ऋग्वर्णक्रमलक्षणम्

[[ऋग्वर्णक्रमलक्षणम् Source: EB]]

[

** ऋग्वर्णक्रमलक्षणम्**

उपोद्घातः

हन्त, महानयं प्रभावो भारतदेशस्य, यदतीतेष्वपि बहुतिथेष्वब्दसहस्त्रेषु, धर्मविलोपबद्धदीक्षे च जाग्रति कलिकोलाहले, मन्त्रकृतां महर्षीणां गुरुशिष्यपरंपराक्रमागतो वेदाध्यनसंप्रदायो न मनागपि वैकल्यमुपयातोऽद्यापि श्रोत्रियगणैः स्वरवर्णमात्रावैपरीत्यमन्तरा परिपाल्यते। स्वरवर्णमात्राणां मात्रयापि वैकल्ये महाननर्थो भवेदिति समाचक्षते। यथा-

“मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥”
(पाणिनीयशिक्षा 52)

इति। वृत्रेणेन्द्रवधायाभिचारः समारब्धः। तत्र इन्द्रस्य घातकः वर्धस्वेति विवक्षितेऽर्थे इन्द्रशत्रुर्वर्धस्वेति मन्त्र ऊहितः। तत्र इन्द्रस्य शत्रुः शातयिता इति तत्पुरुषसमासेन अन्तोदात्ते प्रयोक्तव्ये प्रमादात् ऋत्विग्भिः आद्युदात्तः प्रयुक्तः। तेन च इन्द्रः शत्रुः शातयिता यस्येति बहुव्रीहिसमासः संपन्नः। अतः अभिचारे समाप्ते इन्द्रः वृत्रस्य शातयिता घातकः समभवत्। एतादृश्यनर्थपरंपरा वेदाध्येतॄणां मा प्रसाङ्क्षीदिति हितैषिभिः पाणिन्यादिभिः लक्षणानि निर्मितानि। तत्र ईषदूनचतुः-सहस्त्रसूत्रेषु किंचिदधिकषट्‌शतानि सूत्राणि वैदिकविषयाणि। तथा शौनकादयो महर्षयोऽपि प्रातिशाख्यभिधान् ग्रन्थान् जग्रन्थुः। शाखां शाखां प्रति प्रतिशाखम्। तत्र भवं प्रातिशाख्यं लक्षणमिति तदर्थः। एवं बहवः शिक्षादिग्रन्था अपि प्रणीताः। प्रातिशाख्यशिक्षादीनां बहुत्वात् विस्तृतत्वाच्च तेभ्यो वैदिकवर्णस्वरादीनां यथावस्थितस्वरूपावबोधो मितमतीनां दुष्कर इति मत्वा तदर्थान् संगृह्य बहवो विविधात् लक्षणग्रन्थान् प्राणैषुः। तेष्वन्यतमोऽयं ग्रन्थः ऋग्वर्णक्रमलक्षणं नाम।

ग्रन्थस्यास्यापूर्वस्य मातृकैका जीर्णतालपत्रमयी औत्तराहविश्वभारतीकोशागारात् समुपलब्धा। चिरगवेषणेऽपि द्वितीय मातृकाद्यावधि कुत्रापि नोपलब्धा। अतो ग्रन्थगौरवमादृत्य जीर्णमप्येकमेव मातृकाकोशमुपजीव्यास्य मुद्रणं संपादितम्। ग्रन्थेऽस्मिन् चतुश्चत्वारिंशदानुष्टुभाः श्लोका वर्तन्ते। ग्रन्थस्यास्य रचयिता नरसिंहसुधीः नात्मनो देशकालादिकमधिकृत्य किमपि ब्रवीति। अतोऽयं कस्मिन् देशे कस्मिन् काले समवर्ततेति न निश्चेतुं पर्याप्तं प्रमाणमुपलभ्यते। परंतु ग्रन्थशैलीपरिशीलने प्रायशोऽयमेकान्नेविंशस्य क्रिस्तुशतकस्य पूर्वार्धे समभवदित्यूहितुं शक्यते। नरसिंहसुधिया चानेन स्वकीयमूलग्रन्थस्य व्याख्यापि काचित् विरचिता समुपलब्धा तत्रैव जीर्णतालपत्रकोशे। व्याख्यानरीतिश्च विशदा सरला च सती बहूपकरोति मूलग्रन्थार्थावबोधने। अत्र च ऋग्वेदस्थपदविशेषाणां वर्णद्वित्वागमलोपादेशादिकं सुविशदं सोदाहरणं चोपपादितम्।

यद्यप्यत्रोपपादितेषु विषयेषु केचित् व्याकरणे कृतपरिचयानां व्युत्पन्नानां सुविदिता एव, तथापि बहवः प्रातिशाख्यशिक्षादिलक्षणग्रन्थैकसमधिगम्या इति तत्प्रतिपादनेन महानेतद्‌ग्रन्थोपकार इति वेदितव्यम्। तथाहि- “स्वरानुस्वारपूर्वो हल् द्वित्वमाप्नोति हल्‌परः। शषसेभ्यश्च वर्गाद्यो लात्स्पर्शा रहयोर्हलः॥” (श्लो.7) इति द्वित्वविधिः “अनचि च” (8.4.47) “शरः खयः” (वा. 8.4.47) “अचो रहाभ्यां द्वे” (8.4.46) इति वैयाकरणविधिभिरेव गतार्थः। एवं “नङौ ह्रस्वात्स्वरेऽन्तगौ” (श्लो.8) इति द्वित्वविधिः “ङमो ह्रस्वादचि ङमुण्नित्यम्” (8.3.32) इति व्याकरणसूत्रेणैव चरितार्थः। परंतु “संयुक्तोष्मा त्वनुपधः” (श्लो.8) इति ह्वयामीत्यादौ संयुक्तादिभूतस्य हकारादेः द्वित्वविधानं तु न वैयाकरणसूत्रलभ्यम्। अत्रेदं चिन्त्यम्-`युङ्क्ते, युङ्ग्ध्वम्’ इत्यादौ ङकारस्य तकारधकारयोश्च मध्ये “ङतयोर्ङधयोर्मध्ये पदमध्ये कगौ क्रमात्” (श्लो.14) इति ककारगकारौ विधीयेते। एतच्च रूपमेतद्विधिमन्तरापि सिध्यत्येव। युज्‌धातोरन्त्यजकारस्य कुत्वे सति ककारगकारौ प्राप्तावेव। अतोऽत्र विशिष्य ककारगकारयोर्विधिः किमर्थ इति। नरसिंहसुधीविरचितो विकल्पकौमुदी नाम जटालक्षणग्रन्थोऽप्य विज्ञायते।

** वे.कृष्णमाचार्यः॥**

————————————————————————————————-

** PREFACE**

A PALM-LEAF manuscript of the Rguarnakramalaksana exists in the Visva-Bharati collection of MSS. in the Adyar Library (No. VB 737). The MS. also contains a commentary on the work by the author of the text himself. No other copy of this work is known to exist in any public collection. The Adyar Library MS. is old and worm-eaten. But considering the rarity and importance of the work, it is edited here with the commentary on the basis of this single MS.
The work contains forty-four Anustubh verses. The author, Narasimhasuri, does not mention anything indicative of his time and place, nor is there any external evidence for deciding where and when he lived. But from the nature and the style of the work one might infer that it is not earlier than the beginning of the nineteenth century. The commentary is simple and clear.
The Rguarnakramalaksana gives the rules of pronunciation of the Rgvedic mantra-s with illustrations of the duplication, augmentation, elision, etc., of syllables. Some of the facts presented are well known to students of Paninian grammar, but many others can be found only in the Pratisakhya and Siksa works. For instance, the rules given here that a consonant preceded by a vowel or nasal letter and followed by a consonant is doubled, and the first two sets of the five groups of consonants coming after श्, ष्, and स् and all consonants coming after र् and ह् are doubled are not new to the students of Panini (See Panini 8.4.46,47). Similarly the rule that न् and ङ् at the and of a word, preceded by a short vowel and followed by a vowel are doubled is the same as given by Panini 8.3.32. But there is another rule (verse 8) to the effect that the initial usman of a conjunct consonant is doubled, according to which the initial letter ह् in ह्वयामि is doubled. This can be justified only on the strength of the Pratisakhya. One of the rules found in this text, however, calls for criticial consideration : It is said (verse 14) that the augment क् comes between ङ् and त् and ग् between ङ् and ध्, the illustration given being युङ्क्ते and युङ्‌ग्ध्वम्. But even without such a rule the root युज् can naturally take the forms युङ्क्ते and युङ्‌ग्ध्वम्. Why then is this special rule given in the Rguarnakramalaksana ?

** V. KRISHNAMACHARYA**

—————————————————————————————–

** ऋग्वर्णक्रमलक्षणम्**

केशरूपधरं विष्णुं नरसिंहो नमन् सुधीः।
तनोति पूर्वशास्त्रोक्तमृग्वर्णक्रमलक्षणम् ॥ 1 ॥

व्याख्या

मन्त्रराजं नमस्कृत्य नरसिंहेन सूरिणा ।
ऋचां वर्णक्रमव्याख्या सम्यक् संतन्यतेऽधुना ॥

मङ्गलं कुर्वन् चिकीर्षितं प्रतिजानीते-केशेति। केशाः ; कः अः ईशः ब्रह्मविष्णुरुद्राः ; तद्रूपधरं विष्णुं विराट्पुरुषम्। यद्वा-

“आ नाभेर्ब्रह्मणो रूपमा गलाद्वैष्णवं वपुः।
आ केशाद्रौद्रियं रूपं नृसिंहस्त्रिगुणात्मकः॥”

इत्युक्तेः नरसिंहिं वा नमन्नित्यर्थः। पूर्वशास्त्राणि शिक्षाप्रातिशाख्यादीनि ॥ 1 ॥

वर्णक्रमज्ञाने फलमाह-

पदक्रमविभागज्ञो वर्णक्रमविचक्षणः।
स्वरमात्राविशेषज्ञो गच्छेदाचार्यसंसदम् ॥ 2 ॥

पदेति। आचार्यसंसदम् ; शौनकाद्या यस्यां देवसभायां तिष्ठन्ति, तां प्राप्नुयात्। वर्णक्रमविचक्षणः ; वर्णाः स्वरव्यञ्जनादयः ; तेषां क्रमः अनुक्रमः ; तत्र स्वरव्यञ्जनव्यञ्जनस्वरस्वरस्वरव्यञ्जनव्यञ्जनात्मकसंधिगुरुत्वलवुत्वसमत्वद्वित्वद्वित्वनिषेधाभिनिधानाभिनिधाननिषेधागमप्राकृतवैकृतसानुनासिकनिरनुनासिकयमस्वरभक्त्त्यादिवर्णानुस्वारविसर्गजिह्वामूलीयोपध्मानीयलोपागमविकारप्रकृतिविकृतिश्वासनादोभयरङ्गकम्पस्थानप्रयत्नविवृत्तिविरामादिज्ञाननिपुणः। विचक्षणः विशेषज्ञः। एतावता वर्णज्ञानस्यापर्याप्तत्वात् तं विशिनष्टि-पदक्रमविभागज्ञ इति। पदानि व्याकरणासिद्धानि। तेषु वैकृतप्राकृतनामाख्यातोपसर्गनिपातपदज्ञानम्। क्रमः बाभ्रव्याचार्यप्रणीतः संहितापदोभयात्मकः। तद्विभागः पदभेदाः क्रमभेदाः। तान् जानातीति तज्ज्ञः। तावताप्यपर्याप्तेराह-स्वरमात्राविशेषज्ञ इति। स्वरा उदात्तादयः। मात्राः ह्रस्वदीर्घादयः। तद्विशेषः प्रकृतिप्रत्ययपूर्वापरनिमित्तः स्वरविशेषः, गुरुत्वलवुत्वसमत्वैकमात्राद्विमात्रात्रिमात्रार्धमात्रादिर्मात्राविशेषः ; तज्ज्ञः। ॥ 2 ॥

