+विवाहः

संस्कृत-भाषि-विवाह-समूहः - FB .

श्रीवैष्णवः २०२४

॥ श्रीः ॥
॥ श्रीमते श्री-लक्ष्मी-नृसिंह-पर-ब्रह्मणे नमः ॥

श्री-भूमि-देवी-समेत श्री लवण-वर्जित-वेङ्कटेश-पर-ब्रह्मणे नमः ॥ ॥ श्री-सीता-लक्ष्मण-भरत–शत्रु-घ्न–हनुमत्-समेत श्री-पट्टाभिराम-पर-ब्रह्मणे नमः ॥
॥ श्री योग-लक्ष्मी-नायिका-समेत–श्री-भार्गव-नृसिंह-परब्-रह्मणे नमः ॥
॥ श्रीमते शठकोपाय नमः ॥
श्रीमते रामानुजाय नमः ॥
श्रीमते वेदान्तगुरवे नमः॥
॥ श्रीमद्-आदि-वण्-शठ-कोप-यतीन्द्र-महा-देशिकाय नमः ॥
॥ श्रीमते श्री-वण्-शठ-कोप–श्री-वेदान्त-देशिक-यतीन्द्र-महा-देशिकाय नमः ॥
॥ श्रीमते श्री-लक्ष्मी-नृ-सिंह-दिव्य-पादुका-सेवक– श्री-वण्-शठ-कोप-श्री-नारायण-यतीन्द्र-महा-देशिकाय नमः ॥
॥ श्रीमते श्रीव-ण्शठ-कोप-श्री-रङ्ग-नाथ-यतीन्द्र-महा-देशिकाय नमः ॥

विवाह-शुभ-मुहूर्ताह्वान-मुहूर्ताह्वान-पत्रिका

श्रीमद्-वेद-मार्ग-प्रतिष्ठापनाचार्येत्यादि-विशेषण-पञ्चक-विशिष्टानां
तत्रभवतां स्वामिनां सन्निधौ
पेरुहवाळ्दान् पुण्यकूटम् (बुधाग्रहारम्) पार्थ-सारथि-दासस्य
अनेक-दण्डवत्-प्रणिपात-पूर्विका विज्ञप्तिः ।
उभय-कुशलोपरि साम्प्रतम् ।

स्वस्ति-श्री क्रोधि-नामसंवत्सरे वृषभ-मासि पुनर्-वसू-नक्षत्र-युते भानु-वासरे (09-06-2024 दिनाङ्के)
शुभ-कटक-लग्ने (प्रातः 9.30 तः 10.30 यावत्)
पेरुहवाळ्दान् पुण्यकूटम् श्री-सम्पत्-कुमाराचार्य-स्वामिनः पौत्रस्य
मम सीमन्त-पुत्रस्य
चिरं-जीवी नारायण (अ) अनिरुद्ध नामधेयस्य

वीराणक्कुन्नम् राज-महेन्द्रम् वीर-वल्लि–उदयम्पाक्कम्
श्री उ.वे. श्रीनिवास-वरदाचार्यस्य अनुजस्य
श्री उ. वे. श्रीधराचार्यस्य पौत्र्या,
श्री उ.वे. श्रीनिवासाचार्य (अ) विष्णु-चित्त शर्मणः सीमन्त-पुत्र्या सौभाग्य-वत्या अमृत-वल्ली (अ) सुप्रजा नाम्न्या कन्यया सह

विवाह-शुभ-मुहूर्तः भगवद्-भागवताचार्याणां कृपया
श्रीवण्-शठ-कोप-श्री-रङ्ग-नाथ-यतीन्द्र- महा-देशिकानाम् अनुग्रहेण सह
सत्य-व्रत-क्षेत्रे सन्निधि-वीथ्यां
श्री-अनन्त-भवन-नामके मण्टपे संपत्स्यते ।

श्रीमन्तः अत्रभवन्तो भवन्तः स-कुटुम्ब-परिवाराः शुभेऽस्मिन् मुहूर्ते
भागं गृहीत्वा
वधूवरौ आशिषा वर्धयन्तु
इति सादरं सप्रणामम् अभ्यर्थये ।

वाचिकदोषः क्षन्तव्यः
इति विज्ञापयिता
पेरुहवाळ्दान् पुण्य-कूटम् (बुधाग्रहारम्) पार्थसारथिदासः

मुडुम्बै २०२२

ॐ अस्मद्गुरुभ्यो नमः॥
मुडुम्बै-कल्याण-महोत्सवाह्वान-शुभ-पत्रिका॥
श्रीश्रीश्रीत्रिदण्डि-श्रीमन्नारायण-चिन्नजीयर्-स्वामिनां मङ्गलाशासनेन
श्रीमतोः सत्यभामा-चिरञ्जीविनोः पौत्रः, सीताम्बानारायणाचार्ययोर्दौहित्रः,
श्रीवत्सगोत्रयोः पद्मावती-मुडुम्बै-रामानुजयोः ज्येष्ठः कुमारः,
चिरञ्चीवि-विवेकवर्धनस्य
चिरञ्जीवि-सौभाग्यवति-शोभनप्रियया सह
विवाहो दैवज्ञैरित्थं निश्चितः -

शुभमुहूर्तम्- शुभकृन्नामसंवत्सरे श्रावणमासे शुक्लपक्षे?? प्रथमायां शनिवासरे … शुभवेदिका - “राजधानी-गार्डन्स्”, भाग्यनगरम्

भवन्तः समागत्य वधूवरावाशीर्वादैर् अनुगृह्णन्तु, अस्मदातिथ्यं स्वीकुर्वन्तु च।
आगमनाभिलाषिणौ - मुडुम्बै-रामानुजः, पद्मावती च।

विश्वासः २०१०

??