०९

विश्वास-प्रस्तुतिः

ऊष्मपरो ऽघोषपरे लुप्यते काण्डमायनस्य॥९.१॥

Whitney

visarjanīya, when followed by a spirant which has a surd letter after it, is dropped, according to kāṇḍamāyana.

मूलम्

ऊष्मपरो ऽघोषपरे लुप्यते काण्डमायनस्य॥९.१॥

विश्वास-प्रस्तुतिः

अघोषपरस्तस्य सस्थानमूष्माणम्॥९.२॥

Whitney

Followed by a surd letter, it becomes the spirant of like position with that letter.

मूलम्

अघोषपरस्तस्य सस्थानमूष्माणम्॥९.२॥

माहिषेयः

अघोष-परो विसर्जनीयः,
तस्य अघोषस्य सस्थानम् ऊष्माणम् आपद्यते ।

यथा—“यः कामयेत” (सं. २—१—२) । “अग्निश् च मे” (सं. ४—७—६) । “उलूकः शशस्ते” (सं. ५—५—१८) । “अभिस् ते तेजः” (सं. १—१—१०) । “यः पाप्मना गृहीतः स्यात्” (सं. २—१—३) ॥

विश्वास-प्रस्तुतिः

न क्षपरः॥९.३॥

Whitney

But not when followed by kṣ.

मूलम्

न क्षपरः॥९.३॥

विश्वास-टिप्पनी

शर्परे विसर्जनीयः (खरि विसर्जनीयस्य) इति पाणिनिः।
तत्र संहितायां सत्याम्, जीह्वामूलीयवज् जिह्वामूल-स्पर्शो न भवति,
किञ्च वाक्यान्त-विसर्गवत् प्राक्तन-स्वरानूच्चारणम् अपि न भवति -
“अन्तस् सरति” इत्यादेर् अपेक्षया “अन्तः सरति” इत्यादौ यथा।
साम्प्रत-साम्प्रदायिकैस् तु यत् संहिताभाववद् उच्चार्यमाणः पूर्वस्वर-सस्थानीयो विसर्गो नात्र विहितः। नाम, “पूर्वो॒ऽर्ष्टु(हु) क्षी॑यतय्” इति न वाच्यम्, अपि तु “पूर्वो॒ऽर्ष्टुः क्षी॑यत” इत्येव।

माहिषेयः

न खलु क्ष-परो विसर्जनीयः सस्थानम् ऊष्माणम् आपद्यते ।

यथा—“घनाघनः क्षोभणश् चर्षणीनाम्” (सं. ४—६—४) । “उभयतः क्ष्णोर् अर्वती तम्” (सं. ५—१—१) ॥

विश्वास-प्रस्तुतिः

+++(न)+++ कपवर्गपरश्चाग्निवेश्यवाल्मीक्योः॥९.४॥

Whitney

Nor, according to āgniveśya and vālmīki, when followed by a guttural or a labial mute.

मूलम्

कपवर्गपरश्चाग्निवेश्यवाल्मीक्योः॥९.४॥

माहिषेयः

आग्निवेश्य-वाल्मीक्योः शाखिनोः आचार्ययोः कवर्ग-परश् च पवर्ग-परश् च विसर्जनीयः सस्थानम् ऊष्माणं नापद्यते । नेति चकारो ज्ञापयति ।

यथा—“यः कामयेत” (सं. २—१—२) । “अग्निः पशुर् आसीत्” (सं. ५—७—२६) ॥

विश्वास-प्रस्तुतिः

+++(न)+++ ऊष्मपर एवैकेषामाचार्याणाम्॥९.५॥

Whitney

According to some authorities, not when followed by a spirant, and only then.

मूलम्

ऊष्मपर एवैकेषामाचार्याणाम्॥९.५॥

विश्वास-टिप्पनी

नकारः ५-तमे ऽनुवर्तेत (अन्यथा तपरस्यापि सकारादेशनिषेधापत्तेः)।
नात्र माहिषेयव्याख्या साध्वी।
इदं पाणिन्य्-उक्तेन सङ्गच्छते - “वा शरि” (विसर्जनीयस्य विसर्जनीयः) ।

सोमयार्यः

एकेषाम् आचार्याणां मते ऊष्म-पर एव विसर्जनीयः पूर्व-विधिं न भजते । यथा—‘आशुः शिशानः’1 । एव-कारेण किं ? ‘मनस् तत्वाय’2 । ‘यः कामयेत’3 ॥ ५ ॥

गोपालः

केषां चिद् आचार्याणां मते ऊष्मस्व् एव परतो विसर्जनीयस् तन्तम् ऊष्माणं याति । तेन ‘पवश् छन्दः’4, ‘शुनं नः फालाः’5, ‘अनपगाः कुरते’6 इत्य् आदौ ऊष्मादेशो न भवति ॥ ५ ॥

माहिषेयः

ऊष्म-पर एव विसर्जनीयः सस्थानम् ऊष्माणम् आपद्यते ।

यथा—“सिंधोः शिशुमारः” (सं. ५—५—११) । “यस्यैवं विदुषः षोडशी” (सं. ६—६—११) ॥

विश्वास-प्रस्तुतिः

न प्लाक्षिप्लाक्षायणयोः +++(पूर्वसूत्रोक्तोऽप्य् उत्सर्ग-सङ्कोचः)+++॥९.६॥

Whitney

Not according to plākṣi and plākṣāyaṇa.