प्रथमश्लोके पूर्वशास्त्रोक्तमित्युक्तत्वात् पूर्वशास्त्रशब्दार्थमाह-

तल्लक्षणं प्रातिशाख्याज्ज्ञेयं व्याकरणात्क्वचित्।
द्वित्वं चाभिनिधानं च प्रतिषेधस्तयोः क्रमात् ॥ 3॥
सोष्मणः पूर्वरूपं च सोष्मा पूर्वस्य चागमः।
यमा यमनिषेधश्च विवृत्तिः स्वरभक्तयः ॥ 4 ॥
नासिक्यानासिका वर्णा लुप्ताः प्राकृतवैकृताः।
विसर्गजिह्वामूलीयावुपध्मानीय एव च ॥ 5 ॥
अनुस्वारः कम्परङ्गौ ह्रस्वः प्लुतमिति क्रमात्।
एते प्रायेण विज्ञेया वर्णक्रमविचक्षणैः ॥ 6 ॥

तल्लक्षणमिति। हलादिज्ञानार्थं व्याकरणाद्यपि क्वचित् ज्ञेयम्। शिक्षादिलक्षणान्तरसद्भावेऽपि प्रातिशाख्यादेव (किंचित्) ज्ञेयम् ;

“जपादौ नाधिकारोऽस्ति सम्यक्पाठमजानतः।
प्रातिशाख्यमतो ज्ञेयं सम्यक्पाठस्य सिद्धये॥”

इत्युक्तेः। प्रातिशाख्ये अनेकलक्षणसद्भावेऽपि प्रकृते एतावन्ति ज्ञेयानीत्याह-द्वित्वं चेति सार्धश्लोकत्रयेण। द्वित्वमिति। तत्र द्वित्वम् एकस्य वर्णस्य द्विरुक्तिः। अभिनिधानं नाम संवरणश्रुतिरूपद्वित्वापरनामकम्। तयोः प्रतिषेधः अभावः। वर्गद्वितीयचतुर्थाः सोष्मा। तस्य पूर्वरूपं द्वितीयस्य प्रथमत्वम्, चतुर्थस्य तृतीयत्वम्। सोष्मा पूर्वस्य ; वर्गाद्यस्य वर्गद्वितीयत्वम्। आगमः ; वर्णयोर्मध्ये वर्णान्तरप्रवेशः। यमाः ; अनासिक्यस्पर्शानां नासिक्यस्पर्शे परे मध्ये पूर्वस्पर्शसमानसानुनासिकवर्णान्तरप्रवेशः। यमनिषेधः ; यमप्राप्तिविषये क्वचिदभावः। विवृत्तिः ; स्वरा(न्तर)विवृत्तिः मात्राविशेषभेदयुक्ता। स्वरभक्तयः ; रेफलकारयोर्व्यञ्जने परे मध्ये ऋलृरूपवर्णान्तरप्रवेशः। नासिक्याः ; कण्ठादिषूत्पन्ना अपि नासिकया सह उच्चार्यमाणाः। अनासिकाः ; तद्भिन्नाः। लुप्ताः ; पदकाले दृष्टाः संहितायामदृष्टा वर्णाः। प्राकृताः ; उभयत्र एकरूपाः। वैकृताः ; पदकाले दृष्टा एव संहितायां वर्णान्तरत्वं गताः। विसर्गः ; अचः परो वर्तमानः पञ्चम ऊष्मा। जिह्वामूलीयः ; कखाभ्यां प्रागर्धविसर्गसहितः। उपध्मानीयः ; पफाभ्यां प्रागर्धविसर्गसहितः। अनुस्वारः ; अचः परः सानुनासिकस्वरव्यञ्जनात्मकः स्वरव्यञ्जनभिन्नोऽष्टम ऊष्मा। कम्पः ; जात्यादिस्वरितस्वरादुत्पन्नः। रङ्गः ; स्वरेषु सानुनासिक(त्व)गुणविशेषः। प्लुतम् ; ह्रस्वदीर्घविधयः मुख्यप्लुतं च। ह्वस्वः ; पदकाले दीर्घस्य संहितायां ह्रस्वत्वमिति ॥ 3-6 ॥

प्रतिज्ञातेषु मध्ये द्वित्वस्य लक्षणमाह-

स्वरानुस्वारपूर्वो हल् द्वित्वमाप्नोति हल्‌परः।
शषसेभ्यश्च वर्गाद्यौ लात् स्पर्शा रहयोर्हलः ॥ 7 ॥

स्वरेति। स्वराः ; अकाराद्यौकारान्ताः। अनुस्वारः ; पूर्वोक्तः। तदन्यतमपूर्वको हल् ककारादिहकारान्तः। द्वित्वमाप्नोति ; हलि परे सति। देवेब्‌भ्यः। अक्ख्यत्। अग्ग्रम्। ———। आप्प्यायस्व। अस्स्माकम्। तस्स्य। संश्श्यत्। स्वरानुस्वारपूर्व इति किम् ? त्वावतः। तकारस्य द्वित्वं न। बृहद्भा बिभ्रतः (?)। भस्य न। हल् किम् ? अग्ने अपाम्। अस्य न। हल्‌परः किम् ? .. तो … शन्नासः ? तशयोर्न। श(ष)सेति। स्वरानुस्वारपूर्वकेभ्यः शषसेभ्यः परौ वर्गाद्यौ कखचछटठतथपफाः दश द्वित्वं यान्ति। दिवश्च्चित्। यजुष्क्कन्नम्। तस्क्करम्। स्वरानुस्वारपूर्वेभ्यः किम् ? यत्स्थः। थस्य न। शषयेभ्यः। किम् ? सप्त। तस्य न। वर्गाग्यौ किम् ? प्र श्यावाश्व। यस्य न। लात् स्पर्शाः ; स्वरानुस्वारपूर्वकात् लात् परे कादिमान्ताः क्रामन्ति। उल्क्कामिव। उल्ब्बम्। स्वर्शाः किम् ? कुल्याः। यस्य न। लात् किम् ? अपां …..। नस्य न। (स्वरादि) पूर्वकात् किम् ? मृग्यम्। रहयोर्हलः ; स्वरानुस्वारपूर्वकाभ्यां रहाभ्यां परे हलः द्विः। अर्व्वाक्। विह्‌य्यख्यम्। स्वरादीति किम् ? ह्वयामि। वस्य न। रहयो किम् ? आ त्वा। वस्य न। हल इति किम् ? नरावाशंसम्। अहाव्यग्ने। आकारस्य नास्ति ॥ 7 ॥

संयुक्तोष्मा त्वमुपधो नङौ ह्रस्वात् स्वरेऽन्तगौ।
अपदान्ते तु दीर्घाच्छो ह्रस्वाच्छो मात्परोऽपि वा ॥ 8 ॥

(संयुक्तेति)। संयुक्तोष्मा त्वनुपधः ; अविद्यमानपूर्वकाः हल्‌परकाः हशषसाः द्विः। ह्‌ह्वयामि। श्श्यावाश्वस्य। स्स्तुषे। संयुक्तोति किम् ? स नः। सस्य न। ऊष्मा किम् ? त्वावतः। तस्य न। अनुपधः किम् ? अस्तु। सस्य न। नङौ ह्रस्वात् स्वरेऽन्तगौ ; पदान्त्यौ ह्रस्वात्परौ नङौ स्वरे परे द्विः। हन्नच्युतच्युत्। सदृङ्ङसि। अन्तगौ किम् ? अनर्वाणम्। ह्रस्वात् किम् ? एतावानस्य। अर्वाङेहि। स्वरे किम् ? अर्हन् बिभर्षि। सध्रियङ् चोधवर्धे। अपदान्ते तु दीर्घाच्छः ; पदमध्ये दीर्घात् परः छः द्विः। ऐच्छाम। औच्छत्। अपदान्ते किम् ? वर्मणा छादयामि। तुरवधारणे ; पदान्ते सर्वत्र द्वित्वविधानात्। ह्रस्वाच्छः ; पृथक्सूत्रकरणात् पदान्ते अपदान्ते च ह्रस्वात् परः छः द्विः। अच्छा वद। उप च्छायामिव। ह्रस्वात् किम् ? वर्मणा छादयामि। मात्परोऽपि वा ; दीर्घात्पदान्तार्थ आरम्भः। माशब्दात् परः छः द्विः। मा च्छेद्म। मात् किम् ? वर्मणा छादयामि ॥ 8 ॥

छस्य `ह्रस्वाच्छः’ इति प्राप्तद्वित्वनिषेधमाह-

सहातिहाययस्य द्वे तने च पवमान न।
स्वरोष्मपर ऊष्मा च स्वसवर्णः क्रमोपधः ॥ 9॥

सहेति। सह ; सह छन्दसः। अतिहाय छिद्रा। यस्य छाया। तने च छर्दिः। द्वे किम्। मध्विच्च च्छद्यात्। पवमान छन्दस्यम्। एभ्यः किम् ? उप च्छायामिव। स्वरोष्मपर ऊष्मा च ; नेत्यनुपवर्तते। स्वरपरो वा ऊष्मपरो वा ऊष्मा हशषसाः द्विर्न। स्वरानुस्वारसूत्रेण `रहयोर्हलः’ इति च प्राप्तस्यापवादः। स्वरपरः-यदद्य कर्हि। अदर्शि। पर्षि। ऊष्मपरः-यश्शुक्त इव। दिवस्सम्राजा। देवीप्षट्। स्वरोष्मपरः। किम् ? उत्वे ह्‌ह्रदा इव। अदर्श्‌श्यायती। वर्ष्‌ष्याँ3 अह। प्रसर्स्‌स्त्राणस्य। ऊष्मा किम् ? वत्‌त्सो मातॄः। तकारस्य न निषेधः। स्वसवर्णः ; नेति वर्तते। स्ववर्णः स्वसवर्णपरः न द्विः। अन्नम्। अवविद्धम्। स्वसवर्णः किम् ? अमत्थ्नादन्यत्। क्रमोपधः ; नेति वर्तते। द्वित्वनिमित्तभूतो वर्णः न द्विः। अर्व्वाक्। अस्‌त्तेव। रेफसयोर्द्वित्वनिमित्तत्वात् न द्वित्वम् ॥ 9 ॥

वर्ग्ये परे न वर्गान्त्यः पदान्तव्यञ्जनं तथा।
स्पर्शारेफयणः स्पर्शेऽनन्त्यस्पर्शा यणूष्मणोः ॥ 10 ॥
पदान्तेऽभिनिधानाख्या हल् विरामे यणो यणि।
तृतीयभावादन्यत्र नादेशस्वसवर्णयोः ॥ 11 ॥

