३ १ क्रियान्वयनाय क्षेत्राणि

सरलमानकसंस्कृतस्य आवश्यकता स्वरूपं च सङ्ग्रहेण दृष्टम् । एतस्य अन्वयपक्षविषये अपि अवधातव्यम् अस्माभिः । अधोनिर्दिष्टेषु क्षेत्रेषु एतस्य प्रयोगः/अन्वयः भवितुम् अर्हति ।

३.१.१. भाषितॄणां जनानां मध्ये

सर्वासामपि भाषाणां भाषितारः (प्रयोक्तारः) भवन्ति विविधस्तरीयाः । सुशिक्षिताः इव अशिक्षिताः अपि भवन्ति, पण्डिताः इव पामराः अपि भवन्ति, सुज्ञाः इव अल्पज्ञाः अपि भवन्ति, महानगरवासिनः इव कुग्रामवासिनः अपि भवन्ति । अतः अयं ‘भाषितृ’प्रपञ्चः सुविस्तृतः । सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृततः एव भवेत् । ये सरलतामेव इच्छेयुः ते अपि स्वमत्यनुगुणं व्यवहरेयुः यत् तत् अपि कदाचित् काठिन्याय भवेत् । सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति ।

३.१.२. शिक्षण-प्रशासन-मनोरञ्चन-सम्पर्क-विज्ञान-वाणिज्य-सूचनादीनां माध्यमरूपेण

शिक्षणादीनि क्षेत्राणि सन्ति बहूनि । अत्र सर्वत्रापि संस्कृतेन व्यवहारः तदा एव सम्भवेत्, यदा च तत्र सर्वत्र च सरलमानकसंस्कृतस्य उपयोगः स्यात् । अन्याधुनिकभारतीयभाषायाः इव संस्कृतभाषायाः अपि सम्पर्क भाषारूपेण व्यवहारः स्यात् । सर्वप्रथमम् एतादृशाः प्रयोगाः विविधकार्यालयेषु प्रारब्धाः भवेयुः, तदनन्तरं क्रमशः विविधेषु सार्वजनिकस्थलेषु विविधसमारोहाद्यवसरेषु च सम्प्रसारिताः भवितुम् अर्हन्ति । तत्रापि आदौ संस्कृतपाठशालासु, महाविद्यालय-विश्वविद्यालयानां संस्कृतविभागेषु, संस्कृतविश्वविद्यालयानां सर्वेषु कार्यालयेषु च सरलं संस्कृतं व्यवहारभाषारूपेण प्रयोक्तव्यम्। कार्यालयेषु व्यवहारदृष्ट्या कतिपये निम्नोक्ताः पक्षाः अवधेयाः -

  • संस्कृतेन विभागानां नामोल्लेखः - तद्यथा - ‘विभागाध्यक्षः’, ‘वित्तविभागः’, ‘व्याख्यानप्रकोष्ठः’ इत्यादयः । तत्र देवनागरीलिपिः प्रयोक्तव्या । अथवा तत्तत्प्रान्तगताः ओडिआ-तेलुगु-कन्नडादिलिपयः वा प्रयोक्तव्याः।
  • सञ्चिकानां नामकरणम् - तद्यथा ‘नामाङ्कनम्’, ‘पत्राचारः’, ‘वेतनम्’ इत्यादि।
  • सञ्चिकासु टिप्पणी हस्ताङ्कनं च - सञ्चिकासु स्वाभिमतोल्लेखनं टिप्पणीलेखनं वा संस्कृतेन कथं कर्तुं शक्यते इति एतदर्थं सम्बद्धानां पदाधिकारि-लिपिकादीनां प्रशिक्षणं करणीयम्।
  • पत्राचारः - मन्त्रालयादिभिः सह आधिकारिकपत्राचारावसरे सरलसंस्कृतस्य प्रयोगद्वारा एव स्वविषयं सम्यक्तया सम्प्रेषयितुं शक्येत । तदर्थं सम्बद्धव्यक्तीनां कृते प्रशिक्षणम् अपेक्षितं भवति ।
  • सम्पर्कभाषारूपेण प्रयोगार्थं परिवेशनिर्माणम् - संस्कृतस्य अध्यापकाः छात्राः शोधार्थिनः अपरे संस्कृतानुरागिणः च सम्मिल्य संस्थायाः परिसरे परस्परसम्पर्कभाषारूपेण संस्कृतस्य प्रयोगं कुर्युः । तदर्थं दैनन्दिनव्यवहारे समागच्छन्ति वाक्यानि, कतिपयाः क्रियाः, उपयोगिनः स्थानीयभाषया सह तुल्यधर्मं साधयन्तः सरलसंस्कृतशब्दाः च प्रयोगपथम् आनेयाः । लोके प्रयुज्यमानानां “स्वागतम्”, “सुप्रभातम्”, “धन्यवादाः” इत्यादीनां सरलानां भावसम्प्रेषकाणां सम्बोधनादिवाक्यानां संग्रहं कृत्वा व्यवहर्तव्यम्।

