अस्
- {प्रतिसमस्}
- अस् (असु क्षेपे)।
- ‘तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति। अवर्धत महाराज यथाग्निरनिलोद्धतः’ (भा० )॥ यथास्थानं पुनर्निधानं प्रतिसमसनम्।
आस्
- {प्रतिसमास्}
- आस् (आस उपवेशने)।
- ‘एकैकशश्चौघबलानिमान्। कोऽन्यः प्रतिसमासेत कालान्तकयमादृते’ (भा० वन० ३१३।२७)॥ प्रतिसमासेत=प्रतिसमासीत, संमुखे तिष्ठेत्।
- ‘द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः’ (भा० आश्वं ६।१।२२)। संमुखीभूय पर्यवस्थिताः।
- ‘न च सर्वे रणे शक्ता रामं प्रतिसमासितुम्’ (रा० ५।६०।२०)। प्रतिसमासितुं प्रतिमुखे स्थातुम्, प्रतिपक्षतया स्थातुम्, प्रातिभट्येनाभिमुखे स्थातुम्।
- ‘शक्ष्यन्ति हि महाबाहो पाण्डवाः सञ्जयैः सह। धार्तराष्ट्रं बलं घोरं क्रुद्धं प्रतिसमासितुम्’ (भा० उ० ८२।११)॥
- ‘न…भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम्’ (भा० वन० ४६।२६)॥ उक्तोऽर्थः।
क्रम्
- {प्रतिसंक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘तावन्न संसृतिरसौ प्रतिसङ्क्रमेत’ (भा० पु० ३।९।९)। प्रतिसंक्रमेत=प्रतिसङ्क्रामेत्=निवर्तेत=विरमेत्=प्रलीयेत।
- ‘भूतानां स्थितिरुत्पत्तिरहं वै प्रतिसङ्क्रमः’ (भा० पू० ११।१६।३५)। प्रतिसङ्क्रमः प्रलयः।
- ‘चितिशक्तिरपरिणामिन्यप्रतिसङ्क्रमा’ (यो० सू० १।२ भाष्ये)। प्रतिसङ्क्रमः संचारः। पञ्चशिखेनाप्युक्तम्–अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामिन्यर्थे प्रतिसङ्क्रान्तेव तद्वृत्तिमनुपतति। प्रतिसंक्रम उपरागः विकारहेतुभूतः संयोग इति यावत्।
ख्या
- {प्रतिसंख्या}
- ख्या (ख्या प्रकथने)।
- ‘स्यादत्र मे यः प्रतिकूलवर्ती दर्पोद्भवादप्रतिसंख्यया वा’ (अवदा० जा० २१, ११)। अप्रतिसंख्याऽज्ञानम्।
- ‘आज्येनैता देवताः प्रतिसङ्ख्याय यजेत’ (आप० श्रौ० ९।४।१५।४३)। प्रतिसंख्यानं ध्यानम्।
ग्रह्
- {प्रतिसंग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘व्रतोपवासैर्विविधैः प्रतिसङ्गृह्यते हरिः’ (मात्स्य पु० २४६।२०)। प्रतिसंगृह्यते वशे क्रियते।
- ‘इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्। शरं च प्रतिसंगृह्य हस्तात्…’ (रा० १।७६।४)॥ प्रतिसंगृह्य बलवदादाय, आच्छिद्य। प्रतिजग्राहेति पाठान्तरम्।
- ‘तमब्रवीत् स्वागतमित्यनन्तरं राजा प्रहृष्टः प्रतिसंगृहाण च’ (भा० वि० ७।९)। प्रतिसंगृहाण गृहाण प्रतीच्छ।
- ‘विषयान् प्रतिसंगृह्य संन्यासं कुर्वते यदि’ (भा० शां० १७।१०)। प्रतिसंगृह्य परित्यज्य।
चर्
- {प्रतिसंचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘यो यः स्म समरे पार्थ प्रतिसंचरते नरः’ (भा० द्रोण० १९।२०)। प्रतिसंचरते=प्रतिसंचरति=प्रतिगच्छति=प्रतिसमास्ते।
- ‘यदा तु प्रकृतौ याति लयं विश्वमिदं जगत्। तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसंचरः’ (मार्क० पु० ४६।३)॥ निगदव्याख्यातम्।
- ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसंचरे। परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ (कूर्म० पू० ख० १२।२६९)॥ प्रतिसंचरः प्रतिसङ्क्रमः प्रतिसर्गः प्रलयः।
- ‘ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसंचरः’ (वि० पु० १।३।२२)। उक्तोऽर्थः।
- ‘शृङ्गवांस्तु महाराज देवानां प्रति-संचरः (भा० भीष्म० ६।५२)। प्रतिसंचरो व्यवहारस्थानमिति नीलकण्ठः।
ज्ञा
- {प्रतिसंज्ञा}
- ज्ञा (ज्ञा अवबोधने)
- ‘प्रति हि स्वः संजानीते’ (श० ब्रा० १।१।४।५)। स्वः स्वमात्मीयं स्वीकरोतीत्यर्थः।
दिश्
- {प्रतिसंदिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
- ‘इति स एवं प्रतिसन्दिश्य वेदः प्रवासं जगाम’ (भा० आदि० ३।८४)। प्रतिसन्दिश्य उपदिश्य, अनुशिष्य।
- ‘प्रतिसन्दिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि’ (भट्टि० ८।१२३)।
धा
- {प्रतिसंधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘वि वा एतद्यज्ञस्य पर्व स्रंसते… तया देवतया यज्ञं प्रतिसन्दधाति’ (श० ब्रा० १२।६।१।२)। प्रतिसन्दधाति पुनर्योजयति।
- ‘वृषस्य नष्टांस्त्रीन् पादान्…प्रतिसन्दधे’ (भा० पु० १।१७।४२)। उक्तोऽर्थः।
- ‘यद्यात्मानमेव प्रतिसन्धत्ते’ (प्र० च० )। सङ्कोचयति प्रतिसंहरति। सौहृदं प्रतिसन्दध्याद् विशीर्णं स्त्री विचक्षणा। प्रतिसन्दध्यात् पुनः सन्दध्यात्।
- ‘धीमानधीतमपि न प्रतिसन्दधाति’ (प्र० च० २।२९)। न प्रतिसन्दधाति न स्मरति।
- ‘प्रतिसन्धाय चास्त्राणि तेऽन्योन्यस्य विशांपते। युयुधुः पाण्डवाश्चैव कौरवाश्च महाबलाः’ (भा० भीष्म० ७५।३७)॥ प्रतिसन्धाय=सन्धाय (धनुःषु)। प्रतिसंवार्येति पाठान्तरम्।
- ‘यन्मे व्यवसितं कान्त यच्च मे हृदि वर्तते…तत्सर्वं प्रतिसन्धातुमर्हसि’ (हरि० )॥ प्रतिसन्धातुमवगन्तुम्।
- ‘अन्वयानुपपत्तिप्रतिसन्धानं च लक्षणाबीजम्’ (प० ल० मञ्जूषा० लक्षणानिरूपणे)। प्रतिसन्धानं स्मरणमवबोधोऽनुभवः।
- ‘प्रतिसन्धानं हि यमहमद्राक्षं तमहं स्मरामीत्यादिरूपम्’ (स्याद्वाद० ८ हेम०)। प्रक्षीणेषु रागद्वेषमोहेषु प्रवृत्ति र्न प्रतिसन्धानाय।
- ‘प्रतिसन्धिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म’ (४।१।६४ न्यायसू० भा०)। विवरणानपेक्षं वचः।
- ‘देहेन्द्रियबुद्धिवेदनासन्तानोच्छेदप्रतिसन्धानाभ्यां निरात्मकः प्रेत्यभावः’ (१।१।२ न्यायसू० भा०)। प्रतिसन्धानं परस्परसम्बन्धः।
- ‘सोऽयं प्रयत्न एकमनेकार्थदर्शिनं दर्शनप्रतिसन्धातारमन्तरेण न स्यात्’ (१।१।१० न्या० सू० भा०)। प्रतिसन्धातारं स्मर्तारम्।
- ‘अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत्’ (भा० उ० ९६।३१)।
यत्
- {प्रतिसंयत्}
- यत् (यती प्रयत्ने)।
- ‘ते होचुः। स्वैदायन त्वया वीरेणेमं प्रतिसंयतामहा इति’ (श० ब्रा० ११।४।१।३)। अनेन संयतामहै इमं प्रतिसमासामहै, स्पर्धामहै विवदामहै। संयतिरकर्मकः। प्रतिसंयतिः सकर्मकः।
- ‘स्वैदायन त्वं वै नो ब्रह्मिष्ठोसीति त्वयेमं वीरेण प्रतिसंयतमहा इति’ (गो० ब्रा० पूर्वा० ३।६)। उक्तोऽर्थः।
- ‘बाह्लीकः प्रतिसंयत्तः पराक्रान्तमवारयत्’ (भा० द्रोण० ५९।४४)। प्रतिसंयत्तः सन्नद्धः।
