२०१ पर्यनु (परि+अनु)

इष्

  • {पर्यन्विष्}
  • इष् (इष गतौ)।
  • ‘अन्वगच्छद् धनुष्पाणिः पर्यन्वेष्टुमितस्तः’ (भा० आदि० ४०।१४)। पर्यन्वेष्टुं परितोऽ न्वेष्टुं विचेतुम्।

नी

  • {पर्यनुनी}
  • नी (णीञ् प्रापणे)।
  • ‘सर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरियाय योगम्’ (रा० ६।११२।११०)। पर्यनुनीयमानो ऽनुनीयमान आनुकूल्यं नीयमानः।

युज्

  • {पर्यनुयुज्}
  • युज् (युजिर् योगे)।
  • ‘ततस्तयोः स्वयं राज्ञा तत्र पर्यनुयुक्तयोः’ (कथा० २७।१६२) पर्यनुयुक्तयोरनुयुक्तयोः पृष्टयोः।
  • ‘यत्रोभयोः समो दोषः परिहारोपि वा समः। नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे॥’ पयर्नुयोक्तव्यः प्रष्टव्यः। पर्यनुयोज्योपेक्षणम् पर्यनुयोज्यो दूष्यः, दोषेण योक्तव्यः।
  • ‘उत्कर्ष हेतोरधीयानस्य किं पठसि नाशितं त्वयेत्येवं पर्यनुयोगप्रदानम्’ (याज्ञ० ३।७६ इत्यत्र मिताक्षरायाम् )। पर्यनुयोगः क्षेपो दूषणम्, धिक्करणम्। दूषणार्थं जिज्ञासा पर्यनुयोग इति हलायुधः।
  • ‘अप्राप्तार्थस्य प्राप्तये पर्यनुयोगो योगः’ (सर्वद० सं० १५।११)।
  • ‘छल-जाति-निग्रहस्थानानां परवाक्ये च पर्यनुयोगः’ (१।१।१ न्या० भा०)। निर्देश इत्यर्थः।