१९७ प्रतिवि (प्रति+वि)

ईक्ष्

  • {प्रतिवीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्’ (भा० द्रोण० १४६।४१)। प्रतिवीक्षितुमभिमुखं प्रेक्षितुम्। पाण्डवे दृशं पातयितुम्।
  • ‘तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटिसंहितं तदा’ (रा० २।२३।३)। दुष्प्रतिवीक्ष्यं संमुखतया द्रष्टुमशक्यम्।

ऊह्

  • {प्रतिव्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘सम्भूयैनं प्रतिव्यूहेदधिकं सर्वसम्पदा’ (का० नी० सा० ११।१९)। प्रतिव्यूहेत् विरुन्ध्यात्।
  • ‘प्रतिबलयेदित्युपाध्यायनिरपेक्षा। वीर्यविषयं द्वन्द्वं प्रतिव्यूहते’ (प्रतिमा० ६।३)। प्रतिव्यूहते रुणद्धि, वारयति।
  • ‘प्रतिव्यूढशोकदुःखावेगः’ (अवदा० जा० व्याघ्रो० १)। प्रतिव्यूढो विनीतो विहतः सान्तरायः। मेघनादप्रतिव्यूहैर्नादितास्तु समन्ततः। प्रतिव्यूहैः प्रतिश्रुद्भिः, प्रतिशब्दैः, प्रतिध्वनिभिः।

चक्ष्

  • {प्रतिविचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि, वेदे दर्शनेऽपि)।
  • ‘शिरः शिरः प्रति सूरी विचष्टे’ (तै० सं० ४।२।५।४)। प्रतिविचष्टे प्रतिकूलं वीक्षते।

ज्ञा

  • {प्रतिविज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘सन्तः प्रतिविजानन्तो लब्धसंभावनाः स्वयम्’ (भा० सभा० ७३।९)। कृतस्य प्रतीकारं जानन्त इत्यर्थः।

धा

  • {प्रतिविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘देवदत्तस्य समाशं शरावैरोदनेन च यज्ञदत्तः प्रतिविधत्ते’ (येन विधिस्तदन्तस्य १।१।७२ सू० भा०)। प्रतिविधत्ते सज्जीकरोति, प्रकल्पयति, उपकल्पयति।
  • ‘चतुर्विधबला चमूः। राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्’ (रा० २।३६।२)। उक्तोऽर्थः।
  • ‘योप्येकान्ते तूष्णीमासीनो भक्तबीजबलोवर्दैः प्रतिविधत्ते स उच्यते पञ्चभिर्हलैः कृषतीति’ (हेतुमति चेति सूत्रे पदमञ्जर्याम्)। प्रतिविधत्ते संविधत्ते संभारान् संबिभर्ति।
  • ‘क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्’ (रा० ५।९०।१४)। प्रेष्यतां नियुज्यतामित्यर्थः।
  • ‘दोषं तु मे कञ्चित् कथय येन स प्रतिविधीयेत’ (उत्तर० १)। प्रतिविधीयेत प्रतिक्रियेत।
  • ‘क्षिप्रमेव कस्मान्न प्रतिविहितमार्येण’ (मुद्रा०)। प्रतिविहितं प्रतिकृतम्।
  • ‘धर्मः प्रतिविधातव्यो बुद्ध्या राज्ञा ततस्ततः’ (भा० शां० १४२।६)। प्रतिविधातव्यश्चिकित्सनीयः।
  • ‘तस्माद्यान्येतव्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या, प्रतिविधेयं दोषेषु’ (१।१।६ सूत्रे न वा सन्निपातेति वार्तिके भाष्ये)। दोषा अपनेया इत्यर्थः।
  • ‘तस्माद्यस्मिन् पक्षेऽल्पीयांसो दोषास्तमास्थाय प्रतिविधेयं दोषेषु’ (पा० १।३।११ सू० भाष्ये)। उक्तोऽर्थः।
  • ‘सर्वे यथा मां रक्षन्ति तथा प्रतिविधातव्यम्’ (रा० ५।६४।१६)। तथा प्रतिविधातव्यम्=तथोपाया आस्थातव्याः। निर्णयसागरमुद्रिते रामायणेऽत्र स्थले नायं श्लोक उपलभ्यते, श्लेगलप्रतिसंस्कृते तु स्थितः।
  • ‘पुत्रदारमप्रतिविधाय प्रव्रजतः पूर्वसाहसदण्डः’ (कौ० अ० २।१।२९)। अप्रतिविधाय संविधामप्रकल्प्य, योगक्षेममकल्पयित्वा।
  • ‘तस्य प्रतिविधानं च विहितं पूर्वमेव हि’ (भा० आदि० २५।१६)। प्रतिविधानं प्रतीकारः।
  • ‘यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम्’ (वा० प० उपग्रह० ३।२०)। प्रतिविधानं संविधानं संभारसंघटनम्।
  • ‘न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप’ (भा० पु० ८।१०।५३)। प्रतिविधिः प्रत्युपायः।
  • ‘ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर्भुवि’ (भा० पु० १०।६४।३३)। प्रतिविधिः प्रतीकारः, प्रायश्चित्तम्, निष्कृतिः।

श्वस्

  • {प्रतिविश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘प्रतिविश्वसन्तु छन्दांसि’ (लौ० गृ० ९।१०)।