२१२ उप

अञ्च्

  • {उपाञ्च्}
  • अञ्च् (अञ्चु गतिपूजनयोः, अचु इत्येके)।
  • ‘अञ्जलिना अप उपाचति’ (आश्व० श्रौ० ५।१६।१)। उपाचति उपाञ्चेति उदञ्चति, उद्धरति।

अज्

  • {उपाज्}
  • अज् (अज गतिक्षेपणयोः)।
  • ‘इन्द्र एणा नियच्छत्वग्निरेना उपाजतु’ (ऋ० १०।१९।२)। उपाजतु इतः प्रेरयतु, अर्वाक् प्रचोदयतु।
  • ‘पृश्निमेतामुपाजे’ (अथर्व० ५।११।२)।
  • ‘बृहस्पति र्विश्वरूपामुपाजत्’ (ऋ० १।१६१।६)। उपाजत् उपागमत् स्वीकृतवानित्यर्थः। विश्वरूपा नानारूपा। इह गौरुच्यते।

अञ्ज्

  • {उपाञ्ज्}
  • अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
  • ‘उपरिष्टादभ्यज्याधस्तादुपानक्ति’ (आप० श्रौ० २।३।११।४)। उपानक्ति म्रक्षयति उपलिम्पति उपदेग्धि। लेपेर्थे उपेन धातोः साहचर्यमितीदम्पर उपसर्गयोगोऽर्थे तु विशेषं न करोति।
  • ‘यथा ऽक्षो ऽनुपाक्तः’ (तै० सं० २।६।३।३)। अनुपाक्त उपाञ्जनरहितः।
  • ‘संमार्जनोपाञ्जनेन सेकेनोल्लेखनेन च। गवां च परिवासेन भूमिः शुध्यति पञ्चभिः’ (मनु० ५।१२४)॥ उपाञ्जनमुपलेपः।

अर्ज्

  • {उपार्ज्}
  • अर्ज् (अर्ज प्रतियत्ने)।
  • ‘अथ वत्समुपार्जति’ (श० ब्रा० १४।२।१।९)। उपार्जति गामुपसप्तुमनुजानाति, गवा संसृज्यस्वेति दाम्न उत्सृजति।

अव्

  • {उपाव्}
  • (अव रक्षणगतिकान्त्यादिषु)।
  • ‘पुत्रो न मातरा विचरन्नुपावसि’ (ऋ० १०।१४०।२)। उपावसि उपगतान् यजमानान् रक्षसीत्यर्थ इति सायणः। मित्रवदाचरसि उद्धर्षयसीति संस्कृतशार्मण्य कोषः। मातरा मातरौ मातृभूते अरण्यौ।
  • ‘सीसायाध्याह वरुणः सीसायाग्निरुपावति’ (अथर्व० १।१६।२)। स्वसमीपे स्थापयित्वा सततं रक्षतीत्यर्थ इति सायणः। अनुमन्यतेऽनुमत्या प्रोत्साहयतीत्यर्थ इत्यन्ये। शब्दमर्यादया तु नैष सुलभोऽर्थः, उपशब्दश्चापार्थक इति प्रसङ्गश्च।

अश्

  • {उपाश्}
  • अश् (अश भोजने, अशू व्याप्तौ)।
  • ‘कामादुपाश्नन्ति सहस्रशस्ते मुदान्विताः’ (रा० ६।१२४।१३)। उपाश्नन्ति उपभुञ्जते। उपशब्दो धात्वर्थस्य न बहूपकरोति।
  • ‘अनव्यवहितं यो वा नेदं वाक्यमुपाश्नुते’ (भा० शां० १४२।२४)। उपाश्नुतेऽङ्गी करोति।

अस्

  • {उपास्}
  • अस् (असु क्षेपे)।
  • ‘अथ फलीकरणान्कपालेनाधोऽधः कृष्णाजिनमुपास्यति’ (श० ब्रा० १।९।२।३३)। उपास्यति निक्षिपति निधत्ते। फलीकरणास्तण्डुलतुषाः।
  • ‘अथ रुक्ममधस्तादुपास्यति’ (श० ब्रा० ५।४।१।१२)। उक्तोऽर्थः।
  • ‘अधान्यतस्तृणम्। पुरस्तादुद्गातॄणामुपास्यति’ (श० ब्रा० ४।२।५।६)। समीपे निक्षिपति।
  • ‘अथो यद्यपि स्याद् उपैवान्यदस्येत्, अत्यन्यदस्येत्’ (जै० ब्रा० १।८६)।
  • ‘अमृतमसि मृत्यो र्मा पाहीति हिरण्यमुपास्यति’ (तै० ब्रा० १।७।८)। उक्तोऽर्थः।
  • ‘यदि सर्वमौपासनमाहरेदपूपं यवमयं व्रीहिमयं चौदुम्बरपर्णाभ्यां संगृह्यायतन उपास्येत्’ (आप० श्रौ० ५।१।४।१४)। उपास्येत् क्षिपेत्।
  • ‘श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने’ (रा० २।६७।२१)। उपासनमभ्यासः। स्यादुपासनमभ्यास इत्यमरः।

अस्

  • {उपास्}
  • अस् (अस भुवि)।
  • ‘ये अन्तरिक्षे य उप द्यवि ष्ठ’ (ऋ० ६।५२।१३)। उपष्ठ उपस्थ उपस्थिता भवथ।
  • ‘बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः’ (ऋ० २।२७।७)। उपस्याम उपगताः स्याम, समीपे भवेम।

आप्

  • {उपाप्}
  • आप् (आप्लृ व्याप्तौ)।
  • ‘य एवं विद्वानग्निहोत्रं जुहोति यावदग्निष्टोमेनोपाप्नोति तावदुपाप्नोति’ (तै० सं० १।६।९।१)। उपाप्नोति प्राप्नोति।
  • ‘यस्मै कामाय निरुप्यन्ते तमेवाभिरुपाप्नोति’ (तै० सं० ३।४।१०।३५)।
  • ‘एतन्मिथुनमुपाप्नवानि’ (श० ब्रा० ११।३।२।१)। उदितचर एवार्थः।
  • ‘तां नाम्नोपैप्सन्’ (मै० सं० २।१।११)। उपैप्सन् अनुकूलयितुमभिमुखीकर्तुमावर्जयितुमैच्छन्नित्याह। अयमेवार्थ उत्तरत्र तां देवा एतेन यजुषा वृञ्जतेतिश्रवणात्।
  • ‘ब्राह्मणान् भक्तेनोपेप्सन्ति’ (कौ० सू० १४०।२१)।
  • अथ ब्राह्मणान् भक्तेनोपेप्सेत्’ (गो० गृ० १।९।५)। तर्पयितुमिच्छेदिति टीकाकारः।
  • ‘मङ्गलोपेप्सया नान्नामेव परिहाराय’ (श० बा० १३।८।१।१६)। उपेप्सा प्राप्तीच्छा।
  • ‘तदुपाप्तो विहारे कामः’ (ऐ० ब्रा० ६।२४)। उपाप्तः प्राप्तः।
  • ‘तेन हैवास्य स काम उपाप्तो यः…’ (सत्या० श्रौ० २३।२।४६)।
  • ‘सर्वेषां हास्य वनस्पतीनां काम उपाप्तो भवति’ (ऐ० ब्रा० २।१।१)। सर्वत्र प्राप्त इत्येवार्थः।
  • ‘आग्नेयीरन्वाह। अग्निरूपाणामुपाप्त्यै कामवतीः कामानामुपाप्त्यै’ (श० ब्रा० ७।३।२।९)। उपाप्तिः प्राप्तिः।
  • ‘एतानि सह दुरुपापानि कैः तेषामुपाप्तिः’ (श० ब्रा० १०।१।२।६)। दुरुपापानि दुष्प्रापानि दुरापाणि।
  • ‘तां नाम्नोपैप्सन्’ (मै० सं० २।१।११)। प्राप्तुमिच्छन्ति स्म। वशेऽचिकीर्षन्नित्यभिप्रायः। तां देवा एतेन यजुषावृञ्जतेति श्रवणात्।

आस्

  • {उपास्}
  • आस् (आस उपवेशने)।
  • ‘तदुदकुम्भे उपनिहितो भवति तद् ब्राह्मण उपास्ते’ (श० ब्रा० ३।३।२।५)। उपास्ते समीप आस्त आसीदति उपविशति।
  • ‘यदेव सायं प्रातर्हवनीयम् उप च तिष्ठत उप चास्ते’ (श० ब्रा० २।३।२।४)। उक्तोऽर्थः।
  • ‘तस्मादुपर्यासीनं क्षत्रियमधस्तादिमाः प्रजा उपासते’ (श० ब्रा० १।३।४।१५)। परायत्ता इति शुश्रूषव इति चाधोऽन्तिके तिष्ठन्तीत्याह।
  • ‘तं घेमित्था नमस्विन उप स्वराजमासते’ (ऋ० १।३६।७)। उपासतेऽर्चन्ति।
  • ‘उपैनमाध्वं सुमनस्यमानाः’ (ऋ० ७।३३।१४)। हे प्रतृदः तृत्सव एनं वसिष्ठमर्चत तत्र सादरा भवतेत्याह।
  • ‘उपासते सुतं जातं शकुन्ता इव पिप्पलम्’ (व० धर्म० ११।३९)। उपासते संश्रयन्ते, उपजीवन्ति।
  • ‘अशक्ताः पौरुषं कर्तुं क्लीबा दैवमुपासते’ (शुक्र० १।४८)। दिष्टं श्रयन्ते।
  • ‘यथा श्रेयस्यागमिष्यावसथेनोपक्लृप्तेनोपासीत’ (श० ब्रा० २।३।१।८)। उपासीत सत्कुर्यात्, संभावयेत्।
  • ‘सुखं वा यदि वा दुःखं प्रियं वा यदि वाप्रियम्। प्राप्तं प्राप्तमुपासीतं हृदयेनापराजितः’ (भा० शां० २५।२६)॥ उपासीत सेवेत अनुभवेत्।
  • ‘उपासते ये गृहस्थाः परपाकमबुद्धयः’ (मनु० ३।१०४)। उपासते सेवन्ते।
  • ‘सोम एकेभ्यः पवते घृतमेक उपासते’ (ऋ० १०।१५४।१)। उपासत उपभुञ्जते।
  • ‘विरोचनं सम्यगुपास्यताम्’ (सुश्रुत० २।१८७।१९)। उपास्यताम् प्रयुज्यताम्, उपयुज्यताम्।
  • ‘सर्वे स्वं भाग्यमुपासते’ (रा० २।२७।३)। उक्तोऽर्थः।
  • ‘तस्मिंश्च लौकिके सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते’ (पा० १।१।२१ सूत्रे भाष्ये)। उपास्यत आश्रीयते।
  • ‘उप ह वै ता (देवताः) आसते’ (श० ब्रा० १।९।२।२७)। उपासते प्रतीक्षन्ते।
  • ‘न श्वः श्वमुपासीत को हि मनुष्यस्य श्वो वेद’ (श० ब्रा० २।१।३।९)। उक्तोऽर्थः।
  • ‘क्षमां कुर्वन्कालमुपासते यः’ (भा० वन० ५।१९)। उपासते उपास्ते प्रतीक्षते।
  • ‘ये चार्वतो मांसभिक्षामुपासते’ (ऋ० १।१६२।१२)। उपासते काङ्क्षन्ति।
  • ‘उपासते प्रशिषं यस्य देवाः’ (ऋ० १०।१२१।२)। उपासते प्रार्थयन्ते।
  • ‘देवा भागं यथा पूर्वे सञ्जानाना उपासते’ (ऋ० १०।१९१।२)। उपासते स्वीकुर्वन्ति। भागं हविर्लक्षणम्।
  • ‘तदलं परितापेन प्राप्तकालमुपास्यताम्’ (रा० ४।२५।११)। उपास्यतामनुष्ठीयताम्।
  • ‘यदहोपासते तेनेमां मानुषीं पुरं जयन्ति’ (श० ब्रा० ३।४।४।४)। उपासत उपसीदन्ति वेष्टयन्ति।
  • ‘वशामेवामृतमाहुर्वशां मृत्युमुपासते’ (अथर्व० १०।१०।२६)। उपासते मन्यन्ते, जानन्ति, चिन्तयन्ति।
  • ‘तन्मा नावमुपकल्प्योपःसासै’ (श० ब्रा० १।८।१।४)। मामुपासासै मामवेक्षस्व, मामनुसरेति यावत्।
  • ‘जाग्रद्धैवाध्वर्युरुपासीत’ (श० ब्रा० ३।९।३।११)। उपासीत=अवतिष्ठेत।
  • ‘मां ध्यायन्त उपासते’ (गीता० १२।६)। उक्तोर्थः।
  • ‘चिराच्च पाकं वयसः करोति संशोधनं सम्यगुपास्यमानम्’ (अष्टाङ्ग० सूत्र० १८।६०)। उपास्यमानं सेव्यमानम्।
  • ‘इति पुत्रगतां चिन्तामुपासीनस्य भूपतेः’ (बृ० श्लो० सं० ४।४७)। उपासीनस्य संश्रितवत आस्थितवतः।
  • ‘ऐन्द्रं स्थानमुपासीनाः’ (मनु० ५।९३)। उपासीनाः प्राप्ताः।
  • ‘न त्वयोपासिता वृद्धाः’ (भा०)। युधिष्ठिरस्य भीमं प्रत्युक्तिः। नोपासिता न सेविता न परिचरिता न विनीतवदुपेताः।
  • ‘उपास्य रात्रिशेषं तु शोणकूले महर्षिभिः’ (रा० १।३५।१)। उपास्य अवस्थाय उषित्वा।
  • ‘कांचिद् वेलामुपास्यैव’ (बृ० श्लो० ५।२९६)। उपास्य प्रतिपाल्य प्रतीक्ष्य।
  • ‘शास्त्रं गुरुमुखोदीर्णमादायोपास्य चासकृत्’ (सुश्रुत० १।१४।११)। उपास्य अभ्यस्य।
  • ‘न कालादुत्तरं किं चित्कर्म शक्यमुपासितुम्’ (रा० ४।२५।३)। उपासितुमनुष्ठातुम्।
  • ‘दुःसहानि तु दुःखानि मया निन्दितभाग्यया। अनुभूतानि तेनाहं शक्ता दुःखमुपासितुम्’ (बृ० श्लो० सं० ५।१४)। उपासितुं सोढुम्।
  • ‘अलं ते पाण्डुपुत्राणां भक्त्या क्लेशमुपासितुम्’ (भा०)। उपासितुम् उपभोक्तुम्। ल्यबर्थे तुमुन्।
  • ‘आसनावसथौ शय्यामनुव्रज्यामुपासनम्’ (मनु० ३।१०७)। उपासनं परिचर्या।
  • ‘आचार्योपासनं वेदशास्त्रार्थेषु विवेकिता’ (याज्ञ० ३।१५६)। उक्तोऽर्थः।
  • ‘व्रण्युपासनम्’ (सुश्रुत० १।८।११)। उपासनं सेवा।
  • ‘तद्ध तद्वनं तद्वनमित्युपासितव्यम्’ (केनोप० ४।३)। उपासितव्यं मन्तव्यं चिन्तयितव्यम्।
  • ‘उपासिता ब्राह्मणानाम्’ (रा० ५।३२।६)। उपासिता मानयिता संमानयिता पूजकः।
  • ‘यथा द्वे नार्यावेकं नृपतिमुपासाते छत्रेणैका चामरेण चान्या’ (ब्र० सू० शां० भा० ३।३।१२)। उपासाते सेवेते।

  • {उपे}
  • इ (इण् गतौ)।
  • ‘मिथो निघ्नाना उपयन्तु मृत्युम्’ (अथर्व० ८।८।२१)। उपयन्तु प्राप्नुवन्तु। प्राप्तुमर्हन्तीत्यर्थः।
  • ‘समन्या यन्त्युप यन्त्यन्याः’ (नद्यः) (ऋ० २।३५।३)। उपयन्ति उपगच्छन्ति।
  • ‘को विद्वांसमुप गात् प्रष्टुमेतत्’ (ऋ० १।१६४।४)। उपगात्=उपागात् उपासीदत्।
  • ‘मा मृत्योरुप गा वशम्’ (अथर्व० १९।७।२८)।
  • ‘तं वृक्षा अपसेधन्ति छायां नो मोपगा इति’ (अथर्व० ५।१९।९)।** मोपसृप इत्यर्थः।**
  • ‘तेन रोहमायन्नुप मेध्यासः’ (काण्वसं० १४।५)। सामीप्येन प्राप्ताः। विलम्बमन्तरेण प्राप्ता इत्यर्थ इति सायणः।
  • ‘यथा हि मे वच; कर्ण नोपैति हृदयं तव’ (भा० उ० १४३।४६)। नोपैति नाभ्युपैति नाङ्गी करोति।
  • ‘पुरुषमेव स्वामिनं चित्तस्य भोक्तारमुपयन्ति’ (यो० सू० ४।२१ भाष्ये)।
  • ‘पारमार्थिकमेव बुद्धिचैतन्ययोः कस्मादैक्यं नोपेयते’ (यौ० सू० २।२० वैशारद्याम्)। उक्तोऽर्थः।
  • ‘इदमहमनृतात् सत्यमुपैमि’ (वा० सं० २।५)। सत्यं श्रयामीत्याह।
  • ‘उप त्वायानि’ (बृह० उ० २।१।१४)। शिष्य इत्युपसीदानि, शिष्यभावेनोपायानि।
  • ‘नाग्निं चित्वा रामामुपेयात्’ (तै० सं० ५।६।८।३)।
  • ‘अग्निं चित्वा न रामामुपेयात्। रामा रमणायोपेयते न धर्माय’ (नि० १२।१३)। उपेयात् संविशेत्, व्यवायं चरेत्, संभवेत्।
  • ‘न मांसमश्नीयात्। न स्त्रियमुपेयात्’ (तै० ब्रा० १।१।९।७)। उक्तोऽर्थः।
  • ‘वाच्यश्चानुपयन्पतिः’ (मनु० ९।४)। अनुपयत् असंविशन्, मैथुनमनाचरन्, असंभवन्। उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् इति न्यायः। उपयन् आगच्छन्। अपयन् अपगच्छन्। देवं हि मानुषोपेतं भृशं सिध्यति। मानुषोपेतं पौरुषेण सहचरितम्।
  • ‘यद्युपेतो भूमिजोषणादि समानमाहिताग्नेरोदकान्तस्य गमनात्’ (पा० गृ० ३।१०।१०)। उपेत उपनीतः। गुरुं शिष्य इति प्रपन्न इत्यक्षरार्थः।
  • ‘उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत्’ (आप० ध० २।९।७)। उक्तोऽर्थः।
  • ‘भवा नो अग्ने सुमना उपेतौ’ (ऋ० ३।१८।१)। उपेतिः प्राप्तिः। उपस्थितिः सान्निध्यम्।
  • ‘का त उपेतिर्मनसो वराय’ (ऋ० १।७६।१)। उपेतिरुपगमनम्। तवोचितमपगमनम् इत्यर्थः।
  • ‘उपायन उषसां गोमतीनाम्’ (ऋ० २।२८।२)। उपायनमुपागमनम्। अथोपायनमुपग्राह्यमुपहारस्तथोपदेत्यमरः। उपायनमुपढौकनम्।
  • ‘स होपायनकीर्ताऽ उवास’ (श० ब्रा० १४।९।१।११)। उपायनकीर्तिः=शिष्यभावेनोपैमीति संशब्दनम्।
  • ‘अशूद्राणामदुष्टकर्मणामुपायनम्’ (आप० ध० १।१।१।६)। उपायनमुपनयनम्।
  • ‘अत्र वा व्रतोपायनम्’ (का० श्रौ० २।२।५)। व्रतोपायनं व्रतग्रहणम्। अन्यत्राप्यस्मिन्सूत्रे ६।२।४ इत्यत्र व्रतोपायनमित्येतदर्थकः प्रयोगः।
  • ‘उपायाः शिक्षमाणानां बालानामुपलालनाः’ (वा० प० २।२३८)।
  • ‘अथाग्नेरुपायि ह्येतत्कर्म यदग्निकर्म’ (श० ब्रा० ६।६।१।४)। उपायि सहयोगि। सहचारि।
  • ‘अनित्या गुणा अपायिन उपायिनश्च’ (भाष्ये)। आगमोपायिन इति समुदितोर्थः।
  • ‘सवर्णोपायी’ (का० श्रौ० १८।६।२६)। सवर्णामुपैति संविशति न शूद्रामित्यर्थः।
  • ‘एकोऽधः प्राङ्शायी मध्वाश्यृतुजायोपायी’ (का० श्रौ० ५।२।२१)। उक्तोऽर्थः।
  • ‘उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः। एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये’ (मनु० ७।२१५)॥ उपेतारमात्मानम्, उपेयं प्राप्तव्यम् इति मेधातिथिः कुल्लूकश्च। संस्कृतशार्मण्यकोषे त्वन्यथाऽर्थापितम्। यः शत्रूयमाणः तर्जयमान उपैति स उपेतेत्युक्तम्।
  • ‘वायवः स्थोपायवः स्थ’ (तै० सं० १।१।१)। उपायव आगन्त्र्यो दोहनकाले।

ईक्ष्

  • {उपेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘किमुपैक्षिष्ठाः’ (श० ब्रा० ११।५।३।३)। गार्हपत्यमग्निं किमैक्षिष्ठा इत्याह। इहोपसर्गो धात्वर्थानुवादी, नार्थेऽन्तरं करोति।
  • ‘दमयन्त्यपि कल्याणी प्रासादस्था ह्युपैक्षत’ (भा० वन० ७४।५)। साध्वपश्यदित्यर्थः।
  • ‘तत्र यत् प्रीतिसंयुक्तं काये मनसि वा भवेत्। वर्तते सात्त्विको भाव इत्युपेक्षेत तत्तथा’ (भा० शां० २०५।२९)॥ उपेक्षेत उपेत्य ईक्षेत सम्यग्जानीयात्।
  • ‘अथापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि संपतन्तीव दृश्यन्ते’ (ऐ० ब्रा० ३।२।४)। उपेक्षेत नेत्रसमीपं पश्येत्।
  • ‘देवा वै पशून् व्ययजन्त ते रुद्रमन्तरायंस्तान् वामदेव्यस्य स्तोत्र उपेक्षते’ (पञ्च० ब्रा० ७।९।१३)। उपेक्षत उपेत्य पश्यति (हन्तुकामो रुद्रः)।
  • ‘नोपेक्षेत क्षणमपि राजा साहसिकं नरम्’ (मनु० ८।३४४)। नोपेक्षेत न तत्रोदासीत, न तस्मिन्प्रमाद्येत्। न तमवगणयेत्, न तत्रानादरः स्यात्।
  • ‘यो मां विप्रकृतां क्षुद्रैरुपेक्षध्वम्’ (भा० वन० १२।२६)। उपेक्षध्वमुपेक्षध्वे उदाध्वे मयि।
  • ‘चारेण च सुप्रयुक्तेन शत्रोः शक्ति व्यपेक्षया। गूढेन चरता तत्त्वमुपेक्षितमिदं मया’ (रा० ५।३०।४)॥ उपेक्षितमुपलब्धमन्विष्य विज्ञातम्। शत्रोः शक्तिमवेक्षता। …तावदवेक्षितमिदं मयेति पाठान्तरम्।
  • ‘तं ह पितोपेक्ष्योवाच’ (श० ब्रा० १२।२।१।९)। उपेक्ष्य=विलोक्य अभिवीक्ष्य, तत्र पुत्रे विलोचने व्यापार्य।
  • ‘न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम्’ (भा० उ० १५७।३४)। उपेक्षितुमुपद्रष्टुम्। अयमेवार्थ इति तस्माद् यास्यामि तीर्थानि सरस्वत्या निषेवितुम् इत्युत्तरार्धान्निश्चीयते।
  • तस्मादेतदुपेक्ष्यतममित्याहुः’ (ऐ० ब्रा० ३।२)। एतत् प्रउगशस्त्रम्। अतिशयेनोप समीपे ईक्षणीयमादरणीयमित्यर्थ इति सायणः।
  • ‘एवम् उच्चावचेष्वर्थेषु निपतन्ति त उपेक्षितव्याः’ (नि० १।११।३)। उपेत्य द्रष्टव्याः। सम्यक् परीक्षणीयाः।
  • ‘तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कदाचन’ (काव्यादर्शे १।७)। उपेक्ष्यमसूर्क्ष्यम्, अनादरणीयम्।
  • ‘उपेक्षा ब्रह्मचर्यं च परित्यागश्च सर्वशः’ (भा० आश्व० ३८।८)। उपेक्षा औदासीन्यम्।

उक्ष्

  • {उपोक्ष्}
  • उक्ष् (उक्ष सेचने)।
  • ‘आपो देबीरित्यधस्तादुपोक्षति’ (का० श्रौ० ६।३।२९)। उपोक्षति प्रोक्षति।

उन्द्

  • {उपोन्द्}
  • उन्द् (उन्दी क्लेदने)।
  • ‘आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चसे’ (इत्युपोद्य (आप० श्रौ० ८।१।४।१)। उपोद्य आर्द्रीकृत्य क्लेदयित्वा।

ऊह्

  • {उपोह्}
  • ऊह् (ऊह वितर्के)।
  • ‘ताः कुसिन्धमुपौहन्’ (तै० ब्रा० २।३।६।१)। उपौहन् प्राप्नुवन्। कुसिन्धं शिरोव्यतिरिक्तं देहम्।
  • ‘चतुर्धा बह्मौदनं व्युद्धृत्य सर्पिषोपसिच्य… ऋत्विग्भ्य उपोहति’ (आप० श्रौ० ५।१।५।९)। उपोहति समर्पयति प्रापयति प्रयच्छति।
  • ‘तमाज्येन सन्तार्य ध्रुवाया उपोहति’ (आप० श्रौ० ३।१।१।१०)। ध्रुवायाः समीपं गमयतीत्यर्थः।
  • ‘साक्षादिव व्यवहितं शब्देनार्थमुपोहते’ (वा० प० २।२१५)। उपोहते समर्पयति।
  • ‘पश्चाच्छम्यामुपोहति’ (का० श्रौ० २।५।४)। (दृषदो) ऽधस्तात्प्रवेशयतीत्यर्थः।
  • ‘उपोह्यन्ते स्वरा येन यस्माद् गीतं प्रवर्तते। तस्मादुपोहनं प्रोक्तं शुष्काक्षरसमन्वितम्’ (ना० शा० ३१।१२५)॥
  • ‘उपोह्यमाने द्यूते’ (भा० सभा० २०५१)। उपोह्यमाने प्रक्रम्यमाणे प्रारभ्यमाणे।
  • ‘उपोह्य रुचिरां नावम्’ (रा० २।५२।६)। उपोह्य इतः प्रेर्य।
  • ‘महद् धनुः सज्जमुपोह्य लक्ष्मणः’ (रा० २।८७।२३)।
  • ‘उपोढशब्दा न रथाङ्गनेमयः’ (शा० ७।१०)। उपोढो जातः।
  • ‘उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते’ (अथर्व० ३।२४।७)। उप समीपम् ऊहति प्रापयति धान्यादिकमित्युपोहः। एतत्संज्ञको देव इति सायणः॥

  • {उपार्}
  • ऋ (ऋ गतिप्रापणयोः)।
  • ‘मोष्वन्याँ उपारतम्’ (ऋ० ८।५।१३)। मोपारतं मोपगमतम्।
  • ‘युवं शिञ्जारमुशना उपारथुः’ (ऋ० १०।४०।७)। अभ्युपपत्तुकामावुपससृपथुः।
  • ‘यदाशसा निःशसाऽभिशसोपारिम जाग्रतो यत्स्वपन्तः’ (ऋ० १०।१६४।३)। उपारिम प्रामदाम, अस्खालिष्म।
  • ‘यदस्मृति चकृम किञ्चिदग्न उपारिम चरणे जातवेदः’ (अथर्व० ७।१०६।१)। उपार्तं लुप्तमकार्ष्म। यत्कर्मानुष्ठाने मूढा अभूमेत्यर्थः।
  • ‘मोपाराम जिह्वयेयमानम्’ (रुद्रम्) (अथर्व० ११।२।१७)। मोपाराम मा उपगच्छाम इति सायणः। मा विरुधाम मा तं रुद्रं पर्यवस्थिष्महि इति केचित् साम्प्रतिकाः।

ऋच्छ्

  • {उपार्च्छ्}
  • ऋच्छ् (ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु)।
  • ‘स इन्न्वै तमपार्च्छति’ (तै० सं० १।५।९।६)। उपार्च्छति उपरुध्य पीडयति।

ऋध्

  • {उपार्ध्}
  • ऋध् (ऋधु वृद्धौ)।
  • ‘तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेर्त्सेत्’ (श० ब्रा० २।१।२।१७)। अस्मिन्नेव नक्षत्रे (चित्रायाम्) ऽग्न्याधानमिच्छेन्निर्वर्तयितुमित्याह। उपपूर्वादृधेः सन्नन्ताल्लिङि रूपम् इडभावपक्षे।

ऋष्

  • {उपार्ष्}
  • ऋष् (ऋष गतौ)।
  • ‘अथ दक्षिणा युग्यमुपार्षति’ (श० ब्रा० ५।४।३।८)। उपार्षति प्राजति।

एष्

  • {उपेष्}
  • (एषृ गतौ)।
  • ‘पराङ्मित्र एषत्वर्वाची गौरुपेषतु’ (अथर्व० ६।६७।३)। उपेषतु उपेषतामुपैतु।
  • ‘उपेषन्तमुदुम्बलम्’ (अथर्व० ।८।६।१७)। छद्मनोपयन्तम्, त्सरन्तम्। सायणस्तु सर्वत इच्छन्तम्। गर्भिणी कुत्रास्त इत्यन्विष्यन्तम् इत्याह।

कूज्

  • {उपकूज्}
  • कूज् (कूज अव्यक्ते शब्दे)।
  • ‘चक्रवाकोपकूजिताम्’ (ह्रदिनीम्) (भा० वन० २५१२)। चक्रवाकविरुताकुलामित्याह।

कृ

  • {उपकृ}
  • कृ (डुकृञ् करणे)।
  • ‘अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः। तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया’ (मनु० २।१४९)॥ श्रुतस्योपकरोति श्रुते प्रकर्षं करोति, श्रुतमुपबृंहयति।
  • ‘उपैनामितः कुर्वीमहि’ (श० ब्रा० ११।१।६।२१)। एनां प्राचीं दिशमुपकुर्वीमहि वर्धयेम सबलां कुर्याम श्रेयसीं चरेम।
  • ‘धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्। उपाकरोदस्त्रहेतोः’ (भा० आदि० ६४०८)। उपाकरोत् समवर्धयत्।
  • ‘न पूर्वं गुरवे किञ्चिदुपकुर्वीत धर्मवित्’ (मनु० २।२४५)। नोपकुर्वीत न दद्यात्।
  • ‘हरिमुपकरुते’ (१।३।३२ सूत्रे कौमुद्यां दीक्षितः)। उपकुरुते सेवते।
  • ‘ते (भृत्याः) प्राणैरप्युपकुर्वते’ (पञ्चत० १।९५)। उक्तोऽर्थः।
  • ‘सा लक्ष्मीरुपकुरुते यया परेषाम्’ (कि० ७।२८)। उपकुरुते साहाय्यमाचरति।
  • ‘उप ते गा इवाकरं वृणीष्व दुहितर्दिवः’ (ऋ० १०।१२७।८)। उपाकरमुपेत्य त्वां स्तुतिभिरभिमुखी करोमीत्याह।
  • ‘गायत्रस्तूपकुर्वाणः’ (गौ० ध० १०।११)।
  • ‘उपकुर्वाणो ब्रह्मचारी यो गृहस्थो बुभूषति। एधो दकस्योपस्कुरुते’ (६।१।१३९ सूत्रे वृत्तौ)। एध उदके गुणान्तरमौष्ण्यमाधत्ते इत्यर्थः। कन्यामुपस्कुरुते। अलं करोतीत्यर्थः। उपस्कुर्वन्ति ब्राह्मणाः समवयन्तीत्यर्थः।
  • ‘अत्रानुक्तं स्मृत्यन्तरवशादुपस्क्रियते’ (आप० ध० १।१६।२ इत्यत्र उज्ज्वलायां हरदत्तः)। उपस्क्रियतेऽध्याह्रियते।
  • ‘क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतमेव वा’ (मनु० ५।३२)। परोपकृतं परेण दत्तम्।
  • ‘गता नाशं तारा उपकृतमसाधाविव जने’ (५।२५ मृच्छ०)। उपकृतमुपकारोऽनुग्रहः।
  • ‘यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया’ (रा० ४।३२।८)। उक्तोऽर्थः।
  • ‘उपस्कृतं ब्रूते।’ साध्याहारमाह।
  • ‘सितातपत्रव्यजनैरुपस्कृतः’ (भा० पु० १।११।२७)। उपस्कृतोऽलङ्कृतः।
  • ‘उपस्कृता ब्राह्मणाः।’ समुदिताः समवेता इत्यर्थः।**
  • ‘सम्पीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः’ (भा० अनु० १२४।१४)। उपस्कृतो गणान्तरं प्रापितः, उन्नमितः।
  • ‘अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्। अध्यात्मं सुकृतम्…’ (भा० शां० २१५।१६)॥ निरुपस्कृतं गुणाधानमलापकर्षणसंस्कारहीनम्।
  • ‘एषोऽनुपस्कृतः प्रोक्तो योघधर्मः सनातनः’ (मनु० ७।९८)। अनुपस्कृतोऽविकृतोऽविगर्हितः।
  • ‘मांसं यच्चानुपस्कृतम्’ (मनु० ३।२५७)। अनुपस्कृतमविकृतम्। पूतिगन्धादिरहितम्।
  • ‘न हीदानी सहाया मे परीप्सन्त्यनुपस्कृताः’ (भा० द्रोण० १५०।२९)।
  • ‘तस्मात् सर्वधर्ममास्थाय सुव्रताः सत्यवादिनः। लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः’ (भा० शां० ११।२५)॥ अनुपस्कृता निःसंशया इति नीलकण्ठः। शब्दमर्यादयायमर्थः कथं लभ्यत इति न सुज्ञानम्।
  • ‘अनुपस्कृता रतिः।’ अकृत्रिमेत्यर्थः।
  • ‘शास्त्रोपस्कृतशब्दसुन्दरगिरः’ (कवयः) (भर्तृ० २।१२)। उपस्कृताः संस्कृताः।
  • ‘राजतं चानुपस्कृतम्’ (मनु० ५।११२) (अद्भिरेव शुध्यति)। अनुपस्कृतं रेखादिगुणान्तराधानरहितमिति कुल्लूकः।
  • ‘प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम्’ (भा० अनु० ३३३५)। अनुपस्कृतं कण्टकगुल्माद्यपहारेण समीकरणेन च यन्न प्रसाधितम्।
  • ‘आभिषेचनिकं चैव सर्वमेतदुपस्कृतम्’ (रा० )। उपस्कृतं सज्जीकृतम्।
  • ‘सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः’ (रा० ६।१०४।७)। उपस्कृत उत्कोचादिना विकारं प्रापित इति तिलकः।
  • ‘ब्राह्मणार्थे गवार्थे च देहत्यागोऽनुपस्कृतः’ (मनु० १०।६२)। अनुपस्कृतः प्रयोजननिरपेक्षः। निष्कारणः।
  • ‘शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम्’ (मात्स्य पु० ९६।१८)। उपस्करो गृहोपकरणम्।
  • ‘रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः’ (रा० २।३०।४४)। क्रीडार्था उपस्कराः स्वर्णमयपुत्रिकाद्युपकरणानीति तिलकः।
  • ‘जातरूपमयादिपुत्रिका भोजनोपस्करैः सह’ (भा० अनु० ५३।२२)। उपस्करो व्यञ्जनम्।
  • ‘सश्रवणचित्रकृत्तिकोपस्करवाहिभिः पापर्द्धिकपरिजनैः’ (नलचम्प्वाम् १)। उपस्करो मृगयोपयोगि साधनम्, समूहश्च।
  • ‘मङ्गलालम्भनीयानि प्राशनीयान्युपस्करान्। उपानिन्युः…’ (रा० २।६५।९)॥ उपस्करा दर्पणवस्त्राभरणादयः।
  • ‘अद्य स्त्रिय उपरता इति मन्य इत्युपस्कार्यम्’ (रा० २।८६।१४) इत्यत्र गोविन्दराजो भूषणे। उपस्कार्यमध्याहार्यम्।
  • ‘उपस्करो रथस्यासन्नापः सर्वाश्च निम्नगाः’ (भा० कर्ण० ३४।२४)। उपस्करो बन्धादिसामग्रीति नीलकण्ठः।
  • ‘उपस्करैरधिष्ठानैः’ (भा० द्रोण० १४८।४२)।
  • ‘सूपस्करेषु शुभ्रेषु महत्सु च महारथाः’ (भा० वि० ३१।१७)। उपस्करो रथाङ्गं चक्रम्।
  • ‘पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः’ (मनु० ३।६८)। उपस्करो गृहोपकरणं कुशसंमार्जन्यादि।
  • ‘वेदोपकरणे चैव स्वाध्याये चैव नैत्यके’ (मनु० २।१०५)। वेदोपकरणे वेदाङ्गे।
  • ‘भोजनान्यथ पानानि सर्वोपकरणानि च’ (भा० वन० १०३८)। उपकरणानि उपेयोपायाः।
  • ‘पुरुषः प्रधानं तस्योपकरणमन्यत्।’ (सुश्रुत० १।४।५)। उपकरणमङ्गभावं गतं साधनम्।
  • ‘वीतं सस्तूपकरणं बन्धने मृगपक्षिणाम्’ (अमरः)। उपकरणं करणं साधनम्।
  • ‘स्वायत्तसिद्धे राज्ञो हि प्रजोपकरणं मता’ (कथा० १५।५८)। उपकरणं परिच्छदः।
  • ‘कर्मोपकरणाः शूद्राः शिल्पिन कारवस्तथा’ (मनु० १०।१२०)। कर्मणैव स्वव्यवसायेनैवोपकुर्वन्ति सेवन्त इति कर्मोपकरणाः।
  • ‘सौधोऽस्त्री राजसदनमुपकार्योपकारिका’ (अमरः)। उपकार्येति चोपकारिकेति चोभे राजसदनस्य पटमण्डपस्य नामधेये।**
  • ‘पुन्नागनागकरवीरकृतोपकारे तस्मिन्गृहे’ (सुश्रुत०)। उपकारः संस्कारो ऽलङ्कारः।
  • ‘सर्वोपि जनो विरूपकरणे समर्थो भवति नोपकरणे’ (पञ्चत०)। उपकरणं साधूकरणं समाधानम्। अनुग्रह इति संस्कृतशार्मण्यकोषः। सोऽयं प्रकरणविरुद्धः, अनन्तरपूर्व विरूपकरण इति श्रवणात्।

