इ
- {अभ्युपे}
- इ (इण् गतौ)।
- ‘मीनो नु हन्त कतमां गतिमभ्युपैतु’ (भामिनी० १।१६)। अधिगच्छतु प्राप्नोतु।
- ‘किं बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्’ (दशकु० पृ० १६५)।
- ‘सहसाऽभ्युपैति बलवान् कालः कृतान्तः’ (भर्तृ० ३।८३)।
- ‘निद्रा शनैः केशवमभ्युपैति द्रुतं नदी सागरमभ्युपैति’ (रा० ४।२८।२५)। इत्युदाहृतिषु सर्वत्राभ्युपेणः प्राप्तिरर्थः।
- ‘सुखं प्रयाणै रिपुमभ्युपेयात्’ (का० नी० सा० १६।४१)। अन्तिकं यायात् समासीदेदित्यर्थः।
- ‘सत्यं न तद्यच्छलमभ्युपैति’ (हितोप० ३।६१)। छलेन युज्यत इत्यर्थः।
- ‘त्रिरह्नोऽभ्युपयन्नपः’ (मनु० ११।२५९)। सलिलमवगाहमानः, आप्लवमानः, स्नान्।
- ‘सप्तमाद् दशमाद्वापि ज्ञातयोऽभ्युपयन्त्यपः’ (याज्ञ० ३।३)। प्रविशन्तीत्यर्थः। ज्ञातयश्च शरीरमग्नौ संयोज्यानवेक्षमाणा अपोऽभ्युपयन्ति इति शातातपवचनं मिताक्षरायाम्।
- ‘सशिरस्कोऽभ्युपेयादपः’ (व० ध० शा० ४।३८)। उक्तोऽर्थः।
- ‘व्यतीतकालस्त्वहमभ्युपेतः’ (रघु० ५।१४)। अभ्युपेत उपपन्न उपेतः।
- ‘मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः’ (मेघ० ३८)। अभ्युपेताऽभ्युपगता स्वीकृता प्रतिपन्ना।
- ‘अस्मै दास्यमभ्युपेतं मया’ (दशकु०)। अभ्युपेतं प्रतिश्रुतम्।
- ‘विरोध्य मोहात्पुनरभ्युपेयुषाम्’ (कि० १८।४२)। अभ्युपेयुषां विधेयतां वशंवदतां गतानाम्।
- ‘अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठः’ (भा० प्र० आ०)। अभ्युपाय उपायः।
- ‘यैरभ्युपायैरेनांसि मानवो व्यपकर्षति’ (मनु० ११।२१०)। उक्तोऽर्थः।
गम्
- {अभ्युपगम्}
- गम् (गम्लृ गतौ)।
- ‘न तु धनदायासावभ्युपगच्छति’ (दशकु०)। देयमभ्युपैति स्वीकरोति।
- ‘वयमभ्युपगच्छामः कृष्णेन त्वां प्रधर्षितम्’ (हरि० १।३९।५)। अभ्युपपद्यामहे, साहाय्यार्थमुपेमः।
- ‘एवं मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम्। गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भाविनि’ (भा० आदि० १२४।१२)॥ अभ्युपगच्छन्त्याराधयन्ति।
- ‘द्विजगुरुदरिद्रमित्रप्रव्रजितोपनतसाध्वनाथाभ्युपगतानां चात्मबान्धवानामिव स्वभेषजैः प्रतिकर्तव्यम्’ (सुश्रुत० सूत्र० २।५)। अभ्युपगता दूरादायाताः।
- ‘आषाढीमभ्युपगतो भरतः कोसलाधिपः’ (रा० ४।२८।५५)। अभ्युपगतः सम्प्रति प्राप्तः।
- ‘परलोकमभ्युपगते (भर्तरि) विविशुर्ज्वलनं त्विषः’ (शिशु० ९।१३)। अभ्युपगते प्राप्ते।
- ‘अभ्युपगतं तावदस्माभिरेवम्’ (शा० ५)। अभ्युपगतं स्वीकृतम्। कः पुनरयं महात्मा यत्र भवन्तोप्येवमभ्युपगताः। प्रियः सुहृदयमित्येवमङ्गीकारं प्राप्ताः। कर्तरि क्तः।
- ‘मामभ्युपगमय्य’ (दशकु०)। मामभ्युपगच्छन्तं प्रचोद्येत्यर्थः।
- ‘न हि मेऽन्यद् भवेच्छ्रेयो वनाभ्युपगमादृते’ (भा० शल्य० २।४९)। अभ्युपगम उपगमः प्राप्तिर्गमनम्।
- ‘करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः’ (रत्ना० २।१८)। निगदव्याख्यातम्।