(वर्ग्य इति।) वर्ग्ये परे न वर्गान्त्यः ; पञ्चमभिन्नस्वस्ववर्ग्यस्पर्शपरत्वे ङञणनमाः न द्विः। कङ्कतः। पृञ्चतीः। आण्डेव। भवन्तु। तम्ब्रह्माणम्। स्ववर्ग्यपरकः किम् ? वम्म्रकः। वर्गान्त्यः किम् ? रत्त्नधातमम्। पुनर्नञ्‌ग्रहणं विशेषविधिसूचनार्थम्। पदान्तव्यञ्जनं तथा ; पदान्तस्थो हल् न द्विः। वर्क्। रेफात्परत्वेऽपि कस्य न द्विः। वर्क्। रेफात्परत्वेऽपि कस्य न द्विः। पदान्तेति किम् ? ओक्क्ये। अभिनिधानलक्षणमाह-स्पर्शारेफयणः स्पर्शे ; पदान्तगाः स्पर्शाः, अरेफाः यणः रेफरहिता यणः यलवाः, स्पर्शे परे अभिनिधानाख्याः स्युः। वाक् पतङ्गाय। वषट् कृतस्य। तेषाम् पाहि। भूरिदाव्‌नः। ग्राव्‌णाम्। उल्‌बम्। पदान्तगत्वं न यणि संभवति। “ऊष्मान्तः स्थऋसोष्मचकारवर्गा नान्तं यान्ति” इति वचनात्। अरेफेति किम्। अर्च्चन्तः। रेफस्याभिनिधानं अव्यात्। दवयोर्न। केचिदत्र पदान्तः इति नानुवर्तत इत्याहुः। तन्न ; अपदान्ते द्वित्वविषये अग्ग्निम् इत्यादावभिनिधानापत्तेः। अनन्त्यस्पर्शा यणूष्मणोः ; पदान्ते अभिनिधानाख्याः। मकारभिन्नस्पर्शाः कादिभान्ताः पदान्तगाः यणूष्मणोः यवलहशषसेषु परेषु अभिनिधानाख्याः। यद् यद् यामि। वषड् वषड्। तान् वः। अर्वाक् शफाविव। तत् सवितुः। स्पर्शाः किम् ? सिन्धुर्यत्। रस्य न। पदान्ते किम् ? वत्सः। तस्य न। अनन्त्यः किम् ? सम्राज्ञी अधि। मस्य न। यणूष्मणोः किम् ? तत्ते। तस्य न।
ननु `स्पर्शारेफयणः स्पर्शे पदान्तेऽभिनिधानाख्याः’ `अनन्त्यस्पर्शा यणूष्मणोः पदान्तेऽभिनिधानाख्याः’ इति भिन्नसूत्रं विहाय `स्पर्शयणां स्पर्शयणूष्मसु’ इत्येकमेव सूत्रं क्रियतामिति चेत्-न ; अर्वाग्देवाः, सम्राज्ञी इत्यत्र रेफमकारयोरभिनिधानापत्तेः। हल् विरामे ; अवसानपरः हल् अभिनिधानाख्यः। आ गमत्। मनांसि जानताम्। अवसाने किम् ? यदद्य। दस्य न। यणो यणि ; पदान्तगाः सानुनासिकाः वैकृताः प्राकृताः वा यलवाः सवर्णे यलवे परेऽभिनिधानाख्याः। यय्युँजम्। तव्वँ इन्द्रम्। एषाल्लँक्ष्मीः। रेफस्य रेफे न ; तत्र पूर्वस्य लोपात्। पदान्ते किम् ? ते रय्या। यस्य न। `स्पर्शारेफयणः स्पर्शे’ इत्यत्र स्पर्शयणोरित्यनुक्त्त्वा यणो यणीति पृथक्करणात् वक्ष्यमाणः `नादेशस्वसवर्णयोः’ इति निषधो नात्र प्रवर्तते। अभिनिधाननिषेधमाह-तृतीयभावादिति। घोषपरत्वे कचटतपानां गजडदबत्वं तृतीयभावः। तं विना आदेशवर्णस्य नाभिनिधानम्। त्वं करञ्जम्। सञ्जहन् ते। आदेशेति किम् ? तेषाम्पादि। अनादेशेऽपि आदेशाभावात् अभिनिधानं प्रवर्तते। स्वसवर्णे ; स्वस्ववर्गसमानवर्णे। तत्ते। विस्थाने स्पर्शसूत्रस्याप्राप्तत्वात् अभिनिधानं नास्ति। स्वसवर्णे किम् ? तेषाम्पाहि ॥ 10, 11 ॥

सोष्मणो द्वित्वसंप्राप्तौ तत्पूर्वः सकृदुच्यते।
अपदान्ते द्वितीयः स्याद्वर्गप्रथम ऊष्मणि ॥ 12 ॥

सोष्मण इति। सोष्मणो द्वित्वसंप्राप्तौ तत्पूर्वः सकृदुच्यते ; वर्गद्वितीयचतुर्थानां खघछझठढथधफभानां द्वित्वप्राप्तौ प्रथमोच्चारणे द्वितीयानां प्रथमाः कचटतपाः, चतुर्थानां तृतीयाः गजडदबाः स्युः। अक्‌ख्यत्। अच्‌छ। अवाड्‌ढव्यानि। रत्‌थ्येव। अब्‌भ्रातेव। सोष्मणः किम्। अग्ग्ने। अपदान्त इति ; पदमध्यगः वर्गप्रथमः ऊष्मणि परे द्वितीयः स्यात्। वत्थ्यो मातॄः। वृक्ख्‌षे। विरप्फ्‌शी। अपदान्ते किम् ? तत्सवितुः ॥ 12 ॥

आगमानाह-

ओष्ठ्यजातस्य कण्ठ्यस्य स्वरेऽनोष्ठ्ये व आगमः।
नटयोः से तकारः स्यात् ङञयोः शरि शे कचौ ॥ 13 ॥

ओष्ठ्यजातस्येति। ओकारौकाराभ्यां जातयोः अकाराकारयोः उऊओऔभिन्नस्वरे परे मध्ये वकारागमः। वायविन्द्रः। ताविन्द्राग्नी। ओष्ठ्यजातस्य किम् ? अस्मा उषासः। कण्ठ्यस्य किम् ? पितो अजगन्। अनोष्ठ्ये किम् ? वाय उक्थेभिः। उभा उ नूनम्। नटयोः से तकारः स्यात् ; सकारे परे नकारटकारयोः मध्ये तकारः। ससवान्‌त्सन्‌त्स्तूयसे। विराट्‌त्सम्राट्। नटयोः किम् ? तत् सूर्यम्। से इति किम् ? तान् वः। ङञयोः शरि शे कचौ ; ङस्य शषसेषु मध्ये कः, ञस्य शे चः। अर्वाङ्‌क्‌छश्वत्तमम्। प्रत्यङ्‌क्‌सः। वज्रिञ्‌च्‌छश्नथिहि। मघवञ्‌च्‌छग्घि। अत्रागमानन्तरं छादेशः। शरि किम् ? दध्यङ् ह। प्रत्यङ् चित्रा। शे किम् ? शञ्‌चयोश्च ॥ 13 ॥

ङतयोर्हधयोर्मध्ये पदमध्ये कगौ क्रमात्।
पुरुपृथ्वधिशब्दानां पद्ये पूर्वपदस्य च ॥ 14 ॥
चन्द्रे परे शकारः स्यात् सकारस्त्वस्कृतोषसम्।
परीति पद्ये कृपरेऽपद्ये कृण्वन्ति षः परे ॥ 15 ॥

ङतयोरिति। अपदान्तविषये ङतयोर्मध्ये कः ; ङधयोर्गः। युङ्क्ते। युङ्ग्ध्वम्। पदमध्ये किम् ? ….। पुरुपृथ्विति ; पुरु पृथु अधि इति त्रयाणां द्विखण्डपदे यस्य कस्यचित् पूर्वपदस्य च चन्द्रे परे मध्ये शागमः। पुरुश्चन्द्रं यजतम्। पृथुश्चन्द्रमवसे। अधिश्चन्द्रं बृहत्। हरिश्चन्द्रः। सुश्चन्द्रः। पूर्वादीनां किम् ? अभिचन्द्रा। चन्द्रे किम् ? अधिसानौ। पुरुवीरम्। पद्ये किम् ? अभि चन्द्रा। चन्द्रे किम् ? कविक्रतुः। सकारस्त्वस्कृतोषसमः पदकाले अकृतेति पदस्य उषसमिति पदे परे संहितायां सकारागमः। उषसं किम् ? चिन्त्यम्। परीतीति। द्विखण्डपदे परिशब्दात् परस्य कृ इति वर्णस्याधः षकारागमः। परिष्कृण्वन्। कृपरे किम्। परिदाय। पद्ये किम् ? परि किम् ? चिन्त्यम्। कृण्वन्ति षः परे; परिशब्दात् कृण्वन्तिशब्दस्य व्यस्तपदत्वे षः। परिष्कृण्वन्ति। कृण्वन्ति किम् ? परि सुवानः। अपद्ये किम् ? परि किम् ? मृग्यम् ॥ 14,15 ॥

तथा वनर्षदे रेफ आगमा एत एव हि।
चत्वारः कादयो वर्ग्या वर्गान्त्येषु परेषु हि ॥ 16 ॥
स्पर्शाः प्रयान्ति यमतां सरूपां सानुनासिकाम्।
प्रथमः प्रथमैर्योगे द्वितीयाद्यैस्तथा क्रमात् ॥ 17 ॥

तथेति। तथा वनर्षदे रेफः ; तथा द्विखण्ड इत्यर्थः। वनर्षदम्। आगमा एत एव हि। `ओष्ठ्यजातस्य’ इत्यादि `तथा वनर्षदे रेफः’ इत्यन्ताः प्रातिशाख्य उक्तागमा एत एव। अवधारणात् बभूवेत्यादौ व्याकरणोक्ता वुगागमादयो न ग्राह्याः ; प्रातिशाख्येऽनुक्तत्वात्। यमलक्षणमाह-चत्वार इति। प्रतिवर्गमाद्याः चत्वारः-कखगघचछजझटठडढतथदधपफबभेति विंशतिः स्पर्शाः ङञणनमेषु यस्मिन् कस्मिंश्चित् वर्गान्त्ये परे स्वसरूपं सानुनासिकं यमाख्यं वर्णान्तरं यान्ति। पलिक्कँ्नीः चख्खँ्ख्नतुः। अग्गँ्मन्। वृत्रघ्घँ्ने। परिज्जँ्मानमिव। रत्तँनधातमम्। आत्तँ्मानम्। आप्प्नाँनम्। स्पर्शाः किम्। ब्रह्मा। दधिक्राव्णः। चत्वारः किम् ? अर्वाङ् नरा। वर्गान्त्येषु किम् ? अर्वाग्देवाः।

अपञ्चमस्पर्शानां विंशतित्वात् पञ्चभिर्वर्गान्त्यैर्योगस्य शतप्रकारत्वात् यमानामपि शतविधसंज्ञाप्रसक्तौ चतुर्विधैव संज्ञेत्याह-प्रथम इति वर्गाद्यानां कचटतपानां पञ्चमयोगे प्रथमयमः, द्वितीयानां पञ्चमैर्योगे द्वितीययम् इत्यादि। अत्र केचित्-यमो नाम न वर्णान्तरम्। किंतु पूर्ववर्णस्यैवार्धमात्राकालाधिक्यसानुनासिकत्वरूपविशेषो यम इति ; तन्न ; पाणिनीयशिक्षादौ चतुः-षष्टिवर्णमध्ये भिन्नतया गणितत्वात् वर्णान्तरमेव ॥ 16,17 ॥