३.१.३. अनुवादावसरे (इतरभाषातः संस्कृतं प्रति) -

संस्कृतेतरभाषायां स्थितस्य उत्कृष्टस्य साहित्यस्य संस्कृतेन अनुवादः यदि महता प्रमाणेन स्यात् तर्हि संस्कृतज्ञाः विविधभाषामयस्य साहित्यक्षेत्रस्य उत्कृष्टस्य साहित्यस्य परिचयं प्राप्नुयुः । सर्वासामपि भाषाणां बान्धव्यं सुदृढं स्यात् च । एतादृशम् अनुवादसाहित्यं सरलमानकसंस्कृतनिबद्धं यदि स्यात् तर्हि सामान्यान् जनान् अवश्यं प्राप्नुयात् । एतदर्थं च तत्तद्भाषाभ्यः संस्कृते पदकोशाः निर्मातव्याः, यैः अनुवादे जनाः काठिन्यं न अनुभवेयुः।

३.१.४. संस्कृतेन एव समकालिकसाहित्यस्य निर्माणावसरे

सरलसंस्कृतनिबद्धं नवसाहित्यं महता प्रमाणेन आवश्यकम् अस्ति । यतः तादृशस्य साहित्यस्य पठितॄणां सङ्ख्या अस्ति महती । सा सङ्ख्या वर्धिष्यते च । ‘सृज्यमानस्य साहित्यस्य पठितारः के ?’ इत्येतस्याः महत्याः समस्यायाः परिहारः इतः भवितुम् अर्हेत् । साहित्यपठनावसरे भाषा कदापि क्लेशकारिणी न भवेत् । विषयशैल्यादीनाम् अवगमनस्यैव प्राधान्यं स्यात् साहित्ये । [एतस्य तात्पर्यम् अयं न यत् पद्यानि महाकाव्यानि इत्यादिषु या भाषा प्रयुज्यमाना अस्ति सा स्थगनीया इति । सा परम्परा तु अनुवर्तते एव । तादृशस्य वाचकाः अद्य ये स्युः ते अग्रे अपि तादृशं पठिष्यन्ति । अतः सरलमानकसंस्कृतं तादृश्याः साहित्यकृषेः विरोधिनी न इति पूर्व विवृतम् एव ।]

३.१.५. शब्दनिर्माणस्य निरन्तरतावसरे -

विज्ञानतन्त्रज्ञानप्रगतेः कारणतः, आ बहोः कालात् आधुनिकविषयान् अधिकृत्य लेखनरूपा सम्भाषणरूपा वा अभिव्यक्तिः आधिक्येन न जाता इति कारणतः च नूतनानां शब्दानां सृष्टिः मन्दया गत्या प्राचलत् संस्कृतक्षेत्रे । यदि एषा प्रक्रिया वेगेन प्रवर्तेत तर्हि भाषा समृद्धा स्यात्, सर्वजनादरणीया स्यात् च । संस्कृतक्षेत्रेण सृष्टाः शब्दाः अन्यभाषाक्षेत्रीयैः अपि स्वीक्रियेरन् । यतः नूतनशब्दानाम् आवश्यकता सर्वभाषाक्षेत्रेषु अपि अस्ति एव । नूतन शब्दनिर्माणावसरे प्रकृतिप्रत्ययविवेकः, तदर्थप्रतिपादकता, सरलता, सुलभग्राह्यता, सौन्दर्यम्, अविस्तृतता, प्रयोगानुकूल्यम् इत्यादीनि मानकानि निश्चेतव्यानि ।

