आस्
- {पर्यास्}
- आस् (आस उपवेशने)।
- ‘पवित्रवन्तः परि वाचमासते’ (ऋ० ९।७३।३)। पर्यासते परित आसते।
- ‘परि त्वासते निधिभिः सखायः’ (ऋ० १०।१७९।२)।
- ‘इन्दवो मदिन्तमासः परि कोशमासते’ (ऋ० ९।८६।१)। कोशं द्रोणकलशम्। उक्तोऽर्थः।
- ‘प्रप्रान्ये यन्ति पर्यन्य आसते’ (ऋ० ३।९।३)। पर्यासतेऽलसा अव्यापारा अनुद्युक्तास्तिष्ठन्ति।
- ‘युवो ररावा परि सख्यमासते’ (ऋ० १०।४०।७)। पर्यासते प्रार्थयन्ते कामयन्तेऽभीच्छन्ति। आत्मनं सख्यात्परिहरन्ति व्यावर्तयन्तीति तु संस्कृतशार्मण्यकोषः।
- ‘किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना’ (ऋ० ८।८।८)। पर्यासते पर्यवस्थाय आसते तिष्ठन्ति। प्रतिरुन्धन्ति, वारयन्तीत्यर्थः।
- ‘कण्डूं चोपजनयन्तो गदमुखं पर्यासते’ (चरक० विमान० ७।१३)। पर्यासते परिवार्यासते।
इ
- {परिसमि}
- इ (इण् गतौ)।
- ‘कस्मात्सत्याद् गायत्री कनिष्ठा छन्दसां सती यज्ञमुखं परीयाय’ (तै० सं० ६।१।६।४२)। परीयाय प्राप।
- ‘आसामहं राज्यं परीयाम्’ (तै० सं० ७।५।८।३)। परीयाम् प्राप्नुयाम् अधिगच्छेयम्।
- ‘अग्रं देवतानां परीयाय’ (तै० ब्रा० ३।१।५।८)। श्रैष्ठ्यम् प्रापेत्यर्थः।
- ‘एतस्याग्नेरन्तं न पर्यैत्’ (श० ब्रा० ६।२।१७)। उक्तोऽर्थः।
- ‘यद्वा एतैरत्र सर्वैः प्रजापतिरयक्ष्यत् तदेवाग्नेरन्तं पर्यैष्यत्’ (श० ब्रा० ६।२।१।१३)। उदितचर एवार्थः।
- ‘सर्वेषां भूतानां श्रैष्ठ्यं… पर्येति’ (शां० ब्रा० २६।३)। पर्येति प्राप्नोति।
- ‘न स पुनरग्रं पर्येति’ (पञ्च० ब्रा० १९।१२।९)। **वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता’ (छां० उ० ३।६।४)। लुटि रूपम्। अर्थस्तु निर्विशेषः।
- ‘तत् परीयाच्चिकीर्षितम्’ (का० नी० सा० १२।३९)। परीयाद् गच्छेत्। कर्तुमिति शेषः।
- ‘परि द्यावा पृथिवी सद्य आयम्’ (अथर्व० २।१।४)। परितः प्राप्तवानस्मि, परिक्रम्यायम्, पर्यक्राम्यम्।
- ‘त्वं तृतं त्वं पर्येष्युत्सम्’ (अथर्व० १७।१।१५)।
- ‘जरा वली च मां तात पलितानि च पर्यगुः’ (भा० आदि० ८४।२७)। पर्यगुः अभिव्यापन्।
- ‘अन्तर्बहिश्च लोकांस्त्रीन् पर्यम्यस्कन्दितव्रतः’ (भा० पु० १।६।३२)। पर्येमि व्यश्नुवे व्याप्नोमि।
- ‘ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः’ (अथर्व० १।१।१)। प्रतिकल्पं प्रतिवत्सरं प्रतिदिनं प्रतिशरीरं पर्यावर्तन्त इत्यर्थ इति सायणः।
- ‘दन्द्रम्यमाणाः परियन्ति मूढाः’ (कठोप० १।२।५)। परियन्ति परिभ्रमन्ति।
- ‘स (मेध्योऽश्वः) पर्येतु (पृथिवीं सागराम्बराम्) यशो दीप्तं तव पार्थिव दर्शयन्’ (भा० आश्व० ७२।६)। पर्येतु विचरतु।