कृत्

  • {उपकृत्}
  • कृत् (कृती छेदने)।
  • ‘अपृष्ट्वा बुद्धिसम्पन्नान् वैद्यान्वानरचापलात्। यत्किञ्चनप्रलापी त्वं वाक्शरैरुपकृन्तसि’ (रा० ४।१८।५)॥ उपकृन्तसि तुदसि विध्यसि। निर्णयसागरमुद्रिते पुस्तके वाक्शरैरुपकृन्तसीति नास्ति।

कृष्

  • {उपकृष्}
  • कृष् (कृष विलेखने)।
  • ‘उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति’ (रा० १।१६।७)। उपकर्षति बलादात्मसमीपं प्रापयति।
  • ‘पाण्युपकर्षं पाणिनोपकर्षं धानाः संगृह्णाति’ (पा० ३।४।४९ सूत्रे वृत्तौ)। पाणिना संनिकृष्येत्यर्थः।
  • ‘चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमानमुपकर्ष विभो प्रपन्नम्’ (भा० पु० ७।९।२२)॥ उपकर्ष उद्धृत्यात्मसमीपं प्रापयेत्यर्थः।

कॄ

  • {उपकॄ}
  • कॄ (कॄ विक्षेपे)।
  • ‘नोपकिरन्त्युत्तरवेदिम्’ (श० ब्रा० २।५।१।१८)। उत्खाय न कुर्वन्ति।
  • ‘तमाखूत्कर उपकिरति’ (श० ब्रा० २।७।२।१०)। उपकिरति निक्षिपति, उपक्षिपति।
  • ‘तेषां वा अर्धान् उपकिरन्ति’ (रा० ब्रा० ३।६।२।२२)। उपकिरन्ति मृदोपचिन्वन्ति।
  • ‘अथोत्तरतः सिकता उपकीर्णा भवन्ति’ (श० ब्रा० १४।१।३।१४)। उपकीर्णाः समीपे कीर्णाः।
  • ‘रत्नोपकीर्णां वसुधाम्’ (भा० अनु० ३१६२)। रत्नोपकीर्णां रत्नाचिताम्।
  • ‘उपस्कीर्ण हन्त ते वृषल भूयात्’ (पा० ६।१।१४१ सूत्रे वृत्तौ)। हे वृषल तथा ते विक्षेपोऽस्तु यथा हिंसामनुबध्नीयादित्यर्थः।
  • ‘उपस्कारं काश्मीरका लुनन्ति’ (पा० ६।१।१४० सूत्रे वृत्तौ)। विक्षिप्य लुनन्तीत्यर्थः।

क्लृप्

  • {उपक्लृप्}
  • क्लृप् (कृपू सामर्थ्ये)।
  • ‘सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते’ (रा० ५।२४।२१)। उपकल्पते कल्पते ऽलं भवति समर्थो भवति।
  • ‘वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते’ (मनु० ३।२०२)। अक्षयाय अक्षयसुखाय। उपक्लृपिः पूर्वत्रार्थ एव।
  • ‘यथा दुग्धेस्थितं सर्पिर्न स्वादायोपकल्पते’ (भा० पु० १।२।६९)। स्वादाय नोपकल्पते स्वादितुं न लभ्यते।
  • ‘वधं नार्हति चेन्द्रोपि तत्रेदमुपकल्पते’ (भा० ६।१८।४३)। इदमुपकल्पते इदं युक्तं भवति।
  • ‘अतो यतमदस्य कर्मोपकल्पेत्’ (श० ब्रा० ६।२।२।१५)। अस्य योग्यं भवेत्, एतदर्हं स्यात्।
  • ‘धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते’ (भा० पु० १।२।९)। नार्थायोपकल्पते प्रयोजनवान्भवितुं नार्हति।
  • ‘केशश्मश्रु लोमनखानि वापयित्वोपकल्पयते’ (बौ० ध० २।१०।१७।९१)। उपकल्पयते ऽर्जयति।
  • ‘तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत्’ (सुश्रुत० १।४६।५०२)। समीपं ढौकयेदित्यर्थः।
  • ‘महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्’ (याज्ञ० १।१०९)।
  • ‘तस्यैते पुरस्ताद् रक्षितार उपक्लृप्ता भवन्ति’ (श० ब्रा० १३।४।२।५)। उपक्लृप्ताः सज्जाः।
  • ‘चतस्रो जाया उपक्लृप्ता भवन्ति’ (श० ब्रा० १३।४।१।८)। सेवायामुपस्थिता भवन्तीत्याह।
  • ‘यस्त्वेतान्युपक्लृप्तानि द्रव्याणि स्तेनयेन्नरः’ (मनु० ८।३३३)। उपक्लृप्तानि उपयोगार्थं कृतसंस्काराणीति कुल्लूकः।
  • ‘रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः’ (भा० अनु० ३३५१)। उपकल्पिताः संकल्पिता निश्चिता नियताः।
  • ‘सदश्वैरुपकल्पितान् रथान्’ (भा० आदि० ४०९८)। उपकल्पितान् युक्तान्।
  • आसनेषूपक्लृप्तेषु बर्हिष्मत्सु’ (मनु० ३।२०८)। उपक्लृप्तेषु न्यस्तेषु।
  • ‘वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम्’ (सुश्रुत० १।४६।५०४)। उपकल्पना समीपे ढौकना।

क्रम्

  • {उपक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘नयेन विधिदृष्टेन यदुपक्रमते परान्’ (भा० सभा० १७।३)। उपक्रमत उत्सहत इति नीलकण्ठः। एवं सति परानिति द्वितीया नोपपद्यते। संस्कृतशार्मण्यकोषस्तु उपैति आचरतीत्येवं व्याख्याति। तदेवादोषं भाति।
  • ‘उपचक्राम तौ वाग्भिर्मृद्वीभिः’ (रा० ४।२।२)। व्यवजहार, उपेयायेति वा।
  • ‘राज्ञस्तस्याज्ञया देवी वसिष्ठमुपचक्रमे’ (भा० आदि० १७७।४३)। उपचक्रमे उपचक्राम उपेयाय।
  • ‘उपक्रामति जन्तूंश्च उद्वेगजननः सदा’ (भा० अनु० १४५।३४)। उपक्रामति उपद्रवति।
  • ‘उप क्रमस्व पुरुरूपमाभर वाजं नेदिष्ठमूतये’ (अथर्व० २०।८५।४)। उपक्रमस्व उपक्राम उपगच्छ।
  • ‘धर्मो यतः स्यात् तदुपक्रमेत’ (रा० २।२१।५८)। उपक्रमेत प्रारभेत।
  • ‘उपाक्रामत काकुत्स्थः कृपणं बहु भाषितुम्’ (रा० २।१०३।६)। उपाक्रामत उपाक्रमत प्रकान्तवान् प्रारब्ध।
  • ‘तानादाय कुमारांस्तु नगरायोपचक्रमे’ (हरि० १।२६।४२)। नगरं गन्तुमारेभ इत्याह।
  • ‘गृहीत्वा तानि वैदेही गमनायोपचक्रमे’ (रा० ७।४६।११)। उक्तोऽर्थः।
  • ‘सरुजमात्मवन्तमुपकरणवन्तमुपक्रमेत्’ (सुश्रुत० चि० ५।२८)। उपक्रमेत् उपक्रामेत् उपचरेत्, चिकित्सेत्।
  • ‘नोपक्रमेदविदितं रोगं किञ्चिच्चिकित्सकः’ (का० सं० खिल० रक्तगुल्म० श्लो० ६५)। उक्तोऽर्थः।
  • ‘साध्यासाध्यं विदित्वोपक्रमते स भिषक् स्मृतः।’ (शुक्र० २।१८४)। साधुः प्रयोगः, आत्मनेपदं तु दुष्प्रयुक्तम्।
  • ‘ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेत्’ (दशकु०)। उपक्रान्तो वशे कृतः।
  • ‘उपक्रान्ते प्रमुञ्चति’ (का० श्रौ० ८।४।२०)। उपक्रान्ते समाप्ते (सीवनकर्मणि) ग्रन्थिं विस्रंसयतीत्याह। अन्यत्र दुर्लभोऽयमर्थः।
  • ‘उपक्रम्यः कथमयं कश्चास्योपक्रमः’ (का० सं० खिल० रक्तगुल्म० श्लो० १२)। उपक्रम्यः चिकित्स्यः।
  • ‘वयस्य, एवमादिभिरनुपक्रम्योऽयमातङ्कः’ (विक्रम० ३)। उक्तोऽर्थः।
  • ‘पप्रच्छ प्रयोजनमुपक्रमे’ (भा० वन० ९८।८)। उपक्रम आगमनम्। ज्ञात्वाऽऽरम्भ उपक्रम इत्यमरः। उपक्रमो वशीकारे समारम्भे चिकित्सने इति कोषान्तरम्।
  • ‘मूत्रप्रभार्तवविट्प्रभार्तवयोरप्यसाध्यत्वादेवोपक्रमं नाभ्यधादिति’ (अष्टाङ्ग० शारीर० १।१५-१६ सूत्रे हृदयबोधिकाकारस्य वचनम्)। अर्थस्तूदितचरः।
  • ‘शरीरपतितानां तु शारीरवदुपक्रमः’ (सुश्रुत० १।१।२६)।
  • ‘तस्य चायमुपक्रमः’ (महावीर० ४।४)। उपक्रमो बुद्धिपूर्व आरम्भः।
  • ‘तानानयेद् वशं सर्वान्सामादिभिरुपक्रमैः’ (मनु० ७।१०७)। उपक्रमा उपायाः।
  • ‘क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः’ (याज्ञ० १।३४५)।
  • ‘अशोचन् प्रतिकुर्वीत यदि पश्येदुपक्रमम्’ (भा० शां० ३३०।१५)। उक्तोऽर्थः।
  • ‘किं वा मम वधायैष उपक्रमो मन्थरकस्य’ (पञ्चत०)। उपक्रमः प्रारम्भः।
  • ‘उपायतः समारब्धाः सर्वे सिध्यन्त्युपक्रमाः’ (वि० पु० १।१३।७८)। उपक्रमा आरम्भाः कर्माणि। हरिवंशे (२।५।५३) प्येषोऽन्यूनातिरिक्तः पाठः स्थितः।
  • ‘यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः’ (रा० ५।६४।३०)। उपक्रम आचारो व्यवहारो वृत्तिः।
  • ‘यत्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम्’ (का० नी० सा० १२।१९)। उपक्रान्तमारब्धम्।

क्री

  • {उपक्री}
  • क्री (डुक्रीञ् द्रव्यविनिमये)।
  • ‘घटादीनुपक्रीय’ (हितोप० )। क्रयेण प्राप्य।

क्रीड्

  • {उपक्रीड्}
  • क्रीड् (क्रीडृ विहारे)।
  • ‘उपक्रीडन्ति तान्राजन् शुभाश्चाप्सरसां गणाः’ (भा० अनु० ८१।३०)। उपक्रीडन्ति उपेत्य क्रीडन्ति समीपे क्रीडन्ति। उपसर्गवशात् सकर्मकत्वम्।

क्रुश्

  • {उपक्रुश्}
  • क्रुश् (क्रुश आह्वाने रोदने च)।
  • ‘उपक्रुष्टं जीवितं सन्त्यजेयुः’ (भा० उ० २५।८)। उपक्रुष्टं निन्दितं सापवादम् अवगीतम्।
  • ‘बोधिसत्वः किल कस्मिंश्चिदनुपक्रुष्टगोत्रचारित्रे… महति ब्राह्मणकुले जन्म-परिग्रहं चकार’ (अवदा० ब्राह्मणजा०)। अनुपक्रुष्टे अनवगीते गोत्र-चारित्रे यस्य तस्मिन्।
  • ‘न शक्नोम्युपक्रोशं पृथिव्यां धातुमात्मनः’ (रा० ३।६२।२६)। उपक्रोशोऽपवादः।
  • ‘प्राणैरुपक्रोशमलीमसैर्वा’ (रघु० २।५३)। उक्तोऽर्थः।

क्लिद्

  • {उपक्लिद्}
  • क्लिद् (क्लिदू आर्द्रीभावे)।
  • ‘विरुद्धानामुपक्लिन्नपूतीनां भक्षणेन च’ (चरक० सू० २४।८)। उपक्लिन्नं शुच्यत् कालपरिवासेन निर्यद्रसम्।

क्षर्

  • {उपक्षर्}
  • क्षर् (क्षर संचलने)।
  • ‘उप क्षरन्ति सिन्धवो मयोभुव ईजानं यक्ष्यमाणं च धेनवः’ (ऋ० १।१२५।४)। समीपे क्षरन्ति स्रवन्ति स्यन्दन्ते। प्रीणयन्तीत्यर्थः।
  • ‘सर्वतो वा एताः स्वधा यजमानमुपक्षरन्ति। यदेतानि हवींष्याज्यं धानाः करम्भः परिवापः पुरोडाशः पयस्येति’ (ऐ० ब्रा० ८।५)। उक्तोऽर्थः।

क्षि

  • {उपक्षि}
  • क्षि (क्षि क्षये)।
  • ‘नू नो रास्व… द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम्’ (ऋ० ३।१३।७)। अनुपक्षितं व्यये क्रियमाणे ऽप्यनुपक्षीणम्। अक्षय्यमित्यर्थः।

क्षि

  • {उपक्षि}
  • क्षि (क्षि निवासगत्योः)।
  • ‘देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा’ (ऋ० १।७३।३)। पृथिवीमुपक्षेति पृथिव्यां निवसति।
  • ‘शुचिरपस्सूयवसा अदब्ध उपक्षेति’ (तै० सं० २।१।११।११)। उपक्षेति उपक्षियति उपगच्छति प्राप्नोति।
  • ‘उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता’ (अथर्व० १९।१५।४)। उपक्षयेम प्राप्नुयाम।

क्षिप्

  • {उपक्षिप्}
  • क्षिप् (क्षिप प्रेरणे)।
  • ‘कशयोपक्षिपति’ (श० ब्रा० १।४।४।१५)। उपक्षिपति क्षिपति प्रेरयति। नार्थ उपेन।
  • ‘परस्परं वाग्भिरुपक्षिपन्ति’ (रा० ५।११।११)। उपक्षिपन्ति प्रेरयन्ति समुत्साहयन्ति समुद्धर्षयन्ति।
  • ‘छन्नं कार्यमुपक्षिपन्ति न्यायेन दूरीकृतम्’ (मृच्छ० ९।३)। मन्दमुपन्यस्यन्ति, आरात् प्रस्तुवन्तीत्यर्थः।
  • ‘वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः’ (मालती० ५।३१)। उपक्षिपतः प्रास्यतः। शत्रन्तात् षष्ठी।
  • ‘ततः परस्ताल्लोकालोकनामाऽचलो लोकालोकयोरन्तराले परित उपक्षिप्तः’ (भा० पु० ५।२०।३४)। उपक्षिप्तः स्थितः।
  • ‘चरणानुरूपः खलु तत्र भवत्या अधिकार उपक्षिप्तः’ (माल० ३)। उपक्षिप्तः प्रारब्धः।
  • ‘गोमुखेन स्मितं सद्य उपक्षिप्तं कथान्तरम्’ (बृ० श्लो० सं० ८।२०)। उक्तोऽर्थः।
  • ‘त्वयि उपक्षिप्त आत्मा’ (माल० २)। उपक्षिप्तो निक्षिप्तो न्यस्तः समर्पितः।
  • ‘उपक्षिप्तस्य चान्नस्य बाष्पेणोर्ध्वं प्रसर्पता’ (सुश्रुत० कल्प० १।११)। उपक्षिप्तस्य भोक्तुं दत्तस्य।
  • ‘ननु भणामि तस्मिन् साधनीये कृत उपक्षेपः’ (माल० ३)। उपक्षेपः प्रारम्भः। प्रस्तावः स्यादुपक्षेप इति वैजयन्ती।
  • ‘कर्णनासाच्छेदोपक्षेपभीषिताभ्याम्’ (दशकु०)। उपक्षेपः प्रस्तावः कीर्तनम्।
  • ‘नाट्यार्थोपक्षेपः पूर्वं प्रस्तावनाऽऽमुखं च स्यात्’ (१।६।३९ अमरोद्घाटने स्वामी)। उपक्षेपः संक्षेपेण कथनम्।

ख्या

  • {उपख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ आदेशो वा)।
  • ‘तस्मादपि सुतमिस्रायामुपैव किंचित् ख्यायते’ (श० ब्रा० ४।१।२।१३)। उपाख्यायते उपदृश्यते प्रज्ञायते।

गम्

  • {उपगम्}
  • गम् (गम्लृ गतौ)।
  • ‘उताशितमुप गच्छन्ति मृत्यवः’ (ऋ० १०।११७।१)। उपगच्छन्ति प्राप्नुवन्ति। आशितस्तृप्तः।
  • ‘उप वायवः शरणं गमेयम्’ (ऋ० १।१५८।३)।
  • ‘अग्नेः प्रियं धामोपजगाम’ (श० ब्रा० २।२।३।४)
  • ‘आशिष उपगच्छति’ (श० ब्रा० ४।५।७।९)। उक्तोऽर्थः।
  • ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ (ब्रह्म सू० ४।१।३)। उपगच्छन्ति अभ्युपगच्छन्ति।
  • ‘सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति’ (मनु० ३।३४)।
  • ‘नोपगच्छेत्प्रमत्तोपि स्त्रियः मार्तवदर्शने’ (मनु० ४।४०)। उपगच्छति गच्छति मैथुनाय प्रवर्तते।
  • ‘यं सनातनपितरमुपागमत् स्वयम्’ ( )। उपागमत् पर्यग्रहीत्, अवृत।
  • ‘सह पत्न्या विशालाक्ष्या नारायणमुपागमत्’ (रा० २।६।१)। उपागमत् उपासिष्ट।
  • ‘ग्रहास्तमुपगच्छन्ति सारमेया इवामिषम्’ (भा० स्त्री० ४।६)। उपगच्छन्ति वेगेनोपयान्ति।
  • ‘यन्मामधर्मेणोपगच्छत’ (भा० कर्ण० ४५।१२)। मय्यन्याय्यमाचरतेत्याह।
  • ‘प्रतिकूलतामुपगते हि विधौ विफलत्वमेति बहुसाधनता’ (शिशु० ९।१६)। उपगते गते प्राप्ते।
  • ‘पादन्यासो लयमुपगतः’ (माल० २।८)। उपगतोऽनुसृतवान्।
  • ‘स वै सर्वमवाप्नोति वेदान्तोपगतं फलम्’ (मनु० २।१६०)। वेदान्तोपगतं वेदान्तेष्वभ्युपगतम्।
  • ‘दृष्टान्तोपगत’ (भा० अनु० ४९।१७)। उपगतं प्रतिज्ञातम्।
  • ‘हेम्नैवोपगतं मणिम्’ (भा० शां० ४५।१४)। उपगतं प्रत्युप्तम्।
  • ‘गृहीत्वोपगतं दद्यादृणिकायोदयं धनी’ (ना० मनु० १।९८)। मयाऽधिगतमिति विन्यस्ताक्षरं पत्रं दद्यादित्यर्थः।
  • ‘धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम्’ (याज्ञ० २।९३)। उपगतं प्रवेशपत्रमिति मिताक्षरा।
  • ‘अलङ्कारत्रयं सत्यवता यदनुप्रेषितं तदुपगतम्’ (मुद्रा० ६)। उपगतमधिगतम्।
  • ‘मयापि लेखस्याशून्यार्थं किञ्चिदनु प्रेषितं तदुपगमनीयम्’ (मुद्रा० ६)। उपगमनीयमुपगतं प्राप्तमिति निवेद्यम्।
  • ‘सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्’ (मेघ० ६७)। उपगम आगमः।
  • ‘व्यावर्ततान्योपगमात् कुमारी’ (रघु० ६।६० भा०)। उपगमः समीपगमनम्।
  • ‘अप्राप्तस्य हि प्रापणमुपगमनम्’ (मी० १२।१।२१ शा० भा०)। उपगमनं कल्पना।

गाह्

  • {उपगाह्}
  • गाह् (गाहू विलोडने)।
  • ‘सारथैर्बहुशश्चास्य पृतनामुपगाहतः’ (रा० ६।३१।३९)। उपगाहतः=अन्तः प्रविशतः।

गुप्

  • {उपगुप्}
  • गुप् (गुपू रक्षणे)।
  • ‘गम्भीरवेधा उपगुप्तवित्तः’ (पृथुः) (भा० पु० ४।१६।१०)। उपगुप्तवित्तः सम्यक् प्रच्छन्नधनः।

गुह्

  • {उपगुह्}
  • गुह् (गुहू संवरणे)।
  • ‘यजमानस्य पशुन्पाही त्यग्निष्ठेऽतस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा’ (आप० श्रौ० १।१।२।१०)। उपगूहति अप्रकाशां करोतीति धूर्तस्वामी।
  • ‘औदुम्बरीं शाखामुपगूहति’ (श० ब्रा० ५।४।३।२५)। उपगूहति तिरस्करोति संवृणोति प्रच्छादयति गोपायति।
  • ‘सोपागूहद् भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ’ (भा० अनु० १९।७९)। उपागूहत् आश्लिष्यत्, उपाश्लिष्यत्, आलिङ्गत्, पर्यरभत।
  • ‘तरङ्गहस्तैरुपगूहतीव’ (रघु० १३।६३)।
  • ‘अपूजयन्कुलज्येष्ठान् उपागूहन्त बालकान्’ (भट्टि० १७।२)। उक्तोऽर्थः।
  • ‘साऽयोध्यामुपगूहते’ (रा० १।२४।९)। आवृत्य प्रवहतीत्यर्थः
  • ‘पुण्याश्च नद्यः सलिलोपगूढाः’ (हरि० ३।३५।५०)। सलिलेन च्छन्नाः सलिलस्य पूर्णा इत्यर्थः।
  • ‘पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः। पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्’ (भा० द्रोण० १४८।४८-४९)॥ उपगुह्य=आलिङ्ग्य।
  • ‘उपगूहनशेषो वा पूर्वः’ ( का० श्रौ० ६।१०।६)। संवरणमन्त्रस्यायं शेष इत्यर्थः।

गॄ

  • {उपगॄ}
  • गॄ (गॄ शब्दे)।
  • ‘उप ये त्वा गृणन्ति वह्नयः’ (ऋ० १।४८।११)। उपगृणन्ति स्तुवन्त आकारयन्ति उपह्वयन्ते। वह्नयो यज्ञनिर्वाहकाः।
  • ‘दयानुवृत्त्या च नाम ते कृत्यपक्षम् …उपगृणीते’ (अवदा० जा० २३)। उपगृणीत उपदिशति।

गॄ

  • {उपगॄ}
  • गॄ (गॄ निगरणे)।
  • ‘स्नेहनस्यं न चोपगिलेत्’ (सुश्रुत० २।२३७।८)। उपगिलेत् निगिलेत्।

गै

  • {उपगै}
  • गै (कै गै शब्दे)।
  • ‘उपगायन्ति बीभत्सुं नृत्यन्त्यप्सरसां गणाः’ (भा० आदि० १२३।५३)। उपगायन्ति समीपे पुरो वा गायन्ति।
  • ‘उपास्मै गायता नरः’ (ऋ० ९।११।१)।
  • ‘गणास्त्वोप गायन्तु मारुताः’ (अथर्व० ४।१५।४)। त्वां (पर्जन्यम्) उपश्लोकयन्त्वित्याह।
  • ‘तान् हैतदुपजगौ’ (श० ब्रा० ११।५।५।८)। इह प्रजापतिः कर्ता। धातुः त्रियासामान्ये संशब्दने व्याहरणे वर्तते।
  • ‘अति रेचयेद् यदन्य उपगायेद् यदन्य उपशृणुयात् तस्मात्स्वयम्प्रस्तुतमनुपगीतम्’ (श० ब्रा० ४।६।९।१७)। उपगायेत्=गायेत्।
  • ‘उपगीयमाना भ्रमरै राजन्ते वनराजयः’ (भा० वन० ११६०६)। उपगीयमाना गानशब्देन पूर्णाः।
  • ‘उपगीयमानो गन्धर्वैर्बुभुजे विषयान् प्रियान्’ (वि० पु० १।१७।६)। उपगीयमान उपश्लोक्यमानः, स्तूयमानः।
  • ‘उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः’ (भा० उ० १२३।४)। उपगीतः समीपे कृतगानः।
  • ‘उपगानं कृत्वा’ (माल० २।)। प्रारम्भिकं गानमुपगानम्।
  • ‘उपगादर्शनाच्च’ (का० श्रौ० ६।७।३)। उद्गातरि गायति सति तमनुसृत्य ये गायन्ति त उपगाः।

ग्रह्

  • {उपग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अथोपयमन्योपगृह्णाति’ (श० ब्रा० १४।२।१।१७)। उपगृह्णाति आदत्ते।
  • ‘स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा’ (भा० आदि० ५६२२), तन्त्रा० २।२९, पञ्चत० १।४१५ चाणक्य सू० १९)। उपगृह्णाति धत्ते।
  • ‘अथास्या उदपात्रमूधसि च मुखे चोपगृह्णीयात्’ (ऐ० ब्रा० ५।२७)। उपगृह्णीयात् समीपे गृह्णीयात्।
  • ‘तस्याञ्जलिना ब्रह्महत्यामुपागृह्णात्’ (तै० सं० २।५।१।२)।
  • ‘तस्यै रसः परापतत् तं बृहस्पतिरुपागृह्णात्’ (तै० सं० २।१।७।६)। निर्गमनकाल एव ग्रहणमुपग्रहणमिति भट्टभास्करः।
  • ‘कृतोपसंग्रहणौ तौ सावित्री…आतिथ्येन यथाक्रममुपजग्राह’ (हर्ष०)। उपजग्राह प्रतिजग्राह, सच्चकार।
  • ‘यथासम्भाषितं च कृत्यपक्षमुपग्राहयेत्’ (कौ० अ० १३।५।५)। धनादिदानेन प्रीणयेदित्यर्थः।
  • ‘…अरविन्दनाभम्। धियोपगृह्णन्’ (भा० पु० ३।२२।२१)। मनसा ध्यायन्नित्यर्थः।
  • ‘तदुपगृहीतेन म्लेच्छराजबलेन’ (मुद्रा० १)। उपगृहीतेन उद्वलितेन अवष्टब्धेन समर्थितेन।
  • ‘अमर्षोपगृहीतानां मन्युसन्तप्तचेतसाम्’ (का० नी० सा० १०।१) अमर्षेण वशीकृतानामित्यर्थः। विग्रहो भवतीति शेषः।
  • ‘दक्षिणेन वा सव्योपगृहीतेन’ (पाणिना) (आश्व० गृ० ४।७।१०)। उपगृहीतोऽधस्तान्निहितेन हस्तेन कृतालम्बः।
  • ‘तवैव पादानुपगृह्यं संमता’ (रा० २।२७।२२)। उपगृह्य उपसङ्गृह्य गृहीत्वा।
  • ‘उपगृह्य तु वैराणि सान्त्वयन्ति नराधिप’ (भा० शां० १३९।७३)। उपगृह्य अवसाय्य, अन्तं नीत्वा।
  • ‘उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत’ (रा० २।६६।२)। उपगृह्य अङ्के कृत्वा।
  • ‘मणिवरमुपगृह्य’ (रा० ५।३६।७७)। उपगृह्य वशे कृत्वा, अधिकृत्य, स्वीकृत्य।
  • ‘तेजो वा अद्भ्यो भूयस्तद्वा एतद् वायुमुपगृह्याकाशमभितपति’ (छां० उ० ७।११।१)। उपगृह्य सहायमादाय।
  • ‘अथ व्रजत्सु दिवसेष्वेकदा भैरवाचार्यो राजानमुपह्वरे सोपग्रहमवादीत्’ (हर्ष० तृ० उ०)। सोपग्रहं साभ्यर्थनमिति शङ्करमिश्रकृतः सङ्केतः।
  • ‘अमित्रोपग्रहं चास्य ते कुर्युः क्षिप्रमापदि’ (भा० शां० ९६।१४)।** उपग्रह आनुकूल्यमुपकारः साहायकम्।**
  • ‘वशंगतो रिपुर्यश्च विचलेद् दुरुपग्रहः’ (का० नी० सा० ८।६८)। दुरुपग्रहः कथमप्यात्मसात्कर्तुं न शक्यः। वंशागत इति पाठान्तरम्।
  • ‘क्रियते प्राणरक्षार्थं सर्वदानमुपग्रहः’ (का० नी० सा० ९।१७) इति सन्धिविशेषस्योपग्रहाख्यस्य लक्षणोक्तिः। सर्वथा शत्रुपग्रहहेतुत्वादुपग्रह इति तदाख्योपपत्तिः। कौटल्यस्तु–योऽहं स भवान्, मम यद् द्रव्यं तद्भवत इत्युपग्रहः सान्त्वमितीत्थं तत्स्वरूपमाह’ (कौ० अ० २।२८।१०)।
  • ‘सुप्तिङुपग्रहलिङ्गनराणाम्’ (पा० ३।१।८५ सू० भा०)। अत्र न्यासः-लादेशव्यङ्ग्यक्रियाविशेषो मुख्य उपग्रहः। इह तद् व्यक्तिनिमित्तत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्तते।
  • ‘चूर्णादीन्यप्राणिषष्ठ्याः’ (पा० ६।२।१३४)। अत्र चूर्णादीन्यप्राण्युपग्रहादिति पाठान्तरम्। उभयथा ह्याचार्य्येण शिष्याः सूत्रं प्रतिपादिताः। उपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्य्योपचारेण गृह्यत इति काशिका। पूर्वाचार्य्या हि षष्ठ्यन्तमुपग्रह इत्येवमुपचरन्ति स्मेति न्यासः। प्रग्रहोपग्रहौ वन्द्याम् इत्यमरः।
  • ‘उच्चावचान् उपग्राहान् राजभिः प्रापितान् बहून्’ (भा० सभा० ५२।४०)। उपग्राह उपहारः।
  • ‘उपग्राह्यमुपदा भवति। तदत्र वस्तुनि नोपालम्भनीयो राक्षसः। आ नन्दराज्यलाभादुपग्राह्यश्च’ (मुद्रा० ५)। उपग्राह्यः सङ्ग्राह्य आत्मीयः करणीयः।
  • ‘एकद्रव्ये साज्ये वेदेनोपग्रहणम्’ (का० श्रौ० १।१०।६)। उपग्रहणं ग्रहणम्। वेदो दर्भमुष्टिः।
  • ‘वेदोपग्रहणार्थाय तावग्राहयत् प्रभुः। काव्यं रामायणम्…’ (रा० १।४।४)॥ वेदोपग्रहणं वेदार्थावबोधनम्। वेदोपबृंहणार्थायेति पाठान्तरम्।
  • ‘स राजा जनप्रकाशेनाडम्बरेण प्रत्ययितानमात्यान् पापजनोपग्रहणार्थं जनपदं नगराणि च प्रेषयामास’ (अवदा० जा० १०)। उपग्रहणम् बन्धनम्।
  • ‘प्रियोपग्रहैश्च तामुपगृह्णीयात्’ (का० सू० ५।२।२६)। उपगृह्णीयाद्वशे कुर्यात्।

घ्रा

  • {उपघ्रा}
  • घ्रा (घ्रा गन्धोपादने)।
  • ‘ययातिरुपजिघ्रन् (धूम) वै निपपात महीं प्रति’ (भा० उ० १२१।१२)।
  • ‘आमोदमुपजिघ्रन्तौ’ (रघु० १।४३)। उपेत्य घ्राणमुपघ्राणम्।