३.१.६. तन्त्रज्ञानस्य स्वीकृतिविषये (Technology Adaptation)

विनूतनानि तन्त्रज्ञानानि प्रतिदिनं व्यवहारपथम् आयान्ति अद्यत्वे । यदि तेषाम् अन्वयाय संस्कृतक्षेत्रं सज्जं न स्यात् तर्हि निश्चयेन संस्कृतस्य हानिः स्यात् । मुद्रणव्यवस्थायाः आरम्भतः पूर्वं जगति षट्सहस्राधिकाः भाषाः आसन् । बह्वीभिः भाषाभिः मुद्रणव्यवस्थायाः अनुगुणम् आत्मा न सज्जीकृतः । तस्मात् त्रिसहस्राधिकाः भाषाः गतप्राणाः जाताः।

अद्यत्वे सङ्गणकं (Computer) चलदूरवाणी (Mobile) इत्यादीनाम् उपयोगः अधिकः । एकैकस्मिन् अपि यन्त्रप्रकारे उपयोगविधाः बहवः । तासु सर्वासु अपि विधासु संस्कृतस्य प्रयोगः यथा भवेत् तथा उपायाः चिन्तनीयाः अस्माभिः । अत्र यदि वयम् आत्मनः सज्जतां न चिन्तयेम तर्हि हानिः भवेत् संस्कृतस्य एव।

सङ्गणकक्षेत्रे अक्षरसंयोजनादिषु विविधैः जनैः विविधाः तन्त्रांशाः (Software) अक्षरविन्यासाः (Font) च उपयुज्यन्ते । तस्मात् एकेन सज्जीकृता सञ्चिका (File) अन्येन उपयोक्तुं न शक्यते । यावत् अत्र एकरूपता न चिन्त्येत तावत् एतादृशीनां समस्यानां परिहारः न भवेत् । एवमेव यन्त्रानुवादविषये विविधानाम् ‘एप्लिकेशन्स्’ उपयोगविषये च उपायाः चिन्तनीयाः । सरलमानकसंस्कृतम् अवलम्ब्य एतत्सर्वं चिन्तितं चेत् एकरूपता, उपयोगसारल्यं च स्यात् । एकैकेनापि विशेषज्ञेन स्वमत्यनुगुणम् एकैकविधा व्यवस्था उपकल्प्येत चेत् पुनरपि एकरूपताभावसमस्या उद्भवेत् । अतः मानकम् अवलम्ब्य एव सर्वविधाः प्रयासाः यथा प्रचलेयुः तथा जागरूकता वोढव्या।

३.१.७. जालपुटव्यवस्थायाः (Internet) अभ्युपगमस्य विषये

अद्यत्वे जालपुटस्य प्रसारः उपयोगः च दिने दिने वर्धमानः अस्ति । नूतनाः विनूतनाः आविष्काराः जायमानाः सन्ति । एतेषु प्रक्रमेषु या भाषा आत्मानं न प्रवर्तयेत् तस्याः दुर्गतिः अवश्यमेव स्यात् । स्वस्य सर्वतोमुखविकासं साधयता संस्कृतेनापि एतद्विषये अवधातव्यं विशेषतः । भाविजनता एतादृशीनां व्यवस्थानाम् उपयोगे बद्धादरतां दर्शयति इत्यतः, एतादृशीः व्यवस्थाः विना दैनन्दिनं जीवनं चालयितुं न शक्नुयात् इत्यतः च एतदानुगुण्येन चिन्तनम् अवश्यमेव करणीयं संस्कृतक्षेत्रेण अपि । एतस्मिन् अपि क्षेत्रे मानकम् अवलम्ब्य एव कार्यं कृतं चेत् साफल्यम् अधिकम् इति पुनर्वक्तव्यं नास्ति ननु ?