविसर्जनीयाः
विष्णोः क्वलैरग्नेरन्तोदात्तं प्रजापते रक्षोघ्नीर्योनेरराती हिꣳसीरशस्ती रेवतीरूर्जस्वतीर्ग्रामणीः सजातैः सजूः सिꣳही महानाम्नीर्यवागूर्यूरिति (दीर्घ)रेफपरो दीर्घविसर्जनीयाः ॥
विष्णोः - विष्णो॑ रराटम् (1-2-27, 6-2-48)
क्वलैः - क्व॑लै राक्षसम् (2-5-19)
अग्नेः (अन्तोदात्तं) - अग्ने रुचः॑ (4-4-26), अग्ने रूपम् (5-3-45) अन्तोदात्तमिति किम् – अन्तोदात्तत्वे षष्ठ्यन्तत्वात् सविसर्गता । आद्युदात्त, सर्वानुदात्तत्वयोः सम्बोधनत्वेन विसर्गरहितत्वम् इति ज्ञेयम् ॥ यथा – अग्ने॒ रुद्रि॑या (1-2-21, 6-2-14), अग्ने॑ रा॒यः (1-3-29), अग्ने॒ राधः॑ (1-4-45, 6-6-2), अग्ने॒ रसे॑न (1-4-53), अ॒ग्ने॒ र॒थीः (2-6-61, 4-2-40) इत्यादिषु ।
प्रजापतेः - प्रजाप॑ते रूपम् (5-7-2)
रक्षोघ्नीः - रक्षोघ्नी रक्ष॑साम् (2-6-23)
योनेः - योने॑ रूढः (6-3-17)
अरातीः - अरा॑ती रक्षोहणः॑ (1-3-4)
हिꣳसीः - हिꣳसी रक्ष॑साम् (1-3-17)
अशस्तीः - अश॑स्ती रुद्रस्य॑ (4-1-6)
रेवतीः - रेव॑ती रम॑ध्वम् (1-3-12, 1-5-21,32; 6-3-33)
ऊर्जस्वतीः - ऊर्ज॑स्वती राजसूया॑य (1-8-20)
ग्रामणीः - ग्रामणी रा॑जन्यः॑ (2-5-25)
सजाताः? - सजाता राष्ट्रेण॑ (3-4-22)
सजूः - सजू रुद्रैः (4-3-9)
सिꣳहीः - सिꣳही रूपम् (6-2-34)
महानाम्नीः - महानाम्नी रेवतयः॑ (5-2-61)
यवागूः - यवागू रा॑जन्य॑स्य (6-2-26)
यूः - यू रसम् (6-3-57,60)
मूलम् - 1.60
अवेष्टपदानि - सोमः पिबतु (1-4-2), अग्ने गोभिः (2-4-15), नांतरेति (2-6-56), तपोस्य (3-1-3), वातो देवता (4-3-14), अग्निश्चम इंद्रः (4-7-11), पशुः? सौरी बलाका (5-5-54), तिष्ठति (5-6-19), एव तमः (5-7-18), ह्येष सन् (6-1-31), एवास्यापुवायते (6-2-12), अग्नये स्वाहा (7-1-43), अग्नये स्वाहा (7-1-45), विꣳशत्यै स्वाहा (7-2-48) आक्रान् (7-5-45) षोडश पंचाशत्यवेष्टपदानि ॥
मूलम् - 1.61
- सकाररेफविसर्जनीयः –
(अत्र ससजुषो रुः, विसर्जनीयस्य सः इति पाणिनीयसूत्राणां विषयभूताः शब्दाः गृह्यन्ते ।)
यत्र संहितायां पदकाले विसर्गान्तपदोत्तरं सकारादिसंयुक्तोत्तरपदं दृश्यते तादृशस्थलेषु सकारद्वयं संहितायां वक्तव्यमित्यर्थं चूर्णिकैषा प्रारभ्यते । अत्र सकारैक्योच्चारणे पदस्वरूपान्यथाभावभ्रमः अनेन निवार्यते ।