चर्

  • {उपचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘उपाचरद् घोरतपो जितात्मा’ (भा० आश्रम० १९।१८)। उपाचरद् आचरत्। अचरत्। उपेन नार्थः।
  • ‘सर्वोपि महार्हैस्तमुपचारैरुपाचरत्’ (कथा० ६१।२२५)। उपाचरत् असेवत।
  • ‘सममुपचर भद्रे सुप्रियं चाप्रियं च’ (मृच्छ० १।१३१)। उपचर भजस्व सेवस्व।
  • ‘गिरिशमुपचचार प्रत्यहं सा सुकेशी’ (कु० १।६०)। उपचचार सिषेवे, वरिवसामास।
  • ‘अभ्युत्थानादिभिरुपचारैरुपाचरन्’ (शि० पु० ६।१।२९)। उपाचरन् सदकुर्वन्, समभावयन्।
  • ‘स्थान इयमपि देवीशब्देनोपचर्यते’ (विक्रम० ३)। उपचर्यते सत्क्रियते भूष्यते।
  • ‘गात्राणि कुङ्कुमालेपैरुपाचर्यन्त च स्वयम्’ (राज० ८।१८९७)। स्वादु सुगन्धि सलिलममृतमुपचरन्ति लोकाः। अमृतशब्देन व्यपदिशन्ति, अमृतशब्दं तत्रार्थे व्यवहरन्ति भाक्तम्।
  • ‘ईदृशे हि लौकिकास्तोभशब्दमुपचरन्ति’ (मी० ९।२।३९ सूत्रे शा० भा०)। उपचरन्ति व्यवहरन्ति, प्रयुञ्जते। उदाहरति च शबरः–देवदत्तेन सभायां परं प्रलपता बहुस्तोभं कथितम् इति।
  • ‘क्रियां हि लोके कर्मेत्युपचरन्ति’ (पा० १।३।१४ सूत्रे भाष्ये)। उपचरन्ति व्यपदिशन्ति।
  • ‘सूपचरणाह तेऽसावस्तु यामधस्तादुपचरसि’ (श० ब्रा० १।९।१।८)। अधस्तादुपचरसि नीचैः स्पृशसि।
  • ‘निकृत्योपचरन्वध्य एष धर्मः सनातनः’ (भा० वन० ११।७)। निकृत्योपचरन् छलेन वर्तमानः, छद्मनाऽऽचरन्।
  • ‘नूनं मित्राणि ते रक्षः साधूपचरितान्यपि’ (भा० अनु० १२४।१०)। साधूपचरितानि सम्यक् सेवितानि।
  • ‘यस्मान्मिथ्योपचरितं ह्यस्त्रलोभादिह त्वया’ (भा० शां० ३।३०)। मयि मिथ्या व्यवहृतं त्वयेत्याह।
  • ‘मिथ्योपचरितास्तात जन्मप्रभृति बान्धवाः’ (भा० उ० १२४।३२)। मिथ्योपचरिताः प्रतारिताः।
  • ‘मिथ्योपचर्य ते तं तु’ (हरि० १।२१।१५)। वञ्चयित्वेत्यर्थः। अनृजु व्यवहृत्येति त्वक्षरार्थः।
  • ‘विविक्तशिशिरोपचारान्नान्यच्छरणम् अस्ति’ (विक्रम०)। उपचारः प्रयोगः।
  • ‘तेन वाक्योपचारेण विस्मिता राजसत्तमाः’ (भा० उ० १६२।४५)। वाक्योपचारो वाक्यप्रयोगः।
  • ‘एष उ तत्र दीक्षितस्योपचारः’ (श० ब्रा० ३।१।१।१०)। उपचार आचार आचरणं वृत्तं वृत्तिः, व्यवहारः।
  • ‘नानृतं वदेत्तावत्सत्यमेवोपचारः’ (श० ब्रा० २।२।२।२०)। उक्तोऽर्थः।
  • ‘हृदयविहित वैरा गूढमन्त्रोपचाराः’ (पञ्चत० )।
  • ‘हितोपचारमूलं जीवितमतो विपर्यासान्मृत्युः’ (चरक० विमान० ३।३८)। हितोपचारः पथ्यसेवनम्।
  • ‘अधः शयीताधस्तादिव हि श्रेयस उपचारः’ (श० ब्रा० १०।१।१।११)। उपचारः सेवाऽऽदरो वा।
  • ‘उपचाराभिचाराभ्यां धर्ममावाहयस्व वै’ (भा० आदि० १२२।४३)। उपचारः समादरः।
  • ‘मिथ्योपचारैश्च वशीकृतानाम्’ (हितोप० १।७५)। उपचारो दाक्षिण्यमभ्युत्थानादिः सत्कारश्च।
  • ‘व्रतचर्योपचारं च’ (मनु० १।१११)। उपचारो गुर्वादीनामभिवादनोपासनादि।
  • ‘अवैरकृत्सूपचारः समो निन्दाप्रशंसयोः’ (भा० शां० २२०।१२)। सूपचारः शाठ्यवर्जितादरः।
  • ‘अलमुपचारयन्त्रणया’ (माल० ४। )। उपचारोऽभ्युत्थानादिलक्षणः समुदाचारः।
  • ‘न ते गात्राण्युपचारमर्हन्ति’ (शा० ३।१७)। उक्तोऽर्थः।
  • ‘पुरस्तादुपचारस्तस्य यत्प्रतिषेधति’ (नि० १।४।९)।
  • ‘उपरिष्टादुपचारस्तस्य येनोपमिमीते’ (नि० १।४।९)। उपचारः प्रयोग इति स्कन्दस्वामी। प्रयोग उच्चारणं वा विन्यासो वा।
  • ‘उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः’ (कु० ४।९)। परस्य रञ्जनार्थं यदसत्यभाषणं स उपचार इति मल्लिः। प्रसादनाराधनोपचाराश्चेति हलायुधः।
  • ‘रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य’ (उत्तर० १)। उपचार आलाप आभाषणं सम्बोधनम्।
  • ‘अचेतनेष्वपि चेतनवदुपचारा दृश्यन्ते’ (पा० ४।३।८६ सूत्रे भाष्ये)। उपचारो गुणक्रियादिकथनम्।
  • ‘भारतप्रसिद्धे ऽनन्तरापत्येऽश्वत्थाम्नि द्रौणायन इति प्रयोगस्तूपचारात्’ (पा० ४।१।१०३ सूत्रे वृत्तिः)। उपचारो लक्षणा, गौणी वृत्तिः।
  • ‘इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारा’ (कु० ७।८६)। उपचारो विधिः, संस्कारः।
  • ‘एष इष्टेरुपचारः’ (श० ब्रा० १।३।५।१०)। उपचारो विधिः, प्रचरणविधा।
  • ‘यो वाव कर्म करोति स एव तस्योपचारं वेद’ (श० ब्रा० ६।५।५।१७)। उक्तोऽर्थः।
  • ‘प्रकीर्णाभिनवोपचारं’ (राजमार्गम्) (रघु० ७।४)। उपचारः पुष्पप्रकरादिः।
  • ‘स ददर्शाथ मञ्चेषु… उपचारवत्सु’ (रघु० ६।१)। उपचारो राजोपकरणम् इति मल्लिः।
  • ‘उत्तरतउपचारो वै यज्ञः’ (श० ब्रा० ३।४।३।१९)।
  • ‘उत्तरत उपचारो विहारः’ (बौ० ध० १।७।१।१)। उपचारः संचारः।
  • ‘समन्त्रं सोपचारं च समोक्षविनिवर्तनम्’ (अस्त्रं प्रतिजग्राह) (भा० वन०)। सोपचारं सेतिकर्तव्यताकमिति नीलकण्ठः। एवं व्याख्यानेप्यर्थस्तु न स्फुटति। मोक्षविनिवर्तनयोः प्रयोगप्रतिसंहारयोरुक्तयोः सतोः किं स्विदन्यदवशिष्यते यदितिकर्तव्यतेत्युच्येत।
  • ‘विसर्जनीयस्थानिकस्य सकारस्थोपचार इत्येषा संज्ञा पूर्वाचार्यकृता’ (पा० १।४।६७ सूत्रे न्यासे)।
  • ‘सहचरणादिनिमित्तेनातद्भावे तद्वदभिधानमुपचारः’ (१।२।१४ सूत्रे न्यायभाष्ये)।
  • ‘उपचारस्तत्त्वचिन्तायामनुपयोगीति प्रेक्षवतामनुपादेयः’ (स्याद्वाद० १५ हेम०)। उपचार आरोपः।
  • ‘अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्’ (कठोप० १।१।१४)। अनन्तलोकाप्तिसाधनमिति यावत्। कारणे कार्योपचारः। आयुर्वे घृतमित्यत्र यथा। उपचार आरोपः।
  • ‘अस्ति त्रयोदशो मास उपचारः’ (शां० ब्रा० ७।१०)। उपचार आवापिकः।
  • ‘उपचर्यः स्त्रिया साध्व्या सततं देववत् पतिः।’ (मनु० ५।१५४)। उपचर्य उपचार्यः सेव्यः।
  • ‘अग्निवच्चोपचर्या वै ब्राह्मणाः’ (भा० अनु० ८।२३)। उपचर्याः पूज्याः।
  • ‘त्वग्भेदी व्रणः सूपचरः’ (सुश्रुत० १।८३।१२)। सूपचरः सुलभचिकित्सः।
  • ‘पिता पुत्राय सूपचरः’ (श० ब्रा० २।३।४।३०)। सूपायनशब्दव्याख्यायामिदमुक्तम्। सूपचरः सुखेन गम्यः।
  • ‘उष्णोदकोपचारी स्यात्’ (अष्टाङ्ग० सूत्र० १६।२६)। उष्णजलस्योपयोक्तेत्यर्थः।
  • ‘अवन्नवन्तीरुप नो दुरश्चर’ (ऋ० ७।४६।२)। उपचर अन्तिक एहि।

चाय्

  • {उपचाय्}
  • चाय् (चायृ पूजानिशामनयोः)।
  • ‘इष्टाँल्लोकानवाप्स्यामो गुरुवृद्धोपचायिनः’ (भा० शां० १८।३९)। गुरुवृद्धोपसेविन इत्यर्थः।

चि

  • {उपचि}
  • चि (चिञ् चयने)।
  • ‘यानि धर्मे कपालान्युपचिन्वन्ति वेधसः’ (तै० सं० १।५।१०।३)। उपचिन्वन्ति उपदधति, उपस्थापयन्ति।
  • ‘तद्व्यसनसक्तस्य वैचित्यमुपचीयते’ (शि० भा० १६।३४)। उपचीयते वर्धते प्रकृष्यते। निदिग्धोपचिते इति पर्यायौ पठत्यमरः। भवेदुपचितं दिग्धे समृद्धे वाच्यलिङ्गवदिति च मेदिनी।
  • ‘स्थैर्यमाधुर्यधैर्याद्यैर्गुणैरुपचितो हितः’ (स्कन्दपु० का० ४।१२।६३)। उपचितः समृद्धः, व्याप्त इत्यर्थः।
  • ‘अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः’ (मनु० ६।४१)। उपचितो युक्तः।
  • ‘नास्ति क्षितिर्नोपचितिः कदापि पयोदवृत्तेः खलु चातकस्य।’ उपचितिर्वृद्धिः।
  • ‘यच्च नः प्रेक्षमाणानां सर्वधर्मोपचायिनाम्’ (भा० उ० १३७।१६)। धर्मोपचायिनां धर्मवर्धनशीलानाम्।

चिन्त्

  • {उपचिन्त्}
  • चिन्त् (चिति स्मृत्याम्)।
  • ‘तत्तथैवास्तु भद्रं ने स्वार्थमेवोपचिन्तय’ (भा० उ० ९६।५२)। उपचिन्तय चिन्तय। उपेन नार्थः।

जन्

  • {उपजन्}
  • जन् (जनी प्रादुर्भावे )।
  • ‘इहैव सा शुनी गृध्री सूकरी चोपजायते’ (याज्ञ० ३।२५६)। उपजायते पुनर्जायते।
  • ‘यः शब्द उपजायते तस्यासावर्थो योऽर्थ उपजायते’ (पा० १।२।४५ सूत्रे भाष्ये)। उपजायतेऽधिको जायते।
  • ‘यस्य चागमे यदुपजायते स तस्यार्थ इति गम्यते’ (मी० ४।१।१५ शा० भा०)। उक्तोऽर्थः।
  • ‘पञ्चमे पञ्चमे वर्षे द्वौ मासावुपजायतः’ (भा० वि० ५२।३)। उपजायत उपजायेते।
  • ‘वेद मासो धृतव्रतो द्वादश प्रजावतः। वेदा य उपजायते’ (ऋ० १।२५।८)। उपजायतेऽधिको जायते।
  • ‘नोपजनं स्मरन् इदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्शरीरे प्राणो युक्तः’ (छां० उ० ८।१२।३)। उपजनं सहजातमनुषक्तं स्वेन। स्मरन्नित्यस्य प्राणः कर्ता।
  • ‘अथोपजनाश्रयं कर्मवैगुण्यं मिथ्यासम्प्रयोगः’ (न्याय० २।१।५८)। उपजन उत्पत्तिः।
  • ‘गुरुरेवैनमनुशास्ति आतदुच्चारणसामर्थ्योपजनम्’ (न्यायमं०)। उक्तोऽर्थः।
  • ‘कृत्वाय सा महीमुखां मृन्मयीं योनिमग्नये’ (वा० सं० ११।५९)। कृत्वाय क्त्वो यक। छान्दस उपजनः (उवटः)। उपजन आगमः। यदर्थो निर्जयतिस्तदर्थ एव विनिर्जयतिः। शब्दोपजनो नार्थोपजनः। उपजन उपचयो वृद्धिः। आधिक्यम्।
  • ‘पितामहाः पितरः प्रजोपजा’ (अथर्व० ११।१।९)। प्रजा पुत्रदुहित्रादिरूपा, उपजा तत्पुत्रादिरूपा (सायणः)।
  • ‘विक्रये पण्यानामर्घवृद्धिरुपजा’ (कौ० अ० २।२४।६)।
  • ‘व्रीहियवयोर्वा एतदुपजं यच्छमी धान्यम्’ (श० ब्रा० १।१।१।१०)।

जप्

  • {उपजप्}
  • जप् (जप जल्प व्यक्तायां वाचि जप मानसे च)।
  • ‘क्षेत्रस्थेषु च सस्येषु शत्रोरुपजपेन्नरान्’ (भा० शां० ६९।३८)। उपजपेद् भेदयेत्।
  • ‘उपजप्यानुपजपेत्’ (मनु० ७।१९७ )। उक्तोऽर्थः।
  • ‘तेषु तेषु चाकृत्येषु प्रासरन् परोपजापाः’ (दशकु०)। उपजापः स्वपक्षं प्रति प्रच्छन्नं प्रेरणम्।

जल्प्

  • {उपजल्प्}
  • जल्प् (जल्प व्यक्तायां वाचि)।
  • ‘अन्योन्यमुपजल्पन्तः शनैश्चुर्मिथः कथाः’ (रा० २।११६।३)। उपजल्पन्त उपेत्य जल्पन्तः।
  • ‘अनाहूतोपसृष्टानामनाहूतोपजल्पिनाम्। ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे’ (भा० आदि० १३६।१८)।

जीव्

  • {उपजीव्}
  • जीव् (जीव प्राणधारणे)।
  • ‘इतः प्रदानमुत देवा उपजीवन्ति, अमुतः प्रदानं मनुष्या उपजीवन्ति’ (तै० सं० ३।२।९।७)। उपजीवन्ति आश्रित्य जीवन्ति, संश्रयन्ते।
  • ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृह० उ० ४।३।३२)। उक्तोऽर्थः।
  • ‘सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते। राम तेन तु दुर्जीवं यः परानुपजीवति’ (रा० २।१०५।७)॥ उपजीवति उपाश्रित्य जीवति।
  • ‘इदं कविवरैः सर्वैराख्यानमुपजीव्यते’ (भा० आदि० २।८९)। उपजीव्यते आश्रीयते।
  • ‘मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः’ (हरि० १।३।४८)। उक्तोऽर्थः।
  • ‘उपजीवा स्थोपजीव्यासं सर्वमायुर्जीव्यासम्’ (अथर्व० १९।६९।२)। उपशब्दोऽधिकवचनः। उपजीवा अधिकजीवनवन्तः।
  • ‘स निर्भाज्यः स्वकादंशात् किंञ्चिद् दत्त्वोपजीवनम्।’ (मनु० ९।२०७)। उपजीवनं लोकयात्रार्थं धनम्।

जुष्

  • {उपजुष्}
  • जुष् (जुषी प्रीतिसेवनयोः)।
  • ‘उपेमं यज्ञं पितरो मे जुषन्ताम्’ (अथर्व० १८।४।४०)। उपजुषन्तामुपेत्य सेवन्ताम्।
  • ‘इत्याचारादसि यदि मया प्रश्रयेणोपजुष्टः’ (महावीर० ३।२६)। उपजुष्टः सेवितः।

ज्ञा

  • {उपज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘पिशाचास्तस्मान्नश्यन्ति न पापमुपजानते’ (अथर्व० ४।३६।८)। उपजानते जानते। शब्दोपजनो नार्थोपजनः।
  • ‘किम्वेतावन्मात्रमुपजानीत यथेदमितो ऽन्यथा ऽसत्’ (श० ब्रा० १।६।१।४)। उपजानीत उपायं चिन्तयेत्।
  • ‘ताः प्रजाः प्रजापतिं पितरमेत्योपाधावन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा… वरुणपाशेभ्यः… सम्प्रमुच्येमहि’ (शां० ब्रा० ५।३)। उपजानीहि नूतनमुपायमुपलभस्व।
  • ‘ते ह्यादित्या ऊचुः। उपजानीत यथाऽस्मानेवाङ्गिरसो यजान्’ (श० ब्रा० ३।५।१।१४)।
  • ‘उपतज्जानीत यथेयमस्मास्वेव राद्धिरसदिति’ (श० ब्रा० ८।६।३।२)। उदितचर एवार्थः।
  • ‘उपज्ञाते’ (पा० ४।३।११५)। विनोपदेशेन ज्ञातमुपज्ञातमिति वृत्तिः। उपज्ञा ज्ञानमाद्यं स्यात् (अमरः)।
  • ‘अथास्य सांवत्सरिकस्य चौलं कुर्वन्ति यथर्षि यथोपज्ञं वा’ (भा० गृ० १।२८)। यथोपज्ञम्–यथा स्वकुले पितृपितामहप्रपितामहानामाचार इति भाष्यम्।
  • ‘यज्ञ इति किमुपज्ञः। यज्ञः श्रद्धोपज्ञः’ (बौधायनीये कर्मान्तसूत्रे १।२)। श्रद्धोपज्ञः श्रद्धोपक्रम इति तत्रस्थं भाष्यम्।
  • ‘तां बुद्धिमुपजिज्ञासुस्तम्’ (भा० शां० १०४।३७)। उपजिज्ञासुरुपलिप्सुः।
  • ‘तेऽसुरा आत्तवचसः… तत्रैतामपि बाचमूदुरुपजिज्ञास्याम्। स म्लेच्छः’ (श० ब्रा० ३।२।१।२३-२४)। उपजिज्ञास्यां दुरवगमाम् अर्थहीनाम्।

तप्

  • {उपतप्}
  • तप् (तप सन्तापे)।
  • ‘आहिताग्निश्चेदुपतपेत्’ (आश्व० गृ० ४।१।१)। उपतपेत्=उपतप्येत, उपतप्तो रुग्णः स्यात्, आमयश्चेत्तं विन्देत्।
  • ‘स किं मामेतदुपतपसि योऽहमनेन न प्रेष्यामि’ (छां० उ० ३।१६।७)। उपतपसि रुजसि सामयं करोषि, अकुशलिनं सम्पादयसि मान्द्यं मे जनयसि।
  • ‘तं चेदस्मिन्वयसि किं चिदुपतपेत्’ (छां० उ० ३।१६।२)।
  • ‘यदि दीक्षितस्योपतपेत्’ (श० ब्रा० १२।३।५।२)। यदि दीक्षितस्य सतो यजमानस्य शरीरावयवे रुजा स्यादित्याह।
  • ‘मानसेन हि दुःखेन शरीरमुपतप्यते। अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्’ (भा० वन० २।२५)॥ उपतप्यते रुज्यते, उष्णी भवति।
  • ‘उपतप्यामहे तपः’ (अथर्व० ७।६१।२)। उपतप्यामहे=तप्यामहे=अर्जयामः।
  • ‘उपतप्तोदका नद्यः पल्वलानि सरांसि च’ (रा० २।५९।५)। उपतप्तोदकाः शुष्कोदकाः।
  • ‘तानीषद् इवोपतप्य’ (श० ब्रा० २।५।२।१४)। तानतुषान् यवान् किंचित्सोष्मणः सम्पाद्य।
  • ‘बन्धोपतापैश्च भवेद् विशेषः’ (सुश्रुत० २।३७६।८)। उपतापस्तापनम्।
  • ‘विवक्षितं ह्यनुक्तमुपतापं जनयति’ (शा० ३)। उपताप आधिः, मानसी व्यथा।
  • ‘आप्ता ह्यवितर्कस्मृतिविभागविदो निष्प्रीत्युपतापदर्शिनश्च’ (चरक० विमान० ४।४)। उपतापो द्वेषः।
  • ‘उपतापी वसीयान्भूत्वा ऽन्नमिच्छति’ (श० ब्रा० ८।५।२।१)। उपतापी उपतापवान्, रुग्णः, आतुरः।
  • ‘गा लवणं पाययत्युपतापिनीः’ (कौ० सू० १९)। उक्तोऽर्थः।

तृद्

  • {उपतृद्}
  • तृद् (उतृदिर् हिंसानादरयोः)।
  • ‘ऊर्जे त्वेति तनिष्ठेऽन्तत एकशूलयोपतृणत्ति’ (आप० श्रौ० ७।६।१९।१) उपतृणत्ति भिनत्ति।

त्सर्

  • {उपत्सर्}
  • त्सर् (त्सर छद्मना गतौ)।
  • ‘एतेनोपांशुयाजेन पाप्मानं द्विषन्तं भ्रातृव्यमुपत्सर्य वज्रेण वषट्कारेण हन्ति’ (श० ब्रा० १।६।३।२८)। उपत्सर्य चौरवदुपेत्य।

दंश्

  • {उपदंश्}
  • दंश् (दंश दशने)।
  • ‘मूलकेनोपदंशं भुङ्क्ते’ (पा० उपदंशस्तृतीयायाम् ३।४।४७ सूत्रे वृत्तौ)। (मूलकेन) उपदश्य दशनैः खण्डयित्वा व्यञ्जनमिति कृत्वा। दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात् तृतीया।
  • ‘भुक्त्वाऽशनं विशालाक्षी सूपदंशान्वितं शुभम्’ (रा० २।६१।५)। उपदंशो व्यञ्जनम्।
  • ‘उपदंशार्थं मृगया’ (का० नी० सा० १५।५८ इत्यत्रोपाध्यायनिरपेक्षायाम्)। उपदंशार्थं दीपनार्थं जाठराग्नेः।
  • ‘ग्रन्थिवृद्ध्युपदंशानाम्’ (सुश्रुत० १।३।५)। उपदंशः शिश्नरोगविशेषः।
  • ‘हस्ताभिघातान्नखदन्तपातात्प्रधावनाद्रत्यतिसेवनाद्वा। योनिप्रदोषाच्च भवन्ति शिश्ने पञ्चोपदंशा विविधापचारैः’ (माधव० ४७।१)॥

दय्

  • {उपदय्}
  • दय् (दय दानगतिरक्षहिंसादानेषु)।
  • ‘नवेन पूर्वं दयमानाः स्याम’ (नि० ४।१७।२)। इत्युपदयाकर्मा। उपदया रक्षेति दुर्गः।

दस्

  • {उपदस्}
  • दस् (दसु उपक्षये)।
  • ‘तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति’ (ऋ० ८।४३।३३)। नोपदस्यति न क्षीयते। सहस्वः=बलवन् (सम्बुद्धौ)। दात्रं दानं रातिः।
  • ‘न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः’ (ऋ० १।१३५।८)। नोपदस्यन्ति रोगादिना क्षीणा न भवन्ति। नापदस्यन्ति चौराद्यपहारेण नृष्टा न भवन्ति।
  • ‘मा ते प्राण उपदसन्मो अपानोऽपि धायि ते’ (अथर्व० ५।३०।१४)। मोपदसत् क्षयं मा गमत्।
  • ‘कुर्वतो मे मोपदसत्’ (तै० सं० १।६।३।२)। उक्तोऽर्थः। सामर्थ्यं कर्तृ, श्रद्धा वा कर्त्री।
  • ‘स यदि राजोपदस्येत्’ (श० ब्रा० ४।२।२।५)। उपदस्येत् निःशेषमुपयुक्तः स्यात्। राजा सोमः।
  • ‘अनुपदासुकाऽस्य वाग्भवति’ (तै० सं० ६।१।८।५३)। अनुपदासुका ऽनुपक्षयशीला।

दह्

  • {उपदह्}
  • दह् (दह भस्मीकरणे)।
  • ‘स य उपदग्धेन हविषा यजते’ (श० ब्रा० ११।४।४।२)। उपदग्धेन ईषद् दग्धेन अवदग्धेन।
  • ‘अशान्तमुपदग्धं च यथा स्वादु न लक्ष्यते’ (सुश्रुत० सूत्र० ४६।४७८)।

दा

  • {उपदा}
  • दा (डुदाञ् दाने)।
  • ‘इन्द्रो यज्वने पृणते च शिक्षत्युपेद् ददाति न स्वं मुषायति’ (ऋ० ६।२८।२)। उपददाति दाशते प्रदिशति राति।
  • ‘पुरा त उपेन्द्रो वीर्यं ददौ’ (अथर्व० १९।३४।८)।
  • ‘उत्कृत्य मेषवृषणाविन्द्रायोपददुः’ (रा० गोरे० १।५०।९)।
  • ‘तस्य चोपददौ पुत्रान् सहस्रं क्रतुसंमितान्’ (भा० अनु० १४।८८)।
  • ‘तस्य ते शर्मन्नुपदद्यमाने राया मदेन तन्वा तना च’ (ऋ० ६।४९।१३)। उपदद्यमाने उपदीयमाने। दीयमाने। ते=तवेति तृतीयार्थे षष्ठी। तव=त्वया। उपायनमुपग्राह्यमुपहारस्तथोपदेत्यमरः।
  • ‘बलायोपदाम्’ (वा० सं० ३०।९)। उपदामुपदाया दातारम्।
  • ‘दुर्वासाः सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय’ (नारा० २७।१)। उपदाय उपदामुपहारं कृत्वा।
  • ‘तस्यैवं वितथे वंशे तदर्थं यजतः सुतम्। …भारद्वाजमुपाददुः’ (भा० पु० ९।२०।३५)॥ भारद्वाजनामानं सुतमुपदामकुर्वन्नित्यर्थः।

दिश्

  • {उपदिश्}
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
  • ‘अभिधानस्य चोदकेष्वेवञ्जातीयकेष्वभियुक्ता उपदिशन्ति मन्त्रानधीमहे मन्त्रानध्यापयामः मन्त्रा वर्तन्त इति’ ( मी० २।१।३२ शा० भा०)। उपदिशन्ति कथयन्ति।
  • ‘उपदेशं महाप्राज्ञ शमस्योपदिशस्व माम्’ (भा० शां० १७८।५)। उपदिशस्व=कथय ब्रूहि।
  • ‘पुरुषाणां तु पाण्डित्यं शास्त्रेणैवोपदिश्यते’ (मृच्छ०)। उपदिश्यते शिक्ष्यते शिष्यते।
  • ‘नाशिष्यायोपदिश्यते’ (पञ्चत० १।४३० )। उपदिश्यते शिक्षा ऽनुशासनं क्रियते।
  • ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते’ (मनु० १२।८९)। उपदिश्यते व्यपदिश्यते कीर्त्यते संज्ञायते समाख्यायते।
  • ‘न द्वितीयश्च साध्वीनां कचिद्भर्तोपदिश्यते’ (मनु० ५।१६२)। उपदिश्यते विधीयते शास्त्रेण।
  • ‘उपदिशति कामिनीनां यौवनमद एव ललितानि’ (सा० द० ) उपदिशति शिक्षयति।
  • ‘स किंमन्त्री यः प्रथमं भूमित्यागं युद्धोद्योगं वोपदिशति’ (हितोप० )।
  • ‘मूर्धानमुपदिशन्’ (श० ब्रा० १०।६।१।११)। उपदिशन् निर्दिशन्
  • ‘ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः’ (मनु० २।१९०)। उपदिष्टं विहितम्।
  • ‘व्रतं यथोपदिष्टं वै यथावत् पारितं त्वया’ (सावित्र्युप० ४।१६)। उक्तोऽर्थः।
  • ‘पृथूपदिष्टां दुदुहुर्धरित्रीम्’ (कु० १।२)। इयं सा गोरूपधरा पृथिवीत्येवं निर्दिष्टाम् इत्यर्थः। उपदिष्टामादिष्टामिति तात्पर्यमिति तु संस्कृतशार्मण्यकोषः।
  • ‘केनेदमुपदिष्टं ते मृत्युद्वारमपावृतम्’ (रा० ३।४३।४०)। उपदिष्टं वेदितं बोधितम्।
  • ‘उपदिष्टमिहेच्छामि तापस्यम्’ (भा० उ० १७५।४४)। उपदिष्टमनुशिष्टम्।
  • ‘पृषोदरादीनि यथोपदिष्टम्’ (पा० ६।३।१०९)। यथोपदिष्टं यथोच्चारितानि।
  • ‘अनर्थमिममर्थाभं केन त्वमुपदेशिता’ (रा० २।१२।५७)। उपदेशिता उपदिष्टा बोधिता। स्वार्थे णिच्।
  • ‘किं कुलेनोपदिष्टेन शीलमेवात्र कारणम्’ (मृच्छ० ८।२९)। उपदिष्टेन कीर्तितेन।
  • ‘विद्वानेवोपदेष्टव्यो नाविद्वांस्तु कदाचन। नरानुपदिश्याज्ञान् स्थानभ्रष्टाः खगा ययुः’ (हितोप० ३।५)। उपदेष्टव्यः शासितव्यः।
  • ‘अपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रदर्शनम्’ (माल० १)। उपदेशः शिक्षा।
  • ‘उपदेशे ऽजनुनासिक इत्’ (पा० १।३।२)। उपदेश आद्यमुच्चारणम् (आचार्यस्य)। धातुसूत्रगणोणादिनामलिङ्गानुशासनम्। आगमाः प्रत्ययादेशा उपदेशाः प्रकीर्तिताः॥
  • ‘शब्दानामितरेतरोपदेशः’ (नि० १।२ )।
  • ‘एष आदेशः। एष उपदेशः’ (तै० उ० १।११।४)।
  • ‘न स्थास्यन्त्युपदेशे च शिष्याः’ (भा० वन० १९०।७४)। शिष्याः शास्त्रविधिषु नास्थावन्तो भविष्यन्ति, तान् नानुविधास्यन्ति, नानुवर्त्स्यन्ति।
  • ‘उपदेशं महाप्राज्ञ शमस्योपदिशस्व माम्’ (भा० शा० १७८।५)। उपदेशं लक्षणम्।
  • ‘उपदेश इति विशिष्टस्य शब्दस्योच्चारणम्’ (मी० शा० भा० १।१।५)।

दिह्

  • {उपदिह्}
  • दिह् (दिह उपचये)।
  • ‘शिरोगलं कफोपदिग्धम्’ (सुश्रुत० २।३७६।११)। उपदिग्धं विलिप्तम्।
  • ‘लोहानां च मणीनां च मलपङ्कोपदिग्धता’ (का० नी० सा० ७।२४)।
  • ‘मध्वाभदन्ताः सुविभक्तदेहा न चोपदिग्धा न कृशाः क्षमाश्च’ (गजाः) (व० बृ० सं० ६७।१) उपदिग्धा मेदउपचयवन्त उपचिता मेदस्विनः, मेदुराः।
  • ‘पिल्लिकामुपदेहं च नचिरादेव नाशयेत्’ (का० सं० खिल० कुक्कुणचि० श्लो० ४०)।

दी

  • {उपदी}
  • दी (दीङ् क्षये)।
  • ‘उपदायो वर्तते’ (पा० ६।१।५० सूत्रे वृत्तिः)। उपदाय ईषत्क्षयः।

दीक्ष्

  • {उपदीक्ष्}
  • दीक्ष् (दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु)।
  • ‘नेदिष्ठमुपदीक्ष्य तेन सह यजेरन्’ (का० श्रौ० २५।१३।२७)। उपदीक्ष्य दीक्षयित्वा व्रतमादिश्य।

दुष्

  • {उपदुष्}
  • दुष् (दुष वैकृत्ये)।
  • ‘परामृष्टा अप्यसंरक्ता नोपदुष्यन्ति योषितः’ (हरि० ३।५।३९)। नोपदुष्यन्ति न पतन्ति न पतिता भवन्ति।

दुह्

  • {उपदुह्}
  • दुह् (दुह प्रपूरणे)।
  • ‘गावः कांस्योपदोहाश्च’ (हरि० ३।१३२।१३)।

दृश्

  • {उपदृश्}
  • दृश् (दृशिर् प्रेक्षणे)।
  • ‘उपोदर्शि शुन्ध्युवो न वक्षः’ (ऋ० १।१२४।४)। उपोदर्शि उप समीपे दृश्यते, व्यक्तं दृश्यत इत्यर्थः।
  • ‘न उपादृश्यत च्छन्न आसारेण यथा गिरिः’ (भा० पु० ४।१०।१३)। नोपादृश्यत दृष्टेर्विषयो नाभूत्, न प्राज्ञायत।
  • ‘उप स्तोमान्तुरस्य दर्शथः श्रिये’ (ऋ० ८।२६।४)। पश्यतिर्ज्ञानकर्मा। जानीतमित्यर्थः।
  • ‘अथ बाल्याद् वैष्णवोप्यासीच्छैवतामुपपदर्शयन्’ (राज० ५।४३)। उपदर्शयन् मिथ्या दर्शयन् आभासयन् अपदिशन्।
  • ‘तेषां च कुहकाभिज्ञो ज्ञानित्वमुपदर्शयन्’ (कथा० १९।७५)। उक्तोऽर्थः।
  • ‘चतुष्पाद् व्यवहारोऽयं विवादेषूपदर्शितः’ (याज्ञ० २।८)। उपदर्शितो वर्णितः।
  • ‘निरन्तरशरनिकरधारासम्पातोपदर्शितदुर्दिन–’ (प्र० च० )। उपदर्शितमाविर्भावितमाभासितम्।
  • ‘ततो राज्ञः पुरो मामुपदर्श्य’ (हितोप० )। उपदर्श्य निवेद्य।
  • ‘स य एवं विदुष उपद्रष्टा भवति’ (अथर्व० ११।३।५४)। उपद्रष्टा उप समीपे साक्षात्कर्ता। त्रिभिः साक्षाद् दृष्टं भवति।
  • ‘यश्च ददाति, यस्मै च दीयते यच्चोपद्रष्टा’ (साक्षाद् द्रष्टरि संज्ञायाम् इति सूत्रे भाष्ये)। उपद्रष्टा साक्षी।
  • ‘तस्य मेऽयमग्निरुपद्रष्टा’ (ऐ० ब्रा० ७।२४)। समीपे स्थित्वा साक्षित्वेनावलोकयितेत्यर्थः।
  • ‘उपद्रष्टाऽनुमन्ता च भर्ता भोक्ता महेश्वर’ (गीता० १३।२२)। उक्तोऽर्थः।
  • ‘स कर्मणामुपद्रष्टा भवति’ (आप० श्रौ० १०।१।१।१०)। साध्वसाधुनोः कर्मणोरनुसन्धातेत्यर्थः।
  • ‘न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने। पीड्यमान उपद्रष्टुं शक्तेनात्मा कथं चन’ (भा० आदि० २३३।१२)॥ उपद्रष्टुमुपेक्षितुम्। निःस्नेहेन नितरां स्नेहवता।

द्रु

  • {उपद्रु}
  • द्रु (द्रु गतौ)।
  • ‘द्रवन्त्वस्य हरय उप नः’ (ऋ० ४।१६।१)। उपद्रवन्तु उपयन्तु।
  • ‘स्वान्गच्छतु ते मनो अधा पितृँ रुप द्रव’ (अथर्व १८।२।२३)। उपद्रव=उपेहि।
  • ‘उपद्रव पयसा गोधुगोषम्’ (अथर्व० ७।७३।६)। उक्तोऽर्थः।
  • ‘पशून् यजमानस्योप दोद्राव’ (तै० सं० १।५१)। उपदोद्राव उपाद्रवत्, उपाप्लवत, आक्रामत्, जिघांसयाऽभ्यत्वरत।
  • ‘ततो वेगेन महता दानवा मामुपाद्रवन्’ (भा० वन० १६९।२१)। उपाद्रवन् अभ्ययुः।
  • ‘तमुपाद्रवद् उद्यम्य दक्षिणं दोर्निशाचरः’ (रघु० १५।२३)।
  • ‘मिहं बसान उप हीमदुद्रोत्’ (इन्द्रः) (ऋ० २।३०।३)। उक्तोऽर्थः।
  • ‘अविज्ञानाच्च मूढात्मा पुनः पुनरुपाद्रवत्’ (भा० शां० ३०९।४८)। क्लेशवानभूदित्यर्थः। इह द्रवतिरकर्मकः प्रयुक्तः।
  • ‘सव्रीहीणां यावदपासितुं गताः शुकान् मृगैस्तावदुपद्रुतश्रियाम्’ (शिशु० १२।४२)। उपद्रुतश्रियां विहतसम्पदाम् (व्रीहिमतां केदारसमूहानाम्) गता गोपिका;।
  • ‘शरणागतश्च क्षुधार्तश्च शत्रुभिश्चाप्युपद्रूतः’ (हरि० ११५१)। उपद्रुतः पीडितः कदर्थितः, विप्रकृतः।
  • ‘पुंसामसमर्थानामुपद्रवायात्मनो भवेत्कोपः’ (पञ्चत० १।३६८)। उपद्रवोऽस्वास्थ्यम्, आबाधः।
  • ‘मा भूत्ते मन्निमित्तमुपद्रवः’ (कथा० १७।८२)। उपद्रव उपप्लवो विघ्नो दुःखं क्लेशः संङ्कटम् अनिष्टम्।
  • ‘अकृतोप द्रवः कश्चिन्महानपि न पूज्यते। पूजयन्ति नरा नागान् न तार्क्ष्यं नागघातिनम्’ (पञ्चत० १।४७४)॥ उक्तोऽर्थः।
  • ‘विमले च प्रकाशेते विशाखे निरुपद्रवे’ (रा० ६।४।५०)। नीहारादिः कान्तिविघातक उपद्रवः, तद्रहिते इत्यर्थः।
  • ‘अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति’ (रा० २।१०८।१४)। श्राद्धनिन्दायां वचनम्। उपद्रवो नाशः, दुरुपयोगः, व्यर्थ उपयोगः।
  • ‘पूर्वोद्भवनिमित्तेन योऽपरो जायते गदः। तमुपद्रवमित्याहुरतीसारो यथा ज्वरे’ (का० सं० सूत्र० २७।५८)॥ निगदव्याख्यातम्।
  • ‘तत्रौपसर्गिको यः पूर्वोत्पन्नं व्याधिं जघन्यकालजो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञः’ (सुश्रुत० १।१२७।१०)।
  • ‘उपद्रवेण जुष्टस्तु व्रणः कृच्छ्रेण सिध्यति’ (सश्रुत० २।३९९।१०)।
  • ‘अविपाकोऽरुचिश्छर्दिनिद्रा कासः सपीनसः। उपद्रवाः प्रजायन्ते मेहानां कासजन्मनाम्’ (वाग्भट० नि० अ० १०)॥
  • ‘अनृग्यजुरसामा च प्राजापत्य उपद्रवः’ (भा० शां० ६०।४४)। उपद्रवति समीपं गच्छतीत्युपद्रवो दासः शूद्रः।

