१७८ अभिसम् (अभि+सम्)

  • {अभिसमि}
  • इ (इण् गतौ)।
  • ‘अपृणन्तमभि सं यन्तु शोकाः’ (ऋ० १।१२५।७)। अभिसंयन्तु आभिमुख्येन सङ्गच्छन्तु।

क्रम्

  • {अभिसंक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘यत्स्तोमात्स्तोममभिसंक्रामत्यग्रादेवाग्रं रोहति’ (पञ्च० ब्रा० २१।११।३)। स्तोमात्स्तोमान्तरमारभत इत्यर्थः।

क्रुध्

  • {अभिसंक्रुध्}
  • क्रुध् (क्रुध क्रोधे)।
  • ‘अन्योन्यस्याभिसंक्रुद्धावन्योन्यं जघ्नतुः शरैः’ (भा० वन० १६।२४)। परस्परस्मै सम्यक् क्रुद्धौ।

गम्

  • {अभिसंगम्}
  • गम् (गम्लृ गतौ)।
  • ‘स्वस्ति गोब्राह्मणानां तु लोकानां येऽभिसङ्गताः’ (रा० ३।२४।२१)। अभिसङ्गताः अनुकूलाः।
  • ‘ते क्षिप्रमभिसंगम्य यूथपा यूथर्षभम्’ (रा० ४।१।९)। यूथर्षभे सम्पद्य, तेन संमिल्य।
  • ‘ऋषिभिश्चाभिसंगम्य प्रवत्स्यति सुखं वने’ (रा० २।३६।८)। अभिसङ्गम्य संगत्य संसृज्य।
  • ‘अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः। मुमुचुः प्रेमबाष्पौघम्…’ (भा० पु० १।१३।५)॥ सानन्दं प्रतीष्य प्रतिगृह्य।

गृ

  • {अभिसंगृ}
  • गृ (गृ शब्दे)।
  • ‘विश्वे तद् देवा अभिसंगृणन्तु’ (कौ० सू० ११५)। प्रतिशृण्वन्तु प्रतिजानताम्। सम्पूर्वो गृणातिः प्रतिज्ञाने वर्तते।

ग्रह्

  • {अभिसंग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘अङ्गुष्ठाभ्यां चोपकनिष्ठाभ्यां चाङ्गुलिभ्यामभिसंगृह्य प्राक्शस्त्रिरुत्पुनाति’ (गो० गृ० १।७।२५)। अभिसंगृह्य परिगृह्य सर्वत आदाय।

चर्

  • {अभिसंचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘त्वां जनासो अभि सं चरन्ति’ (ऋ० १०।४।२)। अभिसंचरन्ति परिसरन्ति।
  • ‘अन्यस्य चित्तमभिसंचरेण्यम्’ (ऋ० १।१७०।१)। संचरणशीलमनवस्थितमिति दुर्गः।

ज्ञा

  • {अभिसंज्ञा}
  • ज्ञा (ज्ञा अवबोधने)।
  • ‘विजिग्यानं मा प्रजाः श्रियै यशसेऽन्नाद्यायाभिसंजानन्ता इति पयो ह वै प्रजा जाता अभिसंजानते’ (श० ब्रा० २।६।३।६)। अभिसंजानन्ता=अनुजानन्तु श्र्यादिकम् मह्यमित्याह।

तन्

  • {अभिसंतन्}
  • तन् (तनु विस्तारे)।
  • ‘यथा शालायै पक्षसी मध्यमं वंशमभिसमायच्छन्ति एवं संवत्सरस्य पक्षसी दिवाकीर्त्यमभिसन्तन्वन्ति’ (तै० ब्रा० १।२।३।२)। अभिसन्तन्वन्ति विस्तारयन्ति एकस्मात्पार्श्वादाऽपरपार्श्वम्।

