अज्
- {अभ्यज्}
- अज् (अज गतिक्षेपणयोः)।
- ‘यत् सम्यञ्चा मिथुनावभ्यजाव’ (ऋ० १।१७९।३)। अभ्यजाव संगच्छावहै, सङ्गतौ संयुतौ संयुक्तौ सम्पृक्तौ स्याव।
अञ्ज्
- {अभ्यञ्ज्}
- अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
- ‘अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुना भ्यञ्जते’ (अथर्व० १८।३।१८)। अभ्यञ्जते नवनीतेन माधुर्योपेतेनाभ्यक्तशरीरं कुर्वन्तीत्यर्थः।
- ‘नवनीतेनाभ्यञ्जन्ति।’ (ऐ० ब्रा० १।३)। अभ्यञ्जन्ति म्रक्षयन्ति, अनुलिम्पन्ति।
- ‘अञ्जानो अजरैरभि’ (ऋ० २।८।४)। उक्तोऽर्थः।
- ‘भारस्योद्वहनार्थं च रथाक्षोऽभ्यज्यते यथा’ (सौन्दर० १४।१२)। अभ्यज्यते उपस्निह्यते।
- ‘अक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती’ (आप० ध० १।८।२)। अक्तोऽञ्जनेनाक्ष्णोरभ्यक्तस्तैलेन। वेष्टिती वेष्टितशिराः। कटिप्रदेशो द्वितीयेन वाससा वेष्टितो यस्य स उपवेष्टिती।
अत्
- {अभ्यत्}
- अत् (अत सातत्यगमने)।
- ‘अतिथिरभ्यतितो गृहान्भवति’ (नि० ४।५।१)। अभ्यतितः पर्यटितः, अभ्यागतः।
अम्
- {अभ्यम्}
- अम् (अम गत्यादिषु, अम रोगे)।
- ‘अग्ने त्वमस्मद् युयोध्यमीवा अनग्मित्रा अभ्यमन्त कृष्टीः’ (ऋ० १।१८९।३)। अभ्यमन्ति रुजन्ति उपतापयन्ति, उपपीडयन्ति, आक्रामन्तीति वा।
- ‘किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिम्’ (ऋ० १०।८६।८)। अभ्यमीषि विप्रकरोषि, कदर्थयसि वेगेनाभियासीति वा।
अर्च्
- {अभ्यर्च्}
- अर्च (अर्च पूजायाम्)।
- ‘इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः’ (ऋ० ६।२१।१०)। अभ्यर्चन्ति पूजयन्ति। अभिर्नार्थेन्तरं करोति।
अर्ह्
- {अभ्यर्ह्}
- अर्ह् (अर्ह पूजायाम्)।
- ‘परशुरामो माल्यवन्तमभ्यर्हयति’ (महावीर० २)। अर्हयतीत्येवार्थः। नार्थोऽभिना।
- ‘अभ्यर्हितं पूर्वं निपतति’ (वा०)।
अव्
- {अभ्यव्}
- अव् (अव रक्षणादिषु)।
- ‘सोमो मीढ्वाँ अभि नो ज्योतिषावीत्’ (ऋ० ९।९७।३९)। अभ्यावीत् अतीतृपत्, प्रत्यग्रानकरोत्, प्रत्याश्वस्तानचारीत्।
अश्
- {अभ्यश्}
- अश् (अश व्याप्तौ)।
- ‘विश्वा इत् स्पृधो अभ्यश्नवाव’ (ऋ० १।१७९।३)। अभिभवेवेत्यर्थः।
- ‘तदस्य प्रियमभि पाथो अश्याम्’ (ऋ० १।१५४।५)। अभ्यश्याम् प्राप्नुयाम्)।
- ‘अभ्याशो ह यदस्मै स कामः समृध्येत् यत्कामः स्तुवीत’ (छां० उ० १।३।१२)। अभ्याश आशा।
अस्
- {अभ्यस्}
- अस् (अस भुवि)।
- ‘विश्वा जातान्यभ्यस्मि मह्ना’ (ऋ० ८।१००।१४)। अभ्यस्मि=अभिभवामि।
- ‘कृष्टीर्यो विश्वा अभ्यस्त्येक इत्’ (ऋ० ८।२४।१९)। अभ्यस्ति अभिभवति।
- ‘ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः’ (ऋ० ७।३९।४)। अभिभवन्तीति स्कन्दः। अभितिष्ठन्तीति दुर्गः।
- ‘त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः’ (ऋ० ९।३५।३)।
- ‘इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः’ (अथर्व० ७।९७।१)। उक्तोऽर्थः।
- ‘यदत्र ममाभिष्यात्’ (पा० १।४।९१ सूत्रवृत्तौ)। यदत्र माम्प्रति स्यात्, योत्र मे भागः स्यादित्यर्थः।
- ‘लक्षणाद्यर्थविरहात्कर्मप्रवचनीयत्वाप्राप्तेरुपसर्गत्वावस्थितेरुपसर्गप्रादुर्भ्यामस्तिर्यच्परः’ (पा० ८।३।८७) इति षत्वम्।
- ‘पृणन्नापिरपृणन्तमभि ष्यात्’ (ऋ० १०।११७।७)। अतिशयीत, विशेषयेत्, अतिक्रामेत्।
- ‘अभ्यहं विश्वाः पृतना यथासानि’ (अथर्व० ६।९७।१)। अभ्यसानि=अभिभवानि।
- ‘अपो येन सुक्षितये तरेमाऽध स्वमोको अभि वः स्याम’ (ऋ० ७।५६।२४)। अभिष्याम प्राप्नुयामेत्यर्थः।
अस्
- {अभ्यस्}
- अस् (असु क्षेपे)।