- ‘क्षीण पुण्येव वसुधां पर्येमि विमलानन’ (हरि० २।४१।१८)। पर्येमि पर्यटामि।
- ‘परि वां सप्त स्रवतो रथो गात्’ (ऋ० ७।६७।८)। परिगात् पर्यगात् पर्यक्रामत्।
- ‘स तेनाभिद्रुतः काकस्त्रींल्लोकान्पर्यगात्ततः’ (रा० २।९६।४५)। पर्यगात् पर्याटीत्।
- ‘सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते। सुख पर्येति लोकांश्च…’ (भा० शां० १६०।१२)। पर्येति विचरति पर्यटति।
- ‘यम् (रथम्) आरूढः स भगवान् पर्येति सकलं जगत्’ (मात्स्य पु० १७४।७)। उक्तोऽर्थः।
- ‘अहमुत्तरतः पर्येष्यामि’ (श० ब्रा० १।२।४।११)। पर्येष्यामि परिक्षेप्स्यामि परिवेष्टयिष्यामि।
- ‘यथा यथा च पर्येति लोकतन्त्रमसारवत्’ (भा० शां० १७४।४)। पर्येति पर्यालोचयति।
- ‘मनसा सप्त पर्येति क्रमशो विषयानिमान्’ (भा० वन० १०१।२०)। पर्येति परिचिन्तयति सम्यग् जानाति।
- ‘अनर्थं सानुबन्धं यो विदित्वा सर्वकर्मसु। अर्थमर्थानुबन्धं च पर्येष्यति स पण्डितः’ (रा० ५।८१।४)॥ पर्येष्यति विज्ञास्यति।
- ‘अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम्’ (कि० १।४४)। पर्येषि=अवगच्छसि।
- ‘परि त्वेषस्य दुर्मतिर्महीगात्’ (ऋ० २।३३।१४)। परिगात् अपक्रामेत्, निवर्तताम्, अस्मानतिहाय गच्छेत्।
- ‘यत् किंच वदामि तन्मे मा परिगात’ (ऐ० ब्रा० ६।३३)। मा परिगात निन्दां मा स्म कुरुतेति सायणः। सोऽयमर्थः शब्दमयदिया दुर्लभः। नात्र गायतिर्धातुः। परिपूर्व एतिरिह परिवर्जनेऽ नाकर्णनलक्षणे वर्तत इति संस्कृतशार्मण्यकोषः।
- ‘जिष्णुं त्रैगर्तकाः परीताः पर्यवारयन्।’ (भा० १४।२१६७)। परीता इत्यत्र कर्तरि क्तः। परितो गता इत्यर्थः।
- ‘ते परीताः कुरुश्रेष्ठ नश्यन्तः स्म ह्युपेक्षिताः’ (भा० आश्व० ५३।२२)। इहापि पूर्ववत् कर्तरि निष्ठा। परितः प्राप्ता इत्यर्थः।
- ‘परीतं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्।’ (रा० २।५५।६)। परीतं परिक्षिप्तम्। कर्मणि क्तः।
- ‘धूमेनापि परीताङ्गीं दीप्तामग्निशिखामिव’ (रा० १।४९।१६)।
- ‘धृतिपरीतमिवात्मानं दर्शितवान्’ (पञ्चत०)।
- ‘परीतकालः पुरुषो यत् कर्म प्रतिपद्यते’ (रा० ३।५७।१८)। परीतकालो तीतकालः क्षीणायुः।
- ‘परीतसत्त्वाः सहसा निपेतुः’ (भा० भी० ५९।१२१)। परीतसत्त्वाः गतप्राणाः। परासवो व्यसवः।
- ‘अपि वोद्बन्धनादीनि परीतानि व्यवस्यति’ (भा० आश्व० १७।१३)। परीतानि विपरीतानि।
- ‘परीतस्तव पुत्रोऽयं धृतराष्ट्र सुमन्दधीः’ (भा० उ० ८८।१९)। परीतः, विपरीतः, प्रतीपः।
- ‘परीत्