तॄ

  • {अभिसंतॄ}
  • तॄ (तॄ प्लवनतरणयोः)।
  • ‘स्वर्गमेवैताभिर्लोकमभिसन्तरन्ति’ (ऐ० ब्रा० ६।६)। अभिसन्तरन्ति एताभिर्ऋग्भिर्नौस्थानीयाभिः स्वर्गमभिलक्ष्य तरन्ति।

दंश्

  • {अभिसंदंश्}
  • दंश् (दंश दशने)।
  • ‘अभिसन्दष्टौ वै स्वः’ (तै० सं० २।५।२।३)। अभिसन्दष्टौ सन्दष्टौ संलग्नौ (वृत्र भागे)।

धा

  • {अभिसंधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘आत्मानं योऽभिसन्धत्ते सोऽन्यस्य स्यात् कथं हितः’ (भा० शां० १४३।१३)। अभिसन्धत्तेऽतिसन्धत्ते वञ्चयते विप्रलभते।
  • ‘नरः पापसमाचारस्त्यक्तव्यो दूरतो बुधैः। आत्मानं योभिसन्धत्ते सोऽन्यस्य स्यात् कथं हितः’ (भा० शां० १४३।१३)॥ उक्तोऽर्थः। नीलकण्ठस्त्वन्यथा व्याख्यानयति। अभिसन्धत्तेऽभिप्रैति। विषोद्बन्धनादिना हन्तुमिति शेषः। इत्थं साध्याहारं मुनेर्वचो भवति। आत्मानमभिसन्धत्त इति वाक्यविन्यासेऽभिप्रैतीत्यर्थो न युज्यते। अर्थायोगश्चाध्याहारं प्रयोजयति। अध्याहारश्चोहवशो न प्रभवति प्रतिनियतरूपो भवितुम्। तेनार्थानिश्चयः फलति। तेनाध्याहारो दूषणम्। तस्मात्परिहरन्तीमं कवयोऽन्यत्र प्रसिद्धासन्दिधादर्थात्। अभिसंपूर्वस्यापि दधातेरतिसन्धानमर्थो दृष्ट इत्यस्मत्परिगृहीतोर्थो नापूर्वः।
  • ‘जम्भैः सं धेह्यभि यातुधानान्’ (ऋ० १०।८७।३)। अभिसन्धेहि=संयुङ्ग्धि, सन्दश, संयोजय।
  • ‘यथैनं नाभिसन्दध्युर्मित्रोदासीनशत्रवः’ (मनु० ७।१८०)। नाभिसन्दध्युर्न बाधेरन्निति कुल्लूकः।
  • ‘नाभिसन्धत्त पाञ्चाल्ये भीष्मो बाणान् शिखण्डिनि’ (भा० भीष्म० ११८।५०)। शिखण्डिनं स्वस्य बाणानां लक्ष्यं नाकरोदित्यर्थः। शिखण्डिनमभिलक्ष्य धनुषि बाणान्न समधत्तेति शब्दार्थः।
  • ‘यत्र मामभिसन्धत्से त्वां चाहं शिनिपुङ्गव’ (भा० द्रोण० १८९।२४)। अभिसन्धत्से शरव्यं करोषि।
  • ‘ते ह स्म क्षुरपवी निमेषं निमेषमभिसन्धत्तः’ (श० ब्रा० ३।६।२।९)।
  • ‘संहिते अभिसन्दधते ये च विश्वासायास्य मानवाः’ (भा० शां० १३३।१८)। अभिसन्दधते व्यवस्यन्ति, उद्युञ्जते, उद्यच्छन्ते।
  • ‘तेजसा यशसा बुद्ध्या बलेनाभिजनेन च। यः कपीनभिसन्धत्ते हिमवानिव पर्वतान्’ (रा० ६।४।५२)॥ अभिसन्धत्तेऽतिशेतेऽतिक्रामति।
  • ‘तान्सर्वानभिसन्दध्यात्सामादिभिरुपक्रमैः’ (मनु० ७।१५९)। अभिसन्दध्यात् वशे कुर्यात्।