यमनिषेधमाह-

न स्पर्शस्योष्मजातस्य यमापत्तिः कदाचन।
चतुर्विधा विवृत्तिः सा संधिहीनां स्वरान्तरा ॥ 18 ॥

नेति। ऊष्मस्थाने उत्पन्नस्य स्पर्शस्य यमो न। प्रदोधुवच्छ्‌मश्रुषु। अत्र छमयोर्मध्ये न द्वितीययमः, छस्य शस्थानिकत्वात् विवृत्तिमाह- चतुर्विधेति। पूर्वापरसंधिरहिता स्वरयोः मध्यगा विवृत्तिः ॥ 18 ॥

सा चतुर्धेत्याह-

ह्रस्वौ दीर्घौ ह्रस्वदीर्घौ दीर्घह्रस्वोभयौ क्रमात्।
केचित् पाकवती ह्रस्वावुभौ दीर्घौ पिपीलका ॥ 19 ॥
वत्सानुसार्यादिदीर्घा वत्सानुसृतिरन्तिमा।

ह्रस्वाविति। उभयशब्दस्य सर्वत्रान्वयः। ह्रस्वोभया विवृत्तिः। उभयतो ह्रस्वा। एवमुभयतोदीर्घा। ह्रस्वदीर्घोभया तु अन्त्यदीर्घा। दीर्घह्रस्वोभया तु आदिदीर्घा। प्रत्यु अदर्शि। का ऊरू। अग्न आ। अग्ने अपाम्। पक्षान्तरमाह- केचिदिति। पाकवती उभयह्रस्वा। उभौ दीर्घौ पिपीलिका। वत्सेति। वत्सानुसार्यादिदीर्घा वत्सानुसृतिरन्तिमेति ; आदिदीर्घा वत्सानुसारिणी ; अन्त्यदीर्घा वत्सानुसृतिरित्याहुरित्यर्थः ॥ 19 ॥
स्वरपूर्वस्य रेफस्य व्यञ्जने मध्यगा तयोः ॥ 20 ॥
ऋरूपा स्वरभक्तिः स्याल्लस्योष्मणि तथा भवेत्।
द्राघीयस्यक्रमे ज्ञेया तदन्यत्र ह्रसीयसी ॥ 21 ॥

स्वरभक्तिमाह-स्वरेति। स्वरपूर्वकरेफस्य हलि परे मध्ये ऋरूपा स्वरभक्तिरागमः। स्वरपूर्वस्य लस्य ऊष्मणि परे लृरूपा स्वरभक्तिः। अर्‌ऋच्चन्ति। जल्लृहवः। सहस्त्रवल्लृशाः। स्वरभक्तेर्वर्णान्तरत्वात् मात्राविशेषमाह- द्राघीयसीति। परव्यञ्जनस्य द्वित्वाभावे स्वरभक्तिः अर्धमात्रा द्राघीयसीसंज्ञा च स्यात्। कर्‌ऋहि पर्‌ऋर्षि। `रहयोर्हलः’ इति प्राप्तद्वित्वस्य `स्वरोष्मपर ऊष्मा तु’ इति निषेधात् हषयोर्न द्वित्वमिति ताभ्यां पूर्वा स्वरभक्तिः द्राघीयसी। परव्यञ्जनद्वित्वस्थले तु पादमात्रा ह्रसीयसीसंज्ञा च। अदर्‌ऋश्श्या यती। `रहयोर्हलः’ इति शस्य द्वित्वात् ततः पूर्वा ह्रसीयसी ॥ 20, 21॥

तस्या ऊष्मोदये वर्णभेदात् संज्ञापि पञ्चधा।
रेफलाभ्यां हकारे स्यात् करेणुः कर्विणी क्रमात् ॥ 22 ॥
शसयोर्हरिणी रेफाल्लकाराद्धारिणी च शे।
रेफात्परा हंसपदा षकारे जायते परे ॥ 23 ॥

तस्या इति स्वरभक्तेरूष्मोदये संज्ञाः पञ्चधा। ता एवाह-रेफेति। स्वरपूर्वकयो रलयोः हकारे परे क्रमात् करेमुः, कर्विणी। अर्‌ऋहन्। जल्लृहवः। रस्य शसयोः परतः हरिणी। अदर्‌ऋश्यायती। प्रसर्‌ऋस्त्राणस्य। लस्य शे हारिणी। शतवल्लृशः। रस्य षे हंसपदा। सहस्त्रशीर्ऋषा। वर्णाः केचित् सानुनासिका एव, केचिन्निरनुनासिका एव, केचित् कालभेदादुभयविधाः। नासिकासहितस्वस्थानोच्चारिता आद्याः। स्वस्थानमात्रोद्गता द्वितीयाः। उभयविधास्तृतीयाः ॥ 22,23॥

तत्र तृतीयानाह-

यवले यवलादेशाः पदान्ते सानुनासिकाः।
यमानुस्वारवर्गान्त्यभिन्ना निरनुनासिकाः॥ 24 ॥

यवल इति। पदान्ते सानुनासिकवर्णस्थानिका यवलाः यथाक्रमं यवलपरकाः सानुनासिकाः स्युः। यय्यँम्। तव्वँः। एषाल्लँक्ष्मीः। अत्र पूर्वे यवला मस्थानिकत्वात् सानुनासिकाः। उत्तरे निरनुनासिका इति यवलानां द्विविधता। सानुनासिकवर्णस्थानिकत्वं किम् ? अङ्गादङ्गाल्लोम्नो लोम्नः। यथाक्रमं किम्। क्रव्यादम्। उभयविधान् वर्णानुक्त्त्वा केवलानुनासिकान् केवलनिरनुनासिकांश्चाह-यमेति। चत्वारो यमाः, अनुस्वारः, ङञणनमाः, एते दश सानुनासिका एव। यवलाः स्वराश्च उभयविधाः। अन्ये सर्वेऽपि वर्णाः निरनुनासिका एव। अन्यत्सानुनासिकं स्वरेषु रङ्गविषये वक्ष्यति ॥ 24 ॥

लुप्तवर्णानाह-

चित्कम्भनेन सो लुप्तः पीवो अन्नाँ रयिवृधः।
दधन्वाँयो जुजुर्वाँयो स्ववाँयातु दद्वाँवेति ॥ 25 ॥

चिदिति। चित् स्कम्भनेनेति पदकाले दृष्टः सकारः चित्कम्भनेनेति संहितायामदर्शनात् लुप्ताख्यः। एवम्-पीवो अन्नाँ रयिवृधः इत्यादिषु नकारः ॥ 25 ॥

आकारस्वरयोर्मध्ये लुप्तो नः पृच्यते पुनः।
रथं रिणन्ति विव्या च गावो गर्भं मृजन्ति च॥ 26 ॥
वत्सं सखायः परतः ईमो मो लुप्तसंज्ञकः।
तृतीयगोपाचरितनतादेशाश्च वैकृताः ॥ 27॥

आकारेति। पदकाले आकारपूर्वकः यः नकारः पदान्ते संहितायां स्वरे परे न दृश्यते। सोऽपि लुप्ताख्यः। ताँ इन्द्र। मरुत्वाँ इन्द्र। आकारेति किम् ? अर्हन्नग्ने। स्वरेति किम् ? तान् वः। पदान्ते किम् ? नानानम्। पृच्यत इति। पृच्यत आदिषु परेषु ईम्मकारः लुप्तः। समी पृच्यते। जग्धमी पुनः। समी रथम्। ए रिणन्ति। समी विव्या च। समी गावः। यमी गर्भम्। तमी मृजन्ति। समी वत्सम्। समी सखायः। एषु किम् ? समीं रेभासः। स ईं रेभो न। वैकृतवर्णानाह- तृतीयेति। स्वरे घोषे च परे कचटतपानां क्रमात् गजडदबाः स्युः। ते तृतीयगाः। तदिन्द्रस्य। यद्वाग्वदन्ति। पदकाले विसर्गस्य कखपफेषु परेषु संहितायां यौ सषौ तौ उपाचरितम्। दिवस्परि। स्वादुष्किल। पदकाले सनदधानां षणडढादेशा नताः। सुषुम। मो षु णः। दूडभः। दूढ्ये। तृतीयगोपाचरितनतेभ्यः अन्यत्र पदकाले ये वर्णाः यत् संहितायां वर्णान्तरं यान्ति, तत् वर्णान्तरमादेशाख्यम्। यङ् क्रन्दसी। तञ् चित्रयामम्। तन्ते। तयँयज्ञं। एते तृतीयगाद्या वर्णा वैकृताः। यद्यपि तृतीयगाद्या अपि आदेशाः, तथापि वैचित्र्यार्थं तत्तत्स्वरूपज्ञानार्थं च पृथङ् निर्देशः ॥ 26,27॥

तदन्ये प्राकृता ज्ञेया पदप्रकृतिजा अपि।
विसर्गस्त्रिविधो लुप्तः प्राकृतो वैकृतस्त्विति ॥ 28॥
हल्येषसस्य परतो मध्यगः स्वररेफयोः।
अघोषोदय ऊष्मान्त्यो विसर्गो लुप्तसंज्ञकः ॥ 29॥

तदन्य इति। पदसंहितयोरेकरूपा वर्णाः प्राकृताख्याः। अग्निमीले। यान् वो नरः। पदेति ; पदे प्रकृतिप्रत्ययविषये वर्णान्तरं प्राप्ताः पदप्रकृतिजाः। तेऽपि प्राकृता एव। बभूव पिबतीत्यादौ प्रकृतेर्विकारः। भवामि भवन्तीत्यादौ प्रत्यये विकारः। जहीत्यादौ उभयविकारः। न च तेऽपि वैकृता इति शङ्क्यम् ; व्याकरणासिद्धत्वेन पदसंहिताकालयोरेकरूपत्वात् पदकालापेक्षया संहिताकाले भिन्नरूपाणामेव वर्णानां वैकृतत्वात्। यद्यपि स्वरेष्वपि वैकृतप्राकृतव्यवहारो वर्तते, अथापि व्यवहारादर्शनात् ग्रन्थबाहुल्यभिया च न प्रतिपाद्यते। विसर्ग इति लुप्तप्राकृतवैकृतभेदात् विसर्गस्त्रिधा। तुशब्द एवार्थे। इतिशब्दः वैकृते द्वैविध्यसूचनार्थः॥

तत्र लुप्तमाह-हलीति। एषः सः स्यः इति विसर्गः हलि परे लुप्यत इति लुप्ताख्यः। एष देवः। स देवः। उत स्य वाजी। हलि किम् ? एष इन्द्राय। स इत्। अत्र विसर्गे अदृष्टेऽपि “ह्रस्वपूर्वस्तु सोऽकारम्” इति सोपधस्य विसर्गस्य अकारादेशः। मध्यग इति। पदकाले स्वरपूर्वो यो विसर्गः रेफे परे न दृश्यते, सोऽपि लुप्तः। पृथू रथः। रेफपरः किम् ? विष्णुर्यत्। अघोषेति। अघोषपरको य ऊष्मा तत्परकोऽपि विसर्गो लुप्तः। समुद्र स्थः। अघोषपरकः किम् ? देवासः सर्वया। ऊष्मान्त्यः किम् ? देवास्तम् ॥ 28,29 ॥
प्राकृतमाह-

