यं संस्कृतभाषाप्रयोगं श्रुत्वा सामान्यसंस्कृतज्ञानवान् संस्कृताभ्यासी, संस्कृतानभिज्ञः वा अर्थम् अवगन्तुं शक्नुयात् तदेव सरलसंस्कृतं नाम इति सामान्यतः वक्तुं शक्नुयाम वयम् ।
वस्तुतः सरलसंस्कृते अपि स्तरद्वयं भवति - अवगमनयोग्यः प्रयोगयोग्यः चेति ।
अद्यपर्यन्तं येन साक्षात् संस्कृतस्य अध्ययनं न कृतं तादृशः जनः अपि यत् श्रुत्वा कथयितुः आशयं क्लेशं विना सम्यक् अवगन्तुं शक्नुयात्, सः भवति अवगमनयोग्यः स्तरः।
सामान्यसंस्कृतज्ञानवान् संस्कृताभ्यासी कश्चित् यं स्तरम् अवलम्ब्य स्वस्य भावान् विना क्लेशम् अभिव्यञ्जयितुं शक्नुयात् सः भवति प्रयोगयोग्यः स्तरः इति।
अवगमनाय सामान्यः श्रवणसंस्कारः, केषाञ्चित् संस्कृतशब्दानां परिचयः, अवगन्तव्यम् इति अभिलाषः इत्यादयः अपेक्ष्यन्ते । अस्मिन् स्तरे श्रोत्रा भाषानियमानां स्पष्टज्ञानं प्राप्तव्यं न भवति । तात्पर्यग्रहणमात्रम् अत्र इष्यते । वक्ता श्रोतृग्राह्यान् एव शब्दान्, श्रोतृग्राह्यां शैलीं च अवलम्ब्य वेगेन विना साभिनयं यदि संस्कृतेन वदेत् तर्हि अनधीतसंस्कृतः अपि श्रोता संस्कृतम् अवगन्तुं शक्नुयात् एव । __प्रयोगयोग्यता प्राप्तव्या चेत् तु भाषानियमाः स्पष्टतया ज्ञातव्याः एव भवन्ति । नियमज्ञानमात्रेण अपि न अलम्, अपि तु तेषां नियमानां प्रयोगकौशलम् अपि तेन आप्तव्यं भवति । अतः प्रयोक्त्रा नियततया कश्चन भाषाभ्यासः अपि करणीयः भवति एव । अतः प्रयोगयोग्यस्तरप्राप्तिः परिश्रमसापेक्षः।
एवं चेत् अनधीतसंस्कृतः अपि जनः अस्माभिः उक्तं यथा अवगच्छेत् तथा कर्तुं संस्कृतं सरलीकृत्य प्रयोक्तव्यं किम् इति कश्चन प्रश्नः उत्पन्नः भवेत् । न तथा । संस्कृतस्य सरलीकरणं (simplifiying) न उचितं, न अपेक्षितं च । सारल्यं संस्कृते इदानीमेव अस्ति । अत्र उदाहरणरूपेण महाभाष्यप्रयोगाः, शङ्कराचार्यभाष्य्प्रयोगाः च बहुधा दर्शयितुं शक्याः । किन्तु आ बहोः कालात् बहुभिः कारणैः तत् सरलं (Simple) मुखं प्रदर्शितं न अभवत् । अधुना अस्माभिः तस्य प्रदर्शनं करणीयम्, तावदेव । एवं चेत् संस्कृतस्य सरलमुखस्य प्रदर्शनाय अस्माभिः केचन उपायाः अनुसर्तव्याः भवन्ति । यथा - परिमितानामेव शब्दानां क्रियापदानां च उपयोगः, सरूपाणामेव शब्दानां क्रियापदानां च उपयोगः इत्यादयः । तन्नाम भाषाप्रयोगकर्ता स्वस्मिन् महति ज्ञाने सति अपि तत्र अत्यल्पमेव भागम् उपयुज्य व्यवहारं कुर्यात् । एतदर्थं तेन बुद्धिपूर्वकतया विशेषप्रयत्नः एव करणीयः भवति ।
सरलमानकसंस्कृतस्य सामान्यनियमान् पश्याम तावत् -