  • ‘इन्द्रं यं विश्वा भुवनाभिसन्दधुः’ (ऋ० १।१०१।६)। अभिसन्दधुरभिन्दधते प्रतिपद्यन्ते स्वीकुर्वन्ति अभ्युपयन्ति।
  • ‘ततः पञ्चाशतं कन्याः पुत्रिका अभिसन्दधे’ (भा० आदि० ७५।८)। अभिसन्दधे संकल्पितवान्।
  • ‘आचार्यवाक्योपरमे तद्वाक्यमभिसन्दधत्’ (भा० वि० २८।२)। तदनुगुणेन वदन् इति नीलकण्ठः। तद्वाक्यार्थं युञ्जानोऽविरुन्धान इति पदार्थः। हितार्थं समुवाचेत्यनुषङ्गः।
  • ‘(शूलं) चिक्षेप परमक्रुद्धो लक्ष्मणायाभिसंहितम्’ (रा०)। लक्ष्मणं निमित्तं कृत्वा।
  • ‘अनभिसंहितमप्यपेतप्राणस्यास्थिचर्मस्नायुकेशाद्युपस्पृष्टम्’ (वि० पु० ४।४।३१)। अनभिसंहितमकामेन कृतम्।
  • ‘उर्वशीसालोक्यं फलमभिसंहितवान्’ (वि० पु० ४।६।९२)। कामितवान्।
  • ‘अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम्’ (भा० शां० ८।३४)। मे=मयि। अभिसंहितम्=वैरं कृतम्। कृच्छ्रलभ्योऽर्थः।
  • ‘वायसस्त्वेष मे राजन्ननु कार्याभिसंहितः’ (भा० शां० ८२।३२)। कार्याभिसंहितः=निर्दिष्टकार्यतात्पर्यवान्, मदर्पितकृत्यसंलग्नः।
  • ‘भवन्तमभिसन्धाय जिघांसन्ति भवत्प्रियम्’ (भा० शां० ८२।५०)। जिघांसन्तीति क्रियाया अमात्याः कर्तारः। हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः।
  • ‘कुलं स्वमभिसन्धाय’ (रा० ३।१४।२)। अभिसन्धाय चिन्तयित्वा।
  • ‘पदाऽऽविद्धं यान्ती स्खलितमभिसन्धाय बहुशः’ (विक्रम० ४।५२)।
  • ‘साध्वर्थमभिसन्धाय’ (रा० २।१०६।१४)।
  • ‘अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्’ (इज्यते…)। (गीता १७।१२)॥ उक्तोऽर्थः।
  • ‘श्राद्धानि चैव कुर्वन्ति फलकामाः सदा नराः। अभिसन्धाय पितरं पितुश्च पितरं तथा’ (हरि० १।१६।१३)॥ अभिसन्धाय=उद्दिश्य। पित्राद्यर्थानीमानि श्राद्धानीति मत्वा।
  • ‘बलीयसाऽभिसन्धाय’ (का० नी० सा० १।६४)। बलवत्तरेण संमिश्रो भूत्वा। सन्धिं कृत्वेत्यर्थः।
  • ‘काकं तमभिसन्धाय’ (अस्त्रम्) (रा० २।९६।४४)। काकं लक्ष्यं कृत्वा।
  • ‘अभिसन्धाय पाण्डूनां पञ्चालानां च वाहिनीम्’ (भा० द्रोण० १९९।१५)। लक्ष्यीकृत्येत्यर्थः।
  • ‘रामः सुनिशिताञ्शरान्। सुशीघ्रमभिसन्धाय…’ (रा० ३।३।१०)॥ अभिसन्धाय धनुषा संयोज्य, धनुरारोप्य। अभिरिह नान्तरमर्थे करोति।