सकारोत्तरं तकार,ककारावेव संगृहीतौ दृश्येते, तयोरेव प्रायेण सन्देहास्पदत्वादित्युन्नीयते । थकारे रेफे वा परे सन्देहाभावः, यकारवकारयोः परयोः पूर्वस्य विसर्गस्य लोपः इत्यादिना तकारककारावेव गृहीताविति स्यात् ।
पूर्वपदं सः, एषः, स्यः एष्वन्यतमश्चेत्, ‘एष स स्य इति च’ () इत्यस्मात् विसर्गलोपः प्रसजति, सन्देहाभावश्च ।
अत्र यद्यपि उत्तरपदस्य केवलसकारादित्वापेक्षया सकारादिसंयुक्तत्वे एव प्रयोजनातिशयेन तादृशा एव शब्दाः अत्र प्रधानतया उद्दिष्टाः, तथापि केवलसकारोत्तरत्वेऽपि ज्ञापनं भवति चेन्न हानिः इति च बोध्यम् । विसर्गान्तपदस्य तोक, स्तोकशब्दयोः उत्तरपदत्वे उभयोः साधुत्वहेतुकः सन्देहः अनेन निवार्यते । कुत्रचित् मा नस्तोके तनये (4-5-) इत्यादिषु यदि कोशेषु सकारद्वित्वं स्खालित्येन दृश्येत, तादृशां पदानां शोधनायापि प्रयुज्येत ।
प्रथमकाण्डे -
वः - वः॒ । स्ते॒नः । (1-1-1)
हुतः - हु॒तः । स्तो॒कः । (1-1-4)
दिवः - दि॒वः । स्क॒म्भ॒निः (1-1-9).
विष्णोः - विष्णोः । स्तूपः॑ । (1-1-19), विष्णोः । स्थानम् । (1-1-21), विष्णोः । स्यूः । (1-2-27, 6-2-48)
अक्र॑न्ददग्निः - अक्र॑न्दत् । अ॒ग्निः । स्त॒नयन्न्॑ । (1-3-25, 4-2-2,7).
अक्रन्ददिति उपपदं विवक्षितसंहितोद्देशस्य विस्पष्टत्वार्थम् ।
इ॒ष्टय॑जुषः - इ॒ष्टय॑जुष॒ इती॒ष्ट-य॒जु॒षः॒ । स्तु॒तस्तो॑म॒स्येति॑ स्तु॒त-स्तो॒म॒स्य॒ । (1-4-29, 3-2-22).
स नः - सः । नः॒ । स्तु॒तः । (1-5-38). स इत्युपपदं विवक्षितस्थाननिर्देशार्थम् ।
एभ्यः - ए॒भ्यः॒ । स्तु॒तः । (1-5-38)
अध्व॑नः – अध्व॑नः । स्क॒भ्नी॒त॒ । (1-7-34)
पू॒र्णव॑न्धुरः - पू॒र्णव॑न्धुर॒ इति॑ पू॒र्ण-व॒न्धु॒रः॒ । स्तु॒तः । (1-8-7)
पञ्चदशः - प॒ञ्च॒द॒श इति॑ पञ्च-द॒शः । स्तोमः॑ । (1-8-24), (4-3-5), (4-3-16)
सप्तदशः - स॒प्त॒द॒श इति॑ सप्त-द॒शः । स्तोमः॑ । (1-8-24), (4-3-6), (4-3-16), (5-3-16),
ए॑कविꣳशः - ए॒क॒वि॒ꣳश इत्ये॑क-वि॒ꣳशः । स्तोमः॑ । (1-8-25), (4-3-6) ए॒क॒वि॒ꣳश इत्ये॑क-वि॒ꣳशः । स्तोमा॑नाम् । (2-5-58)
लोकाः - लो॒काः । स्नु॒व॒न्ति॒ । (2-1-28)
बर्हिषः॑ - ब॒र्हिषः॑ । स्तृ॒णी॒यात् । (2-2-57)
रेवतः॑ - रे॒वतः॑ । स्तो॒ता । (2-2-71)
याः - याः । स्त्रियः॑ । (2-3-36), (2-3-37)
अ॒न्यस्य॑ सः - अ॒न्यस्य॑ । सः । स्त्री॒ष॒ꣳ॒सा॒दमिति॑ स्त्री-स॒ꣳ॒सा॒दम् । (2-5-5)
ऋचः - ऋचः॑ । स्त्रियः॑ । (2-5-47)
गा॑यत्रियः - गा॒य॒त्रियः॑ । स्त्रियः॑ । (2-5-47)
