इ
- {उपोदि}
- इ (इण गतौ)।
- ‘ताभिर् (मेनिभिः) ज्वलन्तीभिर्दीप्यमानाभिरूपोदेति राजानम्’ (ऐ० ब्रा० ८।२४)। उपोदेति समीपे प्राप्नोति (पुरोहितः)।
क्रम्
- {उपोत्क्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘त एतस्माच्चात्वालादूर्ध्वाः स्वर्गं लोकमुपोदक्रामन्’ (श० ब्रा० ४।२।५।५)। उपोदक्रामन् उत्थायोर्ध्वं गत्वा प्रापन्नित्यर्थः। ऊर्ध्वा इत्यनेन गतार्थत्वेप्युच्छब्दप्रयोग ऋषीणामुपसर्गप्रियत्वं व्यनक्ति।
ग्रह्
- {उपोद्ग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘तान् (चमसान्) यत्रोपोद्गृह्णीयुः’ (ऐ० ब्रा० ७।३३)। भक्षणार्थमूर्ध्वं धारयेयुरित्यर्थः।
- ‘तस्या ह मुखमुपोद्गृह्णन्नुवाच’ (छां० उ० ४।२।४)। उपोद्गृह्णन् उन्नमयन्।
- ‘अवसिक्तायाः सव्येन पाणिनाञ्जलिमुपोद्गृह्य’ (गो० गृ० २।२।१६)। समीपे मणिबन्धप्रदेश उत्तानं गृहीत्वेत्युक्तं भवति।
सद्
- {उपोत्सद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘धीरो ह शातपर्णेयः। महाशालं जाबालमुपोत्ससाद’ (श० ब्रा० १०।३।३।१)। उपोत्ससाद उत्थाय उच्चल्य उपेयाय।
सिच्
- {उपोत्सिच्}
- सिच् (षिच क्षरणे)।
- ‘व्रतमुपोत्सिञ्चन् व्रतं प्रमीणाति’ (श० ब्रा० ३।२।२।१९)। व्रतान्तभोजनं बाह्यवस्तुना संमिश्रयन्।
स्था
- {उपोत्था}
- स्था (ष्ठा गतिनिवृत्तौ )।
- ‘त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम्’ (श० ब्रा० १४।६।८।२)। उपोदस्थाम्=समीपे ऽभिमुखे स्थितोस्मि।
- ‘उत्तिष्ठ ब्रह्मणस्पत इत्युच्यमान उपोत्तिष्ठति’ (का० श्रौ० २६।५।१०)। गोसमीपादुत्तिष्ठत्यध्वर्युरित्याह।
- ‘जयामो वा असुरांस्ततस्त्वेव नः पुनरुपोत्तिष्ठन्ति’ (श० ब्रा० १।२।४।९)। अस्मानुद्दिश्य उत्तिष्ठन्तीत्याह।
- ‘अथ यदि क्रयायोपोत्थितः (सोमः) किञ्चिदापद्येत’ (श० ब्रा० १२।६।१।९)। उपोत्थित उपस्थितः। नार्थ उदा।
- ‘हुत्वोपोत्तिष्ठतः। अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिं गृहीत्वा’ (गो० गृ० २।२।१-४)।
हन्
- {उपोद्धन्}
- हन् (हन हिंसागत्योः)।
- ‘अधुना विश्वान् देवानधिकृत्य तद्गतमेवाधियज्ञे किंचिद्विचारयिष्यन्नुपोद्धन्ति’ (नि० १२।४०।२ इत्यत्र दुर्गः)। उपोद्धन्ति प्रस्तौति, भूमिकां रचयति। चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते इति हलायुधः। उपोद्घात उदाहार इत्यमरः। उप समीप उद्धननं ज्ञापनं वक्ष्यमाणोपयोग्यर्थवर्णनस्येति स्वामी।
- ‘एवं स्तुत्या देवमभिमुखीकृत्यागमनप्रयोजनं वक्तुमुपोद्घातयति’ (शिशु० १।४०)। इत्यत्र मल्लिः। उपोद्घातं रचयति प्रस्तावनां प्रणयतीत्यर्थः।