  • ‘फलं त्वनभिसन्धाय क्षेत्रिणां बीजिनां तथा’ (मनु० ९।५२)। फलविषये संविदमकृत्वेत्यर्थः।
  • ‘जनं विद्वानेकः सकलमभिसन्धाय’ (मालती० १।१४)। अभिसन्धाय=अतिसन्धाय=वञ्चयित्वा, विप्रलभ्य।
  • ‘स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह। पितरं तेऽभिसन्धाय…’ (भा० आदि० ५०।९)॥ अभिसन्धाय (पितुस्ते) आभिमुख्यमाधाय।
  • ‘आन्तरैरभिसन्धाय राजन् सिध्यति’ (भा० शां० ८२।३५)। आन्तरैः सूदादिभिरेकीभूय संमनीभूय। तेषु प्रणयं कृत्वेति तात्पर्यार्थः।
  • ‘शूद्रो द्विजातीनभिसन्धायाभिहत्य च वाग्दण्डपारुष्याभ्यामङ्गं मोच्यो येनोपहन्यात्’ (गौ० ध० २।३।१)। अभिसन्धाय अभिभूय।
  • ‘यतमानौ तु तौ वीरावन्योन्यस्य वधं प्रति। नाशक्नुतां तदान्योन्यमभिसन्धातुमाहवे’ (भा० भीष्म० ५२।५४)॥ अभिसन्धातुं समासत्तुं संनिकर्षमाप्तुं लक्ष्यं कर्तुं वा।
  • ‘शक्यमभिसन्धातुं दानानुरागवशगत्वात्’ (अवदा० जा० ९)। अभिसन्धातुमतिसन्धातुम्।
  • ‘अभिसन्धातुमारेभे हनूमानङ्गदं ततः’ (रा० ४।५४।५)। उपायनैरुपग्राह्यैर्वशे कर्तुम् अनुकूलयितुं वेति बहूनां मतोऽर्थः। तारादिभ्यो भेदयितुमिति कश्चित्।
  • ‘कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद् गुरो’ (भा० आश्व० ६।४)। अभिसन्धिर्विचारः, चिन्ता।
  • ‘दम्पत्योः प्राणसंश्लेषे योऽभिसन्धिः कृतः किल’ (भा० शां० २६६।३४)। अभिप्रायः, प्रयोजनम्। अभिलाषः। पुत्रो मे गौरो जायेत वेदं ब्रुवीत सर्वमायुरियादिति श्रुत्या प्रदर्शित इति नीलकण्ठः।
  • ‘अभिसन्धिकृते तस्मिन्ब्राह्मणस्य वधे यथा। निष्कृतिं न पश्यामि…’ (भा० आदि० १६१।९)। अभिसन्धिना इच्छया कामतः कृतेन। बुद्धिपूर्वं मत्या वा कृतेनेत्यर्थः।
  • ‘अथावश्यमेव माधवसेनः पूज्येन मोचयितव्यः श्रूयतामभिसन्धिः’ (माल० १)। अभिसन्धिरनुमन्तव्योऽर्थः।
  • ‘पराभिसन्धानपरं यद्यप्यस्य विचेष्टितम्’ (रघु० १७।७६)। पराभिसन्धानं परातिसन्धानम्। परप्रलम्भनम्।
  • ‘एतेषां कारणानामनभिसन्धाने’ (कौ० अ० ४।८।११)। अनभिसन्धानमचिन्तनम्। सन्धा प्रतिज्ञा भवत्यभिसन्धाऽपि।
  • ‘तथा च श्रीरामायणे प्रयोगः–तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः’ (५।३१।७)।
  • ‘यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम्’ (भा० १।९१।१३)। अभिसन्धानमासक्तिः।

