इ
- {अभिनी}
- इ (इण् गतौ)।
- ‘पतिरिव जायामभि नो न्येतु’ (ऋ० १०।१४९।४)। अभिन्येतु कार्त्स्न्येन संविशत्वित्यर्थः।
उब्ज्
- {अभिन्युब्ज्}
- उब्ज् (उब्ज आर्जवे)।
- ‘तेन शत्रूनभि सर्वान्न्युब्ज’ (अथर्व० ८।८।६)। अभिन्युब्ज वशे कुरु, आवर्जय, रन्धय (वेदे रधिर्वशगमने वर्तते, तस्येदं णिचि लोटि)।
क्रम्
- {अभिनिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘पणीन् न्यक्रमीरभि विश्वान्राजन्नराधसः’ (ऋ० १०।६०।६)। अभिन्यक्रमीः=अधस्पदमकार्षीः।
धा
- {अभिनिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘एभिश्च लोकैरभिनिधास्यामः’ (श० ब्रा०)। अवपीडयिष्यामः। लोकैः करणभूतैः।
- ‘इति यूपाग्रं स्वरुणाऽभिनिदधाति’ (वाराह श्रौ० ३।२।६।२३)। अभिनिदधाति=अभिदधाति संयुनक्ति=संयौति।
- ‘अथासिनाऽभिनिदधाति’ (पशुम्) (श० ब्रा० ३।८।२।१२)। उक्तोऽर्थः।
- ‘इदमहं तं त्वयाऽभिनिदधामि यो नो निष्ट्यो योऽनिष्ट्योऽभिदासति’ (आप० श्रौ० ५।३।१२।२)।
- ‘यथा शीर्णे गरमभिनिदध्यात्’ (श० ब्रा० ११।५।८।६)। उपरि निदध्यादित्यर्थः।
- ‘गुरुं भारमभिनिदधते’ (ऐ० ब्रा० ४।१३)। स्वस्योपरि निदधते आदधते वहनाय।
- ‘क्षुरेणाभिनिदधाति’ (श० ब्रा० ३।१।२।७)। **ईषत्स्पृशतीत्यर्थः।
- ‘दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः’ (श० ब्रा० १।३।४।१२)। (शिशोः) उपकर्णं मुखमाधायेत्याह।
- ‘एते च द्वैपदा यथा गृहीतमभिनिधीयन्ते’ (ऋ० प्रा० २।१९)। सन्निधाप्योच्चार्यन्ते। अभिनिहिताख्येन सन्धिना पठ्यन्त इत्यर्थः।
- ‘अन्तःस्थाः स्वे स्वे च परेऽपि रक्ताः’ (ऋ० प्रा० ६।१८)। अन्तःस्था अभिनिधीयन्ते स्वे स्वे च प्रत्यय इत्युवटः।
- ‘अनभिनिहितो वै पुरुषोऽन्नेन च प्राणेन च’ (श० ब्रा० ७।४।२।९)। अनभिनिहितोऽनवपीडितः। अनभिनिहित एव सव्येन पाणिना भवति।
- ‘लेशेनानाभिनिहिता वक्तव्याः’ (छां० उ० २।२२।५)। अनभिनिहिता असङ्कीर्णाः। अद्रुतोच्चारिता इति गोपालानन्दस्वामी।
- ‘अथवा मध्यममुपधाय सव्यस्य पाणेरङ्गुल्या अभिनिधाय’ (आप० श्रौ० १।७।२३।३)। अभिनिधाय=अभिपीड्य।
ध्यै
- {अभिनिध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘तं शब्दमभिनिध्याय’ (रा० १।२८।७)। तत्र शब्दे मनः प्रणिधाय। आलक्ष्येति कतकः। कतकटीकायां १।२६।२८ इत्यत्र पाठः।
नृत्
- {अभिनिनृत्}
- नृत् (नृती गात्रविक्षेपे)।
- ‘तद्यथाऽभ्यागारमभिनिनर्तं पुनः पुनः पाप्मानं निर्हण्यादेवमेवैतैरसुरान् निर्घ्नन्ति’ (शां० ब्रा० १७।८)।
विश्
- {अभिनिविश्}
- विश् (विश प्रवेशने)।
- ‘भयं तावत्सेव्यादभिनिविशते सेवकजनम्’ (मुद्रा० ५।१२)। व्याप्नोतीत्यर्थः।
- ‘सैव धन्या गणिकादारिका यामेवं भवन्मनोऽभिनिविशते’ (दशकु०)। यस्याम् आसक्तिमद् भवति, प्रसजति, संलग्नं भवति।
- ‘ते चेदभिनिवेक्ष्यन्ते नाभ्युपैष्यन्ति मे वचः’ (भा० उ० ७७।१७)। अभिनिवेश आग्रहः। अभिनिवेक्ष्यन्ते आग्रहं हठं करिष्यन्ति।
- ‘अभिन्यविक्षथास्त्वं मे यथैवाव्याहता मनः’ (भट्टि० ८।८०)। अभिन्यविक्षथाः प्राविक्षः।
- ‘स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तनस्तावदभिन्यवीविशत्’ (शिशु० १।१५)। स्वाभिमुख्येनोपवेशितवानित्यर्थः।