पदपाठे विरामे च प्राकृतः शर्परे खयि।
चतुरश्चक्रे चरति चिकित्वान् चमसांश्च चो ॥ 30 ॥
च्यौत्नश्चरसि चित्परे नॄःपात्रं स्वतवाँ3पायुः।
ताँ्स्ते सर्वाँ्स्ताँ्देवाँ्स्त्वं ताँ्स्त्रायस्वावदँ्स्त्वं च॥ 31 ॥
नॄँःपतिभ्यो नॄँःप्रणेत्रं नॄँःपाह्यादिषु वैकृतः।
आद्यन्तवर्गजेऽघोषे विसर्गस्य परे क्रमात् ॥ 32 ॥
क पौ भवेतामुष्माणावनुपाचरितस्य तु।
अनुस्वारो मस्य रे स्यादिङ्ग्यसम्राड्विनादिगे ॥ 33 ॥

पदेति। पदाध्ययने यो विसर्गः स प्राकृतः। अग्निः पूर्वेभिः। पुरः हितम्। चित्रश्रवः तमः। अत्र यद्यपि विरामत्वेन सिध्यति, तथापि पुरोहितमित्यादौ स्वरसंधिदर्शनात् पदपाठ इति पृथगुक्तिः। विरामे च ; विरामो नाम उत्तरत्र वर्णामावः। मात्रान्यूनकालापेक्षया मात्राकालानन्तरं परतो वर्णे सत्यसत्यपि स विसर्गः। प्राकृतः। भद्रं नो अपि वातय मनः। शर्परे खयि ; शषसपरकेषु कचटतपखछठफेषु परेषु विसर्गः प्राकृतः। घनाघनः क्षोभणः। शतक्रतुः त्थ्सरत्। शर्परे किम् ? देवास्तम्। खयि किम् ? देवो देवेभिः। वैकृतविसर्गमाह- चतुर इति। चतुर इत्यादिषु दशसु परेषु संहितायां पूर्वस्थितः नॄँः पात्रमित्यादिषु विद्यमानश्च विसर्गः वैकृतः। अत्र संहितायां विसर्गस्य शभावोपध्मानीयभावेऽपि पदाध्ययने विसर्गस्यादर्शनात्। नकारस्थाने उत्पन्नः स्यात्। तत्रोत्पन्नो वर्णः वैकृतविसर्गजः। रायः समुद्राँश्चतुरः। ताँश्चके। महाँश्चरति। विद्वाँश्चिकित्वान्। विभ्राजमानाँश्चमसान्। अस्माञ्च ताँश्च। याँश्चो नु। नॄँश्च्यौत्नः। महाँश्चरसि। ताँश्चिदेव। कदित्था नॄँःपात्रम्। स्वतवाणँः पायुः। ताँस्ते अश्याम। सर्वाँस्ताँ इन्द्र। देवाँस्त्वं परिभूः। ताँस्त्रायस्व सहस्य। आवदँस्त्वम्। नॄँः पतिभ्यो योनिम्। नॄँःशस्तं नॄँः प्रणेत्रम्। नॄँः पाहि श्रृणुधी। आदिशब्दात् माँस्पचन्या उखायाः। माँश्चत्वे वा। ब्रध्नं मांश्चतोः। मांस्पचन्यादित्रयस्य उत्तरत्र रङ्गविषये उक्तत्वात् अत्रादिशब्देनोक्तिः। अत्र चतुरादिषु दशसु नकारजन्यविसर्गस्य शभावः। नॄः पात्रमित्यादित्रयोदशपदेषु नकारजन्यवैकृतविसर्ग एव। अयमर्थः वैकृतस्त्वितीतीतिशब्देन सूचितः। जिह्वामूलीयोपाध्मानीयावाह-आद्यन्तेति। आद्यवर्गजे अघोषे के खे च परतः सकारषकारादेशविषयादन्यस्य विसर्गस्य क ख इत्यर्धविसर्गसहितौ क्रमात् स्तः। अन्त्यवर्गजाघोषे पे फे च क्रमात् प फ इत्यर्धविसर्गसहितौ स्तः। य कृतन्तम्। अगस्त्य खनमानः। य पञ्च। या फलिनीः। अनुपाचरितस्य किम्। तवसस्कृतानि। दिवस्परि। अनुस्वारमाह-अनुस्वार इति। पदान्तस्य मस्य पदादिगते रेफे परे इति स्वरव्यञ्जनात्मा अष्टम ऊष्मा स्यात्। द्विखण्डयुक्तसंपूर्वराड्रूपं विना ; सार्वविभक्तिकं तमेकं शब्दरूपं विनेत्यर्थः। त्वं राजा। आदिगे किम् ? वर्मकः। इङ्ग्यसम्राड्‌विना किम् ? सम्राज्ञी अधि। इङ्ग्येति किम् ? संराजभिः। रे परे क्रिम्। त्वञ्‌चकर्थ ॥ 30-33॥
सर्वत्रोष्मोदये नस्य पदमध्ये तथा भवेत्।
पदान्ते परिपन्नाख्यः पदमध्ये तु वैकृतः॥ 34 ॥

सर्वत्रेति। पदान्ते पदमध्ये च हशषसेषु मस्यानुस्वारः। संसम्। तां सु। पुंसः पुत्रान्। ऊष्मोदये किम्। शञ्च। नस्येति। नस्य पदमध्येऽनुस्वारः ऊष्मोदये। विद्वांसौ। श्रेयांसम्। वावृध्वांसम्। हंसः। पदमध्ये किम् ? देवान् हुवे। मकारनकारस्थानिकत्वेन द्विविधस्याप्यनुस्वारस्य संज्ञाभेदमाह-पदान्त इति। पदान्ते मस्यानुस्वारः परिपन्नः। पदमध्ये मस्य नस्य वानुस्वारः वैकृतः। आद्यो यथा-त्वं राजा। संसम्। द्वितीयो यथा-पुंसः। हंसः। ये सहांसि ॥ 34 ॥

कम्पस्थानमाह-

जात्याभिनिहितक्षैप्रपश्लिष्टाः कम्पभागिनः।
स्वरितोच्चोदये ह्रस्वदीर्घरूपाश्च ते द्विधा ॥ 35 ॥

जात्येति। जात्यादिसप्तस्वरितमध्ये जात्याभिनिहितक्षैप्रप्रश्लिष्टाख्याः चत्वारः स्वरिताः कम्पभाजः।

“य(1)कारश्च वकारश्च व्यञ्जनैः सह संयुतौ।
अपूर्वो नीचपूर्वो वा जात्यस्वारः स उच्यते॥”
इति। क्व स्वित्। सृण्येव।

“ए(2)दोतावुच्चगौ यत्र नीचोऽकारः पयो यदि।
एकीभावो भवेद्यत्र स्वारोऽभिनिहिताभिधः॥”
इति। तेऽवदन्। ब्राह्मणोऽस्य।

“इउवर्णौ यदोदात्तावापद्येते यवौ क्वचित्।
अ(3)नुदात्ते पठेन्नित्यं विद्यात् क्षैप्रस्य लक्षणम्॥”
इति। श्रुष्ट्यग्ने। अप्स्वग्ने।

“इ(4)कारः पूर्वमुच्चश्चेदिकारे निहते परे।
प्रश्लिष्टमाहुराचार्याः स्वारं वर्णविचक्षणाः॥”

F.N. 1.`व्यञ्जनैस्तु यवौ यत्र प्रयुज्येते ततः परम्’ इति मुद्रिताकरकोशपाठः।
2.`एदोतोरुच्चयोर्यत्र’ इति मुद्रिताकरकोशपाठः।
3.`अनुदात्तस्वरे नित्यं’ इति मुद्रिताकरकोशपाठः।
4.`इकारः उच्चः पूर्वस्मिन् परस्मिन्नियतः स च।
प्रश्लिष्टमाहराचार्याः स्वरवर्णविदस्तदा॥’ इति मुद्रिताकरकोशपाठः।

इति। स्त्रुचीव घृतम्। एषां चतुर्णां स्वरितानां स्वरिते उदात्ते वा परे कम्पः स्यात्। ह्रस्वस्वरिते ह्रस्वरूपः, दीर्घस्वरिते दीर्घरूपः, इति कम्पो द्विधा। ह्रस्वकम्पः सार्धमात्रः। दीर्घकम्पः त्रिमात्रः। चकारात् रङ्गोऽपि वक्ष्यमाणः ह्रस्वदीर्घभेदेन द्विधा। जात्यकम्पो यथा-क्व3वोऽश्वाः। क्वा3भीशवः। तन्वि3रेफ आधुः। अह्यो3 न चारवः। अभिनिहितकम्पो यथा-रथानां3नये 3राः। दिवि मे अन्यः पक्षो3धः। अभिनिहिते ह्रस्वकम्पो न। क्षैप्रकम्पो यथा-मक्ष्वि3त्था। उदीर्ष्वातः पतिवती ह्ये3षा। प्रश्लिष्टकम्पो यथा-त्वां ही3न्द्रावसे। प्रश्लिष्टेऽपि ह्रस्वकम्पो न। इदं सर्वमुदात्तपरकत्वे उदाहृतम्। स्वरितपरकत्वे यथा-शतचक्रं यो3ह्यो वर्तनिः। स्वरितोच्चोदये किम् ? क्व स्विदासाम्। सजात्ये न। तेऽवदन्। ब्राह्मणोऽस्य। द्व्रन्नस्सर्पिरा सुतिः। श्रुष्ट्यग्ने। दिवीव चक्षुः ॥ 35 ॥

रङ्गमाह-

पादाद्यचि सदा(चा) रङ्गः कण्ठ्यावेओपरौ लुशात्।
एष्वन्तं मित्रयोरस्मन्नमस्युश्चर्षणीरीवत् ॥ 36 ॥
चर्षणिभ्यो जोषमेभ्यः परमा पदमच्‌परम्।
गौतमे चामिनन्तेति एवाँ अग्न्यत्रिमण्डले ॥ 37 ॥

पादेति। पादादिस्वरे परे सचा इति पदस्यान्त्यस्वरः रङ्गसंज्ञः। मन्दिष्ट यदुशने काव्ये सचाँ इन्द्रः। पादाद्यचि किम् ? स चैषु। कण्ठ्याविति। “अग्निमीले” इत्यारभ्य लुशऋषिकात् “अबुद्ध्रमु त्य” इत्यस्मात्प्राक् पादाद्येकारौकारपरकौ अकाराकारौ रङ्गौ स्तः। आ यन्मा वेना अरुहन्नृतस्यँ एकम्। तिस्त्रो द्यावः सवितुर्द्वा उपस्थाँ एका। त्वं न इन्द्राभरँ ओजः। विश्वेदहानि तविषीव उग्रँ ओकः। लुशात् किम् ? यः प्राणतो निमिषतो महित्वैकः। पादादौ किम्। मैनमग्ने। अमितौजाः। एष्विति। पादाद्यचीत्यनुवर्तते। एकारान्तं, पुइत्यन्तम्, मित्रयोः, अस्मात्, नमस्तुः, चर्षणीः, ईवत्, चर्षणिभ्यः, जोषम्, एभ्यः पदेभ्यः परम् आ इति पदं पादादिस्वरे रङ्गं स्यात्। ए ; गभीर आँ उग्रपुत्रे। षु ; नदीष्वाँ उशन्तम्। मित्रयोः ; मित्रयोराँ एति। अस्मदाँ ऋचः। नमस्युराँ असृक्षि। चर्षणीराँ अर्यः। ईवदाँ अदेवः। चर्षणिभ्य आँ आविः। जोषमाँ इन्द्रः। पादाद्यचि किम् ? सोमं वज्रिण आभरत्। एभ्यः किम् ? स्थूरयोराध्वन्। अपृक्तं किम् ? महित्वैकम्। गौतम इति। इतिशब्दः पादादिग्रहणं निवर्तयति। “उप प्रयन्त” इत्यादौ “इमं स्तोमं” इति मध्ये “अमिनन्त” इति पदान्तमजादौ पदे परे रङ्गं स्यात्। आ ते सुपर्णा अमिनन्त एवैः। गौतमे किम् ? अचि किम् ? चिन्त्यम्। सर्वत्र संहितायामित्यनुसंधेयम्। एवाँ अग्न्यत्रिमण्डले ; “अबोध्यग्निम्” इत्यादि “त्वं ह्यग्ने” इत्यतः प्राक् एवपदस्यान्तम् अग्निंपदे परे रङ्गम्। एवाँ अग्निं वसूयवः। अत्रिमण्डले किम् ? एवाग्निं सहस्यम् ॥ 36,37 ॥

