१८६ प्रत्यव (प्रति+अव)

  • {प्रत्यवे}
  • इ (इण् गतौ)।
  • ‘तत्सर्वं दुःखमेव प्रत्यवैमि’ (यो० सू० ३।१८ भाष्ये)। प्रत्यवैमि जानामि। सार्वार्थ्याय प्रतिशब्दस्तत्सर्वमित्युक्तेर्नातीवापेक्ष्यते।
  • ‘तत्परार्धं गत्वैक्षत कथं न्विमाँल्लोकान् प्रत्यवेयाम्’ (श० ब्रा० ११।२।३।३)। प्रत्यवेयामवतरेयम्, अवतीर्य प्राप्नुयामित्यर्थः। प्रतिराभिमुख्यमाह, अवो नीचैस्त्वं निम्नताम्।
  • ‘द्वेषादिना ॠतावनुपयन्प्रत्यवेयात्’ (गौ० ध० १।५।१ इत्यत्र हरदत्तः)। प्रत्यवेयात् दोषी स्यात्, पापभाग् भवेत्।
  • ‘तादृशं हि तेषां तेजः, यदेवंविधैरपि पाप्मभि र्न प्रत्यवयन्ति’ (इति आप० ध० २।१३।८ सूत्र उज्ज्वलायां हरदत्तः)। न दुष्यन्ति, न पतन्तीत्यर्थः।
  • ‘ननु विहिताकरणात् प्रत्यवैतीति कुतोऽवसितम्’ (याज्ञ० ३।२१९-२२० मिताक्षरायाम्)।
  • ‘यथानुपासीनः सन्ध्यां प्रत्यवैति तथाऽनधीयानोपि व्याकरणम्’ (पदमञ्जरी)।
  • ‘स्वातन्त्र्येणेदृशं प्रयुञ्जाना अस्मदादयः प्रत्यवयन्त्येव’ (शब्देन्दु० पतिः समास एवेति सूत्रे)।
  • ‘हिंसाकृत् प्रत्यवेयात्’ (विश्व० च० २९।३६६)। सर्वत्र दोषभाक्त्वं समानोऽर्थः। नित्यनैमित्तिके कुर्यात् प्रत्यवायजिघांसया।
  • ‘मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः’ (बौ० ध० २।३।५।२३ इत्यत्र गोविन्दस्वाम्युद्धृतं वचनम्)। प्रत्यवायो विहितस्याकरणजो दोषः पापम्, तस्य जिघांसा तत्परीहारः।
  • ‘कुमारेण बहुप्रत्यवायेऽस्मिन्प्रदेशे कुतूहलिना न स्थातव्यम्’ (नागानन्दे ४)। प्रत्यवायो विघ्न उपद्रवो भयं वा।
  • ‘उत्तमानुत्तमान् गच्छन् हीनान् हीनांश्च वर्जयन्। ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम्’ (मनु० ४।२४५)॥ प्रत्यवायो विपरीताचरणम्।
  • ‘नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते’ (गीता० २।४०)। प्रत्यवायो विपरीतः परिणामः।
  • ‘एकप्रत्यवायं स्विष्टकृतः’ (का० श्रौ० १।९।९)। स्विष्टकृद्यागस्यावदानं प्रधानयागापेक्षया एकेनावदानेन प्रत्यवैति न्यूनी भवतीत्यर्थः।
  • ‘पुरस्ताद्योजने होता, इतरे क्रोशप्रत्यवायेन’ (का० श्रौ० २२।३।३३)। प्रत्यवायोऽपकर्षः।
  • ‘इति पञ्चानामह्नामनुरूपैः प्रत्यवपन्ति यथाभ्यारुह्य प्रत्यवरोहेत्तथा’ (पञ्च० ब्रा० १५।७।६)। प्रत्यवयन्ति पुनरवतरन्ति।

ईक्ष्

  • {प्रत्यवेक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘सर्वांस्तान् कौरवो राजा विधिवत् प्रत्यवैक्षत’ (भा० उ० १९५।१९)। प्रत्यवैक्षत अवैक्षत, प्रत्यजागः।
  • ‘निर्धनो बहुपुत्रोस्मि राजपुत्र महायशः। उञ्छवृत्तिर्नित्यं प्रत्यवेक्षस्व मामिति’ (रा० २।३२।३४)॥ मां चिन्तय, माम्प्रतिविधेहि।
  • ‘इमां प्रत्यवेक्षमाणो जपति’ (श० ब्रा० ५।४।३।२०)। ईक्षमाण इत्येवार्थः।
  • ‘प्रत्यवेक्षिता वनभूमयः’ (शा० २)। प्रत्यवेक्षिताः परीक्षिताः शोधिताः।
  • ‘जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम्’ (हरि० २।५१।२९)। प्रत्यवेक्ष्य अनुकम्प्येति नीलकण्ठः। अयं चार्थिकोऽर्थः। अनुकम्पाप्रयुक्ता ह्यवेक्षा भवतीत्यनुकम्पार्थमाह।
  • ‘वर्णाश्रमप्रत्यवेक्षादर्शितादियुगोदयः’ (राज० १।३३९)। अवेक्षा प्रतिजागर इत्यमरः। प्रतिजागरोऽवधानम्। स एव प्रत्यवेक्षा। शब्दोपजनो नार्थोपजनः।
  • ‘तथा कायस्थभोज्या भूर्जाता तत्प्रत्यवेक्षया’ (राज० ५।१८१)। अवेक्षा प्रतिजागरः, तद्विरोधः प्रत्यवेक्षा प्रमादोऽनवधानम्। अत्रार्थेऽन्यत्र प्रयोगो मृग्यः।