धा

  • {उपधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘उभोभयाविन्नुप धेहि दंष्ट्रा’ (ऋ० १०।८७।३)। उपधेहि उपरि धेहि। उभा=उभे। दंष्ट्रा=दंष्ट्रे।
  • ‘स वै कपालान्येवान्यतर उपदधाति’ (श० ब्रा० १।२।१।१)। अधिश्रयतीत्यर्थः।
  • ‘वर्चस्या (इष्टकाः) उपदधाति। तद्वानासामुपधानो मन्त्रः’ (पा० ४।४।१२५) इत्यत्र वृत्तिः। उपदधाति चिनोति।
  • ‘तदण्डं दक्षिणत उपधत्ते’ (का० श्रौ० ७।४।३)। उपधत्ते निधत्ते।
  • ‘आरोहोरुमुपधत्स्व हस्तम्’ (अथर्व० १४।२।३९)। उपरि धारय, (शरीरेण) संयोजय।
  • ‘द्वितीयतृतीययोस्तृतीयचतुर्थयोः पादयोरवसानत उपदध्यात् प्रचेतनेति पूर्वस्यां प्रचेतयेत्युत्तरस्याम्’ (आप० श्रौ० ६।३।१३)।
  • ‘सलिले खलु स्वखुराक्रान्ते उपाधत्तावितावनिम्’ (भा० पु० ३।१३।४६)। उपाधत्त=उपर्यदधात्।
  • ‘उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्। कथं नामोपधास्यामि भुजमन्यस्य कस्य चित्’ (रा० ५।२१।१६)॥ उपधास्यामि उपधानं करिष्यामि, तस्योपर्यात्मानं धारयिष्यामि।
  • ‘उप बर्बृहि वृषभाय बाहुम्’ (ऋ० १०।१०।१०)। अत्र यास्कः-उपधेहि वृषभाय बाहुम् इति।
  • ‘उप तेऽधां सहमानाम्’ (ऋ० १०।१४५।६)। अभिभवित्रीमोषधिं शिरस उपधानं करोमीत्याह।
  • ‘अक्ष्णोर्मुखेन्दुमुपधेहि’ (महावीर० ४।५५) उपधेहि सन्निहितं कुरु, सन्निधापय, समीपं प्रापय।
  • ‘वृसीं चोपदध्यात्’ (गो० गृ० ४।२।१५)। उपदध्यात् स्थापयेदिति सत्यव्रतः सामश्रमी।
  • ‘मा… त्वं भर्तारं लोकभर्तारमसद्-धर्ममुपादध’ (रा० २।३५।३०)। उपादध आरोपय प्रापय।
  • ‘तद्धि (अयस्कान्तम्) व्यवहितमपि लोहे स्वां शक्तिमुपदधात्येव’ (व्यक्ति० १ वि०)। उपदधाति सन्निवेशयति।
  • ‘स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियते इदं मेऽनेनाङ्गमुपधीयते’ (श० ब्रा० ११।२।६।१३)। उपधीयते प्राप्यते। अङ्गं शरीरम्।
  • ‘वितानमस्योपदधुर्धनैर्घनैः’ (अवदा० जा० ३०।२८)। उपरि धारयामासुरित्यर्थः।
  • ‘(अग्निम्) अधस्तान्नोपदध्याच्च’ (मनु० ४।५४)। खट्वादेरधोऽङ्गारशकट्यादि न स्थापयदित्याह।
  • ‘चित्तज्ञानार्थमुपधास्यति वो राजा’ (कौ० अ० ९।५।२७)। उपधास्यति परीक्षिष्यते। उपधा परीक्षा भवति।
  • ‘शूद्रोहं नाधिकारो मे चातुराश्रम्यसेवने। इति विज्ञानमपरे नात्मन्युपदधत्युत’ (भा० अनु० १६४।१०)॥ नोपदधति छलं न कुर्वन्ति।
  • ‘उप त्मनि दधानो धुर्याशून्’ (ऋ० ४।२९।४)। उपदधानो युञ्जानः।
  • ‘पुरवनितानां मनसि कुसुमशरासनमुपदधानः’ (भा० पु० ५।५।३१)। उपदधानो जनयन्।
  • ‘स ततः पश्यति बुद्ध्याऽऽम्रांश्चापकृष्यमाणान्न्यग्रोधांश्चोपधीयमानान्’ (स्थानिवत्सूत्रे अथवा कार्याविपरिणामाद्वा सिद्धम् इति वार्तिके भाष्ये)। उपधीयमानान्। आरोप्यमाणान्।
  • ‘अविद्ययाऽऽत्मन्युपधीयमाने’ (भा० पु० ५।५।६) उपधीयमाने आच्छाद्यमाने आव्रियमाणे।
  • ‘प्रथमैरुपधीयमानः शकारः’ (ऋ० प्रा० ४२)। वर्गप्रथमैरभ्यवहितः सन्परः शकार इत्यर्थः।
  • ‘पात्री स्फ्योपहिता’ (का० श्रौ० २।३।२८ )। स्फ्यस्योपरि निहितेत्यर्थः।
  • ‘प्राणे हीमान्यङ्गान्युपेव हितानि’ (श० ब्रा० ६।१।२।१५)। उपहितानि स्थितानि।
  • ‘पुष्पं प्रवालोपहितं यदि स्यात्’ (कु० १।४४)। प्रवालस्य विद्रुमस्योपरि निहितमित्यर्थः।
  • ‘क्रिया हि वस्तूपहिता प्रसीदति’ (रघु० ३।२९)। वस्तुनि द्रव्ये भव्ये पात्रभूते उपहिता ऽऽहिता। क्रिया शिक्षा।
  • ‘शाल्योदनपिण्डमकुथितमविदग्धं रजतभाजनोपहितं वर्षति देवे बहिष्कुर्वीत’ (सुश्रुत० सूत्र० ४५।५)। उपहितमुपरि निहितम्।
  • ‘यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि’ (शिशु० १५।१५)। उपहितमर्पितम्। तदुपहितकुटुम्बः=तदर्पितकुटुम्बभारः।
  • ‘उपहितं शिशिरापगमश्रिया मुकुलजालमशोभत किंशुके’ (रघु० ९।३१)। उपहितमर्पितं दत्तम्।
  • ‘व्रीहीन् जिहासति सितोत्तमतण्डुलाढ्यान्। को नाम भोस्तुषकणोपहितान् हितार्थी’ (प्र० च० २।२२)॥ उपहितान् छन्नान्।
  • ‘उपहितशोभां तूर्णमायादयोध्याम्’ (भट्टि० २।५५)। (छत्रध्वजपताकाभिः) आरोपितशोभाम्।
  • ‘यदा तु भाग्यक्षयपीडितां दशां नरः कृतान्तोपहितां प्रपद्यते’ (मृच्छ० १।५१)। अन्तकेन जनितामन्तकनिमित्ताम् इत्याह।
  • ‘अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्’ (रा० ३।३१।३७, ३।३५।४०)। अर्थोपहितया ऽर्थसंहितया।
  • ‘व्यराजत सभामध्ये हेम्नीवोपहितो मणिः।’ (भा० उ० ९४।५३)। उपहितः प्रत्युप्तः।
  • ‘व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज’ (भा० कर्ण० ४०।४६)। उपहित उपजप्त इति नीलकण्ठः। उपजपित इति तु संस्कारवत्स्यात्। स्पश इति प्रेषित इति वार्थः।
  • ‘निवेशनं च कुप्यं च क्षेत्रं भार्या सुहृज्जनः। एतान्युपहितान्याहुः सर्वत्र लभते पुमान्’ (भा० शां० १३९।८६)॥ उपहितानि उपमित्राणि। अनन्तरपूर्वे पद्ये मित्राणि निरूपितानि निसर्गजानि, इह तद्भिन्नानि तत्सदृशान्युच्यन्त इति स्थान उपहितशब्दः उपमित्रमाह।
  • ‘शमनस्यानुरूपं मे पाण्डवोपहितं त्वया’ (भा० भीष्म० १२०।४८)। उपहितमुपधानं दत्तम्।
  • ‘अधिजानु बाहुमुपधाय’ (शिशु० ९।५४)। उपधाय उपरि निधाय।
  • ‘कटुकमिदं भेषजं मधुनोपधाय देह्यातुराय’ (इति वयम्)। उपधाय आच्छाद्य।
  • ‘उपेत्य धीयते यस्मादुपधेति ततः स्मृता। उपाय उपधा ज्ञेया तयाऽमात्यान् परीक्षयेत्’ (का० नी० सा० ४।२६)॥ निगदव्याख्यातम्।
  • ‘अयशोभिर्दुरालोके कोपधा मरणादृते’ (शिशु० १९।५८)। उपधा उपायः।
  • ‘अलोऽन्त्यात् पूर्व उपधा’ (पा० १।१।६५)। उपधा धर्माद्यैर्यत् परीक्षणम् इत्यमरः।
  • ‘अमात्यानुपधातीतान् पितृपैतामहाञ्शुचीन्’ (रा० २।१००।२६, भा० सभा० ५।४३)। वञ्चनारहितानित्यर्थः। उपधा उत्कोच इति तिलके रामः। तमतीतान् तदग्राहिण इति च सः।
  • ‘श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि’ (भा० अनु० १५२।१७)। उपधा छलम्। ब्रह्म वेदो यज्ञो वा।
  • ‘उपधाभिश्च यः कश्चिन्परद्रव्यं हरेन्नरः। ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः’ (मनु० ८।१९३)॥ उपधाः छलानि, छद्मानि।
  • ‘पञ्चोपधाव्यतीतांश्च कुर्याद्राजार्थकारिणः’ (भा० शां० ८३।२२)। उक्तोऽर्थः।
  • ‘मायोपधा देवितारोऽत्र सन्ति’ (भा० सभा० ५८।१४)। मायामुपदधतीति मायोपधाः कपटपुरस्कारशीलाः।
  • ‘चिकित्सा तु नैष्ठिकी या विनोपधाम्।’ (चरक० शारीर० १।९२)। उपधा तृष्णा।
  • ‘त्यागः सर्वोपधानां च सर्वदुःखव्यपोहकः’ (चरक० शारीर० १।९३)। उक्तोऽर्थः।
  • ‘औषधेयं काष्ठम्।’ उपधिरेवौपधेयम्। उपधीयत इत्युपधी रथाङ्गम् इति पा० ५।१।१३ सूत्रे वृत्तिः।
  • ‘सूतोपधावाप्तमिदं तवास्त्रम्’ (भा० कर्ण० ४२।८)। सूतोपधौ सूतत्वपिधाननिमित्ते।
  • ‘तस्यैवं वर्तमानस्य सौबलेन जिहीर्षता। राष्ट्राणि धनधान्यं च प्रयुक्तः परमोपधिः’ (भा० उ० ६५।५८-५९)॥ उपधिश्छलम्।
  • ‘विदधति सोपधि सन्धिदूषणानि’ (कि० १।४५)। उपधिश्छलं कैतवं व्याजः।
  • ‘दानं नैकसुखोपधानसुमुखं सन्मित्रमात्यन्तिकम्’ (अवदा० कुल्माषपिण्डीजातके श्लो० २१)। सुखोपधानं सुखजननम्।
  • ‘विशेषफलोपधानाभावात्’ (पा० ६।३।३९ सूत्रे सि० कौ०)। उपधानं जननम्।
  • ‘दक्षिणार्धे कपालोपधानम्’ (का० श्रौ० ५।८।१५)।
  • ‘यदासन्द्यामुपधाने’ (अथर्व० १४।२।६५)। उपधानं शिरःप्रतिश्रयः।
  • ‘सोपधानाः प्रासादाः’ (वि० पु० ४।२।९७)।
  • ‘दत्तवेतनभक्तं दत्तायुधपरिच्छदम्। दत्तोपधानं च तदा बलमासीद् महाभुज’ (भा० वन० १५।२१)॥ दत्तोपधानं कृतविशेषम्। उपधानमुपाधिः।
  • ‘मया तु तयो र्दुरात्मनोरुपधानीकृता दृष्टपूर्वास्ते दीनाराः स्थगिताः’ (तन्त्रा० २।३)।
  • ‘अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु’ (भा० आदि० १९२।१०)। पादोपधानी पादस्पर्शं लभमानेत्यर्थः।
  • ‘हृदयदेशेऽस्योर्ध्वाङ्गुलिं पाणिमुपदधाति’ (आश्व० गृ० १।२१।७)। उपदधाति समीपे स्थापयति।
  • ‘भावदोष उपधाऽदोषोऽनुपधा’ (वै० सू० ६।२।४)। निगदव्याख्यातम्।
  • ‘यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि’ (अथर्व० ६।७०।३)। प्रधिर्नेमिः, तत्समीपे धीयत इत्युपधिः, नेमिसम्बद्धोऽराणां सम्बन्धको वलयः।

धाव्

  • {उपधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम्’ (ऋ० ८।३।२१)। उपधावमानम् अभित्वरमाणम्।
  • ‘अथैनमुवाच वरुणं राजानमुपधाव’ (ऐ० ब्रा० ७।१४)। उपधाव प्रार्थयस्व, शरणं याहि।
  • ‘तं यद्युप वा धावेयुरुभयं वेच्छेरन्’ (ऐ० ब्रा० ५।४)। उपधावनं समाश्रयणमिति षड्गुरु०। उपधावनमुपद्रव इति गोविन्दस्वामी।
  • ‘क्वचिदातपोदकनिभान् विषयानुपधावति’ (भा० पु० ५।१४।६)। मृगतृष्णासदृशान् विषयानभित्वरत इत्यर्थः। सर्वत्र प्रसिद्धव्यपदेशपरीहारेण नूतनकल्पितेनाभिधानेनाभिधेयमर्पयति। तदस्य कवेः शीलम्।
  • ‘पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः’ (भा० पु० ७।२।६)। उपधावनैरुपासनाभिः प्रार्थनाभिः शरणीकरणैः।

धूप्

  • {उपधूप्}
  • धूप् (धूप सन्तापे)।
  • ‘धूमकेतौ सप्तर्षीनुपधूपयति’ (सति) (कौ० सू० ९३।१२७)। धूमेनावृण्वति सति। तमसाऽऽच्छादयति सति।
  • ‘पावकार्चिषः सधूमा निष्पेतुः। ताभिर्नागलोक उपधूपिते’ (भा० आदि० ८१५)॥ उपधूपिते सन्तप्ते।

धृ

  • {उपधृ}
  • धृ (धृञ् धारणे)।
  • ‘यत्र स्थूणा हिरण्मयी मणिरत्नमयी चान्या प्रासादमुपधारयत्’ (भा० वि० १७६५)। उपधारयत् उपाधारयत् अवाष्टभ्नात्, अवालम्बत।
  • ‘मेखलाभ्रमनिष्कासगवाक्षान्नोपधारयेत्’ (कात्या० स्मृ०)। नोपधारयेत्=न निरुन्ध्यात्।
  • ‘तांस्तु गायत्र्य इत्युपधारयेत्’ (ऋक् प्रा० १७।३)। उपधारयेत् अवधारयेत्, निश्चिनुयात्, जानीयात्, विद्यात्।
  • ‘तमस्तदुपधारयेत्’ (भा० शां० २८५।३१)।
  • ‘तद्वचनमपि धीयमानं न सम्यगुपधारयामास’ (अवदा० )। नोपधारयामास नावधारयामास, न निश्चिकाय।
  • ‘इदं दुर्गं महाघोरं तीर्णमेवोपधारय’ (भा० द्रोण० ११९।१७)। उपधारय जानीहि।
  • ‘न करिष्यसि चेदेवं मृतां मामुपधारय’ (भा० आदि० २१४।३०)।
  • ‘एतद्योनीनि भूतानि सर्वाणीत्युपधारय’ (गीता ७।६)।
  • ‘तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय’ (गीता ९।६)।
  • ‘दर्शनादेव रामस्य हतं मामुपधारय’ (रा० ३।४१।१८)।
  • ‘पिपासा चा बुभुक्षा वा ग्लानिश्चिन्तापि वानघ। न मन्दारवने वीर भवतीत्युपधारय’ (हरि० २।८६।६०)॥ अत्र सर्वत्रोदितचर एवार्थः।
  • ‘अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्’ (रा० २।१८।७)। उपधारयन् निश्चितं जानानः।
  • ‘उपधार्य वचस्तस्या भगवान् भक्तवत्सलः’ (भा० पु० १।८।११)। उपधार्य श्रुत्वा। शील उपधारण इति धातुपाठः। उपधारणमभ्यासः, परिचय इत्येक इति क्षीरतरङ्गिण्यां स्वामी।

धृष्

  • {उपधृष्}
  • धृष् (त्रिधृषा प्रागल्भ्ये)।
  • ‘सोऽपूयत। तं देवा नोपाधृष्णुवन्’ (तै० सं० ६।४।७।३१)। उपसङ्ग्रहीतुं नाशक्नुवन् इत्यर्थः। स सोमः।
  • ‘तानेव वज्रानुद्यतानसुरा नोपाधृष्णुवन्’ (जै० ब्रा० १।१२४)। नोपाधृष्णुवन् उपैतुं नोदसहन्त।
  • ‘अथ हैतत् कर्मोपदधर्ष’ (श० ब्रा० ९।५।२।१)। अस्मै कर्मण उत्सेहे, एतत्कर्मोपक्रमितुं प्रजगल्भे।

धे

  • {उपधे}
  • धे (धट् पाने)।
  • ‘अन्याऽन्यावत्समुपधापयेते’ (ऋ० १।९५।१)। उपेत्य पाययेते इत्यर्थः।

ध्मा

  • {उपध्मा}
  • ध्मा (शब्दाग्निसंयोगयोः)।
  • ‘तं (अग्निं) प्रजापतिरेतेन साम्नोपाधमत्’ (पञ्च० ब्रा० १३।३।२२)। उपाधमद् अवीजयत्।
  • ‘यदीमह त्रितो दिव्युपध्मातेव धमति’ (ऋ० ५।९।५)। उक्तोऽर्थः। यदीमह=यद् ईम् अह।
  • ‘नाग्निं मुखेनोपधमेत्’ (मनु० ४।५३)।
  • ‘(अग्निः) नानुपध्मातो नानुपज्वलितो ज्वलति’ (श० ब्रा० ११।८।३।७)। अनुपध्मातः=अधुतः, अधूतः।
  • ‘ततः शङ्खमुपाध्मासीत्’ (भा० वि० ४६।२१, वि० पु० ५।३०।२)। उपाध्मासीत् अपूरयत्। लुङि रूपम्।
  • ‘पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम्’ (अथर्व० ८।८।२)। उपध्मानी उपरि निःश्वसती। उपरि फूत्कुर्वती।

ध्वंस्

  • {उपध्वंस्}
  • ध्वंस् (ध्वंसु अवस्रंसने गतौ च)।
  • ‘कृत्यापिशाचरक्षःक्रोधाधर्मैरुपध्वस्यन्ते’ (सुश्रुत० १।२१।१४)। उपध्वस्यन्ते उपद्रूयन्तेऽसकृदुपेयन्ते, पोड्यन्ते।
  • ‘इन्द्रस्य रूपं समृद्ध्यै सावित्रमुपध्वस्तम्’ (तै० सं० २।१।६।३)। उपध्वस्तो विभिन्नवर्णः, बहुबिन्दुचितशरीर इति भट्टभास्करः।

नद्

  • {उपनद्}
  • नद् (णद अव्यक्ते शब्दे)।
  • ‘कृकवाकूपनादिताः’ (मार्गाः) (रा० २।२८।१०)। उपनादिताः प्रतिध्वनिताः।

नम्

  • {उपनम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘उपैनं सहस्रं नमति’ (ऐ० ब्रा० २२।९) उपनमिः स्वयं प्राप्त्यर्थ इति षड्गुरुशिष्यः। उपनमति स्वयं प्राप्नोतीत्यर्थः।
  • ‘यदैवैनं कदा च यज्ञ उपनमेदथाग्नी आदधीत’ (श० ब्रा० २।१।३।९)। यज्ञ उपनमेत्=यज्ञस्याजिहीर्षा स्यात्, यष्टुं कामोऽस्योपतिष्ठेत।
  • ‘वमलं राज्याय सन्तं राज्यं नोपनमेत्’ (तै० सं० २।१।३।४)। नोपनमेन्न विन्देत्।
  • ‘यं कामो नोपनमेदग्निमेव कामं स्वेन भागधेयेनोपधावति’ (तै० सं० २।२।३।१)।
  • ‘उप माऽदो नमतु’ (वा० सं० २६।२)।
  • ‘मत्संभोगः कथमुपनमेत्स्वप्नजोपि’ (मेघ० १२)।
  • ‘अकृच्छ्रलङ्ध्याः पन्थानो वल्लभातिथयो गृहाः। उपानमन्गच्छतोऽस्य सत्क्रियाश्च पदे पदे’ (राज० ३।२२४)॥ उक्तोऽर्थः।
  • ‘स यद्येनं मनसाऽभिध्यातः। यज्ञो नोपनमेत्’ (श० ब्रा० १२।६।१।३)। नोपनमेन्न सिध्येत्।
  • ‘अभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः’ (छां० उ० २।१।४)। उपनमेयुर्भोग्यत्वेनोपतिष्ठेयुरिति शङ्करः। अभ्याशः क्षिप्रम्।
  • ‘दुर्बलमभिजातं प्रकृतयः स्वयमुपनमन्ति’ (कौ० अ० ८।२।२३)। उपनमन्ति प्रणता भवन्ति, विधेयतां गच्छन्ति।
  • ‘(पिण्डान्) कुमार्या उपनामयेत्’ (गो० गृ० २।१।३)। उपनामयेत् समीपे स्थापयेत्।
  • ‘द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानाम्’ (सुश्रुत० सूत्र० २।५)। उपनतः संनिधाने प्रणतः।
  • ‘कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा’ (मेघ० १११)। उपनतं प्राप्तम्।
  • ‘अनुपास्यति कथं बाष्पदूषितं परलोकोपनतं जलाञ्जलिम्’ (रघु० ८।६८)।
  • ‘इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात्’ (रघु० ८।८१)। उपनतां शरणागताम्।
  • ‘भद्रासनादुपनतं पदपल्लवाग्रं संवाहयति’ (चम्पूभा० ८।३३)। उपनतमधः प्रसारितम्।
  • ‘अग्नेरर्धं प्रत्युपनतं यूपस्य कुर्याद् बहिष्टान्निनतम्’ (भा० श्रौ० ७।८।११)। उपनतम्=प्रवणं निम्नम्।
  • ‘दण्डेनोपनतं शत्रुमनुगृह्णाति यो नरः’ (भा० आदि० १४०।८३)। उपनतमुपनमितं नामितं न्यग्भावितं, वशे कृतं विधेयीकृतम्।
  • ‘स्वयमुपहतः, विप्रकृतः… दण्डेनोपनतः… इति भीतवर्गः’ (कौ० अ० १।१४।३)। दण्डेनोपनतो बलाद् वैतसीं वृत्तिं ग्राहितः।
  • ‘तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः’ (रघु० १७।८१)। उक्तोऽर्थः।
  • ‘मांसं म उपनतिः’ (वा० सं० २०।१३)। उपनमन्ति प्रवणा भवन्ति भूतानि यत्र सा उपनतिः।
  • ‘उपनामुक एनं यज्ञो भवति’ (श० ब्रा० २।२।४।१४)। अस्याभिमुखो भवतीत्याह। तत्सान्निध्यमाप्नोतीति वा।

नह्

  • {उपनह्}
  • नह् (णह बन्धने)।
  • ‘वृष्णो अश्वस्य सन्दानमपि वृष्ट्यै त्वोपनह्यामि’ (तै० सं० २।४।७।२)। उपनह्यामि नह्यामि बध्नामि।
  • ‘गुल्मं तमुपनाहयेत्’ (चरक० चि० ५।४१)। तत्र लेपं दद्यादित्यर्थः। पुरटोपनद्ध०। हेमप्रत्युप्त०।
  • ‘अथ राजानं क्रीत्वा द्वेधोपनह्य परिवहन्ति’ (श० ब्रा० ५।४।५।१५)। उपनह्य बद्ध्वा।
  • ‘उपनह्य परैर्वैरं ये मां नित्यमुपासते’ (भा० उ० १४६।१२)।
  • ‘सस्नेहकिण्वलवणैरुपनाहः प्रशस्यते’ (चरक० सुत्र० १४।३५)। उपनाहो बहलो लेपः।
  • ‘उत्कारिकोपनाहैश्च स्वेदयेन्मृदुभिः क्षणम्’ (चरक० चि० १७।८०)।
  • ‘शोफयोरुपनाहं कुर्यादामविदग्धयोः’ (सुश्रुत० २।५।२१)। उक्तोऽर्थः।
  • ‘देवानां भाग उपनाह एषः’ (अथर्व० ९।४।५)। उपनाहो भारः।
  • ‘उपनाहो ऽवगाहश्च परिषेकस्तथाष्टमः’ (का० सं० सूत्र० स्वेदा० २३।२६)। उपनाहः स्वेदप्रकारः। उपनाहो निबन्धनम् इत्यमरः। निबध्यन्ते स्मिन्निति निबन्धनम्। यत्र तन्त्र्यो निबध्यन्ते तस्य वीणाया ऊर्ध्वभागस्य उपनाह इति संज्ञा।
  • ‘सोमोपनहनमाहर’ (श० ब्रा० ३।३।२।३)।
  • ‘प्रेष्यति च सोमोपनहनमाहर’ (का० श्रौ० ७।७।१)। सोम उपनह्यते बध्यते यस्मिंस्तत्सोमोपनहनं वस्त्रम्।

नाथ्

  • {उपनाथ्}
  • नाथ् (नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु)।
  • ‘माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व’ (पा० २।३।५५ सूत्रवृत्तौ प्रत्युदाहरणम्)। उपनाथति याचते उपच्छन्दयति। राजानमुपनाथति। याचते प्रार्थयते।

नी

  • {उपनी}
  • नी (णीञ् प्रापणे)।
  • ‘देवेभ्यो दैव्यः शमितोप हव्यं त्रिधा समक्तं नयतु प्रजानन्’ (ऋ० २।३।१०)। उपनयतु प्रापयतु।
  • ‘तमृचो मनुष्यलोकमुपनयन्ते’ (प्रश्नोप० ५।३)।
  • ‘प्रजाः स्वं वशमुपनयते’ (श० ब्रा० १।३।४।५)।
  • ‘अयोऽभेद्यमुपायेन द्रवतामुपनीयते’ (का० नी० सा० ११।४७)। उपनीयते प्राप्यते।
  • ‘स शुचीन्यन्नपानानि गुणवन्ति च राघवे। अर्घं चोपानयत्’ (रा० गोरे० २।४७।१३)॥ उपानयत् आर्पयत् न्यवेदयत्।
  • ‘हरये स्वदेहमुपानयत्’ (रघु० २।५९)।
  • ‘उपनिन्युर्महाभागा दुहितृत्वाय जाह्नवीम्’ (हरि० १।३२।४७)। उक्तोऽर्थः।
  • ‘रज्ज्वेव पुरुषो बद्ध्वा कृतान्तेनोपनीयते’ (रा० ५।३५।३)। उपनीयत आत्मसमीपं प्राप्यते।
  • ‘उपनय रथं यावदारोहामि’ (शा०)। उक्तोऽर्थः।
  • ‘नेयं कर्मोपयुक्तं पुरुषमुपनयति किन्त्वकर्तारमभोक्तारमीश्वरम्’ (प्र० च० )। उपनयति सम्पादयति।
  • ‘मदीयं न्यासमुपनय’ (मृच्छ०)। प्रत्यर्पयेत्यर्थः।
  • ‘समिधमाहर सोम्य उप त्वा नेष्ये’ (छां० उ० ४।४।५)। आत्मानमाचार्योकुर्वंस्त्वां स्वसमीपं प्रापयिष्यामीत्यर्थः।
  • ‘जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा’ (भा० शां० ३२४।१९)। शिष्यत्वेनाभ्युपैत्।
  • ‘कर्मकरानुपनयते’ (पा० १।३।३६ सूत्रे वुत्तौ)। भृतिदानेनात्मसमीपं प्रापयतीत्यर्थः।
  • ‘आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः’ (अथर्व० ११।५।३)।
  • ‘अन्धा यथान्धैरुपनीयमानाः’ (भा० पु० ७।५।३२)। इहोपेन नार्थः। अनुकार्ये मूल औपनिषदेपि नैव दृश्यते। नीयमाना इत्येवार्थः।
  • ‘भीमा जाया ब्राह्मणस्योपनीता’ (ऋ० १०।१०९।४)। उपनीता देवैः समीपे स्थापितेति सायणः। उपनीता वशे कृता, स्वीकृताऽऽत्मीया कृतेत्यन्ये।
  • ‘नीलस्य राज्ञः सर्वेषामुपनीतश्च सोऽभवत्’ (भा० सभा० ३१।३०)। उपनीतः स्वीकृत इति नीलकण्ठः।
  • ‘इमे सभायामुपनीतशास्त्राः’ (भा० सभा० ६७।३६)। उपनीतशास्त्रा अध्यापितशास्त्राः।
  • ‘सर्वरसान् धान्यानि च सङ्ग्रहमुपनीय’ (व० बृ० सं० ४१।४)। संग्रहमुपनीय=सङ्गृह्य। सङ्ग्रहावस्थां प्रापय्येति त्वक्षरार्थः।
  • ‘न ब्राह्मणं ब्रह्मचर्यमुपनीय मिथुनं (=मैथुनम्) चरेत्’ (श० ब्रा० ११।५।४।१६)। ब्रह्मचर्यं प्रापय्य, ब्रह्मचारिणं कृत्वा, शिष्यत्वेन विधिवत् परिगृह्येत्यर्थः।
  • ‘तान्हानुपनीयैवैतदुवाच’ (छां० उ० ५।११।७)। अनुपनीय उपनयनमकृत्वा। उपनयनं पादयोः प्रणिपातनम्।
  • ‘जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता। प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः’ (रा० ३।५४।२६)॥ प्रवृत्तिरुपनेतव्या वार्ताऽऽहार्या।
  • ‘समिद्भैक्षे सप्तरात्रमचरितवान् ब्रह्मचारी पुनरुपनेयो भवति’ (गो० गृ० १।२।६)। पुनरुपनयनविधिना संस्कार्यो भवतीत्यर्थः।
  • ‘गर्भाष्टमे ब्राह्मण उपनेयः’ (पा० गृ० ६।६।८४)। उक्तोऽर्थः।
  • ‘तथा मरणानुस्मृतिवर्णेऽनित्यताकथायामप्युपनेयम्’ (अवदा० अयोगृहजा०)। पञ्चावयवन्याये यश्चतुर्थ उपनयो नाम स वक्तव्य इत्यर्थः।
  • ‘प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवा न्यायस्य। तथा चायमित्युपनयस्याभिनयः। संभोगोपनयैर्नृणाम्’ (भा० वन० २।२४)। उपनयैः=समर्पणैः।
  • ‘धारासारोपनयनपरा नैगमाः सानुमन्तः’ (विक्रम० ४।१३)।** उपनयनं समर्पणम्। धारासार आसारवद् वर्षम्। अविच्छिन्नसन्तानो धनोपहारश्च।**
  • ‘अश्वस्य पुरस्ताल्ललाट उपनये बन्धनीयः’ (वा० सं० २४।१ महीधरभा०)। तत्र उपनये इति सप्तम्यन्तः पाठः स्थितः। तत्र ललाटमुपनय इत्यनर्थान्तरम्।

नुद्

  • {उपनुद्}
  • नुद् (णुद प्रेरणे)।
  • ‘द्रुतमरुदुपनुन्नैः …अम्बुवाहैः’ (शिशु० ४।६८)। उपनुन्नैरर्वाक् प्रेरितैः।

पद्

  • {उपपद्}
  • पद् (पद गतौ)।
  • ‘उपानृत्यंश्च राजानं नृत्यगीतविशारदाः’ (रा० ७।४२।२०)। उपानृत्यन् समीपेऽनृत्यन्।
  • ‘ये स्मान्पुरोपनृत्यन्त मूढा गौ र्गौरिति’ (भा० शल्य० ५९।७)। उक्तोऽर्थः।
  • ‘यमुपनृत्यन्ति शतशोऽप्सरोगणाः’ (हरि० १४१५५)। उदितचर एवार्थः।
  • ‘उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणौः’ (भा० उ० १२३।४)। प्रत्यये विशेषो नार्थे।
  • ‘क्षेत्रं हि रसवच्छुद्धं कर्मणैवोपपादितम्। ऋते वर्षान्न कौन्तेय जातु निर्वर्तयेत् फलम्’ (भा०)॥ उपपादितं सम्पादितं साधितं कृतम्। कर्मणा कर्षणेन वाप्यादिजलदानेन च।

नृत्

  • {उपनृत्}
  • नृत् (नृती गात्रविक्षेपे)।
  • ‘उपेदहं धनदां… श्येनो न वसतिं पतामि’ (ऋ० १।३३।२)। उपपतामि उपाप्नोमि उपैमि। उपेदहम्=उप इद् अहम्।

