१८७ प्रत्याङ् (प्रति+आङ्)

  • {प्रत्ये}
  • इ (इण् गतौ)।
  • ‘स ह क्षत्ताऽन्विष्य नाविदमिति प्रत्येयाय’ (छा० उ० ४।१।७)। प्रत्येयाय निववृते।
  • ‘तदुह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय’ (छां० उ० ४।३।७)। प्रत्येयाय उपजगाम।
  • ‘अरण्यं गत्वा न प्रत्येयात्’ (का० श्रौ० २१।१।१७)। न प्रत्यागच्छेत्, गृहितां न प्रत्यापद्येतेत्यर्थः। करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोरिति मेदिनी। प्रत्यायो बलि र्भागधेयः, राजदेयः शुल्कः।
  • ‘अग्मीधे पयसी प्रदाय यथेतं प्रत्येत्य’ (सत्या० श्रौ० २४।४।४)। प्रत्येत्य प्रत्यावृत्य।

कल्

  • {प्रत्याकल्}
  • कल् (कल गतौ संख्याने च)।
  • ‘प्रत्याकलितस्वदुर्नयः’ (दशकु०)। प्रत्याकलितः परिगणितः, सुविचिन्तितः।

काङ्क्ष्

  • {प्रत्याकाङ्क्ष्}
  • काङ्क्ष् (काक्षि काङ्क्षायाम्)।
  • ‘मृगं हरिरिवादृश्यः प्रत्याकाङ्क्षत कीचकम्’ (भा० वि० २२।३८)। प्रत्याकाङ्क्षत=प्रत्याकाङ्क्षत्, प्रत्यपालयत्, प्रत्यैक्षत।

क्रुश्

  • {प्रत्याक्रुश्}
  • क्रुश् (क्रश आह्वाने रोदने च)।
  • ‘आक्रुष्टः पुरुषः सर्वं प्रत्याक्रोशेदनन्तरम्’ (भा० वन० २९।२७)। प्रत्याक्रोशेत् प्रतिशपेत्।

ख्या

  • {प्रत्याख्या}
  • ख्या (ख्या प्रकथने, चक्षिङ् आदेशो वा)।
  • ‘यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद। विषमग्निं जलं रज्जुमास्थास्ये तव कारणात्’ (भा० वन० ५६।४)॥ प्रत्याख्यास्यसि प्रत्यादेक्ष्यसि, न प्रतिपत्स्यसे।
  • ‘वार्तिककारस्तु न क्वादेरित्यादि प्रत्याचख्यौ’ (पा० ७।३।५९ इत्यत्र सि० कौ०)। प्रत्याचख्यौ निराकृतवान्।
  • ‘एवमेवाब्रवीद् राजा प्रत्याख्यातश्च तैरपि’ (हरि० १।३०।३०)। (तुर्वश्वादिभिर्) नेत्युक्तः।
  • ‘अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः’ (शा० ६)। प्रत्याख्यातः प्रत्यादिष्टः, आदेशेन प्रतिवारितः।
  • ‘प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम्’ (माल० ३।५)। प्रत्याख्यातमतिक्रान्तमतिशयितम्।
  • ‘को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुम्’ (श० ब्रा० १४।९।१।११)। प्रत्याख्यातुम् प्रतिवक्तुम् प्रतिवदितुम्, त्वदुक्तं निरसितुम्।
  • ‘अनभिप्रेतमापन्नः प्रत्याख्यातुमनीश्वरः’ (भा० पु० ३।३१।२५)। प्रत्याख्यातुं नेति वक्तुम्।
  • ‘प्रत्याख्यायं देवताभ्य आहुतिं जुहोति’ (श० ब्रा० १३।३।४।१)। प्रत्याख्याय प्रत्येकम् आमन्त्र्य।
  • ‘प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः’ (भा० वन० ३०१।१३)। प्रत्याख्येयः=नेति वक्तव्यः।
  • ‘दोषान् प्रत्याख्याय ज्वरादयो न भवन्ति’ (सुश्रुत० सूत्र० २४।११)। प्रत्याख्याय निरस्य परित्यज्य।

