२०५ पर्युप (परि+उप)

आस्

  • {पर्युपास्}
  • आस् (आस उपवेशने )।
  • ‘पुरुषं सोम्योपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति’ (छां० उ० ८।१५।१)। पर्युपासते परितस्तिष्ठन्ति।
  • ‘यथेह क्षुधिता बाला मातरं पर्युपासते’ (छां० उ० ५।२४।५)।
  • ‘एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते।’ तीर्थमुपवसन्तीत्यर्थः।
  • ‘स्त्रियो गीतस्वनं तस्य मुदिताः पर्युपासते’ (भा० ३।१०४१२)। तत्र गीतस्वने संनिदधते।
  • ‘जयद्रथे च निहते तव भ्रातृषु चानघ। लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे’ (भा० शल्य० ४।१२)॥ कं संश्रयामहे इत्युक्तं भवति।
  • ‘वीराः संभावितात्मानो न दैवं पर्युपासते’ (रा० २।२३।१६)। उक्तोऽर्थः।
  • ‘अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते’ (पञ्चत० १।२४१)। उदितचर एवार्थः।
  • ‘तुल्योप्यभिजने जातो न कश्चित पर्युपासते’ (भा० शां० ३६०।७)। परित्यज्य अतिथिं न स्वकुल आस्त इत्याह।
  • ‘एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः’ (भा० वन० १७१।२०)। पर्युपासिता उपस्थायानुभूताः।
  • ‘सखि शकुन्तले, उचितं नः पर्युपासनमतिथीनाम्’ (शा० ४)। पर्युपासनमुपस्थानं वरिवस्या शुश्रूषा।

युज्

  • {पर्युपयुज्}
  • युज् (युजिर् योगे)।
  • ‘तत्र चास्यागमकालेनैवायुः कृत्स्नं पर्युपयुक्तं स्यात्’ (भाष्ये पस्पशायाम्)। पर्युपयुक्तं समाप्तम्।

विश्

  • {पर्युपविश्}
  • विश् (विश प्रवेशने)।
  • ‘अधिषवणे पर्युपविशन्ति’ (का० श्रौ० ९।४।१)। समीपे सर्वतः सीदन्तु इत्यर्थः।
  • ‘अथ सप्तमं पदं पर्युपविशन्ति’ (श० ब्रा० ३।३।१।३)।

स्था

  • {पर्युपस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘ततः शुचिसमाचाराः पर्युपस्थानकोविदाः’ (रा० २।६५।७)। पर्युपस्थानं परिचर्या।