२४९ समाङ् (सम्+आङ्)

  • {समे}
  • इ (इण् गतौ)।
  • ‘मत्प्रियेष्वभिरक्ता न मृत्युं गणयति ये। त्वत्प्रसादात्समेयुस्ते…’ (रा० ६।१२०।८)॥ प्रत्यागच्छेयुः, संजीवेयुः, पुनर्जीवितमाप्नुयुः।
  • ‘तद्यथा प्रवृत्तस्य (=वृत्तस्य वर्तुलस्य) अन्तौ समेतौ स्याताम्’ (शां० ब्रा० ५।१)। समेतौ संयुक्तौ।

गम्

  • {समागम्}
  • गम् (गम्लृ गतौ)।
  • ‘तारया प्रतिषिद्धोपि सुग्रीवेण समागतः’ (रा० ४।१७।१८)। समागतः समाससाद, युयुधे।
  • ‘तद् दाशैरेव दातव्यं समागम्य स्वतोंशतः’ (मनु० ८।४०८)। समागम्य संभूय।

चर्

  • {समाचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘…तस्य च प्रथमं मया। ताम्बूलादिसमाचारः कर्तव्यो हि सदा भवेत्’ (कथा० ७५।१३८)। समाचारः सत्कार उपचारः।

ज्ञा

  • {समाज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘यद्यहं तं समाज्ञास्यमीश्वरोऽसावनीश्वरः। तदा कथमदास्यं त्वां तस्मै मायास्वरूपिणे॥’ समाज्ञास्यम्=सम्यग् अज्ञास्यम्।
  • ‘बन्धनसमाज्ञातो हि रागः। न च बन्धने सत्यपि कश्चिन्मुक्त इत्युपपद्यते’ (न्याभा० १। )। समाज्ञातः संज्ञातः, बन्धनापरनामेत्यर्थः।

दा

  • {समादा}
  • दा (डुदाञ् दाने)।
  • ‘ततो वाक्यं समाददे’ (रा० ६।११९।१२)। वक्तुं प्रचक्रम इत्यर्थः।

दिश्

  • {समादिश्}
  • दिश् (दिश अतिसर्जने, दिशिरच्चारणक्रिय इति भाष्यम्)।
  • ‘भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः’ (रा० ५।५१।३)। समादेशं सन्देशम्।

धा

  • {समाधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘यावता चित्रकूटस्य नरः शृङ्गाण्यवेक्षते। कल्याणानि समाधत्ते न मोहे कुरुते मनः’ (रा० २।५४।३०)॥ समाधत्ते मनसा कर्तुमाशास्त इति तिलकः। प्राप्नोति आचरतीति वेति भूषणम्। तदवरम्।
  • ‘यद् बाहूनुद्गृह्णन्ति यजमानमेव तत् स्वर्गे लोके समादधति’ (जै० ब्रा० १।८९)। समादधति सम्यङ् निवेशयन्ति प्रतिष्ठापयन्ति।
  • ‘तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम्’ (रा० १।४६।१५)। समाधास्ये विगतवैरं करिष्यामीत्यर्थः।
  • ‘दानोपभोगबन्ध्या या सुहृद्भिर्या न भुज्यते। पुंसां समाहिता लक्ष्मीरलक्ष्मीः क्रमशो भवेत्’ (भोज० ६१)॥ समाहिता समाहृता संचिता।
  • ‘पुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते’ (रा० २।१४।२५)। समाहिते संनिहित इति भूषणम्। तथा च समागते इति पाठान्तरम्।
  • ‘न ते (दोषाः) शक्याः समाधातुं कथं चिदिति मे मतिः’ (भा० आश्रम० ५।२५)। समाधातुं साधू कर्तुम्।
  • ‘दृष्टान्तसमाधिना च स्वपक्षः साधनीयो भवति’ (न्याभा० १।१) समाधिरानुकूल्यम्।
  • ‘वीर्येण वक्तास्मि रणे समाधिम्’ (भट्टि० १२।६८)। समाधिं प्रतीकारम्।
  • ‘समाधी रक्षति स्त्रीजनं न बाणाः’ (आश्चर्य० ३)। समाधिश्चित्तस्थैर्यम्।
  • ‘न त्वं कामं समाधेया भर्तृ शुश्रूषणं प्रति’ (रा० ६।११९।३५)। समाधेया प्रार्थनापूर्वं नियोज्या।