- ‘क्रियाभ्युपगमात्त्वेतद् बीजार्थं यत्प्रदीयते’ (मनु० ९।५३)। अभ्युपगमः संवित्, प्रतिज्ञानम्। अत्रोत्पन्नमपत्यमावयोरुभयोरपि भवत्वित्येवंरूपम्।
- ‘युष्माकमभ्युपगमः प्रमाणं पुण्यपापयोः’ (महावीर० १।३८)। अभ्युपगमोऽभिमतं मतम्, परिगृहीतं दर्शनम्। धातूपसर्गयोः कार्यमन्तरङ्गमित्यभ्युपगमात्। अभ्युपगमः स्वीकारः। अभ्युपगमसिद्धान्तः सर्वतन्त्रराद्धान्तः।
धा
- {अभ्युपधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘तम् (अङ्गारम्) मध्यमेन कपालेनाभ्युपदधाति’ (श० ब्रा० १।२।१।६)। अङ्गारस्योपरि मध्यमं कपालं निदधातीत्यर्थः।
- ‘नान्ययेष्टकयोपरिष्टादभ्युपदध्यात्’ (श० ब्रा० ८।७।१।१२)। उक्तोऽर्थः।
पद्
- {अभ्युपपद्}
- पद् (पद गतौ)।
- ‘अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे’ (भा० उ० १३४।२२)। अभ्युपपद्यसे स्वीकरोषि, श्रयसि।
- ‘तं कृच्छ्रगतमद्य त्वं कस्मान्नाभ्पुपपद्यसे’ (भा० सौ० १२।३)। अभ्युपपद्यसेऽनुगृह्णासि, कृपायसे।
- ‘स सुहृद् यो विपन्नार्थमभ्युपपद्यते’ (रा० ६।६३।२७)। त्रायते उद्धरति।
- ‘तान्भृगूणां यदा दारान् कश्चिन्नाभ्युपपद्यत’ (भा० आदि० १८०।८)।
- ‘तपः कृशामभ्युपपत्स्यसे सखीं वृषेव सीतां तदवग्रहक्षताम्’ (कु० ५।६१)। अभ्युपपत्स्यसेऽनुग्रहीष्यसि, उद्धरिष्यसि, त्रास्यसे।
- ‘वयमभ्युपपत्स्यामो यद्यच्युतस्तवोपरि वैरानुबन्धं करिष्यति’ (वि० पु० ४।१३।६९)। साहाय्यमाचरिष्याम इत्यर्थः।
- ‘शार्दूलावस्कन्दगोचरामिमामभिजातकन्यकामभ्युपपन्नवानस्मि’ (मालती० ४)। उपगम्य त्राणवानस्मि।
- ‘अभ्युपपन्नवत्सलः खलु तत्र भवान् आर्यचारुदत्तः श्रूयते’ (मृच्छ० ७)। अभ्युपपन्नः प्रपन्नः शरणागतः।
- ‘ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम्’ (मनु० ८।११२)। अभ्युपपत्तिः परित्राणं परीप्सा, पर्याप्तिः।
- ‘स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति’ (मनु० ८।३४९)। उक्तोऽर्थः। अभ्युपपत्तिरनुग्रह इत्यमरः।
- ‘मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति’ (भा० आदि० १।११४)। अभ्युपपत्ती रेतः सेकार्थं गमनम्।
- ‘दुर्वाससा दत्ता विद्येहोपनिषच्छब्देनाभिप्रेता। त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितः, तेन स लब्धो वर्धितश्च’ (दशकु० पृ० १४०)। अभ्युपपादनं संवर्धनम्।
- ‘रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः’ (कु० ४।२५)। अभ्युपपत्तुं सान्त्वयितुम्।
या
- {अभ्युपया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘तौ राजपुत्रौ सहसाऽभ्युपायाच्छायेव राहोर्दिवि चन्द्रसूर्यौ’ (रा० २।२९।३३)। अभ्युपायात् उपाद्रवत्।
विश्
- {अभ्युपविश्}
- विश् (विश प्रवेशने)।
- ‘तत्र जाम्बूनदमयं पर्यङ्कं…। विविधास्तरणास्तीर्णमभ्युपाविशदच्युतः’ (भा० उ० ९१।९)। अभ्युपाविशत्=अध्यास्त।
स्था
- {अभ्युपस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘निवासमकरोद् धीमान् सुग्रीवेणाभ्युपस्थितः’ (भा० वन० २८०।४०)। अभ्युपस्थित उपस्थितः कृतोपस्थानः सेवितः।