२१९ उपनि (उप+नि)

अस्

  • {उपन्यस्}
  • अस् (असु क्षेपे)।
  • ‘स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः’ (कि० २।३)। उपन्यस्यति उदाहरति।
  • ‘भूतमप्यनुपन्यस्तं हीयते व्यवहारतः’ (याज्ञ० २।१९)। अनुपन्यस्तमनभिहितमर्थिप्रत्यर्थिभ्याम्। भूतं सत्यं तथ्यम्।
  • ‘इत्युभयलोकविरुद्धं वचनमुपन्यस्तम्’ (मालती०)। उक्तोऽर्थः।
  • ‘अद्यापि गृध्रेण महामन्त्रिणा सन्धातुमुपन्यस्तम्’ (हितोप०)। सन्धीयतामिति सन्दिष्टम्।
  • ‘उपन्यस्तम्’ (भा० शल्य० ५७।१९)। उपेत्यायुधप्रक्षेप इत्यर्थः।
  • ‘उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे’ (पञ्चरा० १।३२)। उपन्यस्तस्य कृतात्मसमर्पणस्य, अत्यन्तं परतन्त्रस्येति यावत्।
  • ‘उपन्यस्तमपन्यस्तं युद्धमागविशारदौ। तौ विचेरतुरन्योन्यं वानरेन्द्रश्च रावणः’ (रा० ६।४०।२६)॥ उपन्यस्तं परेण स्वबाह्वोरग्रहाय स्वोरःसमीपस्थानम्। अपन्यस्तं प्रतिभटबाहुग्रहणार्थं स्वबाहुप्रसारणम् इति तिलकः।
  • ‘उपन्यस्ते च यल्लब्धं विद्यया पणपूर्वकम्’ (मनु० ९।२०६ इत्यत्रकुल्लूकोद्धृता कात्यायनस्मृतिः)।
  • ‘उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा’ (भा० वन० १५८।२८)। उपन्यस्य निवेद्य समर्प्य, न्यासं कृत्वा।
  • ‘दीप्यमानं ततो वह्निं पुष्पैः सत्कृत्य सत्कृतम्। तत्रोपन्यस्य च प्रीतस्तयोर्मध्ये समेधितम्’ (रा० ४।४।१७)॥ उपन्यस्य इध्मान्यधिकान्याधाय। उपन्यासस्तु वाङ्मुखम् इत्यमरः। वाङ्मुखमुपक्रम उपोद्घातः।
  • ‘निर्यात: शनकैरलीकवचनोपन्यासमालीजनः’ (अमरु० २७)। उपन्यासः कथनम्।
  • ‘निर्भेदादृतेऽप्ययमुपन्यासो मालविकायां शङ्कयति’ (माल)। उपन्यासः कीर्तनम्।
  • ‘आत्मन उपन्यासपूर्वम्’ (शा० ३)। स्वप्रत्यवमर्शपुरःसरम्।
  • ‘विषम उपन्यासः’ (व्या० महाभा० असकृत् पठितम्)। उपन्यासो दृष्टान्तः।
  • ‘पुत्र प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः। विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत’ (मनु० ९।३१)॥ उपन्यासं (बक्ष्यमाणं) विचारम्।
  • ‘अहमिदानीं विषमारम्भं परस्योपन्यासं पराक्रमेण समी करोमि’ (प्रतिज्ञा० १)। उपन्यासः प्रयोगः। कपटप्रबन्धः।
  • ‘ब्राह्मणे जैमिनिरुपन्यासादिभ्यः’ (ब्र० सू० ४।४।५)। इहोपन्यासो ऽज्ञातज्ञापनम्।
  • ‘भव्यामेकार्थसिद्धिं तु समुद्दिश्य क्रियेत यः। स उपन्यासकुशलैरुपन्यास उदाहृतः’ (का० नी० सा० ९।१०)॥ उपन्यासो नाम सन्धिरिह लक्षितः।

क्षिप्

  • {उपनिक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘पाणिभ्यां तूपसंगृह्य स्वयमन्नस्य वर्धितम्। विप्रान्तिके पितॄन् ध्यायञ्शनकैरुपनिक्षिपेत्’ (मनु० ३।२२४)॥ उपनिक्षिपेत् समीपे नीचै निदध्यात्।
  • ‘अलमुपहतासु स्त्रीबुद्धिषु स्वमार्जवमुपनिक्षेप्तुम्’ (प्रतिमा० १)। उपनिक्षेप्तुमध्यारोपयितुम्।

गम्

  • {उपनिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘परोक्षमिवैष ब्रह्मणो रूपमुपनिगच्छति यत् क्षत्रियः’ (ऐ० ब्रा० ७।३१)। उपनिगच्छति अधिगच्छति।
  • ‘शश्वच्छान्तिं निगच्छति इति गीतासु’ (९।३१) श्रवणादुपमन्तरेणापि प्राप्त्यर्थो गम्यत एवेति शब्दोपजनो नार्थोपजनः।