ऋपरा या कदा माता विभ्वा विधर्ता विपन्या।
भीषा पथा परुच्छेपऋषावाद्यस्वरे परे ॥ 38 ॥

ऋपरेति। या इत्यादि षट्पदान्त्यम् ऋकारे परे रङ्गम्। या ; परितक्म्या याँ ऋणं च ये। कदाँ ऋतचित्। माताँ ऋणुत। विभ्वाँ ऋभुः। विधर्ताँ ऋतम्। विपन्याँ ऋतस्य। ऋपराः किम् ? उत विभ्यानु। भीषेति। “अग्निं होतारम्” आदि “वेदिषदे” प्राक् भीषापथाशब्दयोरन्तौ अकारे परे रङ्गौ। भीषाँ अद्रिवः। पथाँ अनेहसा। परुच्छेपे किम् ? महस्पस्थातिक्रामे। आद्यस्वरे किम् ? पथेव यन्तौ ॥ 38 ॥

रेफलोपोष्मभावश्च नस्य यत्र हि दृश्यते।
तत्पूर्वस्य स्वरस्यापि माँस्पमाँश्चत्वमँश्चतोः ॥ 39 ॥

रेफेति। पदान्तस्य दीर्घपूर्वस्य नकारस्य रेफत्वलोपोष्मत्वेषु सत्सु पूर्वस्वरस्य रङ्गता। उत् पँणीर्हतम्। बन्धूँ रि माँ। सर्गाँ इव। दधन्वाँ यः। स्ववाँ यातु। विद्वाँश्चिकित्वान्। याश्चो नु। माँस्पचन्याः। माँश्च त्वे। मँश्चतोर्वरुणस्य। इदं प्रतिपदविधानं चक्षूंषीव इत्यादौ रङ्गनिवृत्त्यर्थम् ॥ 39 ॥

स्वराश्रयौ कम्परङ्गौ ह्रस्वदीर्घानुसारिणौ।
ह्रस्वस्य दीर्घविधयः प्लुतं भीरिव विन्दति3 ॥ 40 ॥
अधस्विदासी3दुपरिस्विदासी3च्च प्लुतत्रयम्।
मेधातिथौ वरुणान्तव्रतान्तस्य परे यणि ॥ 41 ॥
स्पर्शे वापि तयोर्ह्रस्वस्तथा मित्रा वयंपरा।
आदित्यादेवावरुणासुराणां च भिषज्यथः ॥ 42 ॥
पुरोहितः सुप्रतीकं शवसा क्षत्रं दाशति।
या निष्कृतं पदेष्वेवमृकारे दीर्घकण्ठजः ॥ 43 ॥

स्वरेति। कम्परङ्गौ स्वराश्रितत्वात् ह्रस्वे ह्रस्वौ, दीर्घे दीर्घौ। क्व3वोश्वाः। क्वा3भीशवः। एवाँ अग्निं वसूयवः। कदाँ ऋतचित्। प्लुतान्याह- ह्रस्वस्योति। पादान्ते पदमध्ये वा पदकाले ह्रस्वस्य संहितायां यद् दीर्घत्वं तत्प्लुताख्यम्। मक्षूमक्षू कृणुहि। नू मर्तः। अथवा एषां प्लुतानां बाहुल्यात् वैकृतत्वात् दूर्घेऽन्तर्भावाच्च वक्ष्यमामुख्यप्लुतान्येव गृह्यन्ते। न त्वा भीरिव विन्दती 3 । अधस्विदासी3दुपरिस्विदासी3त्। चोऽवधारणे। अस्यां संहितायां प्लुतास्त्रय एव। ह्रस्वमाह- मेधेति। “अग्निं दूतम्” इत्यारभ्य “कस्य नूनं” प्राक् वरुणाव्रतशब्दान्तयोः पदयोः यणि यरलवे परे स्पर्शे वा परे संहितायां ह्रस्वः। इन्द्रा वरुण नूनु। इन्द्रावरुण यां। धृतव्रतमित्रावरुण दूलभं। मेधातिथौ किम् ? इन्द्रावरुणा मदे। इन्द्रावरुणा युवम्। स्पर्शयण्‌परः किम् ? ता मित्रावरुणा हुवे। तथेति। मित्रापदस्य वयं पदे परे ह्रस्वः। मित्र वयं च सूरयः। वयं किम् ? ता मित्रावरुणा। आदित्येति। आदित्या, देवा, वरुणा, असुरा इति चतुर्णां पदानां भिषज्यथः पुरोहितिः इत्यादिपदाष्टकान्यतमपरकत्वे ह्रस्वः। यद्वा देव भिषज्यथः। इयं देव पुरोहितिः। वरुण सुप्रतीकम्। य आदित्य शवसा। वरुण क्षत्रम्। वरुण दाशति। असुर यामहि। देव निष्कृतम्। एषु किम्। इन्द्रावरुणा युवम्। एवमिति। आकारान्तपदस्य ऋकारे ह्रस्वः। विश्व ऋतेन। इदं विधानं अग्न इन्द्रः, वाय उक्थेभिः इत्यादौ ह्रस्वशङ्कानिवृत्तये ॥ 40-43 ॥

लक्षणानन्त्यादिमान्यवश्यं ज्ञेयानीत्याह-

प्रायेण स्वरमात्रादिस्थानवर्णगुणा अपि।
वर्णक्रमज्ञैर्वक्तव्याः संक्षिप्येदं प्रकाशितम्।
वेदपारगपादाब्जनतेन विदुषां मुदे ॥ 44 ॥

** इति ऋग्वर्णक्रमलक्षणं समाप्तम्।**

प्रायेणेति। यद्यपि वर्णक्रमज्ञैः उदात्तादिस्वराः, ह्रस्वादिमात्राः ; आदिशब्दात् वर्णानां घनशिथिलादिबन्धाः कण्ठादिस्थानानि स्पृष्टेषत्स्पृष्टविवृतेषद्विवृतसंवृतविवारसंवारश्वासनादाल्पप्राणमहाप्राणादिवर्णगुणाः ; अपिशब्दात् स्पर्शान्तः स्थाः ऊष्मसोष्मघोषाघोषादयः ब्राह्मणक्षत्रवैश्यशूद्रवर्णादयश्च ज्ञेयाः ; तथापि तेषां बाहुल्यात् उक्तमात्रमवश्यं ज्ञेयमिति संक्षिप्य लक्षणमुक्तम्। उपसंहरति-वेदेति॥ 44 ॥

** इति व्याख्या समाप्ता।**

—————————————————————————————————-

** श्लोकार्धानामनुक्रमणिका**

श्लो.  

अघोषोदय ऊष्मान्तः 29
अधस्विदासीदुपरि 41
अनुस्वारः कम्परङ्गौ 6
अनुस्वारो मस्य रे स्यात् 35
अपदान्ते तु दीर्घाच्छः 8
अपदान्ते द्वितीयः स्यात् 12
आकारस्वरयोर्मध्ये 26
आदित्यादेवावरुणा 42
आद्यन्तवर्गजेऽघोषे 32
ऋपरा या कदा माता 38
ऋरूपा स्वरभक्तिः स्यात् 21
एते प्रायेण विज्ञेयाः 6
एष्वन्तं मित्रयोरस्मत् 36
ओष्ठ्यजातस्य कण्ठ्यस्य 13
कपौ भवेतामूष्माणौ 33
केचित्पाकवती ह्रस्वौ 19
केशरूपधरं विष्णुं 1
गौतमे चामिनन्तेति 37
ङतयोर्ङ्धयोर्मध्ये 14
चतुरश्चक्रे चरति 30
चतुर्विधा विवृत्तिः सा 18
चत्वारः कादयो वर्ग्याः 16
चन्द्रे परे शकारः स्यात् 15
चर्षणिभ्यो जोषमेभ्यः 37
चित्कम्भनेन सो लुप्तः 25
च्यौत्नश्चरसि चित्परे 31
जात्याभिनिहितक्षैप्र 35
तत्पूर्वस्य स्वरस्यापि 39
तथा वनर्षदे रेफः 16
तदन्ये प्राकृता ज्ञेयाः 28
तनोति पूर्वशास्त्रोक्त 1
तल्लक्षणं प्रातिशाख्यात् 3
तस्या ऊष्मोदये वर्ण 22
ताँस्ते सर्वाँ स्तान्देवास्त्वं 31
तृतीयोगोपाचरित 27
तृतीयभावादन्यत्र 11
दधन्वाँ यो जुजुर्वाँयो 25
द्राघीयस्यक्रमे ज्ञेया 21
द्वित्वं चाभिनिधानं च 3
नटयोः से तकारः स्यात् 13
न स्पर्शस्योष्मजातस्य 18
नासिक्यानासिका वर्णाः 5
नॄःपतिभ्यो नॄःप्रणेत्रं 32
पदक्रमविभागज्ञः 2
पदपाठे विरामे च 30
पदान्ते परिपन्नाख्यः 34
पदान्तेऽभिनिधानाख्यः 11
परीति पद्ये कृपरे 15
पादाद्यचि सचा रङ्गः 36
पुरुपृथ्वधिशब्दानां 14
पुरोहितिः सुप्रतीकं 43
प्रथमः प्रथमैर्योगे 17
प्रायेण स्वरमात्रादि 44
भीषापथापरुच्छेप 38
मेधातिथौ वरुणान्त 41
यमानुस्वारवर्गान्त्ये 24
यमा यमनिषेधश्च 4
यवले यवलादेशाः 24
या निष्कृतं परेष्वेवम् 43
रथं रिणन्ति विव्या च 29
रेफलाभ्यां हकारे स्यात् 22
रेफलोपोष्मभावश्च 39
रेफात्परा हंसपदा 23
वत्सं सखायः परतः 27
वत्सानुसार्यादिदीर्घा 20
वर्ग्ये परे न वर्ग्यान्तः 10
वर्णक्रमज्ञैर्वक्तव्याः 44
विसर्गजिह्वामूलीयौ 5
विसर्गस्त्रिविधो लुप्तः 28
वेदपारगपादाब्ज 44
शषेशभ्यश्च वर्गाद्यौ 7
शसयोर्हरिणी रेफात् 23
संयुक्तोष्मा त्वनुपधः 8
सर्वत्रोष्मोदये नस्य 34
सहातिहाययस्य द्वे 9
सोष्मणः पूर्वरूपं च 4
सोष्मणो द्वित्वसंप्राप्तौ 12
स्पर्शाः प्रयन्ति यमतां 17
स्पर्शारेफयणः स्पर्शे 10
स्पर्शे वापि तयोर्ह्रस्व 42
स्वरपूर्वस्य रेफस्य 20
स्वरमात्राविशेषज्ञः 2
स्वरानुस्वारपूर्वो हल् 7
स्वराश्रयौ कम्परङ्गौ 40
स्वरितोच्चोदये ह्रस्व 35
स्वरोष्मपर ऊष्मा च 9
हल्येषसस्य परतः 29
ह्रस्वस्य दीर्घविधयः 40
ह्रस्वौ दीर्घौ ह्रस्वदीर्घै 19

INDEX II

मूलव्याख्ययोः स्थितानां विशेषपदानामनुक्रमणिका

श्लो.  