रभ्
- {प्रतिसंरभ्}
- रभ् (रभ राभस्ये)।
- ‘यो यः स्म समरे पार्थं प्रतिसंरभते’ (भा० द्रोण० ८९।२०)। प्रतिसंरभते वेगेन प्रतिगच्छति आस्कन्दति, प्रतिगृह्णाति। प्रतिसंचरत इति पाठान्तरम्।
विद्
- {प्रतिसंविद्}
- विद् (विद ज्ञाने)।
- ‘इत्येवं बुद्धिप्रतिसंवेदिनं पुरुषमपलपद्भिर्वैनाशिकैः सर्वमेवाकुलीकृतम्’ (यो० सू० ४।२१ भा०)। बुद्धिप्रतिसंवेदी बुद्धिग्राहकः, बुद्धेरवधारकः।
वेष्ट्
- {प्रतिसंवेष्ट्}
- वेष्ट् (वेष्ट वेष्टने)।
- ‘अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः। प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा’ (भा० उ० ३४।२९)॥ प्रतिसंवेष्टते सङ्कुचति।
सृज्
- {प्रतिसंसृज्}
- सृज् (सृज विसर्गे)।
- ‘अटव्यन्तपालपुरराष्ट्रमुख्यैश्च प्रतिसंसर्गम्’ (कौ० अ० २।१६।२१)। प्रतिसंसर्गः संसर्गः। प्रतिरर्थे नान्तरं करोति।
- ‘प्रतिसंसृज्यमानाश्च…यत्तन्निःसत्तासत्तं निःसद् सन्निरसद् व्यक्तमलिङ्गं प्रधानं तत् प्रतियन्ति’ (यो० सू० २।१९ भा०)। प्रतिसंसृज्यमानाः प्रलीयमानाः।
स्कृ
- {प्रतिसंस्कृ}
- स्कृ (डुकृञ् करणे ससुट्कः)।
- ‘तडागभेदकं हन्यात्…यद्वापि प्रतिसंस्कुर्यात्’ (मनु० ९।२७९)। प्रतिसंस्कुर्यात् पुनः साधू कुर्यात्, समादध्यात्। प्रतिः पुनरर्थे।
- ‘तत्र कृशमन्नपानप्रतिसंस्कृताभिः क्रियाभिश्चिकित्सेत्’ (सुश्रुत० २।७७।२)। प्रतिसंस्कृताः समवेताः।
हृ
- {प्रतिसंहृ}
- हृ (हृञ् हरणे)।
- ‘स्नातस्तु काले यथाविध्यभिहृतमाहूतोऽभ्येतो वा न प्रतिसंहरेत्’ (आप० ध० १।२।८।७)। न प्रतिसंहरेत् न मुञ्चेत् न परिहरेत्।
- ‘तत् साधुकृतसन्धानं प्रतिसंहर सायकम्’ (शा० १।११)। प्रतिसंहर निषङ्गे।
- ‘पर्याप्तचन्द्रेव शरत्त्रियामा’ (कु० ७।२६) पर्याप्तचन्द्रा पूर्णचन्द्रा।
- ‘यस्य त्रैवर्षिकं धान्यं पर्याप्तं भृत्यवृत्तये’ (मनु० ११।७)। पर्याप्तमलम्।
- ‘नामृतस्येव पर्याप्तिर्ममास्ति ब्रुवति त्वयि’ (भा० शां० १२९।१)। पर्याप्तिः परितोषः।
- ‘सन्तुष्टस्यापि जनस्य न त्वमृते पर्याप्तिरस्ति’ (पद्मप्रा० पृ० १९)। पर्याप्तिरलंबुद्धिः।
- ‘अमात्यभूरिवसोरात्मजेत्यपर्याप्तिर्बहुमानस्य’ (मालती० १)। अपर्याप्तिरपरिपूर्णता। पर्याप्तिः स्यात् परित्राणम् इत्यमरः।
- ‘धातुरद्भुतनिर्माणपर्याप्तिमिव रूपिणीम्’ (कथा० २६।४७)। पर्याप्तिः सामर्थ्यम्।
- ‘पर्याप्तिः परिमाणं च गतिश्चन्द्रार्कयोस्तथा’ (मात्स्य पु० ११३।२)।
- ‘न वा इमाम् (भूमिम्) अश्वरथो न वाश्वतरीरथः सद्यः पर्याप्तुमर्हति’ ( )। पर्याप्तुमन्तं प्राप्तुम्।
- ‘अकार्याण्यपि पर्याप्य कृत्वापि वृजिनार्जनम्’ (राज० ४।३८३)। पर्याप्य समाप्य।
- ‘इमां परीप्सुर्दुर्जाते पराभिभवकातराम्’ (माल० ५।११)। परीप्सुस्त्रातुमिच्छुः।
- ‘हेतुं तदभ्यागमने परीप्सुः’ (कि० ३।४)। परीप्सुर्जिज्ञासुः।
- ‘योगशास्त्रपरा भूत्वा तमात्मानं परीप्सवः’ (भा० शां० २५३।१३)। परीप्सवो जिज्ञासवः।
- ‘अपादाने परीप्सायाम्’ (पा० ३।४।५२)। परीप्सा त्वरा।