रुह्
- {प्रारुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘ते सुवर्गं लोकमा प्रारोहन्’ (तै० ब्रा० १।१।२)। प्रारोहन्=आरोढुमारभन्त।
लम्ब्
- {प्रालम्ब्}
- लम्ब् (अबि रबि लबि शब्दे, लबि अवस्रंसने च)।
- ‘किन्तु रणप्रकर्षविगलत्सद्वीररमुण्डोत्करप्रालम्बप्रतिकर्मसम्भृतमहं सम्पादयिष्ये मुहः’ (किरात० व्या०)। प्रालम्बमृजुलम्बि स्यात् कण्ठादित्यमरः।
वृत्
- {प्रावृत्}
- वृत् (वृतु वर्तने)।
- ‘प्रावर्तनं च कूपेषु येन सिञ्चेत् प्रवाटिकाम्’ (वराहपु० १७०।३०)। प्रावर्तनमरघट्टः स्यात् (?)।