गम्

  • {प्रत्यागम्}
  • गम् (गम्लृ गतौ)।
  • ‘स्नेहः प्रतिहतो न प्रत्यागच्छति’ (सुश्रुत० २।२००।१०)। स्पष्टोऽर्थः।
  • ‘उर्वशी प्रत्यागच्छति’ (विक्रम० १)। प्रत्यागच्छति प्रकृतिं प्रत्यापद्यते, प्रतिबुध्यते, चेतनां प्रतिलभते। अत एव प्रत्यागतः संजीवितः प्रत्यागतप्राणः, व्यपेतमोहो भवति।
  • ‘मण्डलानि विचित्राणि गतप्रत्यागतानि च’ (भा० शल्य० ५७।१७)। प्रत्यागतम् आभिमुख्यमत्यजतोपराङ्मुखस्य सत एवापसरणम्।

गृ

  • {प्रत्यागृ}
  • गृ (गृ शब्दे)।
  • ‘गृणाति ह वा एतद्धोता यच्छंसति। तस्मा एतद् गृणते प्रत्येवाध्वर्युरागृणाति तस्मात्प्रतिगरो नाम’ (श० ब्रा० ४।३।२।१)। निगदव्याख्यातम्।
  • ‘अध्वर्युस्तस्मिंस्तिष्ठन् प्रत्यागृणाति’ (शां० श्रौ० १७।४।६)। प्रत्यागृणाति प्रतिवक्ति।

चक्ष्

  • {प्रत्याचक्ष्}
  • चक्ष् (चक्षिङ् व्यक्तायां वाचि)।
  • ‘दीयमानं प्रत्याचक्षीत’ (का० श्रौ० २२।१।३२)। नाङ्गी कुर्यादित्यर्थः।
  • ‘न संनिपतितं धर्म्यमुपभोगं यदृच्छया। प्रत्याचक्षते…’ (भा० शां १७९।२४)। उक्तोऽर्थः।
  • ‘न कञ्चन वसतौ प्रत्याचक्षीत’ (तै० उ० ३।१०।१)। निवासं याचितो निषेधं मा वोचदित्यर्थः।
  • ‘गुरुपुत्रीति कृत्वा प्रत्याचक्षे न दोषतः’ (भा० आदि० ७७।१७)। उदीरितचर एवार्थः।
  • ‘प्रत्याचष्टात्मभूर्देवान्’ (भा० पु० ३।१५।११)। प्रत्याचष्ट प्रत्युवाच। अप्रसिद्धिदूषितोऽयमर्थः। प्रसिद्धिं प्रति चास्य कवेरनादरः प्रसिद्धः।

चरण्

  • {प्रत्याचरण्}
  • चरण् (चरण गतौ, कण्ड्वादिः)।
  • ‘प्रति वां जिह्वा घृतमाचरण्यात्’ (अथर्व० ७।३०।१)।

दा

  • {प्रत्यादा}
  • दा (डुदाञ् दाने)।
  • ‘शुभाशुभं कर्म कृतं यदन्यत्तदेव प्रत्याददते स्वदेहे’ (भा० शां० ७४१५)। प्रत्याददते पुनराददते पुनराप्नुवन्ति।
  • ‘प्रत्यादित्सु त्रिविष्टपम्’ (भा० पु० १।३।१९)।
  • ‘न चाहं शक्तः शापं प्रत्यादातुम्’ (भा० आदि० ३।२२)। प्रत्यादातुं प्रतिसंहर्तुम्, प्रतिनिवर्तयितुम्।
  • ‘उत्तमं पादं प्रत्यादाय’ (शां० श्रौ० ७।२५।६, ऋक् प्रा० १०।१।८)। प्रत्यादाय=आवर्त्य।
  • ‘यत्र खल्वेकः प्रत्यादेयं ददाति द्वितीयश्च प्रतिदेयं गृह्णाति तत्रास्य दृष्टत्वात्प्रधानमृणशब्दः’ (न्यायभा० ४।१।६०)। प्रत्यादेयं पुनर्ग्राह्यम्।