पद्

  • {उपपद्}
  • पद् (पद गतौ)।
  • ‘वत्सो धारुरिव मातरं (कृत्या)तं प्रत्युपपद्यताम्’ (अथर्व० ४।१८।२)। उपपद्यतां प्राप्नोतु उपद्रवतु, अभियातु।
  • ‘अहिंस्युपपद्यते स्वर्गम्’ (व० ध० २९।३)। उपपद्यते प्राप्नोति उपैति।
  • ‘कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते’ (भा० सौ० १६।१४)। प्राप्स्यतीत्यर्थः।
  • ‘वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम। उपपद्यस्व कौन्तेय प्रसन्नोहं भवामि ते’ (भा० वन० ७९।१९)। उपपद्यस्व प्राप्नुहि। शिक्षस्वेत्यर्थः।
  • ‘प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते। तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते’ (भा० आदि० १८०।९)॥ नोपपद्यते न लभ्यते, न विद्यते।
  • ‘नतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते’ (भा० द्रोण० २००।२७)। द्विर्नोपपद्यते पुनर्न लभ्यते, न प्रतिलभ्यते।
  • ‘यमुनातटमुपपेदे’ (पञ्चत० )। आससादेत्यर्थः।
  • ‘कामं दृष्टा मया सर्वा विश्वस्ता रावणस्त्रियः। नहि मे मनसः किञ्चिद् वैकृत्यमुपपद्यते’ (रा० ५।११।४०)॥ उपपद्यते उत्पद्यते जायते।
  • ‘अथ चेन्मानुषे लोके कदाचिदुपपद्यते’ (भा० अनु० १४४।५९)।
  • ‘कथं शरीरं च्यवते कथं चोपपद्यते’ (भा० आश्व० १७।२)।
  • ‘अभितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते’ (भा० आश्व० १७।३०)। अभितः सद्यः। उपपद्यते जायते।
  • ‘पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते’ (रा० २।९१।२)। उपपद्यते जायते लभ्यते वा।
  • ‘यदा च कार्यमस्माकं भवद्भिरुपपत्स्यते’ (भा० आदि० १४५।१७)। उपपत्स्यते जनिष्यते भविष्यति। कार्यं प्रयोजनम्।
  • ‘अतिस्नेहो ह्यकाले च व्यसनायोपपद्यते’ (रा० ६।२१।३४)। उपपद्यते जायते कल्पते।
  • ‘दुष्टं पन्थानमासाद्य यो मोहादुपपद्यते। आत्मनो बलमविज्ञाय तदन्तं तस्य जीवितम्’ (भा० शां० १३९।७८)॥
  • ‘उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते’ (मनु० ९।१२१)। नोपपद्यते न युज्यते न सम्बध्यते। उपसर्जनं क्षेत्रजः पुत्रः। धर्मतो धर्मेण (पितुः क्षेत्रिणः)।
  • ‘परा त्वत्तो गतिर्वीर पृथिव्यां नोपपद्यते’ (रा० ३।६।२०)। नोपपद्यते न संभवति।
  • ‘त्वदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यते’ (गीता० ६।३९)।
  • ‘दार्शं चेत्पूर्वमुपपद्येत’ (खा० गृ० १।२।२)।
  • ‘अन्यदुप्तं जातमन्यद् इत्येतन्नोपपद्यते’ (मनु० ९।४०)।
  • ‘निःसङ्गस्य ससङ्गेन कूटस्थस्य विकारिणा। आत्मनो ऽनात्मना योगो वास्तवो नोपपद्यते’ (भा० आदि० १९६।१३ इत्यत्र नीलकण्ठस्य सुभाषितम्)। उक्तोऽर्थः।
  • ‘क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते’ (गीता० २।३)। नोपपद्यते न युज्यते, तवानुरूपं न भवति।
  • ‘मा विषादं गमस्तस्मान्नैतत्त्वय्युपपद्यते’ (भा० वन०)। उक्तोऽर्थः।
  • ‘असन्धेयमिति ह विश्वामित्र उपपपाद’ (ऐ० ब्रा० ७।१७)। युक्तिभिरुपपादितवानित्यर्थः।
  • ‘स मे कपिश्रेष्ठ सलक्ष्मणं प्रियं सयूथपं क्षिप्रमिहोपपादयः’ (रा० ५।३७।६८)। उपपादय प्रापय उपनय मदन्तिकं नय।
  • ‘रथमुपपादय’ (वेणी० २)। उपपादय सज्जी कुरु। अश्वैर्योजयेति त्वक्षरार्थः।
  • ‘अन्नार्थी तं त्वमन्नेन समांसेनोपपादय’ (भा० आदि० १७६।२९)। उपपादय योजय। तस्यार्थ उपकल्पय।
  • ‘ताश्च रोगप्रकृतयो रसान्सम्यगुपयुञ्जानमपि पुरुषमशुभेनोपपादयन्ति’ (चरक० सूत्र० २८।७)।
  • ‘अनुतिष्ठेत्समारब्धमनारब्धं प्रयोजयेत्। अनुष्ठितं च सद्वृत्त्या विशेषेणोपपादयेत्’ (का० नी० सा० ११।५७)॥ उपपादयेत् योजयेत। सदाचरणेनानुष्ठिते कर्मणि वैशिष्ट्यं प्रकर्षमादधीत। तस्योपस्कुर्वीतेति वाक्यार्थः।
  • ‘आत्मानं प्रथमं राजा विनयेनोपपादयेत्’ (का० नी० सा० १।२५)।
  • ‘उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्’ (रा० ४।५५।१०)। उक्तोऽर्थः।
  • ‘समद्यान्यन्नपानानि भूयिष्ठं चोपपादयेत्’ (का० सं० चि० मदात्ययचि० श्लो० ४८)। उपपादयेत् साधयेत्।
  • ‘यस्तु दोषवतीं कन्यामनाख्यायोपपादयेत्’ (मनु० ९।७३)। उपपादयेत् (विवाहे) दद्यात्।
  • ‘वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत्’ (मनु० ३।९६)।
  • ‘सर्वस्वं वेदविहुषे ब्राह्मणायोपपादयेत्’ (मनु० ११।७६)।
  • ‘दक्षिणाश्चोपपाद्यन्तां याज्ञिकेभ्यः पृथक् पृथक्’ (मात्स्य० पु० १७८।७३)।
  • ‘काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्’ (भा० शां० १९३।१५)। अर्पयेत्, निवेदयेत्।
  • ‘अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत्’ (मनु० ९।२४४)। इहापि दानमेवार्थः, उत्तरार्धे ब्राह्मणे प्रतिपादयेदिति श्रुतेः।
  • ‘(देशं) दक्षिणाप्रवणं प्रयत्नेनोपपादयेत्’ (मनु० ३।२०६)। उपपादयेत् सम्पादयेदिति कुल्लूकः। अनुसन्दधीत मार्गेदित्यन्ये।
  • ‘नाश्विनावार्तं भेषजेनोपपादयेताम्’ (चरक० वि० ३।३८)। चिकित्सेताम् उपचरेतामित्यर्थः।
  • ‘आस्थापनवमनविरेचनैस्तदहरेवोपपादयेद् उपपादनीयश्चेत्स्यात्’ (चरक० वि० ७।१९)।
  • ‘अर्श प्रभृत्यधीमांसं छेदेनोपपादयेत्’ (चरक० चि० ५। )। उक्तोऽर्थः।
  • ‘प्रयाण उपपद्यमाने’ (आश्व० गृ० १।८।१)। याने संभवति सतीत्यर्थः।
  • ‘आजुहाव ततो नाम्ना तदन्नमुपपादयन्’ (भा० आदि० १६३।५)। उपपादयन् प्रापयन् समर्पयन्।
  • ‘अविघ्नमस्तु ते देवकार्यमुपपादयिष्यतः’ (रघु० ११।९१)। उपपादयिष्यतः साधयिष्यतः।
  • ‘तेन मे विप्रयोगोऽयमुपपन्नस्त्वया सह’ (भा० आदि० १२१।२७)। उपपन्नः प्राप्त उपनतः, जातः संवृत्तः।
  • ‘तस्मै स विद्वान् उपपन्नाय प्राह’ (वे० सा०)। उपपन्न उपसन्नः शिष्यत्वेनोपेतः।
  • ‘शिष्यवत्त्वां नु पृच्छामि उपपन्नोस्मि तेऽनघ’ (भा० आदि० ११९१)।
  • ‘तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेन’ (सुश्रत० सूत्र० १।२)। उक्तचर एवार्थः।
  • ‘यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिपः’ (भा० अनु० ५२।२८)। यथोपपन्नं यथाप्राप्तम्। यादृशं लब्धमित्यर्थः।
  • ‘भाषिकस्वरो वोपपन्नमन्त्रोपदेशात्’ (का० श्रौ० १।८।१७)। उपपन्नः (संहितास्वरेण) युक्तः।
  • ‘उपपन्नो गुणैरिष्टैः रूपवानश्वकोविदः’ (भा० वन० ५३।१)।
  • ‘नहि सामोपपन्नानां प्रहर्ता विद्यते क्वचित्’ (रा० ४।५९।१७)।
  • ‘सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम्’ (पा० ३।१।६३ सू० वा०)। श्रद्धोपपन्ने श्रद्धया युक्ते।
  • ‘श्रद्धेव साक्षाद् विधिनोपपन्ना’ (रघु० २।१६)। सत्त्वबुद्ध्युपपन्नो व्यसनग्रस्तमानसः।
  • ‘श्रीभिः षण्ड इव स्त्रीभिरलसः परिभूयते’ (का० नी० सा० १४।२०।८)।
  • ‘ब्रवीतु भगवान्नीतिमुपपन्नो स्म्यहं प्रभो’ (भा० शां० १०५।४)। उपपन्नः पौरुषेण युक्त इत्यर्थः।
  • ‘उपपन्ना त्वया भैमी त्वं च भैम्या महीपते’ (भा० वन० ७६।३९)। उपपन्ना सदृशीत्यर्थः।
  • ‘उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी’ (शा० ५।२६)। उपपन्ना युक्ता, समुचिता, स्वाभाविकी, सिद्धा।
  • ‘कामकारो महाप्राज्ञ गुरूणां सर्वदाऽनघ। उपपन्नेषु दारेषु पुत्रेषु च विधीयते’ (रा० २।१०१।१८)॥ उपपन्नाः समताः। शरणं गताः पराधीना इति चाक्षरार्थः।
  • ‘पुरुषः कैश्च कर्मभिः। उपपन्नान् सुखान्भोगानुपाश्नाति’ (भा० अनु० १४४।५८)।
  • ‘छेद्यभेद्यलेख्यव्यधनैरुपपन्नैरुपपाद्य कर्णम्’ (सुश्रुत० १।५६।२०)। उपपन्नैरौपयिकैः।
  • ‘कथं चिन्मृगशावाक्षी विश्वासमुपपादिता’ (रा० ५। )। उपपादिता प्रापिता।
  • ‘भ्रात्रा सुनाभेन तदोत्सवे कृते सा शङ्कराभ्याशमथोपपादिता’ (वामन० पु० ५३।३५)।
  • ‘एतस्य हि पिता नागश्चिकुरो नाम मातले। नचिराद्वैनतेयेन पञ्चत्वमुपपादितः’ (भा० ५।१०३।२४)। उक्तोऽर्थः।
  • ‘उपपादितमद्येह चिरकालान्मनोगतम्’ (भा० वन० ११।२८)। उपपादितं साधितम्।
  • ‘तत्तथैवोपपादितम्।’ (भा० पु० ११।६।२१)।
  • ‘त्वया सह गदायुद्धं त्रिदशैरुपपादितम्’ (भा० शल्य० ५६।४०)। उपपादितं साधितम्, जनितम्।
  • ‘सहन्ते पापमात्रोपपादितां दुःखवह्निकणिकाम्’ (हर्ष०)। उक्तोऽर्थः।
  • ‘तत्सुषेणमतं कार्यं देशकालोपपादितम्’ (रा० ४।४३।६६)। देशकालोचितमित्यर्थः।
  • ‘जघने लक्षणं देव्याः केनेदमुपपादितम्’ (बृ० क० म०)। उपपादितं साधितं निर्मितं कृतम्।
  • ‘देशमात्राकालोपपादितैः। भेषजैः’ (चरक० सूत्र० १।६१)। उपपादितैः कल्पितैः, साधितैः।
  • ‘रक्षःकपीन्द्रैरुपपादितानि… जलानि…’ (रघु० १४।८)॥ उपपादितानि उपनीतानि।
  • ‘उपायनानि पश्यन् पुलिन्दैरुपपादितानि’ (रघु० १६।३२)। उपपादितानि समर्पितानि उपहृतानि।
  • ‘अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम्’ (याज्ञ० १।३१५)। उपपादितं दत्तम्।
  • ‘यवाढकः पितुर्गुहे ब्राह्मणायोपपादितः’ (बृ० श्लो० सं० ४।१०९)। उक्तोऽर्थः।
  • ‘केऽमीत्यनेन पदेन वाच्यमस्पष्टमभिदधता प्रतीयमानं वस्त्वक्लिष्टमनन्तमर्पयता का छाया नोपपादिता’ (ध्वन्या० लो० ३।३८)। उपपादिता उत्पादिता।
  • ‘यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते’ (मनु० ९।३६)। ग्रीष्मादिकाले वर्षादिना संस्कृत इति कुल्लूकः।
  • ‘उताब्रह्मचारी यथोपपादमूत्रपुरीषो भवति’ (नास्याचमनकालो विद्यते) (आप० ध० २।६।२५) इत्यत्रोज्ज्वलायां समुद्धृतं वचनम्)। यथोपपादं यथासंभवम्। यथाप्राप्तम्।
  • ‘आसीनः पितृभ्यो दद्याद्यथोपपादमितरान्’ (गो० गृ० १।४।१४)। उक्तोऽर्थः। इतरानिति द्वितीया त्वपभ्रंशोऽसह्यः।
  • ‘कार्श्यं येन त्यजति विधिना स त्वयैवोपपाद्यः’ (मेघ० ३०)। उपपाद्यः साध्यो विधेयो निर्मेयः।
  • ‘नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु’ (गीता० १३।९)। उपपत्तिः प्राप्तिः।
  • ‘मुदं विषादः शरदं हिमागमस्तयो र्विवस्वान् सुकृतं कृतघ्नता। प्रियोपपत्तिः शुचमापदं नयः श्रियः समृद्धा अपि हन्ति दुर्नयः’ (तन्त्रा० ३।१०।१४३)॥ उक्तोऽर्थः।
  • ‘मनः समाधाय जयोपपत्तौ’ (रा० ४।३।३९)। उपपत्तिर्लब्धिः।
  • ‘अचिन्तितेन कामानामुपपत्तिर्नराधिप’ (हरि० २।९१।८)।
  • ‘देहोपपत्तये भूयस्तमेव प्रत्यपद्यत’ (भा० पु० १०।५५।१)। कामः कर्ता। तं वासुदेवम्। देहोपपत्तिः शरीरप्राप्तिः।
  • ‘स्वार्थोपपत्तिं प्रति दुर्बलाशः’ (रघु० ५।१२)। उक्तोऽर्थः।
  • ‘अथोपपत्तिं छलनापरोऽपराम्’ (शिशु० १।६९)। उपपत्तिर्जन्म।
  • ‘मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः’ (भा० अनु० २३।२)। उपपत्तिः प्रतिपत्तिः। उपपत्तिभिः=आदरादिभिः।
  • ‘प्रियेषु यैः पार्थ विनोपपत्तेः’ (कि० ३।५२)। विनोपपत्तेः=अकारणम्, अहेतुकम्।
  • ‘देवि सोपपत्तिकमभिहितम्’ (नागा० ५)। सोपपत्तिकं युक्तियुक्तम्।
  • ‘उपपत्तिमदूर्जिताश्रयं नृपमूचे वचनं वृकोदरः’ (किं० २।१)। उक्तोऽर्थः।
  • ‘नोपपत्त्या न वा युक्त्या त्वसद् ब्रूयादसंशयम्’ (भा० शां० २७५।८)।
  • ‘उपपत्त्योपलब्धेषु लोकेषु समो भव’ (भा० शां० २८८।११)। उपपत्तिः समापत्ति र्यदृच्छा दैवयोगः। लोकेषु विषयेषु।
  • ‘सत्येन हि स्थितो धर्म उपपत्त्या तथा नरे’ (भा० शां० १००।२)। उपपत्तिर्मरणनिश्चयः। ध्रुवो मृत्युरिति भिया धर्मश्चर्यत इति भावः।
  • ‘यावन्मानुष्यके शक्यमुपपादयितुम्।’ कादम्बर्यां तारापीडस्य देवीं प्रत्युक्तिः। उपपादयितुं साधयितुम्।**
  • ‘अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनम्’ (भा० उ० १४२।२)। उपपाद्यते साध्यते ऽनेनेत्युपपादनं साधनमुपायः।
  • ‘अधिकरणं त्वेकन्यायोपपादनम्’ (हारा०)। उपपादनं साधनं युक्त्यादिभिः स्थापनम्।
  • ‘परहितसुखोपपादनपरः’ (अवदा० कुम्भजा० )। उपपादनं साधनम्।
  • ‘उपपादुका देवनारकाः’ (हारा०)। स्वयंजन्मान इत्यर्थः।
  • ‘दिव्योपपादुका देवाः’ (अमरः)। दिव्यजन्मान इत्यर्थः।
  • ‘उपपादुकं सत्त्वम्’ (पा० ३।२।१५४ सूत्रे वृत्तौ)।

पीड्

  • {उपपीड्}
  • पीड् (पीड अवगाहने)।
  • ‘उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत्’ (मनु० ७।१९५)। उपपीडयेत् कदर्थयेत्, उत्सादयेत्।
  • ‘पार्श्वोपपीडं शेते’ (पा० ३।४।४९ सूत्रे वृत्तौ)। पार्श्वयो र्निपीड्येत्यर्थः।

पा

  • {उपपा}
  • पा (पा पाने)।
  • ‘यद्युपपाय्यमानो न पिबेत्’ (आप० श्रौ० ९।१८।११)। उपपाय्यमान उपनीय पाय्यमानः, अपां समीपे नीतः सन्पानं कार्यमाणः।

पृच्

  • {उपपृच्}
  • पृच् (पृची सम्पर्के)।
  • ‘वीरेषु वीराँ उप पृङ्धि नस्त्वम्’ (ऋ० २।२४।१५)। उपपृङ्धि सम्पृक्तान्कुरु। पौत्रानपि लभेमहीत्यर्थ इति सायणः।
  • ‘उप क्षत्रं पृञ्चीत हन्ति राजभिः’ (ऋ० १।४०।८)। उपपृञ्चीत आत्मनि सम्पृक्तं कुर्यात्। वर्धयेदिति भावः। क्षत्रं बलम्।
  • ‘उपेदमुपपर्चनमासु गोषूप पृच्यताम्’ (ऋ० ६।२८।८)। उपपर्चनमाप्यायनमिति सायणः। गर्भाधानमित्यन्ये साम्प्रतिकाः। उपपृच्यतां समीपे निधीयताम्।
  • ‘उपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते’ (तै० सं० १।४।२२)। **यजमानस्यात्यन्तं समीपे सम्बध्यत इत्यर्थः। यजमानेन हवि र्दीयत इत्युक्तं भवति। देवस्य दातुस्ते दानं यजमानं प्रति पृच्यते (संनिकृष्यते) इत्युवटमहीधरौ’ (वा० सं० ३।३४)।
  • ‘यौवने जीवानुपपृञ्चती जरा’ (अथर्व० १८।४।५०)। उपपृञ्चती (जीवैः) सम्प्रयुज्यते।

प्रच्छ्

  • {उपप्रच्छ्}
  • प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
  • ‘उपपृच्छामहे गत्वा विदुरं च महामतिम्’ (भा० सौ० २।३३)। उपेत्य प्रक्ष्याम इत्यर्थः।
  • ‘सोऽहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः’ (भा० शां० ३२६।१२)। उक्तोऽर्थः।

प्लु

  • {उपप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘अथवा यथैवान्यान्यपि पदकार्याण्युपप्लवन्ते रुत्वं जश्त्वं चैवेदमपि पदकार्यमुपप्लोष्यते’ (न पदान्तद्विर्वचनेति सूत्रे भाष्ये)। उपप्लवन्ते प्राप्नुवन्ति।
  • ‘तस्यातिमात्रेणोरः क्षण्यते। तस्योरः क्षतमुपप्लवते’ (चरक० नि० ६।४)। उपप्लवते व्याप्नोति।
  • ‘तानि तान्यङ्गान्युपप्लवन्ते तेषु महाकषायेषु’ (चरक० सूत्र० ४।२०)। उपप्लवन्त आवर्तन्ते पुनः पुनः पठ्यन्त इत्यर्थः।
  • ‘तानेतान् साम गायमानान् वागुपाप्लवत’ (पञ्च० ब्रा० १२।५।१४)।
  • ‘उपाप्लवत उपागच्छत् अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता’ (भा० उ० ४९।२५)। उपप्लुता भ्रष्टा। उपप्लुतेक्षणः=अश्रुपूर्णनयनः।
  • ‘जगदालोक्य तत् तादृगुक्तोपप्लवाप्लुतम्’ (यो० वा० ६।२ १३४।१३६)। उपप्लव आप्लाबे निमग्नमित्याह।
  • ‘समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप’ (भा० पु० ८।२४।७)। पूर्वोदित एवार्थः।
  • ‘पौलस्त्योपप्लुता हरिम्।…अभिजग्मुः’ (रघु० १०।५)। उपप्लुताः पीडिताः। उपद्रुता इति त्वक्षरार्थः।
  • ‘उपप्लुतमघौधेनात्मानं नावबुध्यसे’ (रा० २।७।१४)। उक्तोऽर्थः।
  • ‘आर्तांमुपप्लुतां दीनां निमग्नां शोकसागरे’ (भा० आश्व० ६९।११)।
  • ‘भवतो द्यूतदोषेण सर्वे वयमुपप्लुताः’ (भा० वन० ५२।१३)। उपप्लुताः कदर्थनां प्राप्ताः।
  • ‘उपप्लुतमिवादित्यं सधूममिव पावकम्’ (भा० आश्व० ११।२)। उपप्लुतमुपरक्तं सोपरागं ग्रहग्रस्तम्।
  • ‘उपप्लुतं यथा सोमं संशुष्कमिव सागरम्’ (भा० द्रोण० ४९।१८)। उक्तोऽर्थः।
  • ‘कुर्यामहं जितः कर्म स्वयमात्मन्युपप्लुते’ (भा० सभा० ६५।२८)। उपप्लुतो जितः।
  • ‘जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि’ (रघु० २।४८)। उपप्लव उपद्रवः, विघ्नः।
  • ‘कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदामाश्रमपादपानाम्’ (रघु० ५।६)। उपप्लवो बाधकः।
  • ‘उपप्लवाय भूतानां धूमकेतुरिवोत्थितः’ (कु० २।३२)। उपप्लवो विनाशः।
  • ‘वनोपप्लवः।’ वनव्यसनं दावादिकृतो वनविनाशः।
  • ‘चन्द्रमिवोपप्लवान्मुक्तम्’ (विक्रम० १।११)। उपप्लव उपरागो ग्रहणम्।
  • ‘उपप्लवविनिर्मुक्तां मूर्ति चान्द्रमसीमिव’ (कथा० १६।१०५)।
  • ‘उपप्लवांस्तथा घोराञ् शशिनस्तेजसस्तथा’ (भा० शां० ३०१।३६)। उक्तोऽर्थः।
  • ‘यथा त्वमस्मान्भजसे वर्तमानान् उपप्लवे’ (भा० द्रोण० ११०।६५)। उपप्लवे विमर्दे।
  • ‘मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात्’ (भा० पु० १०।८४।२५)। स्मृत्युपप्लवः स्मृतिभ्रंशः स्मृतिप्रमोषः।
  • ‘विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः’ (सर्व० द० सं० पृ० ४४)। उपप्लवो भ्रमः।
  • ‘प्रतिलक्ष्यं लक्षणोपप्लवः।’ लक्षणभेदः।
  • ‘गन्धर्वाणामुपप्लवे’ (भा० आदि० १३९।२०)। उपप्लव आस्कन्दः।
  • ‘उत्सार्य जनं युद्धमासीदुपप्लवे बलिनोः संयुगे’ (भा० सभा० २३।२५)। उपप्लवे युद्धभूमौ।
  • ‘निषेधवाक्यानां व्यक्तिपक्षे विनिगमनाविरहादुपप्लवः’ (प्रदीपोद्द्योते)। उपप्लवो ऽध्यास इति नानार्थसंक्षेपे केशवः।
  • ‘नृपा उपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते’ (रघु० १३।७)। उपप्लविनो भयवन्त इति मल्लिः। आपन्ना इति परे।

बन्ध्

  • {उपबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘त्वमग्ने यातुधानानुपबद्धाँ इहावह’ (अथर्व० १।७।७)। उपबद्धान् रज्ज्वादिबद्धहस्तपादाद्यवयवान्।
  • ‘तस्यै हावि र्द्व्युरणा शयन उपबद्धाऽऽस’ (श० ब्रा० ११।५।१।१)। अन्तिके बद्धा उपबद्धा।
  • ‘नामधेयमपि गुणफलोपबन्धेनार्थवत्’ (मी० १।४।१।२ शा० भा०)। उपबन्धो योगः सम्बन्धः।
  • ‘चोदनागुणेषु क्लृप्त्युपबन्धाभ्याम्’ (का० श्रौ० १।८।२२)। उपबन्धो योगः। इह संख्यायोगः।
  • ‘बन्धोपबन्धपतनोत्थित–’ (चौर० ४८)। बन्धः पङ्कजासनादिः। उपबन्ध एतत्प्रभेदः।
  • ‘अपि वा सीमेत्यनर्थकमुपबन्धमाददीत’ (नि० १।७।३)।
  • ‘अपि वाधीयाने युरुपबन्धः’ (नि० १।८।१)। उपबन्धः प्रत्ययः, नामकरणः।

बृह्

  • {उपबृह्}
  • बृह् (बह उद्यमने)।
  • ‘उप बर्बृहि वृषभाय बाहुम्’ (ऋ० १०।१०।१०)। उपबर्हणं कुरु (आलिङ्गनाय)। उपोद्यच्छ परिष्वङ्गायेत्याह।
  • ‘श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत्’ (ऋ० ५।६१।५) उक्तोऽर्थः। उपधानं तूपबर्हः स्यात् इत्यमरः।
  • ‘वेद आस्तरणं ब्रह्मोपबर्हणम्’ (अथर्व० १५।३।७)।
  • ‘चित्तिरा उपबर्हणम्’ (ऋ० १०।८५।७)। ‘आः’ इत्यस्ते र्लङि प्रथमपुरुषैकवचने रूपम्। ईडागमो न कृतः।
  • ‘पुराण्यासन्दी सोपवर्हणा’ (श० ब्रा० १३।८।४।१०)। उक्तोऽर्थः।
  • ‘क्षां दासायोपबर्हणीं कः’ (ऋ० १।१७४।७)। उपबर्हणी शय्या।

बृह्

  • {उपबृह्}
  • बृह् (बृह वृहि बृद्धौ)।
  • ‘घण्टास्वनेन तान्तादानम्बिकोपबृंहयत्’ (मार्क० पु० ५७।६४)। अवर्धयत्, स्फीतानकरोत्।

ब्रू

  • {उपब्रू}
  • ब्रू (ब्रूञ् व्यक्तायां वाचि)।
  • ‘द्विता यदीं …नमस्यन्त उपवोचन्त भृगवः’ (ऋ० १।१२७।७)। उपवोचन्त उपेत्य ब्रुवन्ति।
  • ‘तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते’ (ऋ० १।७७।३)। स्तुतिभिरुपेत्य कथयन्तीति।
  • ‘(द्यावापृथिवी)। उप ब्रुवे नमसा यज्ञे अस्मिन्’ (ऋ० १।१८५।७)। उपब्रुवे उपेत्य स्तौमि।
  • ‘इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे’ (अथर्व० २०।१९।५)। उक्तोऽर्थः।
  • ‘स्वस्तये वायुमुप ब्रवामहै’ (ऋ० ५।५१।१२)। उपब्रुवामहै स्तुमः।
  • ‘इयं नार्युप ब्रूते लाजानावपन्तिका’ (अथर्व० १४।२।६३)। उपब्रूते प्रार्थयते।
  • ‘यस्त्वा देवि सरस्वत्युपब्रूते धने हिते’ (ऋ० ६।६१।५)। उपेत्य स्तौति।
  • ‘तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि’ (अथर्व० ५।८।६)। उपोचिरे उपोदुः, उपावदन्, आत्मानं प्रेरितवन्त इति वा। अयं चान्त्योपि न न रोचते नोऽर्थः। कृति प्रत्यये तदुपलम्भात्। यथा–वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ( ऋ० ४।९।५)। हविर्दानलक्षणे कर्मणि वचनेन प्रयोक्ता प्रेरक इत्यर्थः।

भुज्

  • {उपभुज्}
  • भुज् (भुज पालनाभ्यवहारयोः)।
  • ‘उप वयं तं भुञ्जामः’ (छां० उ० ४।११।२)। उपभुञ्जामः=उपभुञ्ज्मः=पालयामः।
  • ‘न भोक्ष्ये न च पानीयमुपभोक्ष्ये कथं चन’ (भा० शां० २७।२५)। उपोऽर्थे नान्तरं करोति। यथाऽश्नात्युपाश्नाती समानार्थौ तथा भुज्युपभुजी अपि।

भू

  • {उपभू}
  • भू (भू सत्तायाम्)।
  • ‘उप मामुच्चा युवति र्बभूयाः’ (ऋ० १०।१८३।२)। उपबभूयाः=उपेत्य भूयाः।
  • ‘अस्मिन्यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन् दधामि’ (तै० ब्रा० ३।७।६।७)।
  • ‘अस्या ऊ षु ण उप सातये भुवः’ (ऋ० १।१३८।४)। उपभुवः=समीपे भव, सहायो भव।
  • ‘यः कल्याणगुणाञ्ज्ञातीन् द्वेषान्नोपबुभूषति’ (भा० शां० ३५१४)। सहायभावमुपगन्तुं नेच्छति साचिव्यं न चिकीर्षति।

भृ

  • {उपभृ}
  • भृ (भृञ् भरणे, भृञ् धारणपोषणयोः)।
  • ‘उपभृद् इति स्रुज्विशेषः। इमानि च रूपान्तराणि स्रुचः–खादिरः स्रुवः, पर्णमयी जुहूः, आश्वत्थी उपभृत्, वैकङ्कती ध्रुवा। एतद्वै स्रुचां रूपम्’ (श० ब्रा० १।३।२।२)।

मद्

  • {उपमद्}
  • मद् (मदी हर्षे)।
  • ‘यथेदमप्येतर्हि ज्ञातीनां यं गरिष्ठे (कर्मणि) युञ्जन्ति तमुपमदन्ति’ (श० ब्रा० १।४।२।१)। उपमदन्ति स्तुवन्ति।

मन्

  • {उपमन्}
  • मन् (मन ज्ञाने, मनु अवबोधने)।
  • ‘वचो वः समवेतार्थं तातैतदुपमन्महे।’ (भा० पु० उत्तरार्धे १०।८५।२२)। उपमन्महे प्रतीमः, जानीमः। नार्थ उपेन। उपस्य चेहैव मनुतिना योगो नेतरत्र।

मन्त्र्

  • {उपमन्त्र्}
  • मन्त्र् (मत्रि गुप्तपरिभाषणे)।
  • ‘तामुभय उपमन्त्रयाञ्चक्रिरे’ (श० ब्रा० १।४।१।३४)। उपमन्त्रयाञ्चक्रिरे स्वैरं मन्दमन्दं निमन्त्रयाञ्चकिरे।
  • ‘तमुपामन्त्रयन्त’ (शां० ब्रा० १।२)। उपामन्त्रयन्त आह्वयन्।
  • ‘उशना वै काव्यो ऽसुराणां पुरोहित आसीत् तं देवाः कामदुघाभिरुपामन्त्रयन्त’ (पञ्च० ब्रा० ७।५।२०)। उपच्छन्दयामासुरित्यर्थः।
  • ‘प्रियामनुगतः कामी बचोभिरुपमन्त्रयन्’ (भा० पु० ९।१८।३५)। उपमन्त्रयन् उपमन्त्रयमाणः, उपच्छन्दयन् प्रसादयन्, अनुनयन्।
  • ‘तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता। सदेष्णा प्रेषयामास’ (भा० वि० १५।९)॥ उपमन्त्रिता प्रार्थिता उपच्छन्दिता।
  • ‘उपमन्त्रणं रहस्युपच्छन्दनम्’ (पा० १।३।४७ सूत्रे वृत्तौ)।
  • ‘हसनामुपमन्त्रिणः’ (ऋ० ९।११२।४)। उपमन्त्रिणो नर्मसचिवा इति सायणः। हसनामित्यत्र वाचमित्यध्याहार्यम्।

मस्ज्

  • {उपमस्ज्}
  • मस्ज् (टुमस्जो शुद्धौ)।
  • ‘उपमङ्क्ष्यति स्या (=सा पृथिवी) सलिलस्य मध्ये’ (श० ब्रा० १३।७।१।१५)। ** उपमङ्क्ष्यति निमङ्क्ष्यति।**

मा

  • {उपमा}
  • मा (माङ् माने)।
  • ‘उप नो वाजान् मिमीहि’ (अथर्व० २०।३७।११)। उपमिमीहि प्रयच्छ।
  • ‘अस्मभ्यं चित्राँ उप माहि वाजान्’ (ऋ० ४।२२।१०)। उक्तोऽर्थः।
  • ‘पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः’ (ऋ० ८।४०।९)। उपमातयो दानानीति सायणः।
  • ‘का अस्य पूर्वीरुपमातयो ह’ (ऋ० ४।२३।३)। उक्तोऽर्थः।
  • ‘अस्मभ्यं चित्राँ उप माहि वाजान्’ (ऋ० ४।२२।१०)। उपमाहि देहि।

मान्

  • {उपमान्}
  • मान् (मानेर्जिज्ञासायां सनि मीमांस इति धातुः)।
  • ‘तस्य नोपमीमांसाऽस्ति’ ( श० ब्रा० ११।४।२।१२)। उपमीमांसा विचारणा शङ्का विमर्शः।

मुच्

  • {उपमुच्}
  • मुच् (मुच्लृ मोक्षणे)।
  • ‘आसन्द्या उपानहा उपमुञ्चते’ (श० ब्रा० ५।५।३।७)। आसन्द्याश्चतुष्किकायाश्चरणाववतार्योपानहोर्धरत इत्याह। बध्नातीत्यक्षरार्थः। प्रायेणात्रार्थ आङ्पूर्वस्य मुचेः प्रयोगः प्रतिपूर्वस्य वा। वाक्ये चरणशब्दस्य चाप्रयोगः।
  • ‘कार्ष्णीं उपानहावुपमुञ्चते’ (तै० सं० ५।४।४।१७)।

मुद्

  • {उपमुद्}
  • मुद् (मुद हर्षे)।
  • ‘ब्रह्माहुतीरुपमोदमानम्’ (तै० ब्रा० ३।१२।३।३)।

मृ

  • {उपमृ}
  • मृ (मृङ् प्राणत्यागे)।
  • ‘तूष्णीमेवेत्याभ्यवेत्योपमारयति’ (श० ब्रा० २।५।२।४६)। अप्सु निमज्जयतीत्यर्थः।

मृज्

  • {उपमृज्}
  • मृज् (मृजू शुद्धौ)।
  • ‘एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः’ (ऋ० ९।१५।७)। उपमृजन्ति निष्पीडयन्ति आस्फालयन्ति।
  • ‘अथ यदुपमार्ष्टि तत्पितृषु चौषधीषु च जुहोति’ (श० ब्रा० २।३।१।१९)। उक्तोऽर्थः।

मृद्

  • {उपमृद्}
  • मृद् (मृद क्षोदे)।
  • ‘यदा नाभूद्रतान्तोऽस्य (शङ्करस्य) गतेष्वब्दशतेष्वपि। तदा तदुपमर्देन चकम्पे भुवनत्रयम्’ (कथा० २०।७३)॥ उपमर्दोऽवपीडनम्।
  • ‘अन्यासु तावद् उपमर्दसहासु भृङ्ग। लोलं विनोदय मनः सुमनोलतासु’ (सा० द० )। उपमर्दो बाधः।
  • ‘अन्यतरोपमर्देन ह्यन्यतरद् बुद्धावारोहति’ (शा० दी० पृ० ११४)। उक्तोऽर्थः।
  • ‘हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्’ (रा० २।११७।३)। उपमर्दो भूमेरशुचिता।
  • ‘…नावदिष्यत्स्वयं यदि। अभविष्यदिदं शास्त्रं पाणिनीयोपमर्दकम्’ (कथा० ७।१२)। उपमर्दकमुत्सादकम्।

म्लुच्

  • {उपम्लुच्}
  • म्लुच् (म्लुचु गतौ)।
  • ‘स तत एवौषधीनां मूलान्युपमुम्लोच’ (श० ब्रा० १।२।५।८)। मूलेष्वन्तर्दध इत्यर्थः।

यज्

  • {उपयज्}
  • यज् (यज देवपूजासङ्गतिकरणदानेषु)।
  • ‘स्त्रियश्चोपयजेरन्’ (पा० गृ० २।१७।१८)। उपयजेरन् बलिकर्म कुर्युः।

यत्

  • {उपयत्}
  • यत् (यती प्रयत्ने)।
  • ‘इमं स पाप्मा नोपयतते’ (श० ब्रा० ८।५।१।७)। नोपद्रवति नोपैतीत्यर्थः।

यम्

  • {उपयम्}
  • यम् (यम उपरमे)।
  • ‘अन्तरिक्षेणोपयच्छामि’ (श० ब्रा० १४।२।१।१७)। गृह्णामीत्यर्थः।
  • ‘उपयच्छोपयमनीः’ (श० ब्रा० ९।२।३।१)। उक्तोऽर्थः।
  • ‘स्वं शाटकान्तमुपयच्छति’ (पा० १।३।५६ सूत्रे भाष्ये)।
  • ‘कोपात्काश्चित् प्रियैः प्रत्तमुपायंसत नासवम्’ (भट्टि० ८।३३)। उदितचर एवार्थः।
  • ‘निर्मृज्योपयच्छति’ (कौ० सू० ४२।१-५)। स्वीकरोतीत्यर्थः।
  • ‘तानि मृत्युः श्रमो भूत्वोपयेमे’ (श० ब्रा० १४।४।३।११)। उपयेमे स्वीचकार, वशे चकार, स्वायत्तान्यकार्षीत्।
  • ‘परस्य भार्यामुपयच्छति’ (काशिका)। दासीत्वेन परिगृह्णातीत्यर्थः।
  • ‘नाभ्रात्रीमुपयच्छेत’ (नि० ३।५)। उपयच्छेत उद्वहेत्, परिणयेत्।
  • ‘बुद्धिरूपशीललक्षणसम्पन्नामरोगामुपयच्छेत’ (आश्व० गृ० १।५।३)। उक्तोऽर्थः।
  • ‘एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान्’ (मनु० ११।१७२)। उक्तचर एवार्थः। संविशेदिति तु कोषकृन्मोनियर्।
  • ‘आत्मानुरूपां विधिनोपयेमे’ (कु० १।१८)। उपयेमे परिणिनाय।
  • ‘अथैनामुपयच्छते’ (हिरण्य० गृ० १९।३)। अवकिरते मिथुनी भवतीत्यर्थः।
  • ‘बर्हिषोपयम्योदङ् पर्यावृत्त्य प्राचीनदण्डयोदीचीनदण्डया वा स्रुचा’ (भा० श्रौ० ६।१३।८)। बर्हिषि निधायेत्यर्थः।
  • ‘प्रथमायां त्रिरनूकायामुपयमनीभिरुपयम्य हरति’ (आप० श्रौ० ७।२।६)। उपयम्य गृहीत्वा।
  • ‘अथोपयन्त्रा सदृशेन युक्ताम्’ (रघु० ७।१)। उपयन्त्रा वरेण।
  • ‘कौमारापूर्ववचने’ (पा० ४।२।१३) इत्यत्र आद्य उपयन्तरि प्रत्ययः, द्वितीय उपयतायामिति विवेक इति बालमनोरमा। तत्रोपयन्तेति वोढारं पतिमाचष्टे।
  • ‘कन्या त्वजातोपयमा’ (सा० द०)। उपयमो विवाहः।
  • ‘निबन्धः खल्वेकग्रन्थोपयमोऽर्थानाम्’ (३।२।४३ न्यायभाष्ये)। एकग्रन्थोपयताः खल्वर्था अन्योन्यस्मृतिहेतवः (इति च तत्रैव)। उपयमो निबन्धः प्रतिपादनम्।
  • ‘विभाषोपयमने’ (पा० १।२।१६)। उपयमनं विवाहः।
  • ‘इत्यभ्रातृकाया उपयमने प्रतिषेधः’ (नि० ३।५।५ दुर्गवृत्तौ)। उक्तोऽर्थः।
  • ‘दक्षिणत उदङ्ङासीन ऋत्विगुपयमनं कारयेत्’ (लौ० गृ० १५।३)। उक्तोऽर्थः। दातृप्रतिग्रहीतृसम्बन्धं कारयेदित्यर्थ इति देवपालः। भक्षणसाधनो य उपयमनाख्यः पात्रविशेष इति अथर्व० ७।७७।३ ‘योअश्विनोश्चमसो देवपानः’ इत्यत्र सायणभाष्यम्।
  • ‘उद्यच्छन्तीध्ममुपयच्छन्त्युपयमनीः’ (श० ब्रा० ९।२।३।१)। उपययमनीरुपधानभूतान्यन्तःस्थलानि सिकतादिमयानि। अन्यत्र पात्रविशेषोप्युपयमनी भवति। तद्यथा–द्वन्द्वं पाचाण्युपसादयति–उपयमनीं महावीरं परीशासौ पिन्वने (श ब्रा० १४।१।३।१)।
  • ‘उपयमनकुशानादाय’ (पा गृ० १।१।९)। यत्र किं चिद् उपयम्यत उपधीयते ते कुशा उपयमनाः।

या

  • {उपया}
  • या (या प्रापणे प्रापणमिह गतिः)।
  • ‘युक्त्वा रथमुपदेवाँ अयातन’ (ऋ० १।१६१।७)। देवानुपायातन देवानां सामीप्यं प्राप्नुत।
  • ‘भृतिं चोपययौ तस्य सारथ्येन महीपतेः’ (भा० वन० ६०।२५)।
  • ‘यत्रोपयाति हरिभिः सोमपीथी।’ (भा० अनु० १०२।५४)। उक्तोऽर्थः।
  • ‘उपयानापयाने च स्थानं प्रत्यपसर्पणम्। सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना’ (रा० ६।८९।१९)॥
  • ‘पुत्राणां दुहितॄणां च काले विध्युपपापनम्। दारैर्वीरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः’ (भा० पु० १०।६९।३२)॥ उपयापनं विवाहः। अस्मिन्नर्थेऽ स्यात्रैव प्रयोगो नान्यत्र।