बर्हिः - ब॒र्हिः । स्तृ॒णा॒ति॒ । (2-6-25)
तेजो बर्हिः -
भवत्यप्र॑तिष्ठितः - भव॑ति । अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । स्तोमः॑ । (3-1-8)
सोमः - सोमः॑ । स्तोम॑स्य । (3-1-8)
अꣳशुः - अ॒शुः । स्कन्द॑ति । (3-1-25)
द्रप्सः - द्र॒फ्सः । स्कन्द॑ति । (3-1-32)
परा॑चीभिः - परा॑चीभिः । स्तु॒वते । (3-1-34)
सर॑स्वतः - सर॑स्वतः । स्तनम् । (3-1-36)
मिहः - मिहः॑ । स्त॒नय॑न्ति । (3-1-39)
यः - यः । स्तु॒त॒श॒स्त्रयो॒रिति॑ स्तुत-श॒स्त्रयोः । (3-2-28)
अप्सरसः॑ - अ॒फ्स॒रसः॑ । स्त॒वाः । (3-4-19)
ग्रहाः – ग्रहाः । स्तोमाः । (3-5-29) ॥
चतुर्थकाण्डे
सुवः - सुवः॑ । स्त॒भि॒तम् । (4-1-33)
म॒लिम्ल॑वः - म॒लिम्ल॑वः । स्ते॒नासः॑ । (4-1-39)
चक्षुः - चख्षुः॑ । स्तोमः॑ । (4-1-42)
परिष्ठाः - प॒रि॒ष्ठा इति॑ परि-स्थाः । स्ते॒नः । (4-2-26)
त्रिणवः - त्रि॒ण॒व इति॑ त्रि-न॒वः । स्तोमः॑ । (4-3-6), (4-3-16)
चतुर्विꣳशः - च॒तु॒र्वि॒ꣳ॒श इति॑ चतुः-वि॒ꣳ॒शः । स्तोमः॑ । (4-3-17)
पञ्चविꣳशः - प॒ञ्च॒वि॒ꣳ॒श इति॑ पञ्च-वि॒ꣳ॒शः । स्तोमः॑ । (4-3-17)
च॑तुष्टोमः - च॒तु॒ष्टो॒म इति॑ चतुः-स्तो॒मः । स्तोमः॑ । (4-3-17), (5-3-48), (5-4-56)
चतुश्चत्वा-रिꣳशः - च॒तु॒श्च॒त्वा॒रि॒ꣳ॒श इति॑ चतुः-च॒त्वा॒रि॒ꣳ॒शः । स्तोमः॑ । (4-3-17), (4-3-26), (5-3-23)
त्रयस्त्रिꣳशः - त्र॒य॒स्त्रि॒ꣳ॒श इति॑ त्रयः-त्रि॒ꣳ॒शः । स्तोमः॑ ॥ (4-3-17)
षो॑डशः - षो॒ड॒शः । स्तोमः॑ । (4-3-26), (5-3-23)
उक्थेभिः - उ॒क्थेभिः॑ । स्तोमे॑भिः । (4-4-18)
द्विबर्हाः - द्वि॒बर्हा॒ इति॑ द्वि-बर्हाः ॥ स्तु॒हि । (4-5-23)
निः - निरिति॑ । स्त॒नि॒हि॒ । (4-6-33)
मनवः - मन॑वः । स्ती॒र्णब॑र्हिष॒मिति॑ स्ती॒र्ण-ब॒र्हि॒ष॒म्॒ ॥ (4-7-26)
वृत्रघ्नः - वृ॒त्र॒घ्न इति॑ वृत्र-घ्नः । स्तोमाः । (4-7-33) ॥
पञ्चमकाण्डे
चतुः - चतु॑स्स्तना॒मिति॒ चतुः॑-स्त॒ना॒म्॒ । (5-1-34)
जा॒तवे॑दाः - जा॒तवे॑दा॒ इति॑ जा॒त-वे॒दाः॒ ॥ स्ती॒र्णम् । (5-1-57)
ताः - ताः । स्तोम॑भागै॒रिति॒ स्तोम॑-भा॒गैः॒ । (5-3-26)
पुरु॑षः - पुरु॑षः । स्नाव॑भि॒रिति॒ स्नाव॑-भिः॒ । (5-3-38)
रुक्मः (?) – (रु॒क्मो अ॒न्तः)
जातः - जा॒तः । स्तनम् । (5-4-9)
अप्रतिष्ठिताः - अप्र॑तिष्ठिता॒ इत्यप्र॑ति-स्थि॒ताः॒ । स्तोमाः । (5-4-47)
च॒तु॒ष्टो॒मः - च॒तु॒ष्टो॒म इति॑ चतुः-स्तो॒मः । स्तोमा॑नाम् । (5-4-56)