मूलम्

न प्लाक्षिप्लाक्षायणयोः॥९.६॥

विश्वास-टिप्पनी

इदं तावत् पूर्वतन-सूत्रस्यैव सावधारण-निषेध-विशेषस्य प्रत्याख्यानम्,
किञ्च तत्रारब्धापवाद-सङ्कोचस्यानुवर्तनम्।
तेन प्लाक्षिप्लाक्षायणयोर् मतय्
ऊष्मपरस्यापि विसर्जनीयस्य तत्-सस्थानिता,
क्षपरस्यापि, कखपफपरस्यापि।
नाम, “अघोषपरस्तस्य सस्थानम् ऊष्माणम्॥९.२॥” इत्य् उत्सर्गो निरपवादं तिष्ठति।

सोमयार्येण यन् न-कारः पूर्वसूत्रस्थैवकारस्यैव निषेशपर इत्य् उक्तम्,
तन् न तृप्तिकरम् - निषेधस्याधिकसङ्कोचात्।

गोपालेन पूर्वतनसूत्रस्य विपरीतावगतेर् अनुसारम् इदं व्याख्यातम् इत्य् अतो न तृप्तिकरम्। माहिषेयेणापि तथा।

गोपाल-सोमयार्याभ्यां सूत्रत्रयम् अनिष्टम् इति यद् उक्तम्,
यच् चासाधु क्वचिद् व्याख्यातम्,
तत् तेषाम् इहावज्ञां हि द्योतयति।
इमे पक्षा अपि साधु ज्ञेयाः।
अन्तिमश् च पक्ष उत्तमः।

सोमयार्यः

कवर्गपवर्गाभ्याम् ऊष्मपरश् च विसर्जनीयः
प्लाक्षिप्लाक्षायणयोः शाखिनोः पक्षे
न खलु पूर्वविधिं भजते ।
यथा—

यः कामयेत7 । यः पाप्मना8 । ‘आशुः शिशानः’9

एकम्पर इति किं ? ‘मनसस् पताय’10 कवर्गदिसूत्रत्रयम् अनिष्टम् ॥ ६ ॥ [[P261]]

गोपालः

प्लाक्षि-प्लाक्षायणयोर् मते ऊष्म-परो विसर्जनीय ऊष्माणं न याति । किन्तु +++(वर्ग-)+++प्रथम-द्वितीय-पर एव । नेदं सूत्र-त्रयम् इष्टम् ॥ ६ ॥

माहिषेयः

नेति प्रतिषेधः । प्लाक्षि-प्लाक्षायणयोर् आचार्ययोः कवर्ग-परश् च ऊष्म-परो विसर्जनीयः न खलु सस्थानम् ऊष्माणम् आपद्यते ।

यथा—“यः कामयेत” (सं. २—१—२) । “अग्निः पशुर् आसीत्” (सं. ५—७—२६) । “आशुः शिशानो वृषभः” (सं. ४—६—४) । “यः सोमं वमिति” (सं. २—३—२) । “कृकलासः शकुनिः पिप्पका” (सं. ५—५—१०) ॥ •

विश्वास-प्रस्तुतिः

ओकारमः सर्वो ऽकारपरः॥९.७॥

Whitney

aḥ, the whole of it, when followed by a, becomes o.

मूलम्

ओकारमः सर्वो ऽकारपरः॥९.७॥

विश्वास-प्रस्तुतिः

घोषवत्परश्च॥९.८॥

Whitney

Also when followed by a sonant consonant.

मूलम्

घोषवत्परश्च॥९.८॥

विश्वास-प्रस्तुतिः

अवर्णपूर्वस्तु लुप्यते॥९.९॥

Whitney

But visarjanīya, when preceded by an a-vowel, is omitted.

मूलम्

अवर्णपूर्वस्तु लुप्यते॥९.९॥

विश्वास-प्रस्तुतिः

अथ स्वरपरो यकारम्॥९.१०॥

Whitney

When followed by a vowel, it becomes y.

मूलम्

अथ स्वरपरो यकारम्॥९.१०॥

विश्वास-प्रस्तुतिः

एकारो ऽयम्॥९.११॥

Whitney

e, before a vowel, becomes ay.

मूलम्

एकारो ऽयम्॥९.११॥

विश्वास-प्रस्तुतिः

ओकारो ऽवम्॥९.१२॥

Whitney

o becomes av.

मूलम्

ओकारो ऽवम्॥९.१२॥

विश्वास-प्रस्तुतिः

नाकारपरौ॥९.१३॥

Whitney

But not, in either case, when followed by a.

मूलम्

नाकारपरौ॥९.१३॥

विश्वास-प्रस्तुतिः

ऐकार आयम्॥९.१४॥

Whitney

ai becomes āy.