ग्रह्

  • {उपनिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘नानावीर्या अङ्गुलयः, सर्वास्वङ्गुष्ठमुपनिगृह्णाति’ (तै० सं० ६।१।९।६३)। समीपे नियमेन प्रापयतीत्याह।
  • ‘उपैव यजमानं निगृह्णीत योऽस्य प्रियः स्यात्’ (ऐ० ब्रा० ३।१९)। उदितचर एवार्थः।

धा

  • {उपनिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘वेदौ परिधींश्च शकलांश्चोपनिदधाति’ (श० ब्रा० २।५।३।५)। समीपे निदधाति।
  • ‘यथा यस्मा अशनमाहरेत् तस्मा आहत्यैवोपनिदध्यादेवं तत्’ (श० ब्रा० २।३।१।१७)। उपनिदध्यात् पात्रं नीचैः समीपे दध्यात्।
  • ‘भयमुपनिदधे स राक्षसानाम्’ (भट्टि० ४।४५)। उपनिदधे जनयामास आहारयामास।
  • ‘शक्रस्तस्य तं बिसप्रत्यंशमुपनिदधे’ (अवदा० जा० १९)। उपनिदधेऽन्तर्दधे, अन्तर्हितं चकार। स्थाने वश्यवाचः कवेरार्यशूरस्योपसर्गद्वयप्रयोगः। उपनिधि र्ह्यात्मसमीपे प्रच्छाद्य रक्ष्यते, तत्साधर्म्याद्वस्त्वन्तरप्रच्छादनमात्रमप्युपनिपूर्वेण दधातिनोच्यत इति सामञ्जस्यम्।
  • ‘ये म इम (कुलमाषाः) उपनिहिता इति’ (छां० उ० १।१०।२)। उपनिहिताः समीपे स्थिताः।
  • ‘उद्दिष्टानुपनिहितां भजस्व पूजाम्’ (मालती०)। उपनिहितां निवेदितां पुरः स्थापिताम्।
  • ‘ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम्’ (मनु० ८।३७)। उपनिहितं निक्षिप्तं न्यस्तम्।
  • ‘निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च’ (मनु० ८।१९६)। प्रीत्या कञ्चित्कालमुपभोगार्थमर्पितस्येति कुल्लूकः।
  • ‘कर्णयोरुपनिधाय’ (मुखम्) (आश्व० गृ० १।१५)। उपनिधाय समीपे निधाय।
  • ‘तत्समाहृत्योप निधायाचार्य्याय प्रब्रूयात्’ (आप० ध० १।३।३१)। उक्तोऽर्थः।
  • ‘वहति मलयसमीरे मदनमुपनिधाय’ (गीत० ५।२)। उपनिधाय उपानीय।
  • ‘देवा वा असुरान् युधमुपप्रयन्तो ऽब्रुवन् यन्नो वामं वसु तदुपनिधाय युध्यामहै’ (जै० ब्रा० १।१३८)। उपनिधाय क्वचिद् विश्वास्ये निक्षिप्य न्यस्य।
  • ‘यथान्यस्मा उपनिधायाऽन्यस्मै प्रयच्छति’ (तै० ब्रा० २।१।३।६)। उपनिधाय संकल्प्य। पुमानुपनिधिर्न्यास इत्यमरः। उपमितो निधिनेति विग्रहः।
  • ‘असङ्ख्यातमविज्ञातं समुद्रं यन्निधीयते। तज्जानीयादुपनिधिं निक्षेपं गणितं विदुः’ (याज्ञ० २।६५ मिताक्षरायां नारदवचनम् )॥ निगदव्याख्यातम्।
  • ‘पूषा भागदुघोऽशनं पाणिभ्यामुपनिधाता’ (श० ब्रा० १।१।२।१७)। उपनिधाता विभक्ता विभाजकः, संविभागस्य कर्ता।

नी

  • {उपनिनी}
  • नी (णीञ् प्रापणे)।
  • ‘अथाप उपनिनयति’ (श० ब्रा० ३।३।१।७)। उपनिनयति अवसिञ्चति। अथ हैके।
  • ‘उदपात्रमुपनिनयन्ति’ (श० ब्रा० ३।३।४।३१)। उपनिनयन्ति आवर्जयन्ति।
  • ‘ताभिर् (प्रोक्षणीभिः) ओषधीनां मूलान्युपनिनयति’ (श० ब्रा० १।३।३।४)। मूलेष्वपः प्रसिञ्चति, तेषामुपरि वारिधारां मुञ्चतीत्यर्थः।

पत्

  • {उपनिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘अथ यत्र द्वे विरुद्धे तुल्यबले प्रमाणे उपनिपततः… तत्र किं कर्तव्यम्’ (गौ० ध० १।१।५ उज्ज्वलायां हरदत्तः)। उपनिपततः=युगपत् प्राप्नुतः, उपतिष्ठेते, प्रसज्येते।
  • ‘तत्तु सप्तविधे व्याधावुपनिपतति’ (सुश्रुत० १।८९।६)। उपनिपतति अन्तः पतति, अन्तर्भवति, समाविशति।
  • ‘तं हंस उपनिपत्याभ्युवाद’ (छां० उ० ४।७।२)। उपनिपत्य=अवडयनेनोपेत्य।
  • ‘एवमेव देवदत्तस्य तत्रागमनं दस्यूनां चोपनिपातः’ (पा० ५।३।१०५ सूत्रे वृत्तौ)। उपनिपातः सहसा उपस्थितिः।