गम्

  • {प्रत्यवगम्}
  • गम् (गम्लृ गतौ)।
  • ‘येन प्रत्यवगच्छेयुः कुलरूपविशेषणम्’ (भा० स्त्री० ३।७)। येन हेतुनाऽदृष्टरूपेण पृथक्त्वशो विशेषणं विशेषं वैशिष्ट्यं प्राप्नुयुः।

ग्रह्

  • {प्रत्यवग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अभिसृज्याभिषेकं ते पुनः प्रत्यवगृह्णत’ (रा० गोरेसियो० २।२०।१५)। प्रत्यवग्रहणं प्रत्यादानम्, पुनर्ग्रहणम्।

धा

  • {प्रत्यवधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘प्रक्षाल्यान्त्राणि प्रत्यवधायैनमाहरन्ति’ (जै० ब्रा० १।४७)। प्रत्यवधाय पुनरन्तर्निधाय।
  • ‘या च गोमृगे वपा भवति या चाजे तूपरे ते अश्वे प्रत्यवधायाहरन्ति’ (श० ब्रा० १३।५।२।१०)। प्रत्यवधाय उपरि निधाय।
  • ‘हृदयं प्रवृह्योत्तमं प्रत्यवदधाति’ (श० ब्रा० ३।८।५।८)। प्रत्यवदधाति प्रतिदधाति, भूयः स्वे स्थाने योजयति।

मृश्

  • {प्रत्यवमृश्}
  • मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
  • ‘दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्’ (भा० शां० २९५।१३)। प्रत्यवमर्शवान् सारासारविवेकवान्।
  • ‘स्मृतिः प्रत्यवमर्शश्च तेषां जात्यन्तरेऽभवत्’ (हरि० १।२१।१८)। प्रत्यवमर्शः स्वकृतकर्मानुसन्धानम्।
  • ‘सा च सम्प्रबोधे प्रत्यवमर्शात् प्रत्ययविशेषः’ (यो० सू० १।१० भाष्ये)। प्रत्यवमर्शः स्मरणम्।

मृष्

  • {प्रत्यवमृष्}
  • मृष् (मृष तितिक्षायाम्)।
  • ‘स्यात्स्वल्पः सङ्करः सपरिहारः सप्रत्यवमर्षः कुशलस्य नापकर्षायालम्’ (सां० त० कौ० उद्धृतं पञ्चशिखसूत्रम्)। प्रत्यवमर्षोऽकामेन सहनम्।

रुह्

  • {प्रत्यवरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘यथा श्रेयस्यायाति पापीयान् प्रत्यवरोहेत्’ (श० ब्रा० ४।१।२।९)। प्रकृष्टवयस्यागच्छति सत्यवरवयाः स्वासनादवतरतीत्यर्थः।
  • ‘क्षत्रियमायान्तमिमाः प्रजा विशः प्रत्यवरोहन्ति’ (श० ब्रा० ३।९।३।७)। प्रत्यवरोहन्ति स्वासनादवतरन्ति अभ्युत्तिष्ठन्ति वा।
  • ‘समारोपितोऽर्घः प्रत्यवरोपितो वा’ (कौ० अ० २।८।२६)। प्रत्यवरोपितोऽपकृष्टः, अवकलितः, व्यवकलितः।
  • ‘अप्रत्यवरोही स्यात्’ (का० श्रौ० २२।५।२७)। प्रत्यवरोहोऽभ्युस्थानम्। स्वासनादवतरणं वा पूज्यपूजायै।

सृप्

  • {प्रत्यवसृप्}
  • सृप् (सृप्लृ गतौ)।
  • ‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (मनः) (बृह० उ० २।१।१९)।
  • ‘प्रत्यवसृप्य प्रतिसंहृत्यात्मानम्’ (शां० भा०)।