मूलम्

ऐकार आयम्॥९.१४॥

विश्वास-प्रस्तुतिः

औकार आवम्॥९.१५॥

Whitney

au becomes āv.

मूलम्

औकार आवम्॥९.१५॥

विश्वास-प्रस्तुतिः

उकारो ऽपृक्तः प्रकृत्या वकारो ऽन्तरे॥९.१६॥

Whitney

An u, uncombined with a consonant, remains unchanged, and v is inserted between it and the following vowel.

मूलम्

उकारो ऽपृक्तः प्रकृत्या वकारो ऽन्तरे॥९.१६॥

विश्वास-प्रस्तुतिः

न तत्तस्मात्साँहितः॥९.१७॥

Whitney

But not in sam̐hitā-text, after tat and tasmāt.

मूलम्

न तत्तस्मात्साँहितः॥९.१७॥

विश्वास-प्रस्तुतिः

ह्रस्वपूर्वो ङकारो द्विवर्णम्॥९.१८॥

Whitney

A ṅ, when preceded by a short vowel, is doubled.

मूलम्

ह्रस्वपूर्वो ङकारो द्विवर्णम्॥९.१८॥

विश्वास-प्रस्तुतिः

नकारश्च॥९.१९॥

Whitney

As does also a n.

मूलम्

नकारश्च॥९.१९॥

विश्वास-प्रस्तुतिः

अनितिपरो ग्रहोख्ययाज्यापृष्ठ्यहिरण्यवर्णीयेष्वीकारोकारपूर्वो रेफमाकारपूर्वश्च यकारम्॥९.२०॥

Whitney

In graha, ukhya, yājyā, pṛṣṭhya, and hiraṇyavarṇīya passages, a n preceded by ī or ū becomes r, preceded by ā becomes y, except before iti.

मूलम्

अनितिपरो ग्रहोख्ययाज्यापृष्ठ्यहिरण्यवर्णीयेष्वीकारोकारपूर्वो रेफमाकारपूर्वश्च यकारम्॥९.२०॥

विश्वास-प्रस्तुतिः

मर्त्यानुदयानमृतान्दुर्यानसोमपूर्वःसोअस्मानविमान्गोमान्मधुमान्हविष्मान्हूतमानार्षेचिकित्वानिडावान्कक्षीवान्बाणवान्हिपयस्वान्वशान्विदत्रानमित्रानरान्पोषान्महाँश्च॥९.२१॥

Whitney

Also in the words martyān, ud ayān, amṛtān, duryān not preceded by soma, so asmān, avimān, gomān, madhumān, haviṣmān, hūtamān before any vowel belonging to the text, cikitvān, iḍāvān, kakṣīvān, bāṇavān, hi payasvān, vaśān, vidatrān, amitrān, arān, poṣān, and mahān.

मूलम्

मर्त्यानुदयानमृतान्दुर्यानसोमपूर्वःसोअस्मानविमान्गोमान्मधुमान्हविष्मान्हूतमानार्षेचिकित्वानिडावान्कक्षीवान्बाणवान्हिपयस्वान्वशान्विदत्रानमित्रानरान्पोषान्महाँश्च॥९.२१॥

विश्वास-प्रस्तुतिः

इन्द्रोमेऽकर्ऊढ्वमिहाप्येत्वगन्मेडेन्यानायजिष्ठआचर्त्वकुर्वतादुहददितिरग्रेऽधरान्त्सपत्नानलंपरश्च॥९.२२॥

Whitney

Also a n followed by indro me, akaḥ, ūḍhvam, ihā, apy etu, aganma, īḍenyān, āyajiṣṭhaḥ, ā ca, ṛtu, akurvata, aduhat, aditiḥ, agre, adharānt sapatnān, and alam.

मूलम्

इन्द्रोमेऽकर्ऊढ्वमिहाप्येत्वगन्मेडेन्यानायजिष्ठआचर्त्वकुर्वतादुहददितिरग्रेऽधरान्त्सपत्नानलंपरश्च॥९.२२॥

विश्वास-प्रस्तुतिः

न रश्मीञ्छ्रपयान्यमान्पतङ्गान्त्समानानर्चान्यजीयान्॥९.२३॥

Whitney

The n of raśmīn, śrapayān, yamān, pataṅgān, samānān, arcān, yajīyān remains unchanged.

मूलम्

न रश्मीञ्छ्रपयान्यमान्पतङ्गान्त्समानानर्चान्यजीयान्॥९.२३॥

विश्वास-प्रस्तुतिः

उदथापरश्चोदथापरश्च॥९.२४॥

Whitney

Nor a n followed by ut or atha.

मूलम्

उदथापरश्चोदथापरश्च॥९.२४॥


  1. सं. ४-५-९. ↩︎

  2. सं. ४-१-१. ↩︎

  3. सं. २-१-२. ↩︎

  4. सं. १-४-१४. ↩︎

  5. सं. ४-५-९. ↩︎

  6. सं. ४-६-४. ↩︎

  7. सं. २-२-२. ↩︎

  8. सं. २-१-२. ↩︎

  9. सं. १-८-११. ↩︎

  10. सं. ४-२-९. ↩︎