याच्

  • {उपयाच्}
  • याच् (टुयाचृ याच्ञायाम्)।
  • अर्थ उपयाच्ञायाम् इति धातुपाठः। अनोपशब्दो नान्तरमर्थे करोति। अपि वोपेत्य याच्ञोपयाच्ञा स्यात्।
  • ‘भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्। एतया वा दरिद्राणां किमन्यदपयाचितम्’ (सर्व० द० सं० प्रत्यभि०)। उपयाचितम्=याचनम्। अपयाचितमनिष्टप्रार्थनम्।
  • ‘त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः’ (रघु० १३।५३)। उपयाचितः प्रार्थित:।
  • ‘त्रैलोक्यचारिणी सा त्वं भुवि सत्योपयाचना’ (हरि० २।२।५०)। ममेदमीप्सितं कुरु, अहं त्वां पूजयिष्यामि तं तमुपहारं ते दास्यामीत्येवंरूपा प्रार्थना उपयाचनोच्यते।
  • ‘तैस्तैरप्युपयाचितैरुपनतस्तन्व्या स्थितोऽप्यन्तिके’ (ध्वन्यालोके विश्नेश्वरेण हिन्दीव्याख्यायां पृ० ४९ समुद्धृतमुत्पलपादाचार्यवचनम्)। उक्तोऽर्थः। उपयाचितैः स्वार्थसिद्धौ प्रतिश्रुतैरर्थैरित्यर्थः। इत्थं च निरूपयन्त्युपयाचितं तज्ज्ञाः– दीयते यत्तु देवेभ्यो मनोराज्यस्य सिद्धये। उपयाचितकं दिव्यं दोहदं तद् विदुर्बुधाः॥
  • ‘निक्षेपी म्रियते तुभ्यमुपदास्याम्युपयाचितम्’ (पञ्चत० १।१४)।
  • ‘उपयाचितदानेन यतो देवा अभीष्टदाः’ (पञ्चत० २।५०)।
  • ‘अद्य मया भगवत्याः करालायाः प्रागुपयाचितं स्त्रीरत्नमुपहर्तव्यम्’ (मालती० ५)।
  • ‘तस्योपयाचितान्येत्य तत्रत्याः कुर्वते जनाः। तत्तद्वाञ्छितसंसिद्धिहेतोस्तैस्तैरुपायनैः’ (कथा० १३।१६६)॥ तस्योपयाचितानि कुर्वन्ति प्रतिश्रुतार्थमर्पयन्ति।
  • ‘ग्रहाणां चरितं स्वप्नो निमित्तान्युपयाचितम्। फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति’ (वेणी० २।१५ इत्यत्राङ्गिरोवचनमित्युदाहृतम्)॥

युज्

  • {उपयुज्}
  • युज् (युजिर् योगे)।
  • ‘उपो रथेषु पृषतीरयुग्ध्वम्’ (ऋ० १।३९।६)। उपायुग्ध्वं योजितवन्तः (यूयं मरुतः)।
  • ‘उप नूनं युयुजे वृषणा हरी’ (ऋ० ८।४।११)। उक्तोऽर्थः।
  • ‘महोभिरेतां उप युज्महे’ (ऋ० १।१६५।५)। (हविरादि) स्वीकुर्मह इत्यर्थः।
  • ‘नासंपृष्टो ह्युपयुङ्क्ते परार्थे’ (भा० वि० प्रजागर०)। उपयुङ्क्ते व्याप्रियते प्रवर्तते।
  • ‘गां न धुर्युप युञ्जाथे अपः’ (ऋ० १।१५१।४)। उपयुञ्जाथे सेवेथे।
  • ‘षाड्गुण्यमुपयुञ्जीत’ (शिशु० २।९३)। प्रयुञ्जीतेत्यर्थः।
  • ‘तथेत्युक्त्वा च ते सर्वे प्रोक्षयित्वा च गां ततः। पितृभ्यः कल्पयित्वैनामुपायुञ्जन्त भारत’ (हरि० १।२१।१३)॥ उपायुञ्जन्त उपायुञ्जत अभक्षयन्।
  • ‘त्वां चेदवध्यं दायादमतीव प्रियदर्शनम्। अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम्’ (भा० वन० १७९।१५)॥ उपयोक्ष्यामि उपयोक्ष्ये भोक्ष्ये भक्षयिष्यामि।
  • ‘अग्निस्तेजो महल्लोके गूढस्तिष्ठति दारुषु। न चोपभुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः’ (भा० उ० ३७।६०)॥ नोपयुङ्क्ते नाश्नाति।
  • ‘फलान्युपायुङ्क्त स दण्डनीतेः’ (रघु० १३।४६)। उपायुङ्क्त उपाभुङ्क्त, उपाश्नात्, निरविशत्।
  • ‘उभयमेव तत्रोपयुज्यते फलं धर्मस्यैवेतरस्य च’ (भा० उ० ४२।२३)। उक्तपूर्वोऽर्थः।
  • ‘बालस्याप्यर्थवद् वाक्यमुपयुञ्जीत पण्डितः’ (कौ० अ० १।११।१५)। उपयुञ्जीत स्वीकुर्यात्।
  • ‘यत् किं च समाहितो ब्रह्म प्याचार्यादपयुङ्क्ते’ (आप० ध० १।२।५।७) उपयुङ्क्त आदत्ते। ब्रह्मप्याचार्यात्। इत्यत्र शकन्ध्वादित्वात् पररूपम्।
  • ‘वृत्तचौलकर्मा लिपिं संख्यानं चोपयुञ्जीत’ (कौ० अ० १।५।१)। उपयुञ्जीत उपाददीत शिक्षेत।
  • ‘ब्रह्मोज्झः कृच्छ्रं द्वादशरात्रं चरित्वा पुनरुपयुञ्जीत वेदमाचार्यात्’ (व० ध० शा० २०।१२)। उक्तोऽर्थः।
  • ‘क्रमेणास्योपयुञ्जन्ति रूपमायुस्तथैव च’ (भा० स्त्री० ७।११)। उपयुञ्जन्ति उपयुञ्जते उपयोगेन क्षयं नयन्ति समाप्तिं गमयन्ति।
  • ‘मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते’ (भा० वन० १२७३९)। नोपयुज्यते उपयोगं न याति। अर्थवन्न भवतीत्यर्थः।
  • ‘शरदभ्रस्य शुभ्रत्वं वद कुत्रोपयुज्यते।’ क्वाऽस्योपयोगः, कास्यार्थवत्ता।
  • ‘तेजसा सह जातानां वयः कुत्रोपयुज्यते’ (पञ्चत० १।३२८)। उक्तोऽर्थः।
  • ‘प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती। स्नानीयवस्त्रक्रियया पत्रोर्णमिवोपयुज्यते’ (माल० ५।१२)। उपयुज्यते व्यवह्रियते, उपचर्यते।
  • ‘राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम्’ (मनु० ८।४०)। तद् धनं चौरहृतं धनमुपयुञ्जानः स्वस्यार्थे विनियुञ्जानः।
  • ‘अहीनसूक्तान्युपयुञ्जाना यन्ति’ (ऐ० ब्रा० ६।२१)। उपयुञ्जाना उच्चारयन्तः पठन्तः।
  • ‘भूयिष्ठमुपयुञ्जानं फेनम्’ (भा० आदि० ४०।१८)। उपयुञ्जानम् भुञ्जानम्।
  • ‘यश्चैषां कश्चित् सूत्रावयवो भवत्युपयुक्तः।’ उपयुक्तो गृहीतो विज्ञातः।
  • ‘यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम्’ (भा० शां० ३१८।५)। नोपयुक्तानि अनुपयुक्तानि विधिवदगृहीतानि।
  • ‘आगमकालेनैव सर्वमायुरुपयुक्तं स्यात्’ (भाष्ये)। उपयोगेन समाप्तं स्यात्।
  • ‘उपयुक्तोदकां भग्नां प्रपां निपतितामिव’ (रा० २।११४।१५)। उपयुक्तोदकां समाप्तजलाम्।
  • ‘यामन् यामन्नुपयुक्तं वहिष्ठं कर्मन्कर्मन्नाभगम्। अग्निमीडे’ (अथर्व० ४।२३।३)। उपयुक्तं विनियुक्तं व्यापारितम्।
  • ‘चतुर्भिश्च प्रकारै र्विद्योपयुक्ता भवति।’ (भा०)।
  • ‘तद्यथा उपयुक्ता माणवका इत्युच्यन्ते य एते नियमपूर्वकमधीतवन्तो भवन्ति’ (पा० १।४।२९ सूत्रे भाष्ये)। निगदव्याख्यातम्।
  • ‘अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः’ (भा० शां० १८६।१३)। उपयुक्तस्यात्तस्य। दग्धस्येति त्वार्थिकोऽर्थः।
  • ‘सवर्णसंज्ञोपयुक्ताः स्थानप्रयत्नाः’ (पा० १।१।९ सूत्रे वृत्तौ)। उपयुक्ता उपयोगवन्तः।
  • ‘अनुपयुक्तमिवात्मानं समर्थये’ (शा० ७ अङ्कादौ)। निरुपयोगमनर्थकं निष्प्रयोजनम्।
  • ‘तस्यादित्यो भामुपयुज्य भाति’ (भा० अनु० १५८।२२)। उपयुज्य आदाय।
  • ‘आख्यातोपयोगे’ (पा० १।४।२९)। नियमपूर्वकं गुरोर्विद्याग्रहणमुपयोगः।
  • ‘आपत्कल्पो ब्राह्मणस्याब्राह्मणाद् विद्योपयोगः’ (गौ० ध० ७।१)। उक्तोऽर्थः।
  • ‘तिष्ठतेरुपयोगश्च दृष्टोऽप्रत्यजयन्निति’ (वा० प० २।२०१)। उपयोग आक्षेपः।
  • ‘उपयोज्यश्चरुरयं त्वया मात्रा त्वयं तव’ (हरि० १।२७।१९)। उपयोज्यो भक्षणीयः।
  • ‘यथा ह वा स्थूरिणैकेन यायादकृत्वान्यदुपयोजनाय’ (ऐ० ब्रा० ५।३०)। उपयोजनं धुरि योजनम्।
  • ‘नियुतो वायोरित्यादिष्टोपयोजनानि’ (निघण्टौ १।१५)।
  • ‘प्राकारभञ्जनान्योगांश्च तथा निगडभञ्जनान्। अदर्शनप्रयोगांश्च जानेऽहमुपयोगिनः’ (कथा० १२।४२)॥ उपयोगिनोऽर्थवतः।
  • ‘नैव प्राज्ञा गतश्रीकं भर्तारमुपयुञ्जते’ (भा० वन० २६७।१८)। उपयुञ्जते तत आददतेऽर्थम्। न स्वामिनं भुञ्जते।
  • ‘यामन्यामिन्नुपयुक्तं वहिष्ठं कर्मन्कर्मन्नाभगमग्निमीडे’ (अथर्व० ४।२३।३)। उपयुक्तं (होमाधारत्वेन) विनियुक्तम्।

रक्ष्

  • {उपरक्ष्}
  • रक्ष् (रक्ष पालने)।
  • सज्जनं तूपरक्षणम् इत्यमरः। सैन्यस्य प्रगुणीकरणं गुल्मको वेति स्वामी। सैन्यरक्षणाय प्रहरिकादेर्न्यास उपरक्षणमिति भानुजिः।

रच्

  • {उपरच्}
  • रच् (रच प्रतियत्ने)।
  • ‘मनोरथोपरचितप्रासादवापीतटक्रीडाकाननकेलिकौतुकजुषाम्’ (भर्तृ० )। उपरचिता प्रासादवापी कल्पिता सौधदीर्धिका।

रञ्ज्

  • {उपरञ्ज्}
  • रञ्ज् (रञ्ज रागे)।
  • ‘उपरज्यते भगवांश्चन्द्रः’ (मुद्रा० १)। राहुणा गृह्यते।
  • ‘कोपोपरक्तानि मुखानि’ (सा० द०)। उपरक्तानि अरुणानि। उपशब्दो धात्वर्थानुवादी।
  • ‘अविद्याकामकर्मभिरुपरक्तमनसा’ (भा० पु० ५।१४।५)। उपरक्तमुपहतं मलिनीकृतम्, कलुषितम्।
  • ‘उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः’ (रा० १।५५।९)। उपरक्तो ग्रहगृहीतः, उपप्लुतः।
  • ‘अथ य उपरक्तेन हविषा यजते’ (श० ब्रा० ११।४।४।५)। उपरक्तेन ईषद् रक्तेन। उपशब्दः सामीप्ये।
  • ‘चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि’ (मुद्रा० १)। चन्द्रोपरागश्चन्द्रग्रहणम्।
  • ‘बिभर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम्’ (रघु० १६।७)। उपराग उपद्रवः। हिमकृता म्लानिः।
  • ‘इत्यादिभिः समालापैर्वत्सराजः स तद् दिनम्। लज्ज्जोपरागं देव्याश्च सममेवापनीतवान्’ (कथा० १७।५२)॥ उपरागो मालिन्यम्।
  • ‘उर्वीपतेश्च स्फटिकाश्मनश्च शीलोज्झितस्त्रीहृदयस्य चान्तः। असंनिधानात् सततस्थितीनामन्योपरागः कुरुते प्रवेशम्’ (राज० ६।२३४)॥ उपरागः संनिहितवस्त्वन्तरस्य रागः। उपशब्दः सामीप्ये।

रम्

  • {उपरम्}
  • रम् (रमु क्रीडायाम्)।
  • ‘ततो ह जारत्कारव उपरराम’ (बृ० उ० ३।२।१३)। उपरराम विरराम। वचनादिति शेषः।
  • ‘उपात्र खलु रमत’ (श० ब्रा० ११।४।१।३)। उपरमत तिष्ठत।
  • ‘उपरमन्ति घोषं घोषकृतः’ (शां० श्रौ० १७।७।७)। उपरमन्ति उपरमयन्ति विरमयन्ति, अवसाययन्ति।
  • ‘उपरमति देवदत्तम्’ (उपाच्चेति सूत्रे वृत्तौ)। उपरमयतीत्यर्थः। अन्तर्भावितण्यर्थको रमिः सकर्मकः।
  • ‘उपर उपलो मेघो भवति। उपरमन्त्यस्मिन्नभ्राणि’ (नि० २।२१।५)। उपरमन्ति अवस्थितानि भवन्ति।
  • ‘उपरता आप इति वा’ (नि० २।२१।५)। उक्तोऽर्थः।
  • ‘युद्धादुपारमन्’ (भा० द्रोण० ३६३३)। रात्रिः कस्मात्।
  • ‘उपरमयतीतराणि ध्रुवी करोति’ (नि० २।१८)। निगदव्याख्यातम्।
  • ‘उत्तराणि हवींषि श्रप्यमाणान्युपरमति’ (श० ब्रा० २।२।१।२)। उपरमति प्रतीक्षते।
  • ‘या क्रियां कर्ता प्राधान्येनानुपरमन्करोति तन्नित्यम्’ (पा० ८।१।४ सूत्रे वृत्तौ)। अनुपरमन् विच्छेदमकुर्वन्।
  • ‘त्वां तु कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्’ (रा० ५।२०।१३)। उपरतो विरतः सृष्टिव्यापारादिति शेषः। विश्वसृट् इति तु पाणिनीयाः।
  • ‘भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः’ (गीता २।३४)। उपरतं परावृत्तम्, पराङ्मुखम्।
  • ‘उपरतानि धनानि’ (पा० १।३।८४ सूत्रे न्यासे)। उपरतानि नष्टानि।
  • ‘चिरादुपरता वासवदत्ता’ (स्वप्न० ४)। उपरता मृता।
  • ‘अहोरात्रमुपरम्य प्राध्ययनम्’ (शां० गृ० ४।६)। उपरम्य विश्रम्य विच्छेदं कृत्वा। प्राध्ययनमध्ययनप्रारम्भः।
  • ‘यानि चापि त्वया सार्धं वनेषु च सुगन्धिषु। विहृतानि सुखं काले तेषामुपरमः कृतः’ (रा० ४।२०।८)॥ उपरमो विरामो ऽवसानम्।

रुच्

  • {उपरुच्}
  • रुच् (रुच दीप्तावभिप्रीतौ च)।
  • ‘उपो रुरुचे युवति र्न योषा’ (ऋ० ७।७७।१)। उपरुरुचे रोचमाना भासमानोपैतीत्यर्थः।

रुध्

  • {उपरुध्}
  • रुध् (रुधिर् आवरणे)।
  • ‘अजाश्चैवोपरोत्स्यन्ते पयसोऽर्थे युगक्षये’ (हरि० १११५८)। उपरोत्स्यन्ते व्रजेषु रुद्धाः करिष्यन्ते।
  • ‘शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते।’ (मनु० ८।३४८)। उपरुध्यते विहन्यते प्रतिहन्यते। साहसिकादिभिः कर्तुं न दीयते इत्यर्थः।
  • ‘अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः’ (रा० २।३६।१४)। किं नावारयः, किमिति न प्रत्यषेधः।
  • ‘वत्से उपरुध्यते तपोऽनुष्ठानम्’ (शा० ४)। उक्तोऽर्थः।
  • ‘पौरास्तपोवनमुपरुन्धन्ति’ (शा० १)। क्षुभितं कुर्वन्तीत्यर्थः।
  • ‘नेत्रक्रमेणोपरुशेध सूर्यम्’ (रेणुः) (रघु० ७।३९)। उपरुरोध आच्छादयामास। नेत्रमंशुकम्।
  • ‘सगरो ज्येष्ठं पुत्रमुपारुधत्।’ (रा० २।३४।१६)। उपारुधत्=अपारुधत् निराकरोत्।
  • ‘मा मोपरोत्सीरति मा सृजैनम्’ (कठोप० १।२१)। उपरोधो निर्बन्धः। निर्बन्धं मा कार्षीरित्यर्थः। उपरौत्सीरिति तु पाणिनीयाः।
  • ‘शपथैः शपमानो हि प्राणानुपरुणत्सि मे’ (रा० २।७५।६१)। उपरुणत्सि पीडयसि क्लिश्नासि कदर्थयसि।
  • ‘उपरुन्धन्ति राजानो भूतानि विजयार्थिनः’ (भा० शां० ९७।४)
  • ‘काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम्’ (आप० ध० २।४।९।११)। उपरुन्ध्यात् कदर्थयेत्, आहारादिना विना कुर्यात्।
  • ‘सूर्योढमतिथिं वसत्यै नोपरुन्धीत’ (आप० श्रौ० ५।७।२५।५)। नोपरुन्धीत न पराणुदेत्, न प्रत्याचक्षीत।
  • ‘(लीलापक्षिषु) भोजनार्थं वधूलोकमुपरुन्धत्स्वनारतम्’ (यो० वा० ६।(१)।१।१३)। उपरुन्धत्स्व उपरुन्त्स्व प्रेरय प्रार्थयस्व। यथास्थिते पाठे पररूपमेकादेशो बोध्यः।
  • ‘संभूय वणिजां पण्यमनर्घेणोपरुन्धताम्। विक्रीणतां वा विहितो दण्ड उत्तमसाहसः’ (याज्ञ० २।२५०)॥ अनर्घेण होनेन मूल्येन प्रार्थयमाना विक्रेयविक्रयं वारयन्ति, तेषाम्।
  • ‘धर्मार्थविद्याकालाननुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत’ ( )। अनुपरोधयन् अक्षिण्वन्नित्यर्थः।
  • ‘भो नित्यं प्रदीयतामित्यस्मानुपरुध्य किमिदानीं सन्तप्यते’ (प्रतिज्ञा० २)। उपरुध्य सनिर्बन्धं प्रेर्य॥
  • ‘गुरुर्नोपरोध्यो ऽध्यापयेति’ (मनु० २।७३ इत्यत्र मेधातिथिः)। नोपरोध्यो न सनिर्बन्धं प्रार्थ्यः।
  • ‘उपरुद्धं कुसुमपुरम्’ (मुद्रा०)। रुद्धं परिवेष्टितम्।
  • ‘उपरुद्धवृत्तिं बाष्पं कुरु’ (शा० ४)। उपरुद्धा विरता।
  • ‘न प्रसिद्धिरुपरोद्धुं न्याय्या’ (नि० १।१।११ इत्यत्र दुर्गः)। रूढेरनादरो न युक्त इत्याह।
  • ‘अनुग्रहः खल्वेषः, नोपरोधः’ (विक्रम० ३)। उपरोधः कृच्छ्रम्, कष्टम्।
  • ‘उपरोधो भवेदेवमस्माकं तपसः कृते’ (भा० आश्रम० ३६।४१)। उपरोधोऽन्तरायः प्रत्यूहः।
  • ‘महतामुपरोधेन प्रसीदन्ति हि देवताः’ (बृ० क० को० ११।५५)। उक्तोऽर्थः।
  • ‘मौलभृत्योपरोधेन’ (तन्त्रा० १।६।७५)। उपरोधोऽपनयनमपसारणम्। उपशब्दोऽपस्यार्थे। अन्यत्राप्यपोपयोर्व्यतिकरो लक्ष्यते बहुलः। नहि वाचि व्यवह्रियमाणायां सर्वं युक्तिमद् भवति।
  • ‘ये नित्या भाक्तिकास्स्युस्तेषामनुपरोधेन संविभागो विहितः’ (बौ० ध० २।३।५।१६)। उपरोधः पीडा।
  • ‘मात्रा पृष्टः सोपरोधं ध्रुवस्तां पर्यभाषत’ (स्कन्द० का० ४।१९।२४)। सोपरोधं सनिर्बन्धं साग्रहं साभिनिवेशम्।
  • ‘सप्तमो भोजराजस्य भयाद्रोधोपरोधतः। देवक्याः पातितो गर्भ इति लोको वदिष्यति’ (वि० पु० ५।१।७५)॥ रोधोपरोधतः कारायां निरोधात्।

रुह्

  • {उपरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘उपरूढव्रणः’ (सुश्रुत० २।६३।१३)। योर्थोऽन्यत्र संरूढव्रण इत्यनेनोच्यते स एवेहोपरूढव्रण इत्यनेन।

लक्ष्

  • {उपलक्ष्}
  • लक्ष् (लक्ष दर्शनाङ्कनयोः, लक्ष आलोचने)।
  • ‘नक्षत्रशब्देन ज्योतिःशास्त्रमुपलक्ष्यते’ (मनु० ३।१६२ इत्यत्र कुल्लूकः)। स्वार्थमुपादाय परार्थाभिधानमुपलक्षणं भवति।
  • ‘अस्ति र्नास्तेरुपलक्षणम्। शतशो ऽप्युपलक्षये’ (हरि० १२३५१)। उपलक्षये चक्षुर्विषयी करोमि।
  • ‘एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्’ (भा० अनु० ३३।५)। उपलक्षयेत् जानीयात्।
  • ‘लोकप्रवादः सत्येऽयं पण्डितैरुपलक्ष्यते’ (रा० ५।२६।६)। उक्तोऽर्थः।
  • ‘स गिरिरन्य इवोपलक्ष्यते’ (हरि० २।१८।४४)। लक्ष्यते प्रतिभाति।
  • ‘आदिमध्यावसानेषु भवच्छब्दोपलक्षिता’ (भैक्षचर्या) (यज्ञ० १।३०)। भवच्छब्दोच्चारणेनाङ्किता।
  • ‘सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य’ (भा० आदि० ७८४३)। उपलक्ष्य निशाम्य, विलोक्य।
  • ‘वेलोपलक्षणार्थमादिष्टोस्मि तत्र भवता प्रवासादुपावृत्तेन काश्यपेन’ (शा० ४)। का वेलेति नक्षत्रादिदर्शनेन निश्चेतुम्।
  • ‘अहर्गणे सुब्रह्मण्यायाः सर्वोपलक्षणं प्रकृतिवत्’ (का० श्रौ० १।७।६)। सर्वेषामह्नां भेदेनाभिधानमित्यर्थः।
  • ‘ऋणग्रहणं नियोगोपलक्षणार्थम्’ (पा० २।१।४३ सूत्रवृत्तौ)। ऋणशब्दो नियमपर इति ग्राहयितुम् इत्यर्थः।

लप्

  • {उपलप्}
  • लप् (लप व्यक्तायां वाचि)।
  • ‘स ग्रामणीरस्तु सहायमध्ये स्त्रीनृत्तगीतैरुपलप्यमानः’ (अवदा० जा० १९,१८)। उपलप्यमानोऽभिनन्द्यमानः सभाज्यमानः।

लभ्

  • {उपलभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘अग्निराप्तोपदेशात्प्रतीयतेऽत्राग्निरिति। प्रत्यासीदता धूमदर्शनेनानुमीयते। प्रत्यासन्ने च प्रत्यक्षत उपलभ्यते’ (न्याभा० )। उपलभ्यते ज्ञायते।
  • ‘स हि स्थानानि सर्वाणि कार्त्स्न्येन मुनिपुङ्गवः। नरमांसार्थिनां लोके नैपुण्येनोपलभ्यते’ (रा० ३।७५।७०)। उपलभ्यते=उपलभते।
  • ‘सुतार्थे नोपलब्धास्मि तिष्ठ मम प्रिये’ (भा० आदि० १६७।३७)। नोपलब्धास्मि नोपलभ्यास्मि, स्प्रष्टुं योग्या नास्मि। उदक्याऽस्मीति यतः।
  • ‘उपलब्धे’ (भा० ३।१३) (रथ्यासन्धौ)।
  • ‘योऽसौ च्छन्दःशास्त्रेष्वभिविनीत उपलब्ध्याधिगन्तुमुत्सहते’ (पा० गृ० २।१।३२)। उपलब्धिः=व्युत्पत्तिः।
  • ‘शप उपलम्भने’ (वार्तिकम् )। उपलम्भनं वाचा शरीरस्पर्शनमिति वृत्तिः।

लिख

  • {उपलिख}
  • लिख (लिख अक्षरविन्यासे)।
  • ‘अभ्यन्तरमुपलिखति’ (आप० श्रौ० ७।१।३।१४)। उपलिखति समीपे लिखति।
  • ‘दुरुक्तमुपलिखति’ (कौ० अ० ४।९।१७)। साधुकृत्य लिखतीत्यर्थः।

लिप्

  • {उपलिप्}
  • लिप् (लिप उपदेहे)।
  • ‘विद्याद्रसं स्वादुं यो वक्त्रमुपलिम्पति’ (वाग्भट० १०।२)। वक्त्रमुपलिम्पति वक्त्रे सक्तो भवति।
  • ‘इषुमात्रावरं सर्वतः स्थण्डिलमुपलिप्य’ (आश्व० गृ० १।३।१)। उपलिप्य उपलेपमुपदेहं कृत्वा।
  • ‘वस्तिगुदोपलेप-’ (सुश्रुत० १।११५।१५)। उपलेपो रोधो बन्धः।
  • ‘अन्नैरुपलेपिभिः’ (सुश्रुत० १।२७६।१०)। उपलेपिभिः कोष्ठबन्धकारिभिः।

ली

  • {उपली}
  • ली (लीङ् श्लेषणे)।
  • ‘यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष। धर्ममेवोपलीयन्ते कमवन्ति हि यानि च॥ तथा कर्णं महेष्वासं पुत्रास्तव नराधिप। उपालीयन्त सन्त्रासात् पाण्डवस्य महात्मनः’ (भा० कर्ण० ४१७१)॥ उपलीयन्ते संश्रयन्ते, उपश्लिष्यन्ति।
  • ‘मदमानमोहभुजगोपलयम्’ (गार्हस्थ्यम्) (अवदा० जा० १८,२०)। उपलयम् आशयम् आश्रयम्।

वच्

  • {उपवच्}
  • वच् (व्यक्तायां वाचि, ब्रूञ् आदेशो वा)।
  • ‘तनूपानं परिपाणं कृण्वाना यदुपोचिरे’ (अथर्व० ५।८।६)। उपोचिरे प्रोत्साहनमुद्धर्षगं चक्रिरे।
  • ‘द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवः’ (ऋ० १।१२७।७ )। उपवोचन्त उपेत्य ब्रुवन्ति इति सायणः। यथान्यत्र ब्रुवः प्रयोग उपशब्द आधिक्यमाचष्टे तथेहापि कुतो न ?
  • ‘वेषि ह्यध्वरीयतामुपवक्ता जनानाम्’ (ऋ० ४।९।५)। उपवक्ताऽधिकवक्ता, प्रेरकः प्रोत्साहकः।
  • ‘उदू अयाँ उपवक्तेव बाहू’ (ऋ० ६।७१।५)। उक्तोऽर्थः।
  • ‘इष्यन्वाचमुपवक्तेव होतुः’ (ऋ० ९।९५।५)। उपवक्ता योऽध्वर्युं प्रतिगरं कुर्वन् प्रोत्साहयति।

वञ्च्

  • {उपवञ्च्}
  • वञ्च् (वञ्चु प्रलम्भने)।
  • ‘वयं खलु हता राम त्वयाप्युपबञ्चिताः’ (रा० २।५२।१९)। उपवञ्चिताः समीपे वञ्चिताः प्रतारिताः, अतिसंहिताः।
  • ‘सूपायनास्यै भव सूपवञ्चना’ (ऋ० १।१८।११)। सूपवञ्चना सुखेनाभिगम्या।

वद्

  • {उपवद्}
  • वद् (वद व्यक्तायां वाचि)।
  • ‘ते (द्वे ऋचौ)। भूत्वोपावदताम्’ (ऐ० ब्रा० ३।२३)। उपेत्य अब्रूताम्। सामेति शेषः।
  • ‘अमो नाम साम। सा वा ऋक् सामोपावदत्’ (ऐ० ब्रा० ३।२३ )। उपेत्याब्रवीदिति भट्टसायणौ। उपवादः सान्त्ववाद इति षड्गुरुशिष्यः।
  • ‘य एवं विद्वांसं व्रात्यमुपवदति’ (अथर्व० १५।२।३)। उपवदति निन्दति गर्हते।
  • ‘त य एनं पुरस्तादायन्तमुपवदन्ति’ (तै० ब्रा० २।३।९।७)।
  • ‘स य एनं शस्ते तूष्णींशंस उप वा वदेदनु वा व्याहरेत्’ (ऐ० ब्रा० २।३१) अनुव्याहरेत्=शपेत्।
  • ‘एनं होतारम्। तं हेम उपोदुर्दास्या व त्वं पुत्रोसि’ (शां० ब्रा० १२।३) उक्तोऽर्थः।
  • ‘कर्मकरान् उपवदते’ (पा० १।३।४७ सूत्रे वृत्तौ)। उपसान्त्वयति।
  • ‘कुलभार्यामुपवदते।’ रहस्युपच्छन्दयति।
  • ‘उपवादादबिभ्यतो यो मा ब्राह्मणोऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यामीति’ (गो० ब्रा० पूर्व० ३।६)।
  • ‘वाक्पारुष्यमुपवादः कुत्सनमभिभर्त्सनम्’ (कौ० अ० ३।१८।७२)। निगदव्याख्यातम्।
  • ‘शरीरोपवादे काणखञ्जादिभिः’ (कौ० अ० ३।१८।२)। उपवादः परीवादः।
  • ‘तस्मान्नोपवादी स्यात्’ (श० ब्रा० ११।६।३।११)। उपवादी दोषानुद्भावयिता।
  • ‘अथ येऽल्पाः कलहिनः पिशुना उपवादिनः’ (छां० उ० ७।६।१)। उक्तोऽर्थः।

वन्द्

  • {उपवन्द्}
  • वन्द् (वदि अभिवादनस्तुत्योः)।
  • ‘अभूद् दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः’ (अथर्व० १८।४।६५)।

वप्

  • {उपवप्}
  • वप् (डुवप बीजसन्ताने, बीजसन्तानः क्षेत्रे बीजविकरणं गर्भाधानं च)।
  • ‘ताभ्यां परःशतानि परःसहस्राणि वा शमीपर्णकरीराण्युपवपतः’ (भा० श्रौ० ८।८।९)। उपवपतो विकिरतः=उपस्तृणुतः।
  • ‘यन्न्यृच्छत्यस्यामेव तदुपोप्यते’ (श० ब्रा० २।३।४।९)। उपोप्यते निखन्यते निखायते निखातं भवति।
  • ‘अपूपानां यमध्वर्युराखूत्कर उपवपेत्’ (लाट्या० श्रौ० ५।३।२)।
  • ‘उपोप्ते ऽन्ये ग्रहाः साद्यन्ते ऽनुपोप्ते ध्रुवः’ (तै० सं० ६।५।२।७)। उपोप्ते कृतमृदुपवापे प्रदेशे, मृदमुपोप्य उपचित्य खरीकृते।
  • ‘पात्राणि निर्णिज्योपवाप्य’ (श० ब्रा० ११।६।२।४)। उपवाप्य मृदाऽऽपूर्य।
  • ‘यदन्यदुत्तरवेद्या उपवपनात्’ (भा० श्रौ० ८।१)। उपवपनं मृदोपचयनम्।

वर्ण्

  • {उपवर्ण्}
  • वर्ण् (वर्ण वर्णक्रियाविस्तारगुणवचनेषु)।
  • ‘कृतकैश्चापि तन्मांसं मृगेन्द्रायोपवर्णितम्’ (भा० शां० १११।४९)।
  • ‘दानच्छेदोपवर्णनम्’ (याज्ञ० १।३१९)। उपवर्णन विस्तरेण वर्णनम्।

वल्ह्

  • {उपवल्ह्}
  • वल्ह् (वल्ह प्राधान्ये)।
  • ‘एतद् ब्रह्मन्नुप वल्हामसि त्वा’ (वा० सं० २३।५१)। वल्ह प्राधान्ये। इह त्वाह्वानपूर्वे संहर्षे वर्तत इत्युवटः। उपवल्हामः स्पर्धया पृच्छाम इति महीधरः।
  • ‘मूर्धाऽस्य विपतेद् य एनमुपवल्हेत’ (श० ब्रा० ११।४।१।९)। स्पर्धया वादं प्रवर्तयेत्।

वस्

  • {उपवस्}
  • वस् (वस निवासे)।
  • ‘उपास्मिञ्छ्वो यक्ष्यमाणे देवता वसन्ति’ (तै० सं० १।६।७।३)। उपवसन्ति उपेत्य वसन्ति।
  • ‘ते ऽस्य गृहेषूपवसन्ति’ (श० ब्रा० १।१।१।७)। उप समीपे यजमानस्य वसन्ति।
  • ‘यज्ञमेवारभ्य गृहीत्वोपवसति’ (तै० सं० ६।४।२।६)। उक्तोऽर्थः।
  • ‘अद्यैव मे अग्न्याधेयस्योपवसथ’ (जै० ब्रा० १।४४)। उपवसथ समीपे तिष्ठत।
  • ‘तस्मादग्नीध्र उपवसन्ति न सदसि’ (ऐ० ब्रा० १०।४)। उपवसन्ति तिष्ठन्ति विश्राम्यन्ति।
  • ‘स वै माघस्यामावास्यायामुपवसत्युदङ्ङावर्त्स्यन्’ (शां० ब्रा० १९।३)। उक्तोऽर्थः।
  • ‘उभये देवासुरा यज्ञमुपावसन्नस्मभ्यमनुवक्ष्यत्यस्मभ्य मिति’ (ऐ० ब्रा० २।१५)। समीपेऽतिष्ठन्। प्रत्यपालयन् प्रत्यैक्षन्त।
  • ‘आशिता एवाद्योपवसाम। कस्यवाहेदम्। कस्य वा श्वो भवितेति’ (तै० ब्रा० १।६।६।४) उक्तोऽर्थः।
  • ‘यद् ग्राम्यानुपवसति तेन ग्राम्यानवरुन्धे’ (तै० सं० १।६।७।३)। ग्राम्यान् पशून् भोजने परिहरति, तद्विषयकमनाशकं कुरुते। अशनपरित्यागेऽनशनेप्युपवसिरिह सकर्मकः।
  • ‘संकर्षणस्य भद्रं ते यत्तदैनमुपावसम्’ (भा० उ० ५५।३४)। उपावसं शिष्यत्वेन पर्यचरम्।
  • ‘तपःश्रद्धे ये ह्युपवसन्त्यरण्ये’ (मुण्डकोप० १।२।११)। उपवसन्ति सेवन्ते।
  • ‘यत्ते वयं पश्यन्त उपवसाम’ (श० ब्रा० ८।१।१।३)। उपवसाम उपासामहै, उपासीमहि, उपतिष्ठेमहि।
  • ‘गर्भिणीं ज्वरितां नारीमेकाहमुपवासयेत्’ (का० सं० खिल० अन्तर्वत्नी० श्लो० ७)। उपवासमनशनं कारयेत्।
  • ‘तेषूपवासान् विविधानुपोष्य’ (भा० वन० ११८।१४)।
  • ‘उपवस्ता प्राप्तोऽस्य औपवस्त्रम्’ (=उपवासः)। (पा० ५।१।१०५ सूत्रे तदस्य प्रकरण उपवस्त्रादिभ्य उपसंख्यानम् इति वार्तिके वृत्तौ)। उपवस्ता=उपवासस्य उपोषणस्य कर्ता।
  • ‘चोरभाण्डस्योपवासेन वा। यथा हि माण्डव्यः’ (कौ० अ० ४।८।८३)। उपवासः समीपस्थितिः।
  • ‘न ब्रह्मचारिणो विद्यार्थस्य परोपवासोस्ति’ (आप०ध० १।२।१७)। परोपवासः परसमीपे वासः।
  • ‘प्रातर्नो यक्ष्यत इति ते ऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथः’ (श० ब्रा० १।१।१७)। यस्मिन्यक्षमाणो भवति ततः पूर्वो दिवस उपवसथ इति सायणः।
  • ‘एकेषामुपवसथे’ (का० औ० ४।१३।७)। उपवसथ इति पौर्णमास्या अमावास्यायाश्चैकं नामधेयम्।