दिश्

  • {प्रत्यादिश्}
  • दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
  • ‘त्वत्सन्निधौ यत् कथयेत्पतिस्ते यद्यप्यगुह्यं परिरक्षितव्यम्। काचित्सपत्नी तव वासुदेवं प्रत्यादिशेत् तेन भवेद् विरागः’ (भा० वन० २३४।८)॥ वासुदेवं प्रत्यादिशेत् वासुदेवं कथयेत्।
  • ‘संजीवकः प्रत्यादिश्यताम्’ (हितोप० सुहृद्० कथा ८)। आहूयतामित्यर्थः।
  • ‘कष्टमेते सुहृद्व्यसनेषु परवदुदासीनाः प्रत्यादिश्यामहे’ (मुद्रा० ६) तिरस्क्रियामहे।
  • ‘अथ बोधिसत्त्वस्तदस्याः समुदाचारधार्ष्ट्यं तेजस्विनिभूतेन वचसा प्रत्यादिदेश’ (अवदा० जा० १९)। जगर्ह इत्यर्थः।
  • ‘ऋजुप्रणामादिक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा’ (रघु० ६।२५)। प्रत्यादिदेश निराचकार।
  • ‘राजा कालस्य कारणम्। तत् किमहमेतं जलधरसमयं न प्रत्यादिशामि’ (विक्रम० ४)। तत्-प्रत्यावृत्तिं नाज्ञापयामि। राजा कालस्य कारणमित्युक्तम्।
  • ‘अन्तः शरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता’ (रघु० ६।३९)। प्रत्यादिदेश निषिषेध।
  • ‘यस्य यदकुशलं पश्यसि तत् तदानीमेव प्रत्यादिशेति’ (कौ० अ० १।११।३)। प्रत्यादिश प्रतिक्रियतामित्यादिश आज्ञापय।
  • ‘तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशमितारिभिः। प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः’ (रघु० १।६१)॥ प्रत्यादिश्यन्ते प्रतिनिवर्त्यन्ते, प्रयोगाद् वार्यन्ते।
  • ‘प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव’ (शा० ५)। प्रत्यादिष्टः परित्यक्तः परिहृतः।
  • ‘प्रत्यादिष्टविशेषमण्डनविधिः’ (शा० ६।६)। प्रत्यादिष्टः परिहृतः।
  • ‘कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम्’ (शा० ५।३१)। प्रत्यादिष्टां निराकृताम्।
  • ‘महावंशप्रदीपेन…। रक्षागृहगता दीपाः प्रत्यादिष्टा इवाभवन्’ (रघु० १०।६९)। प्रत्यादिष्टाः प्रतिबद्धाः, अभिभूताः। महाप्रदीपसमीपे नाल्पाः स्फुरन्तीति भावः।
  • ‘मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः’ (भा० भीष्म० ९८।२८)। प्रत्यादेशो निराकरणम्।
  • ‘प्रत्यादेशं मन्यमानो महात्मा’ (भा० भीष्म० ८५।२६)। प्रत्यादेशो भर्त्सनम्।
  • ‘प्रत्यादेशो रूपगर्वितायाः श्रियः’ (विक्रम० १)। प्रत्यादेशो निराक्रिया।
  • ‘प्रत्यादेशादभिहितं धारयिष्ये कथं बत’ (रा० २।१३।६)। प्रत्यादेशात् तिरस्क्रियापूर्वम्।
  • ‘प्रत्यादेक्षादपि च मधुनो विस्मृतभ्रूविलासम्’ (मेध० २।३५)। प्रत्यादेशः परिहारः।
  • ‘प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि’ (मेघ० २।५४)। प्रत्यादेशो निषेधोऽनङ्गीकारः। मल्लिस्तु प्रत्यादेशः प्रतिवचनमित्येवं विववार, कोषं च प्रमाणमुदाजहार। नायमर्थः प्रसिध्यतीति नेममितरे रोचयन्ते।
  • ‘येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते। तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः’ (मनु० ८।३३४)॥ प्रत्यादेशाय प्रसङ्गनिवारणायेति कुल्लूकः।
  • ‘दत्तः स्वमांसं दहता कपोतेन महात्मना। नृशंसस्य ममाद्यायं प्रत्यादेशो न संशयः’ (भा० शां० १४७।४)॥ प्रत्यादेशो धिक्कारपूर्वक उपदेश इति नीलकण्ठः।
  • ‘प्रत्यादेष्टुं स तद्वैरं मामिदानीं प्रतीक्षते’ (प्रतिज्ञा० ४।१४)। प्रत्यादेष्टुं निर्यातयितुम्।

दृ

  • {प्रत्यादृ}
  • दृ (दृङ् आदरे)।
  • ‘कथं नु नो दूतश्चरन्न प्रत्यादृथाः’ (श० ब्रा० ३।५।१।१६)। न प्रत्यादृथाः सादरं नैक्षथाः।

धा

  • {प्रत्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद (बृह० उ० २।२।१)। प्रत्याधीयते पुनः पुनराधीयतेऽत्रेति प्रत्याधानं स्थूलशरीरम्।