नह्

  • {अभिसंनह्}
  • नह् (णह बन्धने)।
  • ‘मूलानि च प्रान्तानि चाभिसंनह्यन्ति’ (कौ० सू० ९०)। मिथः सम्बध्नन्ति।

नु

  • {अभिसंनु}
  • नु (णु स्तवने)।
  • ‘त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते’ (ऋ० ६।७।४)। अभिसंनवन्ते सममभिनन्दन्ति।
  • ‘यत्राभि संनवामहे’ (अथर्व० २०।९२।२)।

पच्

  • {अभिसंपच्}
  • पच् (डुपचष् पाके)।
  • ‘शरदमोषधयोऽभि संपच्यन्ते’ (पञ्च० ब्रा० २१।१४।३)। समं पक्त्रिमा भवन्तीत्याह।

पत्

  • {अभिसंपत्}
  • पत् (पत्लृ गतौ)।
  • ‘महीतलात्केचिदुदीर्णवेगाः (कपयः) पुनर्द्रुमाग्रानभिसम्पतन्ति’ (रा० ५।६०।१६)। द्रुमाग्रेषु साकं पतन्ति।

पद्

  • {अभिसंपद्}
  • पद् (पद गतौ)।
  • ‘स यत्कर्म कुरुते तदभिसम्पद्यते’ (श० ब्रा० १४।७।२।७)। तदभिसम्पद्यते तद्भावमाप्नोति, ताद्रूप्यं प्रतिपद्यते।
  • ‘स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते’ (प्रश्नोप० ५।३)। अभिसम्पद्यते समृध्यति।
  • ‘इदं त्रिवृदेति सर्वमभिसम्पद्यमानम्’ (श० ब्रा० १२।३।१।१)। अन्योन्येन सदृशी भवद् इत्यर्थः।

पू

  • {अभिसंपू}
  • पू (पूङ् पवने)।
  • ‘यदभिपवते। यदभिसंपवते’ (तै० ब्रा० २।३।९।१)। अभिसम्पवते अभिलक्ष्य सम्यक् पवते वाति।

प्लु

  • {अभिसंप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘तीर्थेष्वभिसंप्लुत्य प्रव्रजिष्यसि चेत्प्रभो’ (भा० शां० १२।३४)। अभिसंप्लुत्य आप्लुत्य स्नात्वा, अभिषेकं कृत्वा।
  • ‘किं पुनः प्रमाणानि प्रमेयमभिसम्प्लवन्ते, अथ प्रतिप्रमेयं व्यवतिष्ठन्ते’ (१।१३ न्यायसूत्रे भाष्ये)। अभिसंप्लवन्ते, संकीर्यन्ते।
  • ‘अग्निरिति प्रमातुः प्रमातव्येर्थे प्रमाणानां सङ्करोऽभिसम्प्लव इति’ (वा० भा०)।

बन्ध्

  • {अभिसंबन्ध्}
  • बन्ध् (बन्ध बन्धने)।
  • ‘न वावचनेन शकुनिरभिसम्बध्यते किन्तर्हि निपातनमभिसम्बध्यते’ (पा० ६।१।१५० सू० भा०)।

भू

  • {अभिसंभू}
  • भू (भू सत्तायाम्)।
  • ‘मृत्वा पुनः सम्भवन्ति ते सम्भवन्त एवामृतत्वमभिसंभवन्ति’ (श० ब्रा० १०।४।३।१०)। अभिसम्भवन्ति प्राप्नुवन्ति।
  • ‘तं लोकं यमिन्यभिसम्बभूव’ (अथर्व० ३।२८।६) अभिसम्बभूव प्राप।
  • ‘एतं ह स सुकृतमात्मानमभिसम्भवति’ (श० ब्रा० ८।६।२।१८)। अभिसम्भवति प्राप्नोति तेन युज्यत इत्यर्थः। आत्मा शरीरम्।
  • ‘एतद् ब्रह्मैतद् इतः प्रेत्याभिसम्भवितास्मि’ (छां० उ० ३।१४।४)। सायुज्यमाप्तास्मीत्यर्थः।
  • ‘स सम्भवन्नग्नीषोमावभि समभवत्’ (तै० सं० २।४।१२।२)। अभिसमभवत् व्याप्नोत्।
  • ‘सत्तालक्षणं महान्तमात्मानमविद्यायोनिं पश्यन्तः प्रतिबोधेनाभिसम्भवन्ति’ (वा० प० १।१४६ का० हरिवृत्तौ)। प्रतिबोधेनाभिसम्भवन्ति प्रबोधेन युज्यन्त इत्यर्थः।
  • ‘तौ (अग्नीषोमौ) सम्भवन्तौ यजमानमभिसम्भवतः’ (तै० सं० ६।१।१।७६)। यजमानं लक्ष्यीकृत्य सह तिष्ठत इत्यर्थः। अथवा प्रमाणानतिरेकः सम्भवः। यजमानमभितो व्याप्य तिष्ठत इत्यर्थः।
  • ‘व्यवसायशिथिलहृदयैर्दुरभिसम्भवाः खल्वेवं विद्याधनार्जनोपायाः’ (अवदा० जा० २१)।
  • ‘स ऋङ्भयो यजुर्मयः साममय आहुतिमयः स्वर्गं लोकमभिसम्भवति’ (श० ब्रा० ११।२।६।१३)। अभिसम्भवति प्राप्नोति।

