कृ
- {प्रत्युपकृ}
- कृ (डुकृञ् करणे)।
- ‘न हि सन्त आत्मानं प्रत्युपकृतमिच्छन्ति, आपद्गत एव प्रत्युपकारमपेक्षते यतः’ (इति वयम्)।
दिश्
- {प्रत्युपदिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
- ‘कर्म व्याधिं प्रति प्रत्युपदेक्ष्यामः’ (सुश्रुत० १।१४।१७)। विशेषैः सहोपदेक्ष्याम इत्यर्थः।
- ‘यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै। तत्तद्विशेषकरणात् प्रत्युपदिशतीव मे बाला’ (माल० १।५)। प्रत्युपदिशति कृतस्योपदेशस्य कृते स्वयमुपदेशं वितरति।
- ‘सा राजहंसैः… व्यनीयत प्रत्युपदेशलुब्धैरादित्सुभिर्नूपुरशिञ्जितानि’ (कु० १।३४)। उक्तोऽर्थः।
धा
- {प्रत्युपधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तान्नेष्टकया पुरस्तात् प्रत्युपदध्यात्’ (श० ब्रा० ७।४।२।३६)। प्रत्युपदध्यात्=अपिदध्यात्।
या
- {प्रत्युपया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘प्रत्युपायां पुनर्गृहम्’ (भा० आदि० २३१।८)। प्रत्युपायां न्यवर्ते।
वद्
- {प्रत्युपवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘तेनो श्रीः प्रत्युपोदिता’ (पञ्च० ब्रा० १०।७।२)। प्रत्युपोदिता=अपोदिता=वाचा निन्दिता, तिरस्कृता।
विश्
- {प्रत्युपविश्}
- विश् (विश प्रवेशने)।
- ‘आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति’ (रा० २।१११।१३)। प्रत्युपवेक्ष्यामि अभिमुख एकपार्श्वेनोपविष्टो रोत्स्यामीत्यर्थः। तदिदमनुनेतुमनुकूलयितुं भवति मनोरथसिद्धये। स चार्थ इह यावन्मे न प्रसीदतीत्यनेनोक्तः।
- ‘किं मा भरत कुर्वाणं तात प्रत्युपवेक्ष्यसे’ (रा० २।१११।१६)।
- ‘न तु मूर्धाभिषिक्तानां विधिः प्रत्युपवेशने’ (रा० २।१११।१७)॥ उक्तोऽर्थः।
- ‘मत्त उन्मत्तो बद्धोऽणिकः प्रत्युपविष्टो यश्च प्रत्युवेशयते तावन्तं कालम्’ (आप० ध० १।१९।१)। प्रत्युपविष्ट ऋणादिना कारणेनाधमर्णादिकं निरुध्य तत्पार्श्व उपविष्टः।
श्लिष्
- {प्रत्युपश्लिष्}
- श्लिष् (शिलष आलिङ्गने)।
- ‘मासे ह्यतीते योऽनन्तरो दिवसः स मासं प्रत्युपश्लिष्टो भवति’ (पा० २।१।४३ सूत्रे न्यासे)। मासं प्रत्युपश्लिष्टः=मासेन संसक्तः।
स्था
- {प्रत्युपस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव’ (भा० वि० २१।१९)। प्रत्युपस्थित उपस्थितः।
- ‘बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते’ (भा० आश्व० १७।७)। उक्तोऽर्थः।
- ‘प्रत्युपस्थिते च का गतिः’ (शा० )। प्रतीपेऽर्थ उपस्थिते।
- ‘श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते’ (भा० शां० २८७।५७)। प्रतीपत्वेनोपस्थिते हीयमान इत्यर्थः।
स्पृश्
- {प्रत्युपस्पृश्}
- स्पृश् (स्पृश संस्पर्शने)।
- ‘अन्ततः प्रत्युपस्पृश्य शुचिर्भवति’ (द्रा० गृ० १।१।१२, गो० गृ० १।२।२८)। प्रत्युपस्पृश्य पुनरुपस्पृश्याऽऽचम्य।