नह्

  • {प्रत्यानह्}
  • नह् (णह बन्धने)।
  • ‘तयोरन्यतरत् प्रत्यानह्यति’ (श० ब्रा० ३।३।४।८)। प्रत्यानह्यति अवलम्बयति। तयोः कृष्णमृगचर्म्मणोः।

नी

  • {प्रत्यानी}
  • नी (णीञ् प्रापणे)।
  • ‘यदपः प्रत्यानयति’ (श० ब्रा० २।३।१।१६, ११।६।१।११)। ** (अग्निहोत्रपयसि) पश्चादासिञ्चति जलमित्यर्थः।**
  • ‘ये नयन्ति परं पारं सिद्धान् प्रत्यानयन्ति च’ (रा० ४।४४।७९)। प्रत्यानयन्ति प्रत्याहरन्ति।
  • ‘प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम्’ (कु० २।५२)।
  • ‘तूर्णं प्रत्यानयस्वैतान् कामं व्यध्वगतानपि’ (भा० सभा० ७४।२४)। उक्तोऽर्थः।
  • ‘दुर्योधनेन यद्येतत् पापं तेषु पुरा कृतम्। त्वया तत्कुलवृद्धेन प्रत्यानेयं नरेश्वर’ (भा० उ० ३९।३१)। प्रत्यानेयमपनोद्यम्, प्रतिविधेयम्।

पद्

  • {प्रत्यापद्}
  • पद् (पद गतौ)।
  • ‘प्रत्यापन्नेन्द्रियस्मृति’ (भा० पु० ८।११।४०)। प्रत्यापन्ना प्रत्यागता प्रतिलब्धा।
  • ‘प्रत्यापत्तिमपश्यन्ती द्विजस्याचिन्तयत्तदा’ (भा० पु० १०।५३।२२)। प्रत्यापत्तिं प्रत्यावृत्तिं प्रत्यागमनम्।
  • ‘आचार्यमातृपितृहन्तारस्तत्प्रसादाद्भयाद्वा, एषां तेषां प्रत्यापत्तिः’ (व० ध० शा० १५।१९)। प्रत्यापत्तिः प्रायश्चित्तम्। प्रसादादपयाप्याद्वेति पाठान्तरम्।
  • ‘नास्यास्मिँल्लोके प्रत्यापत्तिर्विद्यते’ (आप० ध० १।९।२४।२५)। प्रत्यापत्तिः शुद्धिः। पुत्रादिभावेन सम्बन्ध इति केचित्। अशक्योऽयं व्याधिरस्याः। विनष्टा नामेयमिति मन्तव्यम्।
  • ‘नास्याः प्रतिपत्तिरस्ति’ (तन्त्रा० ४ उपक्रमे)। प्रत्यापत्तिः प्राणप्रतिलम्भः, संजीवनमुज्जीवनम्।
  • ‘संन्यस्य दुर्मतिः कश्चित् प्रत्यापत्तिं व्रजेद्यदि’ (याज्ञ० ३।२८० मिताक्षरायां संवर्तवचनम्)। प्रत्यापत्तिर्गार्हस्थ्यं प्रति पुनर्गमनम्, गृहीभावः। अ अ (पा० ८।४।६८) इत्यनेन संवृतत्वप्रत्यापत्तिः क्रियते (काशिका)। संवृतत्वप्रत्यापत्तिः संवृतत्वप्रतिलब्धिः।
  • ‘प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते’ (भा० शां० २९१।९)। प्रत्यापत्तिर्वैराग्यम्।

भू

  • {प्रत्याभू}
  • भू (भू सत्तायाम्)।
  • ‘ओषधयो वै प्रजाः प्रभवन्तीः प्रत्याभवन्ति’ (तै० सं० १।७।२।३)। प्रत्याभवन्ति सन्निहिता हस्तगता उपयोग्या वा भवन्तीत्यर्थः।