यम्

  • {अभिसंयम्}
  • यम् (यम उपरमे)।
  • ‘स यदेवान्त्यां समिधमादधाति, जायाया वा पाणिं जिघृक्षन् जुहोति तमभिसंयच्छेत’ (गो० गृ० १।१।२०)। रक्षेदित्यर्थः।

रभ्

  • {अभिसंरभ्}
  • रभ् (रभ राभस्ये)।
  • ‘दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते’ (ऋ० ३।२९।१३)। अभिसंरभन्ते अभिगृह्णते।
  • ‘तृष्णा क्रोधोऽभिसंरम्भः’ (भा० आश्व० ३१।२)। अभिसंरम्भो द्वेषाभिनिवेशः।

वस्

  • {अभिसंवस्}
  • वस् (वस निवासे)।
  • ‘प्रकृतिमुख्यानभिसंवास्य’ (कौ० अ० १३।२।१५)। तैः संसृज्य, सहावस्थाय। विस्रम्भमुत्पाद्य।
  • ‘अग्निं गृहपतिमभिसंवसानाः’ (तै० ब्रा० ३।७।४।४)। अग्निनैक्यमाप्नुवन्त इत्यर्थः।

विश्

  • {अभिसंविश्}
  • विश् (विश प्रवेशने)।
  • ‘त एतदेव रूपमभिसंविशन्ति’ (छा० उ० ३।६।२)। आभिमुख्येन सम्यग् विशन्ति, तादात्म्यं लभन्त इत्यर्थः।
  • ‘यत्प्रयन्त्यभिसंविशन्ति’ (तै० उ० ३।१)। उक्तोऽर्थः।
  • ‘सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति’ (छां० उ० १।११।५)। प्राणेऽन्तर्लीयन्त इत्यर्थः।
  • ‘इमं सजाता अभि संविशध्वम्’ (अथर्व० ३।३।४)। सर्वतः प्रविश्य उपविश्य सेवध्वमित्यर्थः।
  • ‘इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे’ (अथर्व० ८।५।२०)। अभितः सम्यग् आश्रयध्वम् इत्यर्थः।

सु

  • {अभिसंसु}
  • सु (षुञ् अभिषवे, अभिषवः सुरासन्धानं स्नानं च)।
  • ‘एकं वा एताविन्द्रमभिसंसुनुतः’ (तै० ब्रा० १।४।६।१)। अभिलक्ष्य संभूय सोमयागं कुरुत इत्यर्थः।

स्था

  • {अभिसंस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘तेषामुक्थ्योऽच्छावाकमभिसन्तिष्ठते होतारमितरे’ (का० श्रौ० १०।९।२८)। अच्छावाकशस्त्रेण समाप्यते। अग्रेरुपसर्गस्य वशात् सकर्मकत्वम्। संतिष्ठतिः समाप्तौ प्रसिद्धः।
  • ‘…सर्वांस्तानब्रवीद् वचः। राज्ञश्च राजपुत्रांश्च पाण्डवानभिसंस्थितान्’ (भा० भीष्म० १२०।५०)। अभिसंस्थितान् अभितः स्थितान्।