पद्

  • {उपनिपद्}
  • पद् (पद गतौ)।
  • ‘नारी निपद्यत उप त्वा मर्त्य प्रेतम्’ (ऋ० १।१५२।४)। उपनिपद्यत उपशेते।
  • ‘महिषीमश्वायोपनिपादयन्ति’ (श० ब्रा० १३।५।२।२)। उपनिपादयन्ति समीपे शाययन्ति।
  • ‘पश्यामसि नोपनिपद्यमानम्’ (ऋ० १।१५२।४)। उपनिपद्यमानं निषीदन्तम् (आदित्यम्)। अयमेवार्थो मन्त्रादौ प्रयन्तमित इति विशेषणश्रवणात्।

प्लु

  • {उपनिप्लु}
  • प्लु (प्लुङ् गतौ )।
  • ‘ये चैव ग्राम्याः पशवो ये चारण्या अणिमानमेव तत् परुषिमाणं नियन्ति दीक्षारूपमेव तदुपनिप्लवन्ते’ (ऐ० ब्रा० ४।२६)। दीक्षारूपमुपेत्य नितरां सञ्चरन्तीत्यर्थः।

बन्ध्

  • {उपनिबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘विषयस्यानुपादानाद् विषय्युपनिबध्यते। यत्र सातिशयोक्तिः स्यात्’ (प्रतापरुद्रीय०)। उपनिबध्यते वर्ण्यते।
  • ‘कात्यायनोपनिबद्धा भ्राजा नाम श्लोकाः’ (भा० कैयटः)। उपनिबद्धाः प्रणीताः, रचिताः, ग्रथिताः।

मन्त्र्

  • {उपनिमन्त्र्}
  • मन्त्र् (मत्रि गुप्तपरिभाषणे)।
  • ‘अभिप्रेतप्रदानेन तपस्विजन उपनिमन्त्र्यताम्’ (स्वप्न० १)। उपनिमन्त्र्यताम् आकार्यताम्। प्रायेणात्रार्थ उपशब्दो न दीयते।
  • ‘वरप्रदानेन बोधिसत्त्वमुपनिमन्त्रयामास’ (अवदा० जा० ७)। उपनिमन्त्रयामास उपच्छन्दयामास। स्थाने ऽत्रोपशब्दः।
  • ‘राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः’ (वेणी० १।२५)। उपनिमन्त्रणाय=आह्वानाय।

म्रेड्

  • {उपनिम्रेड्}
  • म्रेड् (म्रेडृ उन्मादे)।
  • ‘अभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्’ (छां० उ० ३।१९।४)। सङ्गत्य च सुखयेयुरित्यर्थः।

विश्

  • {उपनिविश्}
  • विश् (विश प्रवेशने)।
  • ‘लङ्कामुपनिविष्टे च रामे’ (रा० ६।१६।२६)। उपनिविष्टे लङ्कां परितः कृतसैन्यनिवेशे। कृतरोध इति यावत्।
  • ‘इत्येतानि महाराज सप्त वर्षाणि भागशः। भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च’ (भा० भीष्म० ६।५३ )॥
  • ‘स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम्’ (कु० ६।३७)। उपनिवेशितम्=वासितम्।

वृत्

  • {उपनिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘येन सूक्तेन निविदमतिपद्येत न तत् पुनरुपनिवर्तेत’ (ऐ० ब्रा० ३।११)। उपनिवर्तेत=आवर्तयेत। वृतिरिहान्तर्णीतण्यर्थः।
  • ‘स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि’ (भा० शां० ८९।४)। नावर्तेतेत्यर्थः।
  • ‘उपनिवर्तमिव वै पशवः सौयवसे रमन्ते’ (शां० ब्रा० ११।५)।

श्रि

  • {उपनिश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘तस्माद् गावः सुवाससमुपैव निश्रयन्ते’ (श० ब्रा० ३।१।२।१७)। उपनिश्रयन्त उपसर्पन्ति।
  • ‘यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति’ (श० ब्रा० १४।४।२।२३)। उपनिश्रयति संश्रयति।

सद्

  • {उपनिषद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘भद्रमिच्छन्त ऋषयः स्वर्विदस्तपोदीक्षामुपनिषेदुरग्रे’ (अथर्व० १९।४१।१)। उपनिषेदुरुपासाञ्चक्रिरे।
  • ‘इत्युपनिषद्वर्णो भवति’ (नि० ३।१२।१)। यद्विज्ञानमुपागतस्य सतो गर्भजन्मजरामृत्यवो निश्चयेन सीदन्ति (विशीर्यन्ते क्षीयन्ते) सा रहस्यविद्या उपनिषद् इत्युच्यत इति तत्र दुर्गः।
  • ‘क्षत्राय तद्विशमव्यस्तादुपनिषादिनीं करोति’ (श० ब्रा० ९।४।३।३ )। उपनिषादिनी चरणयोः समीपेऽध उपवेशिनी।