म्ना

  • {प्रत्याम्ना}
  • म्ना (म्ना अभ्यासे)।
  • यद्यपि (तत्पित्रुपामन्त्रणम्) अप्रत्याम्नातव्यम्’ (आसीत्) (भा० पु० ५।१।६)। अप्रत्याम्नातव्यमप्रत्याख्येयमिति श्रीधरस्वामी।
  • ‘त्रेयणापि निवर्तन्ते सिद्ध्या प्रतिषेधेन प्रत्याम्नायेन’ (भा० श्रौ० ६।१५।६)। प्रत्याम्नायः प्रत्यादेशः, आदिष्टस्य पुनरादेशेन निवर्तनम्।
  • ‘यद्यनाढ्योऽग्नीनादधीत काममेवैकां गां दद्यात्सा गवां प्रत्याम्नायो भवति’ (आप० श्रौ० ५।६।२०।१८)। गवां प्रत्याम्नायो बह्वीनां गवां दानस्य निवर्तिका भवति। न रथादीनन्यजातीयान्निवर्तयतीति भाष्यम्। गवां प्रत्याम्नाय इति वचनादन्यत् सर्वं दातव्यमिति रुद्रदत्तः।

या

  • {प्रत्याया}
  • या (या प्रापणे)।
  • ‘दिव्यमस्त्रं प्रकुर्वाणः प्रत्यायाद्रथसत्तमः’ (भा० वि० ५५।३)। प्रत्यायात् प्रातिकूल्येनाभिमुखोऽयादित्यर्थः।
  • ‘सोऽति विद्धो बलवता प्रत्यपायाद्रथान्तरम्’ (भा० कर्ण० २५।११)। प्रत्यपायात् प्रत्यपाक्रामत्।

रभ्

  • {प्रत्यारभ्}
  • रभ् (रभ राभस्ये)।
  • ‘नह प्रत्यारम्भे (पा० ८।१।३९)। चोदितस्यावधीरणे उपालिप्सया प्रतिषेधयुक्तः प्रत्यारम्भः क्रियत इति काशिका। प्रतिषेधयुक्त आरम्भः प्रत्यारम्भ इति तु दीक्षितः। संक्षेपरुचिर्दीक्षितो मिताक्षरतामिच्छति न विशदताम्।

लभ्

  • {प्रत्यालभ्}
  • लभ् (डुलभष् प्राप्तौ)।
  • ‘प्रत्यालब्धामङ्गुष्ठेनाभिसंगृह्य’ (आश्व० श्रौ० १।७।५)। प्रत्यालब्धामन्यतः स्पृष्टाम्।
  • ‘पराञ्चमावृत्तं संपिष्यादप्रत्यालभमानम्’ (श० ब्रा० १।६।३।३३)। अप्रत्यालभमानम् प्रतिनिवृत्त्यापरिवेष्टितारमनाक्रामन्तमविरुन्धानम्।

ली

  • {प्रत्याली}
  • ली (लीङ् श्लेषणे)।
  • ‘तं मृत्युः प्रत्यालीयत’ (शां० ब्रा० १५।५)। समाश्लिष्यदित्यर्थः।

वप्

  • {प्रत्यावप्}
  • वप् (डुवप बीजसन्ताने)।
  • ‘श्रमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः। परं प्रत्यावापः फलति कृतसेकस्तरुरिव’ (बा० रा० १।२४)॥

व्रज्

  • {प्रत्याव्रज्}
  • व्रज् (व्रज गतौ)।
  • ‘येनेतो गच्छेयुरन्येन प्रत्याव्रजेयुः’ (लाट्या० श्रौ० ४।४।१७)। प्रत्याव्रजेयुः प्रत्यावर्तेरन्।

श्रु

  • {प्रत्याश्रु}
  • श्रु (श्रु श्रवणे)।
  • ‘ऋत्विजः सम्प्रदायं चरन्ति। यत्प्रत्याश्रावयति यज्ञ एवैतदुपावर्तते’ (श० ब्रा० १।५।२।७)। यत्प्रत्याश्रावयति यदुत्तरं ब्रवीति (आग्नीध्रः)।

श्वस्

  • {प्रत्याश्वस्}
  • श्वस् (श्वस प्राणने)।
  • ‘प्रत्याश्वसिहि साध्वस्यां (शय्यायाम्) राजपुत्र यथासुखम्’ (रा० २।५१।२)। प्रत्याश्वसिहि विश्रान्तो भव।
  • ‘एकश्चाप्यगणः सङ्ख्ये प्रत्याश्वासमरोचयम्’ (भा० शल्य० ३१।३९)। प्रत्याश्वासो विश्रमः।
  • ‘स तु दीर्घेण कालेन प्रत्याश्वस्तो नराधिपः’ (भा० शल्य० १।४८)। प्रत्याश्वस्तो लब्धसंज्ञः।

