इ
- {प्रत्युदि}
- इ (इण् गतौ)।
- ‘कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा’ (भा० अनु० २।६३)। प्रत्युदेति प्रत्युद्गच्छति।
- ‘तं जानतीः प्रत्युदायन्नुषासः’ (ऋ० ३।३१।४)। उक्तोऽर्थः।
- ‘स सूर्यं प्रति पुरो न उद्गाः’ (ऋ० ७।६२।२)। अस्माकं समक्षमुदक्रमीरित्यर्थः।
- ‘यस्तं प्रतीपस्तरसा प्रत्युदीयात्’ (भा० उ० २२।२९)। प्रत्युदीयात् प्रतिकूल उन्मुखो गच्छेत्।
- ‘अहं चैनं प्रत्युदियामाचार्य्यो वा धनञ्जयम्’ (भा० उ० १६९।२४)। उक्तोऽर्थः।
ईक्ष्
- {प्रत्युदीक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘मा स्मैनं प्रत्युदीक्षेथाः’ (रा० २।९।२३)। उच्चक्षूभूय मैनमीक्षिष्ठाः, चक्षुषी उन्नमय्य एनं प्रति मा व्यापीपरः।
ऊह्
- {प्रत्युदूह्}
- ऊह् (ऊह् वितर्के)।
- ‘दक्षिणतः पुरीषं प्रत्युदूहति’ (श० ब्रा० १।२।५।१७)। प्रत्युदूहति समूहति समुच्चिनोति।
क्रम्
- {प्रत्युत्क्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- प्रत्युत्क्रान्तजीवितः=अर्धमृतः। प्रत्युत्क्रमः प्रयोगार्थ इत्यमरः। युद्धार्थः प्रकृष्टो योगः प्रयोगः।
गम्
- {प्रत्युद्गम्}
- गम् (गम्लृ गतौ)।
- ‘प्रत्युज्जगामातिथिमातिथेयः’ (रघु० ५।२)। सच्चिकीर्षयाऽतिथिं प्रति स्वस्थानादुत्थाय गतवानित्यर्थः।
- ‘प्रत्युज्जगाम सहसा विनयेन समन्वितः’ (रा० १।५०।७)। उक्तोऽर्थः।
- ‘प्रत्युज्जगाम तं भ्राता’ (रा० २।९६।३३)। उदितपूर्व एवार्थः।
- ‘प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः’ (भा० वन० १८५।३६)। उत्थाय गृहान्प्रति चचालेत्येवार्थः। सत्क्रियायै स्वस्थानादुच्चल्य सत्कार्यं प्रति गमनं नार्थः। रूढेरनादरः।
- ‘स्निग्धेन भोजनेन माम्प्रत्युद्गच्छति’ (स्वप्न० ४)। अत्र सत्क्रियाऽऽराद् द्योत्यत इति नापलाप्यम्।
- ‘तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम्। प्रत्युज्जगाम गोविन्दः…’ (हरि० २।२४।१९)॥ प्रतिग्रहीतुमभिययौ, विरोद्धुं प्रससार।
- ‘पौरैः प्रत्युद्गतो दूरात्’ (रा० १।७७।८)। प्रत्युद्व्रज्य सत्कृत इत्यर्थः।
- ‘प्रत्युद्गतो मां भरतः ससैन्यः’ (रघु० १३।६४)। कर्तरि क्तः। अर्थस्तु पूर्वेण समानः।
- ‘प्रत्युद्गताः केकयान्’ (भा० भीष्म० ७९।५६)।
- ‘विरुरुत्सया केकयान्प्रति प्रस्थिताः। तमागतमभिप्रेक्ष्य प्रत्युद्गम्य…। प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा’ (भा० आदि० १६९।२)॥ प्रत्युद्गम्य सच्चिकीर्षयाऽग्रतः प्रक्रम्य।
- ‘प्रत्युद्गम्य रथं रिपोः। विध्वंसयितुमिच्छामि’ (रा० ६।९०।६)॥ प्रत्युद्गम्य विरोधभावनयाऽग्रतः प्रसृत्येत्यर्थः।
- ‘तत्र सम्बन्धिजामातृमुखान् प्रत्युद्गमादिना। प्रह्वस्तान् पूजयामास…’ (कथा० ४४।१३०)॥ प्रत्युद्गमः सत्कारार्थमभिगमः। प्रत्युद्गमनीयं वस्त्रयोर्धौतयोर्युगम् इत्यमरः।
गै
- {प्रत्युद्गै}
- गै (कै गै शब्दे)।
- ‘प्रत्युद्गीतस्तु खल्वेषां तथोद्गाता भवति’ (लाट्या० श्रौ० ७।८।१९)। प्रत्युद्गीतो गानेन प्रत्युत्तरितः।
ग्रह्
- {प्रत्युद्ग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘प्रत्यवेतस्वराणां तु प्रत्युद्गृह्णीयात्’ (लाट्या० श्रौ० ७।८।१)। प्रत्याचक्षीत, पराकुर्यात्।
- ‘बलवद् गेयं वज्रमेषं प्रत्युद्गृह्णाति’ (पञ्च० ब्रा० ७।७।१०)। ऊर्ध्वं स्तभ्नातीत्यर्थः।
चरण्
- {प्रत्युच्चरण्}
- चरण् (चरण गतौ कण्डवादिः)।
- ‘प्रति ते जिह्वा घृतमुच्चरण्यत्’ (वा० सं० ८।२४)। उच्चरण्यत् उच्चरतु। जिह्वा ज्वाला। महीधरस्तु उत्पूर्वाच्चरतेर्लोडर्थे ण्यत्प्रत्यय औणादिक इत्यभिमन्यते। तद्विचारासहम्।
जीव्
- {प्रत्युज्जीव्}
- जीव् (जीव प्राणधारणे)।
- ‘ददौ तस्यै तदैवार्धं निजायुषः। प्रत्युज्जिजीव सा तेन’ (कथा० १४।८१)॥ प्रतिलब्धजीविता बभूवेत्यर्थः।
तॄ
- {प्रत्युद्तॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘मन्दाकिनीतीरं प्रत्युत्तीर्य’ (रा० २।१०३।२८)। प्रत्युत्तीर्य=उपगम्य।