नी

  • {समानी}
  • नी (णीञ् प्रापणे)।
  • ‘समानेष्यति सुग्रीवः सीतया सह राघवम्’ (रा० ४।३५।१४)। समानेष्यति संयोक्ष्यति, संगमयिष्यति, घटयिष्यति।

म्ना

  • {समाम्ना}
  • म्ना (म्ना अभ्यासे)।
  • ‘तद्भूतानां क्रियार्थेन समाम्नायोऽर्थस्य तन्निमित्तत्वात्’ (मी० १।१।२५)। समाम्नायः पाठः।

रुह्

  • {समारुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘न खल्वतिकोपनत्वादिना समारोपिताग्नित्वो माणवकः कदा चिदपि मुख्याग्निसाध्यां दहनपाकाद्यर्थक्रियां कर्तुमीश्वरः’ (सिद्धहेमचन्द्रकृत स्याद्वाद० १५)। समारोपितोऽध्यारोपितः।

लभ्

  • {समालभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘तदहं तावदद्यास्य पृष्ठमेव समालभे’ (कथा० ३७।१५) समालभे चन्दनेनानुलिम्पामि। समालम्भो विलेपनमित्यमरः।

वप्

  • {समावप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘समोप्यापरं खरं पूर्वस्मिन्नुपव्यूहति’ (सत्या० श्रौ० २४।६।२)। समोप्य समावापं कृत्वा, भारमाधाय।

विश्

  • {समाविश्}
  • विश् (विश प्रवेशने)।
  • ‘कारकशब्दा निमित्तवशात् समावेशेन वर्तन्ते’ (न्याभा० २।१।१६)। समावेश एकत्र सहावस्थानम्।

वृत्

  • {समावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘स ह स्मान्यान् अन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति’ (छां० उ० ४।१०।१)। समावर्तयति वेदाध्ययने समाप्ते आचार्यो ब्रह्मचारिणमाप्लाव्य गृहप्रत्यागमनमनुजानाति।

शुच्

  • {समाशुच्}
  • शुच् (शुच शोके, छन्दसि दीप्तौ)।
  • ‘तृतीयशब्दावरोधः संशोकजस्य’ (ब्रह्मसू० ३।१।२१)। संशोकः स्वेदः।

सद्

  • {समासद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘मोदमानाः समासेदुर्देवैः सह सुरारयः’ (मात्स्य पु० १४०।८)। समासेदुः संयेतिरे युयुधिरे।

स्कन्द्

  • {समास्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • स्कन्धो वृक्षस्य समास्कन्नो भवति’ (नि० ६।१७।४)। समास्कन्न आक्रान्तः (शाखाभिः)।

हन्

  • {समाहन्}
  • हन् (हन हिंसागत्योः )।
  • ‘दृषदौ च समाहन्ति’ (तै० सं० १।६।९)। शम्ययेति शेषः। समाहन्ति समं ताडयति।

हृ

  • {समाहृ}
  • हृ (हृञ् हरणे)।
  • ‘राजसूयं समाजह्रे’ (स्कन्द पु० का० ४।१४।३०)। समाजह्रे संबभार, वितेने। अन्यत्र केवलस्याङः प्रयोगेऽपि स एवार्थः।
  • ‘स विश्वजितमाजह्रे यज्ञं सर्वस्वदक्षिणम्’ (रघु० ४।८६) इत्यत्र यथा।
  • ‘कान्तेन कौतुकसमाहृतमानसेन’ (पारिजात० १२।३७)। अस्थाने समाङौ। अनिष्टार्थप्रसञ्जनात्।
  • ‘ततः कपिसमाहारमेकनिश्चयमागतम्’ (भट्टि० ७।३४)। कपिसमाहारं वानरसमूहम्।

ह्वे

  • {समाह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयातः’ (भा० वन० ५।८)। स्पष्टोऽर्थः।