अप्र॑तिष्ठि॒तोऽप्र॑तिष्ठितः (?) - (6-3-16)
अप्र॑तिष्ठितः (?) – (अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । स्या॒त्॒ । (6-3-16), अप्र॑तिष्ठिता॒ इत्यप्र॑ति-स्थि॒ताः॒ । स्युः । (7-3-28,29))
अग्नेः - अ॒ग्नेः । स्तोमम् । (5-5-26)
अ॑भिचारः - अ॒भि॒चा॒र इत्य॑भि-चा॒रः । स्तृ॒णु॒ते॒ । (5-6-11)
एषः - ए॒षः । स्क॒न्द॒ति॒ । (5-7-28),
वि॒चलः - वि॒च॒ल इति॑ वि-च॒लः । स्क॒न्धः । (5-7-50)
षष्ठकाण्डे -
गन्धर्वाः - ग॒न्ध॒र्वाः । स्त्रि॒या । (6-1-43)
एकः – एकः॑ । स्तनः॑ । (6-2-25)
बर्हिः - ब॒र्हिः । स्तृ॒णा॒हि॒ । (6-3-2)
उ॑त्तरबर्हिः - उ॒त्त॒र॒ब॒र्हिरित्यु॑त्तर-ब॒र्हिः । स्तृ॒णा॒ति॒ । (6-2-24)
एकः - एकः॑ । स्तनः॑ । (6-2-25)
गर्भः - गर्भः॑ । स्कन्द॑ति । (6-2-29)
विभक्ताः - विभ॑क्ता॒ इति॒ वि-भ॒क्ताः॒ । स्तो॒काः । (6-3-49)
एकादशः - ए॒का॒द॒शः । स्तनः॑ । (6-6-19)
षो॒डशिनः॑ - षो॒ड॒शिनः॑ । स्तो॒त्रम् । (6-6-43)
सप्तमकाण्डे -
ज्योतिः - ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑-स्तो॒मः॒ । (7-1-12) (अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । (7-1-12))
उद्यन्तः॑ - उ॒द्यन्त॒ इत्यु॑त्-यन्तः॑ । स्तोमाः । (7-1-34)
शुभः - शुभः॑ । स्पर्ध॑न्ते । (7-1-52)
ज्ञाताः - ज्ञा॒ताः । स्तोमाः । (7-2-11)
ऋग्भिः - ऋ॒ग्भिरित्यृ॑क्-भिः । स्तु॒व॒न्ति॒ । (7-3-3)
कॢ॑प्ताः - कॢ॒प्ताः । स्तोमाः । (7-4-14)
आयुः - आयु॑ष्टोम॒मित्यायुः॑-स्तो॒म॒म्॒ । (7-4-34)
यः - यः । स्त्री॒णाम् । (7-4-47)
प्रियो - प्रि॒यः । स्त्री॒णाम् । (7-4-48)
मध्यतः - म॒ध्य॒तः । स्तोमौ । (7-3-10), (7-5-4)
अन्तः - अ॒न्तः । स्तु॒व॒न्ति॒ । (7-5-23)
सदसः - सद॑सः । स्तु॒व॒न्ति॒ । (7-5-23,24)
ति॑ष्ठन्तः - तिष्ठ॑न्तः । स्तु॒व॒न्ति॒ । (7-5-26)
छन्दो॑भिः - छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । स्तोमैः । (7-5-40)
इति सकार-रेफविसर्जनीयः ॥
मूलम् - 1.62
अथ रेफपरविसर्जनीयान्तपदानि ।
विसर्जनीयान् वक्ष्यामि लुप्तान् रेफपरांस्तथा । आराती रेवती हंसि विष्णोरूर्जस्वती?.. । सजातैर्ग्रामणी-स्सिꣳहीर्योग्नेर्यूश्च प्रजापतेः । क्वलैरशस्तिरक्षोघ्नीर्महानाम्नीस्तथा भवेत् । अन्तोदात्तन्तथाग्ने?स्तु यवागूस्पर-न्तथा । इति रेफपरविसर्जनीयान्तपदानि । -।