वस्

  • {उपवस्}
  • वस् (वस आच्छादने)।
  • ‘यदासन्द्यामुपधाने यद्वोपवासने कृतम्’ (अथर्व० १४।२।६५)। उपवासने आच्छादने प्रावरणे आवरणे परिधाने।

वह्

  • {उपवह्}
  • वह् (वह प्रापणे)।
  • ‘संह्रादनो राजरथो य इहास्मानुपावहत्’ (भा० सभा० ६१।५)। उपावहद् इहानीतवान्।
  • ‘देवानां पाथ उप वक्षि विद्वान्’ (ऋ० १०।७०।१०)। समीपं प्रापयसीत्याह। पाथ इत्यन्नमुच्यते।
  • ‘इन्द्रमिद्धरी बहतो ऽप्रतिधृष्टशवसमृषीणां च स्तुतीरुप यज्ञं च’ (वा० सं० ८।३५)। उक्तोऽर्थः।
  • ‘स च पिष्टरसस्तात न मे प्रीतिमुपावहत्’ (भा० अनु० १४।२०)। उपावहत् आहरत्, अजनयत्।
  • ‘उपोह्यमाने द्यूते तु राजानः सर्व एव ते’ (भा० सभा० ६०।१)। उपोह्यमाने उपस्थास्यमाने प्रक्रंस्यमाने।
  • ‘तदुपोढं महद् युद्धमन्योन्यवधकाङ्क्षिणोः’ (रा० ६।१०६।१८)। उपोढमुपस्थितं प्रक्रान्तम्।
  • ‘उपोढकल्याणफलो ऽभिरक्षन्’ (कि० १७।५४)। उपोढं सनिहितम्।
  • ‘उपोढव्यसनादेशं कारयेत् सिद्धलक्षणैः’ (का० नी० सा० ९।७३)। उपोढः संनिहितः।
  • ‘उपोढपाणिग्रहणा’ (कु० ७।४)। उक्तोऽर्थः।
  • ‘कुकर्मभिरुपोढाऽपि लक्ष्मीः’ (राज० ६।२९५)। उपोढा स्वसंनिधिं प्रापिता।
  • ‘यथेन्दावानन्दं व्रजति समुपोढे कुमुदिनी’ (उत्तर० ५।२६)। समुपोढे उदिते। नार्थः समा।
  • ‘ततोप्युपोढा रजनी दिनक्षये’ (रा० गोरे० २।११६।४९)। उपोढाऽवतीर्णा।
  • ‘व्रतिनामुपोढतपसाम्’ (शा० ५।१०) उपोढं संचितम्।
  • ‘उपोढशब्दा न रथाङ्गनेमयः’ (शा० ७।१०)। उपोढो जनितः। उपोढा द्वितीया वल्लभा पत्नीति कोषः।
  • ‘इह त्वां नाभिजानामि बालमेवोपवाहितम्’ (हरि० २।१०४।२९)। इतः प्रापितम् इत्यर्थः।
  • ‘उपोह्य रुचिरां नावं गुहाय प्रत्यवेदयत्’ (रा० २।५२।७)। उपोह्य समीपं प्रापय्य।
  • ‘रविरस्तं गतः श्रीमानुपोह्य रजनीं शुभाम्’ (रा० २।११९।३)। उक्तोऽर्थः।
  • ‘महद् धनुः सज्यमुपोह्य लक्ष्मणः’ (रा० २।८७।२३)। उपोह्य धृत्वा।
  • ‘उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्’ (रा० २।४५।१६)। उपवाह्यः पुरसमीपं प्रापणीय इत्यर्थः।
  • ‘अथोपवाह्यादादाय घण्टामैरावताद् गजात्’ (वि० पु० ५।१२।१२)। उपवाह्यं वाहनम्।
  • ‘देवोपवाह्यमक्षय्यं सदा दृष्टिमनःसूखम्’ (रा० ७।१५।३८)। देवोपवाह्यं राजवाहनम्।
  • ‘चन्द्रगुप्तोपवाह्यां गजवशाम्’ (मुद्रा० २)। राजवाह्यस्त्वौपवाह्यः सन्नाह्यः समरोचित इति क्षीरोद्धृतोऽमरोद्घाटने कोषः।
  • ‘यतरो वै युजो ह्रसीयान्भवत्युपवहं वै तस्मै कुर्वन्ति’ (श० ब्रा० १।४।४।७)। इतरेण युग्येन समानोन्नतये ह्रसीयसो युग्यस्य ग्रीवायां यदुपधानं रच्यते स उपवहो नाम।
  • ‘कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्’ (रा० १।११।२९)। उपवाहनात् स्वसमीपानयनादिति कतकः।

वा

  • {उपवा}
  • वा (वा गतिगन्धनयोः)।
  • ‘स्योनास्त्वा वाता उप वान्तु शग्माः’ (अथर्व० १८।२।२१)। उपवान्तु समीपे वान्तु पवन्ताम्।
  • ‘प्रक्षालितायां पात्र्यां निष्टप्तोपवातायां पवित्रवत्यां पिष्टानि संवपति’ (आश्व० गृ०)। उपवाता शुष्का।
  • ‘तस्मिन्प्रक्षालितोपवातानि निदधाति’ (कौ० सू० २।२९)।
  • ‘प्रक्षालितोपवातान्यक्लिष्टानि वासांसि पत्नीयजमानर्त्विजश्च परिदधीरन्’ (बौ० ध० १।६।१३।५) उक्तोऽर्थः।
  • ‘तद्वायुरुपयाति’ (श० ब्रा० १३।३।८।६)। तस्योपरि वातीत्याह।

विश्

  • {उपविश्}
  • विश् (विश प्रवेशने)।
  • ‘उपो नमोभि र्वृषभं विशेम’ (ऋ० ८।८५।६)। समीपे वर्तेमहि, उपाप्नुयाम।
  • ‘बलेनोपविवेश ह’ (भा० वन० ६१।१)। उपविवेश निविविशे। सैन्यनिवेशं चकारेत्यर्थः।
  • ‘रथमोचनमादिश्य सन्ध्यामुपविवेश ह’ (भा० उ० ८४।२१)। सन्ध्यां यावद् दैवतोपासनार्थं कृतासनोऽभवदित्यर्थः।
  • ‘सोप्युक्त्वैवमुपाविशत्’ (भट्टि० ७।७५)। अनशनेन स्थित इत्यर्थः।
  • ‘अथ प्रायमुपवेक्ष्यामि’ (रा० २। ) अनशनमुद्दिश्यैकत्रकृतासना भविष्यामीत्यर्थः।
  • ‘द्रौपदी यत्र भर्तॄनुपाविशत्’ (भा० आदि० २।३०४)। पतीन् विमताननुमानयितुं तेषां पुरः स्थिरासनाऽभूदित्यर्थः।
  • ‘प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्’ (भा० सभा० १३६।११)। उपाविशत्=आविशत्। अत्रार्थे विरलः प्रयोगः।
  • ‘कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमति बहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्’ (चरक० वि० ५।६)। उपविशन्तं निषद्योच्चरन्तम्, मलमुत्सृजन्तम्।
  • ‘तावदर्कोप्युपाविशत्’ (कथा० १२३।१७१)। उपाविशदस्तं यन्नलम्बत, लम्बमानोऽभूत्।
  • ‘बन्धोः क्षीराभिधानस्य प्रविवेशोपवेशनम्’ (राज० ८।६४८)। उपवेशन निवेशनं निकेतनम्।
  • ‘आमोपवेशनं लेपः स्रोतसां स च सर्पति’ (वाग्भट० नि० अ० १३)। आमोपवेशनम् आमस्य वर्चसस्त्याग इत्यर्थः।

विष्

  • {उपविष्}
  • विष् (विष्लृ व्याप्तौ)।
  • ‘विश्वं विवेष्टि द्रविणमुप क्षु’ (ऋ० १०।६१।१२)। उपविवेष्टि (=वेवेष्टि) यत्नेन चेष्टया वाऽवाप्नोति।
  • ‘अन्तर्वेदि शाखायाः पर्वाण्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्य (=छित्त्वा) उपवेषं करोति’ (आप० श्रौ० १।२।६।६)। अङ्गारप्रेषणार्थं काष्ठमुपवेष इति समाख्यायत इति रुद्रदत्तः।
  • ‘अधिवृक्षसूर्ये आविःसूर्ये वा धृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय’ (आप० श्रौ० ६।१।१।२)। उपवेषशब्द उद्घाटनार्थे काष्ठे वर्तत इत्युक्तप्रायं पुरस्तात्।
  • ‘किं शाखाच्छेदनस्योभयं प्रयोजकं शाखा उपवेषश्च। उत शाखा प्रयोजिका उपवेषोऽनुनिष्पादी’ (मी० ४।२।८ शा० भा०)। उक्तोऽर्थः।
  • ‘इत्युपवेषमादाय’ (भा० श्रौ० ६।१०।५)। उपवेषो मन्थदण्डः।

वीज्

  • {उपवीज्}
  • वीज् (वीजिर्लौकिक इति स्वामी)।
  • ‘स एष पक्षिभिः पक्षैः शयान उपवीज्यते’ (भा० स्त्री० २४।२४)। उपवीज्यते, आधूयते, वातोऽस्य क्रियते।

वृत्

  • {उपवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘उप मा वर्तस्व’ (तै० ब्रा० २।३।१०।३)। मामुपेहीत्यर्थः।
  • ‘सहिता उपवर्तन्ते’ (रा० २।११९।५)। समीपे वर्तन्त इत्यर्थः।
  • ‘स चेदवघ्रायाद् उपवर्तेत वा’ (आश्व० श्रौ० १०।८।३)। उपवर्तेत उपक्रामेत् उपेयात्।
  • ‘पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च’ (भा० आदि० १९१।५)। उपवर्तेत स्पृशेत् उपेयात्।
  • ‘उपप्लवो महानस्मानुपावर्तत केशव’ (भा० वन० २०३।३०)। उपावर्तत उपातिष्ठत्।
  • ‘उत्पन्नमिह लोके वै जन्मप्रभृति मानवम्। विविधान्युपवर्तन्ते दुःखानि च सुखानि च’ (भा० शां० २८।१३)॥ उपवर्तन्त उपनमन्ति।
  • ‘नाधर्मेणागमः कश्चिन्मनुष्यानुपवर्तते’ (मनु० १।८०)। तत्र प्रतिवर्तत इति पाठान्तरम्।
  • ‘सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते’ (भा० वन० १३२।१०)। नोपवर्तते न जायते, न सम्पद्यते।
  • ‘क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः’ (हरि० १।४१।९८)। उपावर्तन्त पर्यवृण्वत, पर्यवेष्टयन्त।
  • ‘मुक्त्वा हयान् पाययित्वोपवृत्तान्’ (भा० आदि० १९२)। उपवृत्तान् भ्रमितान्।
  • ‘अथोषस्युपवृत्तायाम्’ (भा० पु० १०।७०।१)। उपवृत्ताऽऽसन्ना।
  • ‘प्रायोपवृत्तचित्तानां शोकोपहतचेतसाम्। परैराधर्षितानां च स्वत एव प्रवेशनम्॥’ उपवृत्तं भ्रान्तम्। नासूचितस्य पात्रस्य प्रवेशः क्वचिदिष्यत इत्यस्यापवादभूतोऽयङ्ग्रन्थः।
  • ‘विपर्याणोपवर्तित–’ (तुरग-) (कथा० ९४।१७)। उपवर्तितो विश्रमितो व्यवस्थापितश्वासः।
  • ‘कालो नरश्रेष्ठ समीपमुपवर्तितुम्’ (रा० ७।१०४।१३)। उपवर्तितमुपगन्तुम्, सान्निध्यमाप्तुम्।
  • ‘राष्ट्रं तु विषयः सोपि युक्तो ग्रामैः शताधिकैरुपवर्तनम्’ (वैजयन्ती)। निगदव्याख्यातम्।
  • ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६।३।११६) इति पूर्वपदस्य दीर्घं शास्ति। तत्र ‘उपावृत्’ इत्येकतमदुदाहरणम्।

वेष्ट्

  • {उपवेष्ट्}
  • वेष्ट् (वेष्ट वेष्टने)।
  • ‘अक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती कञ्चुक्युपानही पादुकी’ (आप० १।२।८।२)। कटिप्रदेशो द्वितीयेन वाससा वेष्टितो यस्य स उपवेष्टिती।

वै

  • {उपवै}
  • वै (पै ओवै शोषणे)।
  • ‘यस्य नाराशंस उपवायति’ (पञ्च० ब्रा० ब्रा० ९।९।५)। उपवायति उपशुष्यति।

ब्रज्

  • {उपब्रज्}
  • ब्रज् (वज व्रज गतौ)।
  • ‘तमिन्द्र उपव्रज्योवाच’ (तै० ब्रा० ३।१०।११।३) उपव्रज्य उपेत्य।

व्रतय्

  • {उपव्रतय्}
  • व्रतय् (व्रतय्=व्रत+णिच् भोजने)।
  • तथा च आश्व० श्रौ० २।६।८।३९ सूत्रे प्रयोगः–

शक्

  • {उपशक्}
  • शक् (शक्लृ शक्तौ)।
  • ‘शिक्षन्तो नोपशेकिम’ (अथर्व० ६।११४।२)। शक्ता भवितुमिच्छन्तोपि शक्ता नाभूमेत्याह। उपशब्दोऽन्यत्र सामीप्यवचनः, इह तु पर्याप्तिमाह।
  • ‘येन संगच्छा उप मा स शिक्षात्’ (अथर्व० ७।१२।१)। मा शिक्षात् मां वक्तुं समर्थमिच्छत्विति सायणः। शकेः सन्नन्ताल्लेटि रूपमिति च सः। इह यः कश्चित् किञ्चिदाह स सर्वो व्यामोहः। कथमनृषिर्ॠषे र्हृदयं विजानीयात्।
  • ‘वधीर्हि दस्युं धनिनं घनेनँ एकश्चरन्नुपशाकेभिरिन्द्र’ (ऋ० १।३३।४)। उपशाकाः समीपवर्तिनः शक्तिमन्तः सहायाः (मरुतः)।

शम्

  • {उपशम्}
  • शम् (शमु उपशमे)।
  • ‘तथायमपि कृतकर्तव्यः सम्प्रति परमुपशमं प्राप्तः’ (प्र० च०)। उपशमो विश्रमः।
  • ‘ग्रन्थिः पाषाणकठिनो यदा नैवोपशाम्यति’ (चरक० चि० २१।१३१)। शाम्यतीत्येवार्थः।

शिक्ष्

  • {उपशिक्ष्}
  • शिक्ष् (शिक्ष विद्योपादाने)।
  • ‘राजानमुपशिक्षस्व ज्येष्ठं भ्रातरमीश्वरम्’ (भा० आश्रम० ११।१४)। उपशिक्षस्व उपेत्य शिक्षस्व वेद्यमुपादत्स्वेत्याह।
  • ‘अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा’ (भा० शां० ३७।१२)। उक्तोऽर्थः।
  • ‘प्रियेणेवैनौ तद्धाम्ना परोक्षमुपशिक्षति’ (पञ्च० ब्रा० १४।२।४)। सङ्ग्रहेणादत्ते, स्वायत्तं करोति।
  • ‘यद्येनं पुनरुपशिक्षेयुः’ (तै० ब्रा० २।३।२।२)। एनं निराकृतं पुरुषं यदि पुनरपि स्वीकुर्युरित्यर्थः।
  • ‘समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम्’ (भा० अनु० ९३।२३)। इहोदाहृतिषु शिक्षतिरुपादानमात्रे वर्तते।
  • ‘एवं मयाऽस्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात्’ (भा० वन० १६५।१२)। उपशिक्षितानि उपसद्य शिक्षितानि।

शी

  • {उपशी}
  • शी (शीङ् स्वप्ने)।
  • ‘ऐतस्मात्कालादुपशेते’ (श० ब्रा० ४।२।४।५)। ध्रुवो ग्रह एतावन्तं कालमवस्थितो भवतीत्याह।
  • ‘उत्तरतो हि स्त्री पुमांसमुपशेते’ (श० ब्रा० १।१।१।२०)। समीपे वामतः शेत इत्यर्थः।
  • ‘गतासुमेतमुप शेष एहि’ (ऋ० १०।१८।८)।
  • ‘सुकन्ये कमिमं जीर्णि कृत्यारूपमुपशेषऽआवामनुप्रेहीति’ (श० ब्रा० ४।१।५।९)।
  • ‘स्वर्गे लोकेऽप्सरस एनं जाया भूत्वोपशेरते’ (भाष्ये )।
  • ‘यदात्मन्युपशेते, सात्म्यार्थो ह्युपशयार्थः’ (चरक० वि० १।२३)। निगदव्याख्यातम्।
  • ‘कीदृशं भोजनं युष्माकमुपशेते’ (अवदा० मैत्री० जा०)। उपशेते सात्म्यमनुकूलं भवतीत्यर्थः।
  • ‘आप उपशेरते उष्णाश्च शीताश्च’ (भा० गृ० २।१९)।
  • ‘अग्नीनुपशयानस्य राज्ञः’ (भा० अनु० ७।९)। समीपे शयानस्य।
  • ‘निदानं पूर्वरूपाणि रूपाण्युपशयस्तथा। सम्प्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्॥ उपशयः पुनर्हेतुव्याधिविपरीतानां विपरीतार्थकारिणामौषधाहारविहाराणामुपयोगः सुखानुबन्धः’ (चरक० नि० १।९)। निगदव्याख्यातम्।
  • ‘शीतद्वेषानुपशयौ’ (अष्टाङ्ग० निदान० १६।२३)। असुखानुबन्ध उपशय इति हृदयबोधिका।
  • ‘निदानोक्तानुपशयो विपरीतोपशायिता’ (वाग्भट० नि० अ० २)। विकारवर्धकोऽर्थोऽनुपशयः।
  • ‘हन्ति नोपशयस्थो पि शयालुर्मृगयुर्मृगान्’ (शिशु० २।८०)। अथोपशयः स्थाने यत्र स्थित्वा हि लुब्धकाः।
  • ‘गूढात्मानो मृगान्घ्नन्ति’ (नानार्थार्णव० )।
  • ‘तान्देवा उपशयेनैवापानुदन्’ (तै० सं० ६।६।४।१७)। उपशयो यूपः। तस्माद् यूपैकादशिनी भवति।
  • ‘द्वादश उपशयो भवति वितष्टः’ (श० ब्रा० ३।७।२।१)। उपशयो यूपविशेषो यः समीपे उपयोगाय क्लृप्तो भवत्यनुच्छ्रितः।
  • ‘तस्मिन्नितरौ प्राञ्चावुपशयौ निदधाति’ (सत्या० श्रौ० २४।२।१०)। उपशयौ शयानौ।
  • ‘मृदमुपशयां निदधाति’ (का० श्रौ० १६।४।७)। उखां क्रियमाणामुपशेते अतिरिच्यत इत्युपशया।
  • ‘अथोपशयायै पिण्डं परिशिनष्टि प्रायश्चित्तिभ्यः’ (श० ब्रा० ६।५।३।७)। इहाप्युपशयेति मृदो विशेषणम्।
  • ‘गुदाऽउपशयानि’ (श० ब्रा० १२।९।१।३)। उपशयानि=उपपात्राणि। इहोपशयं नपुंसकम्।
  • ‘निशोपशायः कर्तव्यः’ (भट्टि० ७।४१)।
  • ‘व्युपयोः शेतेः पर्याये’ (३।३।३९)। इति घञि रूपम्। पर्यायेण समीपे शयनमुपशायः (रक्षार्थम्)।
  • ‘रावणस्योपशायिन्यो ददर्श हरिसत्तमः’ (रा० ५।६।२९)। उपशायिन्यः=उपशायिनीः। पर्यायेण शयनस्थानरक्षिका इत्यर्थः।
  • ‘पूर्वोत्थायी चरमं चोपशायी’ (भा० आदि० ९१।२)। चरममुपशायी=जघन्यसंवेशी।
  • ‘वाताच्छूलाङ्गसादौ च जृम्भा स्निग्धोपशायिता’ (का० सं० खिल० अम्लपित्त० श्लो० १६)।

शुष्

  • {उपशुष्}
  • शुष् (शुष शोषणे)।
  • ‘यदेवास्य शयानस्योपशुष्यति तदेवास्यैतेनाप्याययति’ (तै० सं० ३।१।१०।३)।
  • ‘शरीराण्युपशोषयन्’ (हरि० १।२३।२)। उपशब्दः सामीप्ये वर्तमानः क्रियाया असाकल्यमाह।

श्रि

  • {उपश्रि}
  • श्रि (श्रिञ् सेवायाम्)।
  • ‘उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम्’ (ऋ० १०।१८।१२)। प्रक्षिप्ताः पांसव एनमुपसेवन्ताम्, संपरिवार्य तिष्ठन्त्वित्यर्थः।
  • ‘मध्यमे परिधाऽ उपश्रयति’ (श० ब्रा० १४।२।२।३२)। मध्यमं परिधिमुपाश्रित्य निदधाति।
  • ‘यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयते’ (छां० उ० ८।८।२)। उपश्रयत उपलीयते विश्रमाय।
  • ‘वक्षःसु रुक्मा उपशिश्रियाणाः’ (ऋ० ७।५६।१३)। निबिडबद्धान् स्वर्णालङ्कारान्धारयन्तः। मरुतो विशिष्यन्ते।
  • ‘तथैवोपश्रिता दैवी बुद्धिर्बुद्धिमतां वा’ (भा० शां० ४५।१८)।
  • ‘उद्गीथ उपश्रीः’ (कौषी० ब्रा० उ० १।५)। परिधानस्योपरि दृढबद्धं परिधानान्तरमुपश्रीरुच्यते।

श्रु

  • {उपश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘उप ब्रह्माणि शृणव इमा नः’ (ऋ० ६।४०।४)। उपशृणव उपशृणु, उपेत्य शृणु।
  • ‘देवा वै ब्रह्मन्नवदन्त। तत्पर्ण उपाशृणोत्’ (तै० ब्रा० १।१।३।११)। उपाशृणोत् समीपेऽवस्थायाशृणोदित्यर्थः।
  • ‘कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति’ (ऐ० ब्रा० ३।१।२)।
  • ‘तदु ह जानश्रुतिः पौत्रायण उपशुश्राव’ (छां० उ० ४।१।५)। उपशुश्रुवान् श्रुतवान्। उपशब्दो विशेषकृन्न।
  • ‘उपशुश्रुवान्कौत्सः पाणिनिम्’ (पा० ३।२।१०८ सूत्रे वृत्तौ)। पाणिनिमुपेत्य शिष्यवद्भावेन शास्त्रं श्रुतवानित्यर्थः।
  • ‘यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम्’ (भा० आश्व० ९०।१९)। उपश्रुतमवहितं श्रुतम्।
  • ‘अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर’ (ऋ० १।१०।३)। अस्मत्कृतानां त्वत्स्तुतीनामेकमनाः श्रवणं कुरु।
  • ‘सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टाम्’ (अथर्व० १६।२।५)। उपश्रुतिः सावधानं श्रवणम्।
  • ‘पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत्’ (भा० उ० १३।२६)। सन्देहनिर्णायिका देवी उपश्रुतिः।
  • ‘नक्तं निर्गत्य यत्किञ्चिच्छुभाशुभकरं वचः। श्रूयते तद्विदुर्धीराः देवप्रश्नमुपश्रुतिम्॥ नोपश्रुतिं कटुकां नोत मुक्ताम्’ (भा० उ० ३०।५)। उपश्रुतिर्वार्ता।
  • ‘यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा। राजधर्मेष्वनुमता लोकाः सुचरितैः सह’ (भा० शां० ६४।६)॥ उपश्रुतिरन्तर्भावः।
  • ‘उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा’ (भा० सभा० ३३।४०)। उपश्रुत्य=श्रुत्वा संनिहितः श्रोता संनिहितश्च वक्तेति गम्यते।
  • ‘तस्य मेऽयमग्निरुपद्रप्टा वायुरुपश्रोता।’ (ऐ० ब्रा० ७।२४)। स्पष्टोऽर्थः।
  • ‘उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये’ (वा० सं० ३३।७७)। उपशृण्वन्तु समीपमेत्य शृण्वन्तु।

श्लिष्

  • {उपश्लिष्}
  • श्लिष् (श्लिष आलिङ्गने )।
  • ‘उपाश्लिषज्जतु काष्ठम्’ (पा० ३।१।४६ सूत्रे भाष्ये)। संलग्नमभूदित्यर्थः।
  • ‘तदुपश्लेषय शरं यावन्निरूपयामि’ (विक्रम० ५)। उपश्लेषय उपनय, मदन्तिकं नयेत्यर्थः।
  • ‘एकादश कार्षापणा उपश्लिष्टा अस्मिञ्छते एकादशं शतम्’ (पा० ५।२।४५ सूत्रे भाष्ये)। उपश्लिष्टा युक्ताः।
  • ‘तथैवाध्वन्यवेषेण सोपश्लिष्य जनार्दनम्। प्रत्यग्रवनमालेन वक्षसाऽभिविराजता’ (हरि० २।४६।५६)। उपश्लिष्य परिश्लिष्य आश्लिष्य।
  • ‘अचिरोपसम्पत्तिरचिरोपश्लेषः।’ (पा० ६।२।५६ सूत्रे वृत्तौ)।

श्लोक्

  • {उपश्लोक्}
  • श्लोक् (श्लोकृ सङ्घाते सङ्घातो ग्रन्थः)।
  • ‘उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसम्पदः’ (भा० काव्या० )। उपश्लोक्यः स्तुत्यः कीर्त्यः।

श्वस्

  • {उपश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘उपश्वासय पृथिवीमुत द्याम्’ (हे दुन्दुभे) (अथर्व० ६।१२६।१)। उपश्वसितामुच्छ्वसितामापूरितां कुरु।

सद्

  • {उपसद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘गीर्भिर्गृणन्तो नमसोप सेदिम’ (ऋ० ५।८।४)। उपसेदिम उपसीदामः, उपसन्ना भवामः।
  • ‘सुप्रजसस्त्वा वयं सुपत्नीरुप सेदिम’ (तै० सं० १।१।१०)। त्वा गार्हपत्याग्निम्।
  • ‘जीवा जीवन्तीरुप वः सदेम’ (अथर्व० ३।१३।६)। उपसदेम उपसीदेम उपगच्छेम।
  • ‘अथ हैनं प्रस्तोतोपससाद’ (छां० उ० १।११।४)।
  • ‘आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः’ (रघु० १७।२२)। उक्तोऽर्थः।
  • ‘तं त्वा…प्रजावन्त उपसदेम सर्वे’ (अथर्व० ७।७८।४)। उपसदेम परिचरेम।
  • ‘भद्रं पश्यन्त उप सेदुरग्रे तपो दीक्षामृषयः सुवर्विदः’ (तै० सं० ५।७।४।६)। उपसेदुरुपासाञ्चक्रिरे।
  • ‘पितरो वात्र पूर्व उपसीदन्ति’ (जै० ब्रा० १।७४)। उपसीदन्ति निषीदन्ति।
  • ‘न चेदुपसीदेत्’ (सत्या० श्रौ० २६।२।३५)। उक्तोऽर्थः।
  • ‘इहोपसीदतु भवान्’ (त्रिपुरदाहे)। उक्तचर एवार्थः। लौकिके साहित्ये ऽ त्रार्थे विरलः प्रयोगः।
  • ‘यथागारं दृढस्थूणं जीर्णं भूत्वोपसीदति’ (रा० २।१०५।१८)। उपसीदति अवसीदति विशीर्यते नश्यति। अयमेवार्थ उत्तरार्धे तथा ऽवसीदन्तीति श्रवणात्।
  • ‘ये यजामह इत्युपासदत्’ (तै० सं० १।६।११)। उपसीदति, उपैतीत्यर्थः।
  • ‘द्वन्द्वं पात्राण्युपसादयति’ (श० ब्रा० १४।१।३।१)। उपसादयति समीपे स्थापयति।
  • ‘प्रोक्षणीरासादयेध्मं बर्हिरुपसादय’ (श० ब्रा० १।२।५।२१)। उक्तोऽर्थः।
  • ‘यदहोष्यन्नुपसादयेत्। यथाऽन्यस्मा उपनिधाय। अन्यस्मै प्रयच्छति। तादृगेव तत्’ (आप० श्रौ० २।५।१०)।
  • ‘तदुत्तरेणाहवनीयमुपसादयन्ति’ (श० ब्रा० ३।६।३।१३)।
  • ‘इत्युद्गृह्यापरेणाहवनीयं बर्हिष्युपसादयति’ (भा० श्रौ० ६।१२।३)।
  • ‘अथोलूखलमुसले प्रक्षाल्य शूर्पं च पश्चादग्नेः प्रागग्रान्दर्भानास्तीर्योपसादयति।’ उक्तोऽर्थः।
  • ‘संवत्सरे पर्यागते एताभिरेवोपसादयेत्’ (तै० सं० १।६।१०।३)। उपसादयेत् अधिश्रयेत्।
  • ‘उपसन्नो होता प्रातरनुवाकमनुवक्ष्यन्भवति’ (श० ब्रा० ३।९।३।७)। उपसन्नोऽन्तिकस्थः।
  • ‘विश्वास्यैवोपसन्नार्थो वशे कृत्वा रिपुः प्रभो’ ( भा० शां० १०३।१३)। उपसन्नार्थः=लम्भितार्थः कृतः।
  • ‘ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः’ (भा० शां० २८७।११)। उपसन्नः शिष्यभावेनोपेतः।
  • ‘नानुपसन्नाय’ (निर्ब्रूयात्) (नि० २।३।६)। उपसन्नो विधिवत्प्राप्तः, शिष्यवृत्तिमास्थितः।
  • ‘उपसन्ने त्वहोरात्रम्’ (गो० गृ० ३।३।२७)। विशेषणमहिम्ना विशेष्यलाभः, यथा सागराम्बरेत्यत्र। शिष्य इत्यर्थः।
  • ‘कथं च निस्तरेमास्मात्कृच्छ्राद्दैवोपसादितात्’ (भा० वन० २६३।४०)। उपसादितात्=उपनमितात्, प्रापितात्।
  • ‘आत्मानं शरीरमुपहारं हविष्यमुपाहरत् उपसादितवान्’ (भा० ७।५२ इत्यत्र नीलकण्ठः)।
  • ‘य आङ्गिरसो नमसोपसद्यः’ (ऋ० १०।४७।६)। उपसद्य उपसन्न उपगतः (देवान्)।
  • ‘धन्योऽस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गव। यज्ञोपसदनं ब्रह्मन्प्राप्तोसि मुनिभिः सह’ (रा० १।५०।१४)॥ यज्ञोपसदनं देवयजनमिति कतकः। यज्ञस्थानमिति यावत्।
  • ‘तत्रोपसदनं चक्रे दोणस्येष्वस्त्रकर्मणि’ (भा० वन० १७१६९) द्रोणमुपसेदिवानित्यर्थः।
  • ‘अशितास्त उपसदः’ (सन्तु) (अथर्व० ६।१४२।३)। उपसद उपसत्तारः, उपगन्तारः।
  • ‘इमां मे अग्ने समिधमिमामुपसदं वनेः’ (ऋ० २।६।१)। उपसदमुपसदनसाधनामाहुतिम्।
  • ’ ते देवा अब्रुवन् उपसद उपायामोपसदा वै महापुरं जयन्तीति’ (श० ब्रा० ३।४।४।४)। उपसद्रोधः परिवेष्टनम्।
  • ‘अग्निर्नेतेत्याग्नेयी प्रथमोपसत्’ (ऐ० ब्रा० ३।१८)। उपसद् आहुतिः।
  • ‘प्रकामोद्यायोपसदम्’ (वा० सं० ३०।९)। उपसीदति समीपे तिष्ठति, तम्। उदीक्षमाणमित्यर्थः।
  • ‘उपसत्ता वर्धतां ते अनिष्टृतः’ (अथर्व० ७।८७।३)। उपसत्ता उपसदनशीलः परिचारकः। अनिष्टृतः=अनिस्तृतः=अहिंसितः।
  • ‘मा ते रिषन्नुपसत्तारो अग्ने’ (अथर्व० २।६।२)। उक्तोऽर्थः।
  • ‘मा ते रिषन्नुपसत्तारो गृहाणाम्’ (अथर्व० ३।१२।६)। उपसत्तारो निवसन्तः।
  • ‘परिचरिता भवति परिचरन्नुपसत्ता’ (छा० उ० ७।८।१)। उपसत्ता गुरोः सामीप्यस्य लब्धा।
  • ‘देवानां सख्यमुप सेदिमा वयम्’ (वा० सं० २५।१५)। उपसेदिम प्राप्नुयाम।
  • ‘य आसुतं कुर्वते यथा दुग्धामुपसीदेदेवं तत्’ (पञ्च० ब्रा० ४।४।११)। उपसीदेत् उपविशेत्।

सिच्

  • {उपसिच्}
  • सिच् (षिच क्षरणे)।
  • ‘तद्यथा जरत्कक्षमग्निनोपदीप्य तमद्भिरुपसिञ्चेत्’ (जै० ब्रा० २।१३७)। उपसिञ्चेत् आर्द्रयेत्।
  • ‘शुनासीराविमां वाचं… पयः। तेनेमामुपसिञ्चतम्’ (ऋ० ४।५७।५)। उपसिञ्चतमुपेत्य सिञ्चतमिति महेश्वरः। उपसिञ्चतमार्द्री कुरुतम् इत्यन्ये।
  • ‘व्यञ्जनैरुपसिक्ते’ (पा० ४।४।२६)। दध्नोपसिक्तं दाधिकम् इति वृत्तिः। उक्तोऽर्थः।
  • ‘दुहन्त्यूधरुपसेचनाय’ (ऋ० १०।७६।७)। उपसेचनाय क्षरणाय।
  • ‘त्रयः कोशास उपसेचनासः’ (ऋ० ७।१०१।४)। उपसेचनास उपसेक्तार इति सायणः। उपसेचनसाधनानि खजाका दर्व्यो वेत्यन्ये।
  • ‘ऋतं हस्तावनेजनं कुल्योपसेचनम्’ (अथर्व० ११।३।१३)। उपसेचनं मिश्रणसाधनम्।
  • ‘वेति त्वमुपसेचनी’ (ऋ० १०।२१।२)। उपरिक्षरणशीला ऽऽहुतिः। रसमयं हविरिति यावत्।
  • ‘मृत्युर्यस्योपसेचनम्’ (कठोप० २।२५)। उपसेचनं व्यञ्जनम्।

सिध्

  • {उपसिध्}
  • सिध् (षिधु संराद्धौ)।
  • ‘अथ यदस्यान्नमुपसिद्धं स्यात्’ (गो० गृ० १।९।४)। उपसिद्धं समीपे सिद्धम्।

सृ

  • {उपसृ}
  • सृ (सृ गतौ)।
  • ‘भृगुर्वै वारुणिर्वरुणं पितरमुपससार’ (तै० उ० ३।१)। उपससार=उपजगाम।
  • ‘अथ खल्वाशीः समृद्धिरुपसरणानीत्युपासीत’ (छां० उ० १।३।८)। उपसरणानि उपगन्तव्यानि ध्येयानीति शङ्करः।
  • ‘प्रजने सर्तेः’ (पा० ३।३।७१) इत्यपं विधत्ते घञोऽपवादम्। गवामुपसर इति चोदाहरणं वृत्तौ स्थितम्। प्रजनं (प्रजनः?) प्रथमं गर्भग्रहणम्। स्त्रीगवीषु पुङ्गवानां गर्भाधानाय प्रथममुपसरणमुच्यते।
  • ‘उपसर्या काल्या प्रजने’ (पा० ३।१।१०४)। प्रजने प्राप्तकाला गौरुपसर्योच्यते। उपसार्येति प्राप्त उपसर्येति निपातनम्।
  • ‘यस्तूर्ध्वमधो वा भेषजवेगं प्रवृत्तमज्ञात्वा विनिहन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः’ (सुश्रुत० २।१९५।१)।
  • ‘यं वै नेदिष्ठमुपसर्तव्यानां मन्येत तमुपधावेत्’ (श० ब्रा० १।६।२।११)। उपसर्तव्यः साहाय्यलाभायोपेयः।