सञ्ज्

  • {प्रत्यासञ्ज्}
  • सञ्ज् (षञ्ज सङ्गे)।
  • ‘अथ प्रत्यासङ्गः कमपि महिमानं वितरति।’ प्रत्यासङ्ग एकस्थानसहासित्यादिसंसर्गविशेषः।

सद्

  • {प्रत्यासद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘मुक्तिस्त्वां प्रत्यासीदति’ (कि० ११।३६)। त्वां प्रत्यासीदति त्वामुपस्थिता तव संनिहिता भवति।
  • ‘विद्यां श्रुत्वां ये गुरुं नाद्रियन्ते प्रत्यासन्ना मनसा कर्मणा वा’ (भा० शां० १०८।२३)। प्रत्यासन्ना अवसन्ना विशीर्णा विनष्टाः।
  • ‘यः पापं कुरुते राजा काममोहबलात्कृतः प्रत्यासन्नस्य तस्यर्षे किं स्यात्पापप्रणाशनम्’ (भा० शां० १२३।१३)॥ प्रत्यासन्नस्य पश्चात्तप्तस्य।

सृ

  • {प्रत्यासृ}
  • सृ (सृ गतौ)।
  • ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (पा० ३।२।७८) इत्यत्र उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानम् इति वार्तिकं पठितम्। उदासारिण्यः प्रत्यासारिण्य इति चोदाहरणे स्थिते। प्रत्यासारो व्यूहपार्ष्णिरित्यमरः।

हृ

  • {प्रत्याहृ}
  • हृ (हृञ् हरणे)।
  • ‘तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्’ (रा० २।१०६।१४)। प्रत्याहरतु निवर्तयतु। अतिक्रान्तमतिक्रमणम्। नपुंसके भावे क्तः।
  • ‘तत एकाक्षरं नादं भोरित्येव समीरयन्। प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्’ (भा० शां० ३३३।२५)॥ प्रत्याहरत् प्रत्यवाहरत् समहरत्।
  • ‘प्रत्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः’ (भा० सभा० ८०।३०)। प्रत्याहरन्ति नगरसमीपे प्रेतमांसास्थ्यादीन्यानयन्ति प्रतिकूलं भषन्ति क्रोशन्ति वेति नीलकण्ठः। द्वितीयस्मिन्नर्थे क्लिष्टं कल्पयति टीकाकारः। केवलमाहरणं विशब्दासहचरितं शब्दक्रियां नाह। ब्रूयाच्चेत्कामं प्रतिशब्दयुक्तं प्रतिकूलं भषणं ब्रुवीत। किं च। भषणेर्थेङ्गीकृते क्रव्यादा इति विशेषणमर्थवन्न स्यात्।
  • ‘दिवसे दिवसे ह्यस्या गतिजल्पितचेष्टितम्। प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते सदा’ (भा० उ० १८६।१४)॥ गत्यादिविषयां प्रवृत्तिं मामहारयन्नित्यर्थः।
  • ‘ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता। प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत्’ (भा० वन० ५६।१८)॥ प्रत्याहरन्ती संज्ञां लभमाना, मोहान्निर्गता सती।
  • ‘दृषदं प्रक्षाल्य ब्रह्मचारी व्रतवती वा ब्रह्मबन्धुः कुमारी वाऽऽप्रत्याहरन्ती पिनष्टि’ (गो० गृ० २।६।९)। प्रत्याहरणं पिष्टस्य पश्चादानयनं तदकुर्वती। उच्छ्रितशिलापुत्रकेणाहत्याहत्य पेषणमप्रत्याहरणमिति वा। सकृत् प्रयोगेणैव यथा पेषणं निर्वहति तथा कर्तव्यं तदेवाप्रत्याहरणं भवतीति वा।
  • ‘किं शेषेऽद्य निराकृताः किमरयः प्रत्याहृता वा प्रिया’ (हनुमन्नाटके १३।२८)। प्रत्याहृता प्रत्यानीता प्रत्यागमिता।
  • ‘स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः’ (यो० सू० २।२५)।
  • ‘प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि’ (भा० शां० २३३।१)। प्रत्याहारः संहारः। प्रत्याहार उपादानमिति वैजयन्ती।

ह्वे

  • {प्रत्याह्वे}
  • ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
  • ‘छायाप्रत्याह्वयाभासा ह्यसन्तोऽप्यर्थकारिणः’ (भा० पु० ११।२८।५)। प्रत्याह्वयः प्रतिध्वनिः।