२५९ अन्वाङ् (अनु+आङ्)

  • {अन्वे}
  • इ (इण् गतौ)।
  • ‘वैवाहिकमन्वायनम्… उच्छुल्कं गच्छेत्’ (कौ० अ० २।२१।१८)। पतिकुलं प्रस्थिताया नवोढायाः सहनीतमुपायनजातमन्वायनम्।

तन्

  • {अन्वातन्}
  • तन् (तनु विस्तारे)।
  • ‘अनु द्यावापृथिवी आततान’ (तै० ब्रा० १।२।१।२३)। अन्वाततान व्याप, व्याप्तवान्।

धा

  • {अन्वाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘सार्थेनान्वाधिहस्तो वा प्रदिष्टां भूमिमप्राप्तश्चोरैर्भग्नोत्सृष्टो वा नान्वाधिमभ्यावहेत्’ (कौ० अ० ३।१२।२०)। परहस्तं गमनीय आधिर्निक्षेपो ऽन्वाधिः।

भज्

  • {अन्वाभज्}
  • भज् (भज सेवायाम्)।
  • ‘यथा राजा विजित्य स्वे वित्ते भार्यान् अन्वाभजेत्’ (जै० श्रा० २।१४०)। अन्वाभजेत् अनुक्रमेण आभजेत् भागिनः कुर्यात्।

यत्

  • {अन्वायत्}
  • यत् (यती प्रयत्ने)।
  • ‘अश्वे वै सर्वा देवता अन्वायत्ताः’ (तै० ब्रा० ३।८।७।३)। अन्वायत्ता अनुगताः सम्बद्धाः।

यम्

  • {अन्वायम्}
  • यम् (यम उपरमे)।
  • ‘स्वदेशादन्वायतिर्वीवधः’ (कौ० अ० १०।२।६)। अन्वायतिः=अभिष्यन्दः।

रभ्

  • {अन्वारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘यद्वायव्यं वा चमसं वाऽन्वारभ्याश्रावयेत्’ (तै० सं० ३।१।२।८)। अन्वारभ्य हस्ते गृहीत्वा।
  • ‘सोमं राजानं वरुणमग्निमन्वारभामहे’ (तै० सं० १।७।१०)। प्रथमतः कर्मारम्भकाननुसृत्य पश्चादारभामहे इत्यर्थ इति सायणः।
  • ‘एष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै’ (तै० ६।१।११।७५)। अन्वारम्भः स्पर्शः।

वप्

  • {अन्वावप्}
  • वप् (वप बीजसन्ताने)।
  • ‘एकाङ्गबाहुल्यमन्वावापः’ (कौ० अ० १०।५।२७)। आयुधविशेषस्यायुधान्तराद् भूयस्त्वम् अन्वावापः।

हृ

  • {अन्वाहृ}
  • हृ (हृञ् हरणे)।
  • ‘यद्वै यज्ञस्य क्रूरं यद्विलिष्टं तदन्वाहार्येणान्वाहरति’ (तै० सं० १।७।३)। (हीनं) पुनरन्वाहरति पूरयति। अथवा ऽनुक्रमेणाहृत्य नाशयतीति भट्ट०।