इ
- {उपावे}
- इ (इण् गतौ)।
- ‘तद् देवा भीषा नोपावेयुः’ (श० ब्रा० ३।८।३।२८)। नोपावेयुः=नोपेयुः। नानुमेनिर इति तु संस्कृतशार्मण्यकोषः।
धा
- {उपावधा}
- धा (डुधाञ् धारणपोषणयोः)।
- उपावपूर्वस्य धाञोऽधः समीपे निधाने प्रयोगः।
नम्
- {उपावनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘य ऋजुरूर्ध्वशल्को यस्यर्जोः सत ईषदग्रमुपावनतं तं वृश्चेत्’ (भा० श्रौ० ७।१।१०)। उपावनतमानतम्। उपशब्दः सामीप्ये। अवोऽधोर्थे।
रुह्
- {उपावरुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘वास उपावरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजानन्’ (आप० श्रौ० ६।८।२८।१२)। उपावरोह वर्धस्व (मुखेनोपधमन्नाह)। वासो वसती रात्रिरिति पर्यायाः।
सृज्
- {उपावसृज्}
- सृज् (सृज विसर्गे)।
- ‘पूषा त्वोपावसृजत्विति वत्समुपसृजति’ (सत्या० श्रौ० २४।४।३)। अन्यत्र वत्सस्य गवा संयोजनरूपो योर्थः केवलेनोपेन धातुसहचरितेनोक्तः स एवेह द्वाभ्यामुपावाभ्याम्। तेनार्थानतिरेके ऽप्युपसर्गातिरेक ऋषीणां रुचेर्विषय इति प्रसिध्यति।
- ‘वत्सं चोपावसृजति’ (तै० सं० १।६।९।३)। उक्तोऽर्थः।
- ‘तदाहुर्यस्याग्निहोत्र्युपावसृष्टा दुह्यमानोपविशेत् तत्र का प्रायश्चित्तिरिति’ (ऐ० ब्रा० ७।३)। उपावसृष्टा वत्सेन संयोजिता।
- ‘रौद्रं गविसद् वायव्यमुपावसृष्टं’ (पयः) (ऐ० ब्रा० ५।२६)। उपावसृष्टं संसृष्टवत्सकं प्रस्तुतस्तनकम्।
सृप्
- {उपावसृप्}
- सृप् (सृप्लृ गतौ)।
- ‘अथ ह जनको वैदेहः कूर्चादुपावसर्पन्नुवाच’ (श० ब्रा० १४।६।११।१)। सिंहासनादवरोहन् अवतरन्नित्याह।
सो
- {उपावसो}
- सो (षो अन्तकर्मणि)।
- ‘सोऽन्यस्यैव कृतानुकरोऽन्यस्योपावसायी भवति’ (श० ब्रा० १।६।३।३४)। परेच्छानुवर्ती भवतीत्यर्थः। परच्छन्दोऽनुप्रविशति।
- ‘य एनमीजान उपावसितो वा पर्यवसितो वा स्यात् तस्य निनाह्याद् (=घटाद्) गृह्णीयात्’ (श० ब्रा० ३।९।२।८)। उपावसित आरातीयः। पर्यवसितः प्रातिवेश्यः।
हृ
- {उपावहृ}
- हृ (हृञ् हरणे)।
- ‘ते ये युक्ते ऽन्ये वियुक्ते ऽन्य उपावहरन्त्युभावेव ते योगक्षेमौ कल्पयन्ति’ (ऐ० ब्रा० ३।३)। उपावहरन्ति=अवरोपयन्ति।
- ‘स त्वा अध्वर्युः स्वाद्यः सोममुपावहरन्त्सर्वाभ्यो देवताभ्य उपावहरेत्’ (तै० सं० ६।४।३।१)। उपावहरेत् अवतारयेत् (हविर्धान्याः)।
- ‘अथ राजानमुपावहरति’ (श० ब्रा० ३।९।३।३)।
- ‘अथ रथमुपावहरति। यद्वै राजन्यात्पराग्भवति रथेन वै तदनुयुङ्क्ते’ (श० ब्रा० ५।४।३।३)। उक्तोऽर्थः।
- ‘तद्धैतदेके कुशला मन्यमानाः प्राची स्रुचमुपावहृत्य’ (श० ब्रा० ११।४।२।१३)। प्राचीं दिशं प्रति नमयित्वेत्यर्थः।
- ‘इन्द्रो हविर्धाने ऽथर्वोपावह्रियमाणः’ (वा० सं० ८।५६)। उपावह्रियमाणः कण्डनार्थमानीयमान इति महीधरः।