२१८ उपोप (उप+उप)

विश्

  • {उपोपविश्}
  • विश् (विश प्रवेशने )।
  • ‘सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश’ (छां० उ० ४।१।८)। उपोपविवेश=उपेत्यासामास।
  • ‘उपोपविष्टं सचिवै र्मरुद्भिरिव वासवम्’ (रा० ३।३२।४)। उपोपविष्टमुपासीनम्।
  • ‘उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्’ (भा० आदि० १८५।१५)। उपविष्टा इत्येवार्थः। तेनैकस्योपशब्दस्यानर्थकत्वप्रसङ्गः।
  • ‘तत्र प्रसमुपोदः पादपूरणे’ (पा० ८।१।६) इति पाणिनीयं शासनं समाधिमुदाहरति नीलकण्ठः। वत्तिकारस्य तु नायमभिमतः। तथा ह्याह–सामर्थ्याच्छन्दस्येवैतद्विधानम्। लोके ह्यनर्थकं तत्स्यात्प्रयोगाभावादिति। छन्दोवत् कवयः कुर्वन्तीति वा तदभ्यनुज्ञातं स्यात्।