अग्न्यत्रिमण्डल 37
अघोष 29,32
अनासिक 5
अनुनासिक 17,24
अनुपध 8
अनुपाचरति 33
अनुस्वार 6,7,24,33
अभिनिधान 11
अभिनिहित 35
अस्मत् 36
आगम 4,13,16
आदित्या 42
आदेश 11,24,27
इङ्ग्यसम्राट् 33
ईम् 27
उपध्मानीय 5,30
उपाचरित 27
ऊष्मा 8-10,12,18,21,22,
29,33,34,39
कम्प 6,35,40
करेणु 22
कर्विणी 22
कृण्वन्ति 15
क्रम 2
क्षत्र 44
क्षत्रं 43
क्षैप्र 35
गर्भं 26
गावः 26
गौतमः 37
च 30
चक्रे 30
चतुर 30
चन्द्र 15
चमस 30
चरति 30
चरसि 31
चिकित्वान् 30
चित् 31
चो 30
च्यौत्न 31
जात्य 35
जिह्वामूलीय 5
दाशति 43
दीर्घ 19,35,40
दीर्घह्रस्व 19
द्रावीयसी 21
नत 27
नरसिंह 5
नासिक्य 1
निष्कृतं 43
पदप्रकृतिज 28
पद्य 14,15
परिपन्न 34
परुच्छेप 38
पवमान 9
पाणिनीयशिक्षा 19
पिपीलिका 17
पुनः 19
पुरोहितिः 26
पृच्यते 43
पृच्यते 26
प्रश्लिष्ट 35
प्राकृत 5,28,30
प्रातिशाख्य 3,16
प्लुत 6,40,41
बाभ्रव्याचार्य 2
ब्राह्मण 44
भिषज्यथः 42
भीरिव 40
मृजन्ति 26
मेधातिथि 41
यम 4,17,18,24
रङ्ग 6,36,40
रथं 26
रिणन्ति 26
लुप्त 26,27-29
लुश 36
वत्सं 27
वत्सानुसारिणी 20
वत्सानुसृति 20
वर्णगुण 44
विराम 11
विवृत्ति 4,18
विव्या च 26
विसर्ग 5,28,29,32
वैकृत 5,27,28,32,34
वैश्य 44
व्याकरण 3,16,28
शवसा 43
शिक्षा 3
शूद्र 44
षु 36
सखायः 27
सचा 36
सुप्रतीकम् 43
सोष्मा 4,12
स्पर्श 7,10,17,18,42
स्य 29
स्वर 7,9,13,30,38,39,40,44
स्वरभक्ति 4,21
हंसपदा 23
हरिणी 23
हारिणी 23
ह्रसीयसी 21
ह्रस्व 6,19,35,40,42
ह्रस्वदीर्घौ 19

INDEX III

उदाहृतग्रन्थान्तरस्थवचनानामनुक्रमणिका

श्लो.  

आ नाभेर्ब्रह्मणो रूपम् 1
इउवर्णौ यदोदात्तौ 35
इकारः पूर्वमुच्चश्चते 35
ऊष्मान्तः स्थऋसोष्म 10
एतोतावुच्चगौ यत्र 35
जपाजौ नाधिकारोऽस्ति 3
यकारश्च वकारश्च 35
ह्रस्वपूर्वस्तु सोऽकारम् 29
स्वराङ्कुशशिक्षा 5
स्वराङ्कुशशिक्षा 6
ऋक्प्रातिशाख्य 12-1
स्वराङ्कुशशिक्षा 4

स्वराङ्कुशशिक्षा 3
ऋक्प्रातिशाख्य 2-10

INDEX IV

उदाहृतानमृक्पदानामनुक्रमणिका

श्लोक.   म. सू. ऋ.  