सृज्

  • {उपसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्’ (चरक० वि० ५।७)। नोपसृज्यते न सम्बध्यते।
  • ‘तत्रौपसर्गिको नाम यः पूर्वोत्पन्नं व्याधिं जघन्यकालजातो व्याधिरुपसृजति स तन्मूल एवोपद्रवसंज्ञकः’ (सुश्रुत० सू० अ० ३५)। उपसृजति तेन सम्बद्धस्तस्योपरि जायते।
  • ‘एवम् खल्वेता देवताः पाप्मभिरुपासृजन्’ (श० ब्रा० १४।४।१।७)। उपासृजन् अयुञ्जन्।
  • ‘पापानुगास्तु पापास्ताः पतीनुपसृजन्त्युत’ (भा० वन० २३३।१७)। दोषेर्योजयन्तीत्यर्थः।
  • ‘वत्सो न मातुरुप सर्ज्यूधनि’ (ऋ० ९।६९।१)। उपसर्जि उपासर्जि प्रतिधीयते संसृज्यते।
  • ‘दक्षिणत उपसृजति’ (तै० ब्रा० २।१।८।१)। दक्षिणपार्श्वे वत्सं सम्बध्नातीत्युक्तं भवति।
  • ‘उपसृजन्तीत्युपसर्गाः’ (पा० १।४।३८) इत्यत्र पदमञ्जरी। संबध्नन्तीत्यर्थ इति च सा। उपसृज्यते नियुज्यत इत्युपसर्जनम् इति द्वे अप्रधानोपसर्जने इत्यमरव्याख्यायां स्वामी।
  • ‘महानाम्नीनां पञ्चाक्षरानुपसर्गानुपसृजत्येकादशाक्षरेषु पादेषु’ (ऐ० ब्रा० ४।४)। उपसृजति अभ्युच्चिनोति, आवपति।
  • ‘आत्मा वै पञ्चविंशः। प्रजा पशव उपसर्गः। प्रजयैतत् पशुभिः प्रेष्यैरन्नाद्येनेत्यात्मानमुपसृजने’ (शां० ब्रा० १७।१)।
  • ‘महानाम्नीनामुपसर्गानुपसृजति’ (ऐ० ब्रा० ४।४)। अतिच्छन्दसामनुष्टुप्त्वसम्पादनाय मेलनं करोतीत्यर्थः।
  • ‘अपो देवीरुपसृज मधुमतीः’ (वा० सं० ११।३८)। उपसृज निक्षिपेत्युवटः। आसिञ्चास्मिन्खननप्रदेश इति च महीधरः।
  • ‘स आसामेष प्रथमभक्षः सोमस्य राज्ञो यन्निग्राभ्याभिरुपसृजति’ (श० ब्रा० ३।९।४।१५)। निग्राभ्या जलानि सोमस्योपर्यासिञ्चतीत्यर्थः।
  • ‘त्रिभिरप उपसृजंति’ (श० ब्रा० ६।५।१।१२)। उपसृजति उपर्यासिञ्चति, प्रोक्षति, अभ्युक्षति।
  • ‘ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः’ (ऋ० २।१।१६)। उपसृजन्ति अतिसृजन्ति दाशन्ते ददति।
  • ‘उपसृजन्धरुणं मात्रे धरुणो मातरं धयन्’ (वा० सं० ८।५१)। मातुः पृथिव्या धारयितारमग्निमुपसृजन्समीपं प्रापयन्।
  • ‘राजानं वा एताभिरुपस्रक्ष्यन्भवति’ (श० ब्रा० ३।९।३।२६)। उपस्रक्ष्यन् अभिषेक्ष्यन्।
  • ‘क्रुधद्रुहोरुपसृष्टयोः कर्म’ (पा० १।४।३८)। उपसृष्टयोरुपसर्गेण सम्बद्धयोः।
  • ‘हुत उपसृष्टां प्रब्रूतादित्याह।’ (अध्वर्युरिति शेषः) (का० श्रौ० ४।२।१८)। उपसृष्टा वत्सेन संगता।
  • ‘यस्याग्निहोत्री व्युपसृष्टा निषीदति’ (तै० ब्रा० १।४।३।२)।
  • ‘उपसृष्टा गावो वसन्ति’ (तां रात्रिम्) (लौ० गृ० ५८।७)। उक्तोऽर्थः।
  • ‘स होवाच। गौतम का तेऽग्निहोत्री को वत्सः किमुपसृष्टा’ (श० ब्रा० ११।५।३।२)। गोर्वत्सेन योजनं दोहनाङ्गभूतं किम् इत्यर्थः।
  • ‘दृष्ट्वा दुर्बलमामपात्रसदृशं मृत्यूपसृष्टं जगत्’ (सौन्दर० ८।३२)। मृत्यूपसृष्टं मृत्युसम्बद्धं मृत्युनाऽऽक्रान्तम्।
  • ‘रोगोपसृष्टतनुः’ (रघु० ८।९४)। रोगैर्व्याप्ता तनुर्यस्य सः।*
  • ‘त्याज्यं सुखं विषयसंगमजन्म पुंसाम्। दुःखोपसृष्टमिति मूर्खविचारणैषा’ (प्र० च० २।२३)॥ उपसृष्टं संसृष्टं संभिन्नं सम्मिश्रितं सम्पृक्तम्।
  • ‘त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम्’ (भा० शां० २८७।५२)। विषेण सम्पृक्तमित्यर्थः।
  • ‘नोपसृष्टेऽन्त्यजैर्नृभिः’ (मनु० ४।६१)। उपसृष्टे सम्बद्ध उपतप्ते वेति मेधातिथिः। उपद्रुत इति कुल्लूकः।
  • ‘तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत’ (याज्ञ० १।२७२)। तेन विनायकेन गृहीतः, आविष्टः।
  • ‘ततो भूतोपसृष्टेव वेपमाना पुनः पुनः’ (रा० २।६०।१)। भूतोपसृष्टा भूताविष्टा वेतालोपहता।
  • ‘दैवोपसृष्टः पुरुषो यत्कर्म कुरुते क्वचित्’ (भा० द्रोण० १५२।२६)। दैवोपसृष्टः=दुर्दैवग्रस्तः।
  • ‘त्वया कालोपसृष्टेन’ (भा० शल्य० ६३।४६)। उक्तोर्थः।
  • ‘उपसृष्टः परेणेति मूर्छितः’ (भा० पु० १०।७६।३३)। उपसृष्टः प्रहृतः। अन्यत्र दुर्लभोऽर्थः।
  • ‘उपसृष्टं परित्रातुं शक्ता रामेण संयुगे’ (रा० ६।९४।२७)। उपसृष्टमुपद्रुतमिति गोविन्दराजः। हन्तुमारब्धमिति तु तिलककारः। स चार्थिकोऽर्थः।
  • ‘महाश्वासोपसृष्टस्तु क्षिप्रमेव विपद्यते’ (चरक० चि०)। उपसृष्टो युक्तः।
  • ‘तस्मादपि पृष्ठत उपसृष्टो मनसा विजानाति’ (श० ब्रा० १४।४।३।९)। उपसृष्टः स्पृष्टः।
  • ‘निरुपसृष्टाभिप्रेतार्थसिद्धिहेतुर्मङ्गलम्’ (तै० सं० १।८।१६) इत्यत्र भाष्ये भट्टभास्करः। निरुपसृष्टाऽनन्तराया।
  • ‘अनाहूतोपमृष्टानामनाहूतोपजल्पिनाम्। ये लोकांस्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे’ (भा० आदि० १३६।१८)॥ उपसृष्टानामुपागतानाम्।
  • ‘तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात्।’ (भा० पु० १।१२।२७)। उपसर्जितात् प्रेरितात्।
  • ‘न चैव व्यालमृगानुविचरितमरण्यवनमवगाढेन यत्र क्वचिदुपसृज्य तुरगवरं विश्रम्यते’ (अवदा०)। उपसृज्य बद्ध्वा।
  • ‘सापि व्यालोक्य दुहिता सहसैवोपसृज्य तम्’ (बृ० क० म० वे० ३, श्लो० २१९)। उपसृज्य=उपगम्य।
  • ‘निपाताश्चादयो ज्ञेयाः प्रादयस्तूपसर्गकाः’ (नि० १।३ इत्यत्र दुर्ग)।
  • ‘ते समाधावुपसर्गा व्युत्थाने सिद्धयः’ (यो० सू० ३।३७ भाष्ये)। उपसर्गा अन्तरायाः।
  • ‘देवि महामोहो योगोपसर्गैः सह न ज्ञायते क्व निलीनस्तिष्ठति’ (प्र० च० ५)। योगोपसर्गा योगे विघ्नाः योगस्य परिपन्थिनः कामक्रोधादयः।
  • ‘प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः’ (यो० वा०)। उपसर्गा दिव्याङ्गनासङ्गादयः।
  • ‘प्रशमिताशेषोपसर्गाः प्रजाः’ (रत्ना० १।१०)। उपसर्गा आपदः।
  • ‘देशोपसर्गाः शमु नो भवन्तु’ (अथर्व० १९।९।९)। उपसर्गा ईतयः। अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयमित्यमरः।
  • ‘उपसर्गेण तुरगाः करभाश्च क्षयं गताः’ (राज० ८।६५९)। उपसर्गेण रोगेण।
  • ‘क्षीणं हन्युश्चोपसर्गाः प्रभूताः’ (सुश्रुते)। पूर्वकालोत्पन्नस्य रोगस्योपरि जातं रोगान्तरमुपसर्गः। सोपसर्गं तु यद्वाक्यमायतीहितमुच्यते।
  • ‘नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्’ (रा० ३।४४।११)। उपसर्गो दुःखम्, व्यथा।
  • ‘सोपसर्गं वो नक्षत्रम्।’ उक्तोऽर्थः।**
  • ‘रामलक्ष्मणयोश्चैव विवासाद् वासवोपमम्। आपेद उपसर्गस्तं तमः सूर्यमिवासुरम्’ (रा० २।६३।२)॥ उपसर्ग उपप्लवः। शोक इति यावत्। तं दशरथम्।
  • ‘अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः’ (रा० १।१२।२)। अनुभूतोपसर्गोऽनुभूतस्य नाशः। सुषप्तिरिति यावत्।
  • ‘महानाम्नीनामुपसर्गानुपसृजति’ (ऐ० ब्रा० ४।४)। उपसर्गोऽभ्युच्चयः, आवापः। शत्रुः शदेः शासते र्वा शृणाते र्वा श्वसतेः सीदते र्वा।
  • ‘उपसर्गाद् बहुधा सीदतेश्च’ (भा० कर्ण० ४२।३२-३३)॥ उपसर्गादुपसर्जनाद् दन्त्यस्य स्थाने तालव्यस्मेति तत्र नीलकण्ठः। इहोपसर्गो विपरिणामः।
  • ‘ज्योतिषां चोपसर्जने’ (मनु० ४।१०५)। सूर्यचन्द्रतारागणानामुपसर्जन उपसर्गे उपरागादावुपद्रवे।
  • ‘माया विभेदानुपसर्जनानि’ (भा० शां० १०३।४१)। परस्परमितरेषां शत्रूणामुत्थापनादीनि।
  • ‘अयादानांशुनिवपनोपसर्जन–’ (का० श्रौ० १२।५।९)। निग्राभ्याभिर्न्युप्तस्य सोमस्याभिषवार्थमार्द्रीकरणमुपसर्जनम्।
  • ‘वैवर्ण्योपसर्जनं चाङ्गानाम्’ (सुश्रुत० १।३२।२)। उपसर्जनं तद्भावापत्तिः। वैवर्ण्यावसादनं चाङ्गानामिति पाठान्तरम्।
  • ‘अथैक उपसर्जनीभिरैति’ (श० ब्रा० १।२।२।६)।
  • ‘उपसर्जनीरधिश्रयति’ (का० श्रौ० २।५।१)। उपसर्जनीः पिष्टसंयवनार्था अपः।
  • ‘उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुषेवाम्। ऊर्णम्रदाः पृथिवी दक्षिणावतः’ (अथर्व० १८।३।४९)। उपसर्प=उपेहि।
  • ‘उपसर्पणाशक्तावासनमधः’ (का० श्रौ० २५।६।११)। उपसर्पमिहाग्नेः समीपेऽ वस्थितिः।
  • ‘एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम्’ (मनु० ७।९)। योऽग्नेरतिसमीपमनवहितः सन्नुपसर्पति तं दुरुपसर्पिणम्।

सेव्

  • {उपसेव्}
  • सेव् (षेवृ सेवने)।
  • ‘एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत’ (सुश्रुत० चि० ५।२८)। उपसेवेत शीलयेत्।
  • ‘ततः स्थितेषु तेष्वत्र नानाभोगोपसेविषु’ (कथा० ४४।११६)। नाना पृथग्विधान् भोगान्भुञ्जानेष्वित्यर्थः।
  • ‘चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। मलेन तस्याङ्गमिद कथमार्यस्य सेव्यते’ (रा० २।९९।३५)॥ उपसेवितं सुरभीकृतम्। वास उपसेवायामिति चुरादिषु पठ्यते। तत्र उपसेवा सुगन्धीकरणमाहेति मुक्तसंशयम्।

स्तम्भ्

  • {उपस्तम्भ्}
  • स्तम्भ् (स्तम्भु सौत्रो रोधने)।
  • ‘इमे मयूखा उप तस्तभुर्दिवम्’ (अथर्व० १०।७।४४)। उपस्तभ्नन्तीत्यर्थः।
  • ‘उप द्यामृष्वो बृहद् इन्द्र स्तभायः’ (ऋ० ६।१७।७)। उपस्तभायः=उपस्तभ्नासि, अवलम्बसे। यथा निरालम्बा सती द्यौर्नाधः पतति तथा तां धारयसीत्यर्थः।
  • ‘यथा वृषो वृषदर्शन उत्कटमुपष्टम्भं करोति’ (सां० का० १३ गौडपाद०)।

स्तॄ

  • {उपस्तॄ}
  • स्तॄ (स्तॄञ् आच्छादने)।
  • ‘यस्य वेदिरुपस्तीर्णा तस्य लोका यथा मम’ (भा० शां० ९८।३०) उपस्तीर्णा कुशैरास्तीर्णा।
  • ‘तं वै सदा कामचरमनुपस्तीर्णशायिनम्’ (भा० शां० १७६।१३)। शय्याहीनो भूतले यः शेते तच्छीलः।
  • ‘अनुत्तरीयवसनमनुपस्तीर्णशायिनम्। बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः’ (भा० शां० २६९।३०)॥ उक्तोऽर्थः।
  • ‘इयं कुसुमसङ्घातैरुपस्तीर्णा’ (रा० ४।१।८९)। उपस्तीर्णा व्याप्ता।
  • ‘आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति’ (आप० ध० २।३।६।१५)। उपस्तरणं तूलिका। अवस्तरणमुपरिपटः।
  • ‘निवेशनं पुनर्नवीकृत्य लेपनास्तरणोपस्तरणैः’ (आश्व० गृ० २।३।३)। उपस्तरणं भूमेः समीकरणमिति नारायणो वृत्तिकारः।
  • ‘शुक्रादुपस्तरणाभिधारणे’ (का० श्रौ० ९।९।२२)। शुक्राद् द्रोणकलशस्थात् सोमादुन्नीय उपस्तरणं विकरणम्, अभितः प्रक्षेपः।

स्था

  • {उपस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘अन्योन्यमुपतिष्ठन्ति रायः’ (ऋ० १०।११७।५)। अन्यमन्यं संचरन्ति। इत्वर्यो भवन्तीत्यर्थः।
  • ‘मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ति’ (शा० ६)। परं संक्रामन्तीत्यर्थः।
  • ‘गङ्गा यमुनामुपतिष्ठते’ (पा० १।३।२५ सूत्रे वृत्तौ)। यमुनया संगता भवति, तामुपश्लिष्यति। अश्वारोहा रथिकानुपतिष्ठन्ते। तै मैत्रीं कुर्वन्तीत्याह। अयं पन्थाः स्रुघ्नमुपतिष्ठते। स्रुघ्नं प्राप्नोतीत्यर्थः।
  • ‘सर्वदिक्स्थान्यस्योपतिष्ठन्ते रत्नानि’ (यो० सू० २।३७ भाष्ये)। उपतिष्ठन्ते उपस्थितानि संनिहितानि भवन्ति। अकर्मक इत्यात्मेनपदम् अत एव च तस्येति षष्ठी।
  • ‘आग्नेय्याऽऽग्नीध्रमुपतिष्ठते’ (पा० १।३।२५ सूत्रे वृत्तौ)। उपतिष्ठते स्तौति।
  • ‘यदेव सायं प्रातराहवनीयमुप च तिष्ठत उप चास्ते तदेव तस्योपस्थानम्’ (श० ब्रा० १।३।५।१६)। उपतिष्ठते समीपे दण्डायमानो भवति।
  • ‘स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्।’ (रा० ३।६४।६)। तां गोदावरीमुपस्थितः प्राप्त उपेतः।
  • ‘विपदुत्पत्तिमतामुपस्थिता’ (रघु० ८।८३)। उपस्थिता सिद्धा निश्चिता। विपत्ति नशिः।
  • ‘उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्’ (रा० २।७।२५)। उपस्थितं तत्कालोचितम्।
  • ‘उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता’ ( )। उपस्थितमुपासितमन्वासितं सेवितम्।
  • ‘यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः’ (रा० )।
  • ‘तपः श्रुतोपसम्पन्नाः सर्वकामैरुपस्थिताः’ (भा० वि० १८।२०)। उपस्थिताः सेविता जुष्टाः समन्विताः। किमुपस्थितं नाम।
  • ‘अनार्ष इतिकरणः’ (पा० ६।१।१२९ सूत्रे भाष्ये)।
  • ‘उपस्थितं सेतिकरणं केवलं तु स्थितं पदम्’ (ऋ० प्रा० १०।९)। निगदव्याख्यातम्।
  • ‘विद्याव्यसनिता नित्यं नित्यं पित्रोरुपस्थितिः’ (स्कन्द० का० ४।१९।४४)। उपस्थितिः शुश्रूषा।
  • ‘प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम्’ (मनु० २।४८)। उपस्थाय अभिमुखं स्थित्वा। उपस्थः शेफसि क्रोडे तथा मदनमन्दिर इति विश्वमेदिन्यौ। मातुरुपस्थे सुखं शेते शिशुः। मातुः क्रोडे उत्सङ्गेऽङ्के। उपस्थो योनौ च मेढ्रे चेति कोषः। उपस्थो वक्ष्यमाणयोः (भगशिश्नयोः) इत्यमरश्च।
  • ‘तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आस्थितः’ (भा० पु० १।६।१६) उपस्थस्तलम्। अधोभागः।
  • ‘तं शयानं धरोपस्थे’ (भा० पु० ७।१३।१२)।
  • ‘रथोपस्थ उपाविशत्’ (गीता १।४७)। उपस्थो मध्यभागः।
  • ‘प्रावृता उपस्थं कृत्वोपासीदन्’ (ऐ० ब्रा० ८।९, श० ब्रा० २।४।२।३)।
  • ‘अनुपस्थकृतः’ (सत्या० श्रौ० २६।२।३७)। आकुञ्चितस्य सव्यजानुन उपरि दक्षिणपादप्रक्षेपं कृत्वा यत्सुखेनावस्थानं तदुपस्थकरणमुच्यते।
  • ‘उपविशेत् समस्तजङ्घोरुरत्निभ्यां जानुभ्यागुपस्थं कृत्वा यथा शकुनिरुत्पतिष्यन्नुपस्थकृतस्त्वेवाश्विनं शंसेत्’ (शां० गृ० १।६।९)। इत्युक्तमुपस्थकरणलक्षणम्।
  • ‘उपतस्थुरुपस्थानम्’ (रा० २।१५।१)। उपस्थानमास्थानं यत्र कार्यिणो राजानमुपतिष्ठन्ति।
  • ‘आह च कौटल्यः– उपस्थानगतः कार्यार्थिनामद्वारासङ्गं कारयेत्’ (कौ० अ० १।१९।६)।
  • ‘उपस्थानमनुज्ञाप्य प्रविवेश निवेशनम्’ (रा० २।१०।१०)। उपस्थानं सभा। तात्स्थ्यात् सभ्याः।
  • ‘उपस्थानगृहैः शुभ्रैर्वलभीभिश्चोपशोभितम्’ (भा० आदि० १२८।४०)।
  • ‘पार्थिवै र्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः।’ (भा० सभा० ४९।३३)। उक्तोऽर्थः।
  • ‘द्विषत उ चैवैतद् भ्रातृव्याय नोपस्थानं करोति’ (श० ब्रा० १।३।५।१६)। उपस्थानं न करोति अवकाशं न ददाति।
  • ‘तत्त्वस्मृतेरूपस्थानात्’ (याज्ञ० ३।१६०)। उपस्थानात् संनिधानात्, विद्यमानत्वात्।
  • ‘कुशान्यवांश्चासनोपस्थानेषु प्रोक्षेत्’ (पा० गृ० ३।४।९)। उपस्थानानि देवतास्थानानीति कर्कः।
  • ‘न च प्रभुत्वरसास्वादिनः परोपस्थाने कृपणजीवितम्’ (तन्त्रा० ३, उपक्रमे)। परोपस्थानं परसेवा, परपरिचर्या। प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्।
  • ‘अभिहर्तुं नृपाः षट्सु पृथग्जात्यैश्च नैगमैः’ (भा० सभा० १३।१६)॥ उपस्थातुमुपहर्तुम्।
  • ‘सवत्सां धेनुं वृषभं च प्रदक्षिणीकृत्योपस्थानं गच्छेत्’ (कौ० अ० १।१९।२४)। उपस्थानमास्थानमण्डपम्।

स्ना

  • {उपस्ना}
  • स्ना (ष्णा शौचे)।
  • ‘गच्छ मागधिकामानयोपस्नानेन’ (अवि० ५)।

स्निह्

  • {उपस्निह्}
  • स्निह् (ष्णिह स्नेहने चुरादिः)।
  • ‘केदारस्येव केदारः सोदकस्थ निरूदकः। उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्’ (रा० ६।५।११)॥ उपस्नेह आर्द्रीकरणं सम्बन्धश्च।
  • ‘सोपस्नेहतया वनान्तरस्याभितः खलु किष्किन्धया भवितव्यम्’ (अभि० १)।

स्पृश्

  • {उपस्पृश्}
  • स्पृश् (स्पृश संस्पर्शने)।
  • ‘अमूं द्यां वर्ष्मणोप स्पृशामि’ (ऋ० १०।१२५।७)। उपस्पृशामि सम्यक् स्पृशामि आमृशामि।
  • ‘अद्भि प्राणानुपस्पृशेत्’ (मनु० ४।१४३) पाणिगृहीताभिरद्भिश्चक्षुरादीनि करणानि स्पृशेदित्यर्थः।
  • ‘यत्रास्याप उपस्पृशन्ति अग्नौ ह्यधि भ्रातृव्यं वर्धयेत्’ (श० ब्रा० १।१।१।२१)। उपस्पृशन्ति स्पृशन्ति। उपशब्दो नान्तरमर्थे करोति।
  • ‘स विह्वलाङ्गो जगतीमुपास्पृशत्’ (भा० शल्य० ५७।६६)।
  • ‘रक्ष्यमाणश्च तैर्विप्रैर्नहि भूमिमुपास्पृशम्’ (भा० उ० १८२।१३)। उक्तोऽर्थः।
  • ‘नाकारणमुपस्पृशेत् स्त्रियम्’ (सत्या० श्रौ० २६।२।६७)। पूर्वेण समोऽर्थः।
  • ‘…अपि पापकृतो जनान्। नोपस्पृशन्ति वै विघ्ना यमदूताश्च दारुणाः’ (स्कन्द० का० ४।१९।१२१)॥
  • ‘वासो यत् पत्नीभिरुतं तन्नः स्योनमुप स्पृशात्’ (अथर्व० १४।२।५१)।
  • ‘स्वप्ने क्षवथौ… अप्रयतं च मनुष्यं नीवीं च परिधायाप उपस्पृशेत्’ (सत्या० श्रौ० २६।५।१३)। अप उपस्पृशेत्। केषुचित्स्नानं केषुचिदाचमनं केषुचित्स्पर्शनमात्रं (कुर्यात्) यावता प्रयतो मन्यत इति वृत्तिकारः। सारं वचः सूत्रहृदयमुत्तानयति।
  • ‘पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत्’ (भा० अनु० ३०।५४)। उपस्पृश्य स्पृष्ट्वा।
  • ‘उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः’ (मनु० २।५३)। उपस्पृश्य आचम्य।
  • ‘श्वोभूते उदकमुपन्पृश्य वाचं विसृजेत्’ (आप० ध० २।१२।१३)। उदकमुपस्पृश्य स्नात्वा, अभिषेकं कृत्वा।
  • ‘उपस्पृश्य मणिकर्णिकायाम्’ (दशकु० पृ० ९५)। उक्तोऽर्थः।
  • ‘नदीमुपस्प्रष्टुमिवावतीर्णः’ (पञ्चरा० १।१५)। उपस्प्रष्टुं स्नातुम्।
  • ‘उपस्प्रष्टुगतश्चाहमपश्यं शयितामिमाम्’ (भा० आदि० ७२।१३)। उपस्प्रष्टुमाह्निकजलकार्यं कर्तुमिति नीलकण्ठः।
  • ‘प्रतिगृह्णात्येनानशक्य उपस्पर्शनम्’ (का० श्रौ० ५।१०।१७)। उपस्पर्शनं स्पर्शनम्। एनान् हुतावशिष्टान् पुरोडाशान्।
  • ‘ब्राह्मणस्य गौरिति पदोपस्पर्शनं वर्जयेत्’ (आप० ध० १।३१।६)। उक्तोऽर्थः।
  • ‘श्वचाण्डालपतितोपस्पर्शने सचैलं स्नातः सद्यः प्रयतो भवति’ (व० धर्म० २३।३३)।
  • ‘अवरश्चेद्वर्णः पूर्वं वर्णमुपस्पृशेत्पूर्वो वाऽवरं तत्र तच्छवोक्तमाशौचम्’ (याज्ञ० मिताक्षरायां ३।१४ इत्यत्रोद्धृतं गौतमीयं वचनम् )। उपस्पर्शनं निर्हरणमिति मिताक्षरा।
  • ‘मेधां मह्यमिति पाणिना मार्गं दत्त्वा त्रिषवणमहोरात्रमुदकोपस्पर्शनम्’ (लौ० गृ० ४।१८)। उदकोपस्पर्शनं स्नानम्।
  • ‘उपस्पर्शनषड्भागं लभते पुरुषः सदा’ (भा० अनु० ६५।१३)। उपस्पर्शनं दानम्। णिजधिकस्य स्पृशेरयं प्रयोग इति गाः स्पर्शयता घटोघ्नीरिति रघुकारस्य वचनात्प्रतीयते। स भवांस्तूपं न प्रयुङ्क्ते। केवलेन धातुना दानमर्थमर्पयति।
  • ‘तदुपस्पर्शनं पुण्यं गच्छन्तं… भरद्वाजम्’ (रा० ५।३।१४)। उपस्पर्शनं स्नानम्।
  • ‘व्रतायोपस्पर्शनं स्वासने’ (का० श्रौ० ७।४।२७)। उपस्पर्शनमाचमनम्।
  • ‘अस्मे ता त इन्द्र सन्तु सत्याऽहिंसतीरुपस्पृशः’ (ऋ० १०।२२।१३)। उपगम्य स्पृशन्ति उपस्पृशः स्तुतयः।

स्मृ

  • {उपस्मृ}
  • स्मृ (स्मृ चिन्तायाम्)।
  • ‘यत्रैव संव्रजन्नन्वाहार्यपचनमुपस्मरेत्’ (श० ब्रा० २।३।२।४)। उपस्मरेत् स्मरेत्।
  • ‘अनेन चैतदुपस्मरति’ (केनोप० ४।५)। उक्तोऽर्थः।

स्रु

  • {उपस्रु}
  • स्रु (स्रु गतौ)।
  • ‘मेदसः कुल्या उप तान् स्रवन्तु’ (वा० सं० ३५।२०)। समीपे वहन्तु, स्यन्दन्ताम्।
  • ‘पत्न्युदक्या दीक्षारूपाणि निधाय सिकतास्वासीतोपस्रवणात्’ (का० श्रौ० २५।११।१३ )। आ उपस्रवणात् आ रजःस्रुतिविरामात्।

स्विद्

  • {उपस्विद्}
  • स्विद् (ञिष्विदा गात्रप्रक्षरणे)।
  • ‘सोपस्वेदेषु भाण्डेषु’ (भा० आदि० १६।१५)। ऊष्मवत्स्वित्यर्थः।

हन्

  • {उपहन्}
  • हन् (हन हिंसागत्योः)।
  • ‘अथ कश्चिच्छस्त्रे वाऽनुवचने वा प्रमत्त उपहन्यात्’ (शां० ब्रा० २६।३)। उपहन्याद् दूषणं कुर्यात्।
  • ‘अधीयन्नुपहन्यादन्यं विवक्तारमिच्छेत्’ (ऐ० ब्रा० ३।३५)। उपहन्याद् वर्णादिलोपरूपमपराधं प्रमादं कुर्यात्।
  • ‘मशकै र्मक्षिकाभिश्च निलीनैर्नोपहन्यते’ (व० धर्म० ३।४७)। उपहन्यते दूष्यते।
  • ‘पुण्यक्षयानुसन्धानात् पपातोपहताकृतिः’ (यो० वा० ४।८।१५)। उपहताकृति र्दूषिताकारः, म्लानाननः।
  • ‘अपाङ्क्त्योपहता पङ्क्तिः पाठ्यते यै र्द्विजोत्तमैः’ (मनु० ३।१८३)। उक्तोऽर्थः।
  • ‘कपोतश्चेदगारमुपहन्यात्’ (आश्व० गृ० ३।७।७)। तुण्डादिभिर्घट्टयेदित्यर्थः। तत्र निषीदेत् तत्र पदं कुर्यादिति तु नारायणः। अयं च शब्दमर्यादया दुर्लभोऽर्थः।
  • ‘स्वकर्माण्यव्याहताश्चरिष्यन्ति परस्य वा कर्माण्युपहनिष्यन्तीति तदा विगृह्यासीत’ (कौ० अ० ७।४।६)। उपहनिष्यन्ति निहनिष्यन्ति विघटयिष्यन्ति।
  • ‘अथाञ्जलिना पय उपहन्ति’ (बौ० ध० २।५।८।४)। उपहन्ति गृह्णाति।
  • ‘संसारमदिरा सेयमविद्योच्यते बुधैः। अनयोपहतो लोकः कल्याणं नाधिगच्छति’ (यो० वा० ४।२१।३९-४०)। उपहतो निघ्नो वशे कृतः।
  • ‘दैवेनोपहतः पार्थः’ (भा० द्रोण० १४५।१७)। उपहतो व्यामोहं गमितः, कश्मलं प्रापितः।
  • ‘यदा हि चक्षुरादिभिरुपहतं मनो भवति, इन्द्रियं वा तिमिरादिभिः, सौक्ष्म्यादिभिर्बाह्यो वा विषयः’ (मी० १।१।५ शा० भा०)।
  • ‘अगमनीयां गत्वा ऽयाज्यं वा याजयित्वा ऽ प्रतिग्राह्यं प्रतिगृह्य चैत्यं यूपं वोपहत्य’ (आश्व० गृ० ३।५।८)। उपहत्य स्पृष्ट्वा।
  • ‘नानुपहत्य भूतानि भोगः संभवति’ (यो० सू० भा०)। अनुपहत्य अहिंसित्वा।
  • ‘तस्याः (पृथिव्याः) उपहत्योदमज्जत्’ (तै० ब्रा० १।१।३।६)। उपहत्य कियतीमप्यार्द्रां मृदं पृथक् कृत्वा।
  • ‘व्रीहीणामुपघाते प्रक्षाल्यावशोषणम् (बौ० ध० १।६।१४।१२)। उपघातश्चाण्डालादिस्पर्शजन्यमप्रायत्यम्।
  • ‘स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च’ (मनु० २।१७९)। उपघातोऽपकारः।
  • ‘राजदैवोपघातेन पण्ये दोषमुपागते’ (याज्ञ० २।२५६)। राजोपघातो राजापराधः।
  • ‘दैवोपघातो वर्षादिरुपघातको वैरूप्यापादकः। अन्वारब्धाया स्रुवेणोपघातं…जुहुयात्’ (खा० गृ० १।३।९)।
  • ‘पाणिना मेक्षणेनाथ स्रुवेणैव तु यद्धविः। हूयते चानुपस्तीर्य उपघातः स उच्यते’ (गृह्यासं० २।७)॥

हस्

  • {उपहस्}
  • हस् (हसे हसने)।
  • ‘परस्य लाघवमापादयितुं यो हासः स उपहासः। अमरगुरुमपि प्रज्ञयोपहसद्भिः’ (काद०)। अतिशयानैरित्युपचरितोऽर्थः।
  • ‘जिह्मोपहसितं तु तत्’ (अग्निपु० ३४२।१०)। जिह्मं हसितमुपहसितमित्यर्थः।
  • ‘न जातलोम्न्योपहासमिच्छेत्’ (इदं ब्राह्मण आहतम्)। उपहासो मैथुनम्।

हा

  • {उपहा}
  • हा (ओहाङ् गतौ)।
  • ‘उपाजिहीथा न महीतलं यदि’ (शिशु० १।३७)। नोपाजिहीथा नागच्छेः, नावतरेः।

हिंस्

  • {उपहिंस्}
  • हिंस् (हिसि हिंसायाम्)।
  • ‘उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम्’ (मात्स्य पु० १४४।६६)। उपहिंसन्ति व्यतिहिंसन्ति व्यतिघ्नन्ति, सम्प्रहरन्ते।

हृ

  • {उपहृ}
  • हृ (हृञ् हरणे)।
  • ‘तस्मात्स्थेयानस्थेयसो नोपहरते’ (तै० सं० ५।२।६।३२)। उपहरते उपदां ददाति।
  • ‘यद्यप्येवं तथापि राजपरिग्रहोऽस्य प्रधानत्वमुपहरति’ (माल० १)। उपहरति ददाति अर्पयति।
  • ‘प्राप्तकर्मा यथान्यायं काले काले ह्युपाहरत्’ (यो० वा० ६।(२)।२१६।१५)। उपाहरत्=आचरत्, व्यतनोत्। उपाङावत्रोपसर्गौस्याताम्।
  • ‘तौ …देवनागयक्षविद्याधरतपस्विनां परं विस्मयमुपजह्रतुः’ (अवदा० हंसजा०)। उपजह्रतुः=जनयामासतुः।
  • ‘निगमकृदुपजह्रे भृङ्गवद् वेदसारम्’ (भा० पु० )।
  • ‘बहु वै राजन्यो ऽनृतं करोति उप जाम्यै हरते’ (तै० ब्रा० १।७।२)। जायात्वं सम्पादयितुं परस्य गृहमुपेत्य स्त्रियं हरतीत्यर्थः।
  • ‘अन्यान्येव हवींष्युप वा ह्रियन्ते ऽ प च ह्रियन्ते’ (श० ब्रा० ११।१।६।३५)। उपह्रियन्ते ऽतिरिच्यन्ते। अपह्रियन्ते ऽपकृष्यन्ते न्यूनी भवन्ति।
  • ‘धूपवल्युपहारांश्च भक्ष्यांश्चोपहारयेत्’ (सुश्रुत० सूत्र० १९।२१)। उपहारयेत् दापयेत्।
  • ‘उपहृतपशू रुद्रः’ (पा० २।२।२४ सूत्रे वृत्तौ)। उपहृतः पशुर्यस्मै, बलिरिति दत्तः।
  • ‘शस्त्राशनिविषोपमा भवन्त्यज्ञैरुपहृताः’ (ओषधयः) (सुश्रुत० १।३।१९)। (उपतप्ताय) दत्ताः।
  • ‘संस्कर्ता चोपहर्ता च’ (मनु० ५।५१)। उपहर्ता परिवेष्टा, परिवेषकः।
  • ‘अहो परिभवोपहारिणो विनिपाताः’ (माल० ५)। परिभवं तिरस्कारमुपहरन्त्यर्पयन्तीत्येवंशीलाः।
  • ‘रत्नपुष्पोपहारेण छायामानर्च पादयोः’ (रघु० ४।८४)। उपहारः समर्पणम्।

ह्वृ

  • {उपह्वृ}
  • ह्वृ (ह्वृ कौटिल्ये)।
  • ‘मुहुराहूयमानोपि नायातोऽयमुपह्वरे’ (शि० भा० १५।१०)। उपह्वरे ऽन्तिके। तथा चामरः पठति– रहोन्तिकमुपह्वरे।

ह्वे

  • {उपह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘उपास्मान् वाचस्पति र्ह्वयताम्’ (अथर्व० १।१।४)। उपह्वयतां तत्फलप्राप्तिमभ्यनुजानातु। उपपूर्वो ह्वयतिरभ्यनुज्ञाने वर्तते। यथा उपहूत उप ह्वयस्व इति सोमभक्षणानुज्ञानमन्त्रे इति सायणः।
  • ‘उपहूत उपहवं ते ऽ शीय’ (तै० सं० १।६।३।१)। उपहवो ऽनुज्ञा।
  • ‘अनुज्ञास्वीकाराय यत्प्रार्थनं तद् उपहव इत्युच्यते इति गृहानुपह्वयामहे’ (अथर्व० ७।६२।३) इत्यत्र सायणः।
  • ‘नानुपहूतेन सोमः पातव्यः’ (काठक सं० ११।१)। अनुपहूतोऽननुज्ञातः।
  • ‘उपहूतो वाचस्पतिः’ (अथर्व० १।१।४)। उपहूतः समीपमाहूतः।