(matrimonial ad, apparently from a magazine published in 1928)
अपेक्ष्यते वरः ।
सरयू-पारीण-जातीय-कन्यायाः कृते
कश्चन ब्राह्मण-जातीयो विंशतिवर्ष-देशीयो वरः समपेक्ष्यते ।
स च बी॰ए॰, एम॰ए॰, एल्-एल्-बी॰ परीक्षायां वा समुत्तीर्णः सम्पन्नश् च स्यात् ।
संस्कृतज्ञानम् अपि नितराम् अपेक्षितं विद्यते ।
कन्या, ऊनपञ्चदश-वर्ष-वयस्का विद्यते,
संस्कृते प्रवीणा, हिन्दीभाषायां लेखादिकं लिखति,
आँग्लभाषायाम् अपि एन्ट्रेन्स-योग्यतां धारयति ।
सुरुपा, सुशीला, गृहकर्म-निपुणा, सहृदया, महाकुल-प्रसूता च विद्यते ।
वरो ब्राह्मणः स्यात्, अवान्तर-जाति-भेदो न ग्राह्यः+++(??)+++ स्यात् ।
पत्र व्यवहार-सङ्केतः -
सुप्रभात-सम्पादकः, काशी ।