- ‘स्वभावत एतेषां शब्दानामेतेष्वर्थेष्वभिनिविष्टानां निमित्तत्वेनान्वाख्यानं क्रियते’ (पा० २।११ सूत्रे भाष्ये)। अभिनिविष्टानां निश्चितप्रयोगाणाम्।
- ‘उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम्’ (रा० २।९।४१)। अभिनिविष्टं व्याप्तम् (स्थगुना)।
- ‘गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः’ (रघु० २।७५)। उक्तोऽर्थः।
- ‘अथवाऽभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम्’ (शिशु० १६।४३)।
- ‘माधवापकारं प्रत्यभिनिविष्टा भवामि’ (माल० ६)। साग्रहं प्रवृत्ता भवामीत्यर्थः।
- ‘निन्दाक्षेपापमानादेरमर्षोऽभिनिविष्टता’ (सा० द० )। निगदव्याख्यातम्। रूढिशब्दा एते। नात्रावयवार्थेऽभिनिवेष्टव्यम् (वृत्तौ)। अवश्यमत्रावयवार्थ उन्नेय इति दृढा चित्तवृत्तिर्न कार्येत्याह।
- ‘जनकात्मजायां नितान्तरूक्षाभिनिवेशमीशम्’ (रघु० १४।४३)। अभिनिवेशः संकल्पः निश्चयः।
- ‘अनुरूपाभिनिवेशतोषिणाम्’ (कु० ५।७)। अभिनिवेशो निश्चयदार्ढ्यम्।
- ‘कस्मिंस्ते भावाभिनिवेशः’ (विक्रम० ३)। भावाभिनिवेशो हृदयासङ्गः।
- ‘अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः’ (यो० सू० २।३)। अभिनिवेशोऽविद्याभेदो मृत्युभयस्योत्पादकः।
- ‘धर्मिणां विशेषेण स्वर्गं लोकं धर्मविदाप्नोति ज्ञानाभिनिवेशाभ्याम्’ (गौ० ध० ३।१०।५०)। अभिनिवेशस्तात्पर्येणानुष्ठानम् इति हरदत्तः।
- ‘तत्र यथावदनुपूर्वक्रिया प्रधानस्यार्थस्य पूर्वमभिनिवेश इत्यर्थक्रमः’ (कौ० अ० २।१०।७)। अभिनिवेश उपन्यासः।
- ‘बालिश्यादभियोक्तुर्वा दुःश्रुतं दुर्लिखितं प्रेताभिनिवेशं वा समीक्ष्य साक्षिप्रत्ययमेव स्यात्’ (कौ० अ० ३।११।४३)। उक्तोऽर्थः।
- ‘एकार्थाभिनिवेशित्वमरिलक्षणमुच्यते’ (का० नी० सा० ८।१४)। अभिनिवेश आग्रहः, तद्वान्, तत्ता।
- ‘वितथाभिनिवेशी च जायतेऽन्त्यासु योनिषु’ (याज्ञ० ३।१३४)। असत्यभूते वस्तुनि पुनः पुनः संकल्पोऽभिनिवेशस्तद्वान्।
- ‘कल्याणाभिनिवेशिनः’ (काद०)। कल्याणः शोभनोऽभिनिवेशोऽसकृच्छीलितः सङ्कल्पो यस्य तस्य।
वृत्
- {अभिनिवृत्}
- वृत् (वृतु वर्तने)।
- ‘देवानां रातिरभि नो निवर्तताम्’ (ऋ० १।८९।२)। अस्मदाभिमुख्येन प्रत्यायातु।
- ‘तं कृत्येऽभिनिवर्तस्व’ (अथर्व० १०।१।७)। हे कृत्ये तमभिलक्ष्येतो याहीत्याह।
श्रि
- {अभिनिश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘ततोऽपो वायुमाकाशमित्यभिनिश्रयेत्’ (आप० ध० २।२२।४)। अभिनिश्रयेत् सेवेत।
ष्ठिव्
- {अभिनिष्ठिव्}
- ष्ठिव् (ष्ठिवु निरसने)।
- ‘नातपति निष्ठीवेन्नेदेतमभिनिष्ठीवानीति’ (श० ब्रा० १४।१।१।३३)। एतं सूर्यमभिनिष्ठीवानि सूर्यस्योपरि निष्ठीवानीत्यर्थः।
सद्
- {अभिनिसद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘यद्येतां वयोऽभिनिषीदेत्’ (सत्या० श्रौ० २४।७।१४)। अभिनिषीदेत्=उपरि तिष्ठेत्।
स्यन्द्
- {अभिनिस्यन्द्}
- स्यन्द् (स्यन्दू स्रवणे)।
- ‘यस्याः पयोभिनिष्यन्दात्क्षीरोदो नाम सागरः’ (रा ७।२३।२१)। पयोऽभिनिष्यन्दोऽम्बुसरणम्।