अक्ख्यत् 7,12 4. 14. 1
अगस्त्यः खनमानः 33 1.179. 6
अग्न आ 19 6. 16. 10
अग्न इन्द्रः 43 3. 25. 10
अग्निं दूतं 41 1. 12. 1
अग्निं होतारं 38 1.127. 1
अग्निं पूर्वेभिः 30 1. 1. 2
अग्निमीले 28,36 1. 1. 1
अग्ने 12 5. 3. 9
अग्ने अपाम् 7,10,19 3. 25. 5
अग्‌ग्मँन् 16 9. 64. 17
अग्ग्रम् 7 4. 46. 1
अङ्गादङ्गाल्लोम्नो लोम्नः 24 10.163. 6
अच्छ 12 5. 52. 14
अच्छा वद 8 5. 83. 1
अतिहाय छिद्रा 9 1.162. 20
अदर्शि 9 1.136. 2
अदर्श्यायती 9,20,23 7. 81. 1
अद्या 10 1. 13. 2
अधस्विदासी3त् 41 10.129. 5
अघिश्चन्द्रम् 14 8. 65. 11
अधि सानौ 14 1. 80. 6
अनर्वाणम् 8 1. 37. 1
अन्नम् 9 2. 24. 12
अपां 7 10. 92. 13
अप्स्वग्ने 35 8. 43. 9
अबुद्ध्रमु त्य 36 10. 35. 1
अबोध्यग्निम् 37 5. 1. 1
अब्‌भ्रातेव 12 1.124. 7
अभि चन्द्रा 14 9. 97. 50
अमथ्नादन्यत् 9 1. 93. 6
अमितौजाः 36 1. 11. 4
अमिनन्त 37 1. 79. 2
अर्च्चनन्त 10 5. 13. 1
अर्च्चन्तिः 21 10.147. 3
अर्व्वाक् 7,9 7. 39. 3
अर्वाक् शफाविव 10 2. 39. 3
अर्वाग्देवाः 11,16 10.129. 6
अर्वाङेहि 8 1.104. 9
अर्वाङ्छश्वत्तमम् 13 3. 35. 6
अर्वाङ्‌नराः 16 7. 82. 8
अर्हन् बिभर्षि 8,22 2. 33. 10
अर्हन्नग्ने 26 7. 18. 22
अवविद्धम् 9 1.182. 6
अवाड्ढव्यानि 12 10. 15. 12
अव्यात् 10 9. 97. 31
असुर यामहि 43 1.151. 4
अस्कृतोषसम् 15 10.127. 3
अस्तु 8 1.139. 1
अस्तेव 9 10. 42. 1
अस्मादाँ ऋचः 36 10. 91. 12
अस्मा उषासः 13 8. 96. 1
अस्माञ्च ताँश्च 30 2. 1. 16
अस्स्माकं 7 4. 9. 7
अहाव्यग्ने 7 10. 91. 15
अह्योन चारवः 35 9. 77. 3
आगमत् 11 3. 42. 4
आच्च्या 7 10. 15. 6
आण्डेव 10 10. 68. 7
आ ते सुपर्णा 37 1. 79. 2
आत्त्मानम् 16 10. 92. 13
आ त्वा 7 1. 14. 2
आप्‌प्नाँनम् 16 10.114. 7
आप्प्यायस्व 7 1. 91. 17
आ यन्मा वेना 36 8.100. 5
आवदँस्त्वम् 31 2. 43. 3
इन्द्रावरुण नू नु 41 1. 17. 8
इन्द्रावरुण याँ 41 1. 17. 9
इन्द्रावरुणा मदे 41 7. 82. 3
इन्द्रावरुणा युवम् 41,43 7. 82. 1
इमं स्तोमम् 37 1. 94. 1
इयं देव पुरोहितिः 43 7. 60. 12
ईवदाँ अदेवः 36 8. 46. 21
उत विभ्वानु 38 5. 46. 4
उतस्य वाजी 29 4. 40. 4
उत्पणीर्हतम् 39 1.184. 2
उ त्वे ह्रदा इव 9 10. 71. 7
उदीर्ष्वातः 35 10. 85. 21
उपच्छायामिव 8,9 6. 16. 38
उप प्रयन्तः 37 1. 74. 1
उभा उ नूनम् 13 10.106. 1
उल्क्कामिव 7 10. 68. 4
उल्ब्बम् 7,10 10. 51. 1
ऋणं च ये 38 5. 30. 14
एतावानस्य 8 10. 90. 3
ए रिणन्ति 26 9. 71. 6
एवाँ अग्निं वसूयवः 37,40 5. 25. 9
एवाग्निं सहस्यम् 37 7. 42. 6
एष इन्द्राय 29 9. 27. 2
एष देवः 29 9. 28. 3
एषालँलक्ष्मीः 11,24 10. 71. 2
ऐच्छाम 8 10. 53. 1
ओक्ये 10 1. 91. 13
औच्छत् 8 5. 30. 44
कङ्कतः 10 1. 191. 1
कदाँ ऋतचित् 38,40 5. 3. 9
कदित्था नॄँःपात्रम् 31 1.121. 1
कर्हि 20 6. 35. 2
कविक्रतुः 14 1. 1. 5
कस्य नूनम् 41 1. 24. 1
का ऊरू 19 10. 90. 11
कुल्याः 7 3. 45. 3
क्रव्यादम् 24 10. 16. 9
क्वगवोऽश्वाः 35,40 5. 61. 2
क्वस्विदासाम् 35 4. 51. 6
क्वाभीशवः 35,40 5. 61. 2
गभीर आँ उग्र पुत्रे 36 8. 67. 11
ग्राव्‌णां 10 10. 35. 9
घनाघनः क्षोभणः 30 10. 103. 1
चक्षूंषीव 39 5. 1. 4
चख्ख्नँतुः 16
चर्षणिभ्य आँ आविः 37 6. 48. 15
चर्षणीराँ अर्यः 36 3. 43. 2
चित्कम्भनेन 25 10.111. 5
चित्रश्रवस्तमः 30 1. 1. 5
जग्धमी पुनः 26 1.140. 2
जुजुर्वाँ यः 25 2. 4. 5
जल्हवः 21 8. 61. 11
जहि 28 3. 30. 6
जोषमाँ इन्द्रः 37 8. 94. 6
तञ्चित्रयामम् 27 3. 2. 13
तत्ते 10,11 7. 33. 10
तत् सवितुः 10,12 3. 62. 10
तत् सूर्यम् 13 8. 25. 21
तदिन्द्रस्य 27 3. 33. 7
तने च छर्दिः 9 6. 46. 12
तन्ते 27 10.184. 3
तन्वीरेप आ धुः 35 4. 6. 6
तम्ब्रह्माणम् 10 10.125. 5
तय्यँज्ञम् 27 10. 90. 7
तव्वँः 24 6. 19. 4
तव्वँ इन्द्रम् 11 "
तवसस्कृतानि 33 7. 6. 1
तस्क्करम् 7 7. 55. 3
ताँ इन्द्र 26 1. 16. 6
ताँश्चक्रे 30 10. 90. 8
ताँश्चिदेव 31 10.154. 1
ताँस्ते अश्याम 31 9. 91. 5
ताँस्त्रायस्व 31 7. 16 8
तां सु 34 10. 54. 1
तान् वः 10,13,26 4. 36. 7
ता मित्रावरुणा 41,42 1. 23. 5
ताविन्द्राग्नी 13 1.108. 3
तिस्त्रो द्यावः 36 1. 35. 6
ते रय्या 11 10. 19. 7
तेऽवदन् 35 10.109. 1
तेषाम्पाहि 10,11 1. 2. 1
त्वँ करञ्जम् 11 1. 53. 8
त्वँ चकर्थ 33 10. 74. 7
त्वं न इन्द्राभरँ 36 8. 98. 10
त्वं राजा 33,34 8. 64. 3
त्वं ह्यग्ने 37 6. 1. 1
त्वावतः 7,8 8. 46. 1
त्वाँ ही3न्द्रावसें 35 6. 33. 2
दद्वाँ वा 25 10.132. 3
दधन्वाँ यः 39 9.107. 1
दधिक्राव्‌णः 16 4. 39. 6
दध्यङ् ह 13 1.116. 12
दिवश्चित् 7 5. 10. 4
दिवस्परि 26,33 10. 45. 1
दिवस्सम्राजा 9 5. 63. 5
दिवि मे अन्यः 35 10.119. 11
दिवीव चक्षुः 35 1. 22. 20
दूडभः 27 3. 2. 2
दूढ्ये 27 1.190. 5
देव निष्कृतम् 42 5. 67. 1
देवान् हुवे 34 10. 66. 1
देवासः सर्वया 29 1. 39. 5
देवास्तम् 29,30 6. 75. 19
देवाँस्त्वं परिभूः 31 5. 13. 6
देवीष्षट् 9 10.128. 5
देवेब्‌भ्यः 7 10. 13. 4
देवो देवेभिः 30 9. 97. 1
द्व्रन्नः सर्पिरासुतिः 35 2. 7. 6
धृतव्रत मित्रावरुण दू 41 1. 15. 6
न त्वा भूरिव विन्दतीँ3 40 10.146. 1
नदीष्वाँ उशन्तम् 36 9. 68. 6
नमस्युराँ असृक्षि 36 8. 27. 11
नरावाशंसम् 7 10. 64. 3
नानानम् 26 9.112. 1
नू मर्तः 40 7.100. 1
नॄँः पतिभ्यो योनिम् 32
नॄँः पाहि श्रृणुधी 32 8. 84. 3
नॄः शस्तं नॄँः प्रणेत्रम् 32
नॄँःश्च्यौत्नः 31 10. 54. 4
पतिवती ह्ये3षा 35 10. 85. 21
पथाँ अनेहसा 38 1.129. 9
पथेव यन्तौ 38 1.139. 4
परिज्ज्मानमिव 16 1.127. 2
परितक्म्या याँः 38 5. 30. 14
परिदाय 15 1.105. 2
परिष्कृण्वन्ति 15 9. 14. 2
परि सुवानः 15 9. 18. 1
पर्षि 9,20 2. 33. 3
पलिक्कँ्नीः 16 5. 2. 4
पवमान छन्दस्यम् 9 9. 43. 6
पितो अजगन् 13 1.187. 7
पीवो अन्नाँ रयि वृधः 25 7. 91. 3
पुंसः पुत्रान् 34 1.162. 22
पुरः हितम् 30 1. 1. 1
पुरुवीरम् 14 6. 49. 15
पुरुश्चन्द्रं यजतम् 14 5. 8. 1
पृञ्जतीः 10 1. 23. 16
पृथुश्चन्द्रमवसे 14 4. 2. 13
पृथू रथः 29 1.123. 1
प्रत्यङ्‌क्सः 13 9. 80. 3
प्रत्यङ्‌चित्रा 13 10.123. 7
प्रत्यु अदर्शि 19 7. 81. 1
प्रदोधुवच्छ्मश्रूषु 18 2. 11. 17
प्रश्यावाश्व 7 5. 52. 1
प्रसर्स्त्राणस्य 9,22 5. 12. 6
बन्धूँरिमाँ 39 9. 97. 17
बृहद्भा बिभ्रतः 7 1. 45. 8
ब्रघ्नं माँश्चतोः 32 7. 44. 3
ब्रह्मा 16 8. 64. 7
ब्राह्मणोऽस्य 35 10. 90. 12
भद्रं नो अपि 30 10. 20. 1
भीषाँ अद्विवः 38 1.133. 6
भूरि दाव्नः 10 2. 27. 17
मक्षूमक्षू कृणुहि 40 3. 31. 20
मक्ष्वि3त्था 35 1. 2. 6
मघवञ्‌छग्धि 13 8. 24. 11
मध्विच्चच्छद्यात् 9 10. 73. 9
मनाँसि जानताम् 11 10.191. 2
मन्दिष्ट यदुशने 36 1. 51. 11
मरुत्वाँ इन्द्र 26 3. 47. 1
महस्पथातिक्रामेम 38 1.105. 9
महाँश्चरति 30 3. 55. 9
महाँश्चरसि 31 8. 33. 8
महित्वैकः 37 10.121. 3
माँश्चतोर्वरुणस्य 39 7. 44. 3
माँश्चत्वे वा 32,39 9. 97. 54
माँस्पचन्याः 32,39 1.162. 13
माच्छेद्म 8 1.109. 3
माताँ ऋणुत 38 5. 45. 6
मित्रयो राँ एति 36 6. 51. 1
मित्र वयं च सूरयः 42 5. 66. 6
मैनमग्ने 36 10. 16. 1
मो षू णः 27 1.173. 12
य आदित्य शवसा 43 7. 85. 4
यय्यँम् 24 2. 37. 5
यय्युँजम् 11 2. 25. 1
यः कृन्तत् 33 8. 45. 30
यः पञ्च 33 7. 15. 2
यः प्राणतः 36 10.121. 3
यङ्क्रन्दसी 27 2. 12. 8
यजुष्कन्नम् 7 10.181. 3
यत्स्थः 7 8. 10. 1
यदद्य 11 8. 93. 4
यदद्य कर्हि 9 8. 73. 5
यद्यद्यामि 10 8. 61. 6
यद्वाग्वदन्ति 26 8.100. 10
यद्वा देव भिषज्यथः 42 8. 9. 6
यमी गर्भम् 26 9.102. 6
यश्शुक्र इव 9 1. 43. 5
यस्य छाया 9 10.121. 2
याँश्चो नु 30,39 6. 66. 3
याः फलिनीः 33 10. 97. 15
यान् वो नरः 28 3. 8. 6
युङ्क्ते 14 1.124. 11
युङ्ग्ध्वम् 14 5. 56. 6
ये सहाँसि 34 6. 66. 9
रत्त्न 7 1.141. 10
रत्थ्येव 12 1.180. 4
रत्नधातमम् 10,16 1. 1. 1
रथानां न येराः 35 10. 78. 4
रायः समुद्राँश्चतुरः 30 9. 33. 6
वज्रिञ्‌च्छ्‌नथिहि 13 1. 63. 5
वत्थ्सो मातॄः 9,12 1. 95. 4
वत्सः 10 9. 69. 1
वनर्षदः 16 10. 46. 7
वम्रकः 10,33 10. 99. 12
वरुण क्षत्रम् 42 5. 64. 6
वरुण दाशति 42 6. 68. 5
वरुण सुप्रतीकम् 42 7. 61. 1
वर्क् 10 6. 26. 3
वर्मणा छादयामि 8 6. 75. 18
वर्ष्याँ3अह 9 5. 83. 3
वषट्‌कृतं 10 1.162. 15
वषड्‌वषट् 10 10.115. 9
वाक्पतङ्गाय 10 10.189. 3
वाय उक्थेभिः 13,43 1. 2. 2
वायविन्द्रः 13 1. 2. 5
वावृध्वांसम् 34 8. 95. 7
विद्वाँश्चिकित्वान् 30,39 3. 44. 2
विद्वांसौ 34 1.120. 2
विधर्ताँ ऋतम् 38 2. 28. 4
विपन्याँ ऋतस्य 38 4. 1. 12
विभ्राजमानाँश्चमसाँ 30 4. 33. 6
विभ्वाँ ऋभुः 38 4. 33. 3
विरप्फ्‌शी 12 1. 8. 8
विराट्‌त्सम्राट् 13 1.188. 5
विश्व ऋतेन 43 1.152. 1
विश्वेदहानि 36 7. 25. 4
विष्णुर्यत् 29 1. 85. 7
विह्‌य्यख्यम् 7 1.109. 1
वृक्ख्‌षे 12 1.164. 22
वृत्रघ्घ्ने 16 9. 98. 10
वेदिषदे 38 1.140. 1
शञ्च 34 2. 33. 13
शञ्चयोश्च 13 8. 39. 4
शतक्रतुः त्सरत् 30 8. 1. 11
शतचक्रँ यो3ह्यः 35 10.144. 4
शतवल्ललृशः 23 3. 8. 11
शन्नासः 7
श्रुष्ट्यग्ने 35 8. 23. 14
श्रेयांसम् 34 10. 31. 2
श्वघ्घँ्नीव 7 2. 12. 4
श्श्यावाश्वस्य 8 8. 37. 7
सं राजभिः 33 4. 34. 11
संश्यत् 7 1.130. 4
संसम् 34 10.191. 1
स इत् 29 4. 50. 8
स ईं रेभो न 26 6. 3. 6
स चैषु 36 1. 9. 3
सञ्च हन्ते 12
सदृङ्‌ङसि 8 1. 94. 7
स देवः 29 9. 37. 6
सध्रियङ् चोधवर्धे 8
स नः 8 7. 20. 10
सप्त 7 1. 50. 8
समीं रेभासः 26 8. 97. 11
समी गावः 26 9. 72. 6
समी पृच्यते 26 1.103. 1
समी रथम् 26 9. 71. 5
समी विव्या च 26 3. 36. 8
समी सखायः 26 9. 45. 5
समुद्र स्थः 29 6. 69. 6
सम्राज्ञी अधि 10,11,33 10. 85. 46
सर्गाँ इव 39 8. 35. 20
सर्वाँ स्ता इन्द्र 31 8. 93. 6
ससवान्‌त्सन्‌त्स्तूयसे 13 3. 22. 1
सहछन्दसः 9 10.130. 7
सहस्त्रवल्‌लृशाः 21 3. 8. 11
सहस्त्रशीर्षा 23 10. 90. 1
सिन्धुर्यत् 10 10. 75. 3
सुश्चन्द्रः 14 5. 6. 5
सुषुमा 27 1.101. 9
सृण्येव 35 10.106. 6
सोमं वज्रिम आभरत् 37 8.100. 8
स्तुषे 8 8. 5. 4
स्थूरयोराध्वम् 37 6. 29. 2
स्त्रुचीव घृतम् 35 10. 91. 15
स्वतवाँः पायुः 31 4. 2. 6
स्ववाँ यातु 39 1. 35. 10
स्वादुष्किल 27 6. 47. 1
हंसः 34 4. 40. 5
हन्नच्यतुच्युत् 8 6. 18. 5
हरिश्चन्द्रः 14 9. 66. 26
ह्वयामि 8 6. 47. 11


]