पद्
- {प्रत्युद्पद्}
- पद् (पद गतौ)।
- ‘तत्र मे प्रत्युत्पन्ना मतिः’ (तन्त्रा०)। प्रत्युत्पन्ना तत्कालमुत्पन्ना, सद्यः संजाता।
- ‘इदं तत् प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते’ (शा० ५)। तात्कालिकी तु प्रतिभा प्रत्युत्पन्नमतिः स्मृता।
- ‘यस्य बुद्धिः परिभवेत् तमतीतेन योजयेत्। अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्’ (भा० आदि० १४०।७४)॥ प्रत्युत्पन्नेन वर्तमानेन धनादिना। योजयेदित्यस्य स्थाने सान्त्वयेदिति पाठान्तरम्।
- ‘अतीतानागतं हित्वा प्रत्युत्पन्नेन वर्तय’ (भा० शां० २२७।६६)।
- ‘अवाप्यान्कामयन्नर्थान्नानवाप्यान् कदाचन। प्रत्युत्पन्नाननुभवन् मा शुचस्त्वमनागतान्’ (भा० शां० १०४।२८)। प्रत्युत्पन्नांस्तत्कालमुपस्थितान्।
यम्
- {प्रत्युद्यम्}
- यम् (यम उपरमे)।
- ‘तमेकादशिन्या पुरस्तात्प्रत्युद्यच्छति’ (पञ्च० ब्रा० २०।२।४)। समानोन्मानं करोतीत्यर्थः।
- ‘क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः’ (ऐ० ब्रा० ६।२१)। प्रतिकूलोद्योगयुक्ताम्, विरोधायोत्तिष्ठमानाम्, अभ्युत्थिताम् इत्यर्थः।
- ‘नैनं शत्रुः प्रत्युद्यामी भवति’ (जै० ब्रा० १।९५)। उदीरितचर एवार्थः।
- ‘यद् द्वे इव ब्रूयाद्यजमानाय द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्यात्’ (श० ब्रा० १।५।२।२)।
- ‘ते यजमानलोके द्विषन्तं भ्रातृव्यं प्रत्युद्यामिनं कुर्वन्ति’ (श० ब्रा० ८।४।४।८)। प्रतिद्वन्द्विनं कुर्वन्तीत्यर्थः।
- ‘सतोबृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय’ (पञ्च० ब्रा० १२।४।२२)। प्रत्युद्यमाय प्रतिरूपत्वेनोच्छ्रयणाय।
या
- {प्रत्युद्या}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘अर्जुनं वासुदेवं च को वा प्रत्युद्ययौ रथी’ (भा० शल्य० २।६४)। प्रत्युद्ययौ प्रातिभट्येनाभिमुखं ययौ, विरुरुत्सयाऽभिमुखं जगाम।
- ‘ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः। तैर्विग्रहो यथा न स्यात्…’ (भा० आश्व० ७२।२३)॥
- ‘प्रत्युद्ययुरमृष्यन्तो राजानः पाण्डवर्षभम्’ (भा० आश्व० ७७।२)।
- ‘न कश्चिदेनं समरे प्रत्युद्याति महारथः’ (भा० भीष्म० ११६।७९)। उक्तोऽर्थः।
- ‘प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः’ (मात्स्य० १५२।१७)। प्रत्युद्ययौ अभ्यद्रवत् उपाद्रवत्।
- ‘प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति’ (रघु० १।४९ टीकायां मल्लिनाथेनोद्धृतं वचनम्)। सच्चिकीर्षयाऽभिमुखं प्रसरन्तीत्यर्थः।
- ‘खाण्डवे येन भगवान् प्रत्युद्यातः सुरेश्वरः’ (भा० द्रोण० १८५।१५)। प्रत्युद्यातः प्रतिगृहीतः, प्रतिरुद्धः।
- ‘तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत। वृतवान् परमं कृष्ण प्रतीपं सव्यसाचिनः’ (भा० उ० १४१।१६)॥ प्रत्युद्यातारं विरोधायोद्योक्तारम्।
श्रि
- {प्रत्युच्छ्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘त (देवाः) एतद्दक्षिणतः प्रत्युदश्रयन्’ (श० ब्रा० १।४।४।८)। उच्छ्रिता उन्नता उन्नतकायाः स्थिता इत्यर्थः।
स्था
- {प्रत्युत्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘न्याय्ये प्रत्युत्थाने प्रत्युत्थितं कश्चित् कञ्चित् पृच्छति’ (लुङ् ३।२।११० सूत्रे वसेर्लुङ् रात्रिशेष इति वार्त्तिके भाष्ये)। प्रत्युत्थितः प्रबुद्धः। शय्यात उत्थितः।
- ‘यस्ततः पुत्रो जायते स लोकः प्रत्युत्थायी’ (श० ब्रा० ११।६।२।१०)। प्रत्युत्थायी पुनरुदित्वरः, पुनरभ्युदयशीलः।
- ‘मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः’ (भा० सभा० ५।१०८)। सर्वतः प्रत्युत्थानं सर्वेण विरोधः।
हा
- {प्रत्युद्धा}
- हा (ओहाङ् गतौ)।
- ‘असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत’ (ऋ० १।९।४)। प्रत्युदहासत उद्गत्य प्रापन्।