सो

  • {प्रत्यवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘गोमयेनालिप्यारण्योरग्नी समारोह्य प्रत्यवस्यति’ (श० ब्रा० १२।४।४।१)। प्रत्यवस्यति प्रतिनिवर्तते।
  • ‘ततः श्वोभूते गृहेषु प्रत्यवस्यति’ (आप० श्रौ० ९।१।१।२२)। सर्वत्र श्वोभूते श्वः प्रभाते गृहान्प्रत्यागच्छतीत्यर्थः।
  • ‘ये प्रत्यवसिताश्चैव ते वै निरयगामिनः’ (भा० अनु० २३।६७)। प्रत्यवसिता आरूढपतिता इति नीलकण्ठः।
  • ‘प्रव्रज्याप्रत्यवसितः प्रज्ञाशौचयुक्त उदास्थितः’ (कौ० अ० १।११।४)। प्रव्रज्याप्रत्यवसितः प्रव्रजितो भूत्वा पुनर्गार्हस्थ्यं प्रतिनिवृत्तः। संन्यासात्प्रच्युतो भ्रष्टः।
  • ‘ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा’ (अग्नि पु० १७०।३७)।
  • ‘यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः’ (याज्ञ० ३।२८० मिताक्षरायां पराशरवचनम्)। भ्रष्ट इत्येवार्थः।
  • ‘प्रत्यवसिताः सर्वलोकबहिष्कृताः’ (यम० श्लो० २३)। उक्तोऽर्थः।
  • ‘गतिबुद्धिप्रत्यवसानार्थ०’ (पा० १।४।५२) इति सूत्रे प्रत्यवसानं भक्षणमाह। अयं चार्थोऽन्यत्र वाङ्मये प्रायो न दृष्टः।
  • ‘सोरवक्षेपणे’ (पा० ६।२।१९५)। अत्र वृत्ताविह खल्विदानीं सुस्थण्डिले सुस्फिताभ्यां सुप्रत्यवसित इति स्थितम्। तत्र सुप्रत्यवसित आशितसुतृप्त इत्यनर्थान्तरम्।
  • ‘आभीलानि प्राणिनः प्रत्यवस्यन् कालो नूनं व्याददावाननानि’ (शिशु० १८।७८)। प्रत्यवस्यन् अभ्यवहरन् निगिलन् ग्रसमानः। अभ्यवहारः प्रत्यवसानं भोजनं जग्धिरिति हलायुधः। गतिबुद्धिप्रत्यवसानार्थेति सूत्रे भगवता पाणिना प्रत्यवसानशब्दो भक्षणार्थे प्रयुक्तः। साहित्ये तु दुर्लभः, तथापि कवयः पाण्डित्यप्रकर्षाभिव्यक्तये प्रयुञ्जते। तत्राप्येषोऽ प्रयुक्तानां बलात्प्रयोगे प्रसिध्यतितमां कविर्माघः, यद्विषय आभणति लोकः–नवसर्गे गते माघे नवशब्दो न विद्यत इति।

स्कन्द्

  • {प्रत्यवस्कन्द्}
  • स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
  • ‘अर्थिना लेखितो योर्थः प्रत्यर्थी यदि तं तथा। प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं स्मृतम्’ (याज्ञ० २।७ मिताक्षरायां नारदवचनम्)। प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण वा लब्धमित्येवंरूपमुत्तरम्।

स्था

  • {प्रत्यवस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘शशंस शबरी वृद्धा रामाय प्रत्यवस्थिता’ (रा० ३।७४।१०)। प्रत्यवस्थिताऽभिमुखे स्थिता।
  • ‘धर्मी चानेकधर्मस्वभावः, तस्य चाध्वभेदेन धर्माः प्रत्यवस्थिताः’ (यो० सू० ४।१२ भा०)। प्रत्यवस्थिताः प्रत्येकमवस्थिताः।
  • ‘अत्र केचित्प्रत्यवतिष्ठन्ते’ (ब्र० सू० शां० भा०)। विरुन्धन्ति (उक्तमर्थम्) इत्यर्थः।
  • ‘दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे’ (भा० वि० १।७७)। उक्तोऽर्थः।
  • ‘भन्ये तु प्रस्थितास्तान्वै केचित्तान् प्रत्यवस्थिताः’ (मात्स्य० १४४।१४)। तान्प्रत्यवस्थितास्तेषां प्रतिपक्षे स्थिताः।
  • ‘अक्रुध्यत रणे भीमस्तैर्मृधे प्रत्यवस्थितैः’ (भा० शल्य० ३।२३)। प्रत्यवस्थितै र्विरोधार्थं स्थितैः।
  • ‘अथ शक्यते प्रत्यवस्थातुं प्रत्यवस्थीयताम्’ (नि० १।१३।४ इत्यत्र दुर्गः)। प्रत्यवस्थातुं विरोद्धुम्।
  • ‘तं राजानं शक्तिमानपि प्रत्यवस्थातुम्’ (अवदा० शरभजा०)। उक्तोऽर्थः।
  • ‘स्थातुमप्रत्यवस्थित्या विदध्यां कोशसंविदम्’ (राज० ७।७४६)। प्रत्यवस्थितिरविरोधः।

हृ

  • {प्रत्यवहृ}
  • हृ (हृञ् हरणे)।
  • ‘तेभ्यो यथाधिकारमर्थान्प्रत्यवहृत्य धर्मव्यवस्था’ (गौ० ध० २।२।२२)। प्रत्यवहृत्य श्रुत्वाऽवधार्य।
  • ‘ततः प्रत्यवहारोऽभूत् सैन्यानां राघवाज्ञया’ (भा० वन० २८४।४१)। प्रत्यवहारः शिबिरं प्रति प्रतिसंहारः।
  • ‘मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः’ (रघु० २।४४)। प्रत्यवहारः संहारः।