२४४ अपसम् (अप+सम्)

धा

  • {अपसंधा}
  • (डुधाञ् धारणपोषणयोः)।
  • ‘परस्यापसन्धेयतां दूष्यातिसन्धानेन स्थापयित्वा’ (कौ० अ० ७।६।२१)। अपसन्धेयः सन्धिच्छेदार्हः।

वृत्

  • {अपसंवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता’ (ऋ० १०।१७२।४)। अपसंवर्तयति अपगमयति निवर्तयति।