- ‘धन्यो वन्यमतङ्गजः परिचयप्रागल्भ्यमभ्यस्यति’ (मालती० ९।३२)। अभ्यस्यति शीलयति।
- ‘इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्’ (रघु० १३।६७)। शीलयति, आसेवते।
- ‘शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यति’ (कौ० सू० ३३।१३-१४)। अभ्यस्यति अभितः प्रक्षिपति।
- ‘नान्यो राजानमभ्यस्येदराजन्यः कथं चन’ (भा० शां० ९६।७)। अभिमुखं शस्त्रं क्षिपेदित्यर्थः।
- ‘वेदमेव सदाऽभ्यस्येत्’ (मनु० २।१६६)। वेदाध्यायं शीलयेत्, स्वाध्यायमधीयीतेत्यर्थः।
- ‘मृगकुलं रोमन्थमभ्यस्यतु’ (शा० २।६)। कामं रोमन्थं वर्तयत्वित्यर्थः।
- ‘काममभ्यस वा मा वा, न त्वां योत्स्ये कथंचन’ (भा० भीष्म० १०८।४३)। प्रक्षिपेत्यर्थः। शरानिति शेषः।
- ‘शीघ्रमभ्यस्यतो बाणान् सन्दधानस्य चानिशम्। नान्तरं ददृशे किञ्चित्कौन्तेयस्य यशस्विनः’ (भा० आदि० १३८।४१)॥ उक्तोऽर्थः।
- ‘अभ्यस्यमाने शक्त्यस्त्रे’ (भा० शल्य० ४६।७०)। प्रास्यमान इत्यर्थः। इहोदाहृतिष्वभिः क्वचिदाभिमुख्ये वर्तते क्वचिदाभीक्ष्ण्ये इति यथायोगमूह्यम्।
- ‘कुकर्मजामिवाभ्यस्यन्भविष्यन्तीमधोगतिम्’ (कथा० २४।९४)। अभ्यस्यन्भूयो भूयः संस्मरन्।
- ‘अभ्यसन् सिद्धिकार्यं हि विष्णुं दृष्ट्वा हि तस्थिवान्’ (हरि० १।२९।१३)। जपन् विष्णुं ध्यायन्वेति नीलकण्ठः।
- ‘अदान् मृदुमार्दवमुक्तियुक्त्या युक्तं तदीया जनतासु जिह्वा। लोला स्वयं स्थैर्यगुणं तु सभ्यानभ्यासयन्ती कुतुकाय किं नः’ (जै० कु० १।४३)॥ अभ्यासयन्ती असकृद् ग्राहयन्ती।
- ‘बहुभिस्तेन चाभ्यस्तस्तं विव्याध ततोधिकैः’ (भा० द्रोण० १४।२६) अभ्यस्तो विद्धः।
- ‘अभ्यस्तो बहुभिर्बाणैः’ (भा० द्रोण० १४७।२०)। असकृन्निहत इत्यर्थः।
- ‘त्वयाऽभ्यस्तः पुनः पुनः’ (भा० द्रोण० १५१।२०)। अभ्यस्त आवर्तितः, गुणितः। कोप इति शेषः।
- ‘अयुतं नियुतं प्रयुतं तत्तदभ्यस्तम्’ (नि० ३।१०।१)। उक्तोऽर्थः।
- ‘अनभ्यस्तरथचर्या वयम्’ (उत्तर० ५)। अनभ्यस्ताऽशीलिता।
- ‘सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः’ (मनु० २।७९)। सहस्रावृत्तिं जपित्वा, सहस्रवारमावर्त्येत्यर्थः।
- ‘सकृदेवानतं शेकू रथमभ्यसितुं परे’ (भा० वि० ५५।२०)। अभ्यसितुं परिचेतुं वेदितुम्।
- ‘स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते’ (गीता० १७।१५)। अभ्यसनमभ्यास आवृत्तिः पुनः पुनः करणम्।
- ‘विद्यामभ्यसनेनेव प्रसादयितुमर्हसि’ (रघु० १।८८)।
- ‘वेदाभ्यासजडः कथं नु…। निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः’ (विक्रम० १।८)॥ उक्तोऽर्थः।
- ‘एतेन सर्वे व्याख्याता व्याख्याता’ (ब्र० सू० १।४।२८)। इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयतीति तत्र शङ्करः।
- ‘तद्यथाभ्यासमभिधीयताम्’ (उत्तर० १)। यथाभ्यासं यथाशीलम्। वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जप:। तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा॥
आप्
- {अभ्याप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘स त्वां कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति’ (भा० आश्रम० ११।४)। किञ्चित्कार्यं कर्तुमभितः प्राप्तुमिच्छतीत्यर्थः।
इ
- {अभी}
- इ (इण् गतौ)।
- ‘…तत्र चाभ्यागात् कोप्यपूर्वो द्विजः पुरि’ (कथा० ३३।१३३)। अभ्यागात् आगन्तुक इत्यागात्।
- ‘सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्’ (ऋ० १।११५।२)। अभ्येति=अव्यवहितमन्वग् गच्छति। निरन्तरमनुसरति।
- ‘वृषेव पत्नीरभ्येति रोरुवत्’ (ऋ० १।१४०।६)। अभ्येति वेगेनोपधावति।
- ‘रेक्णस्वत्यभि या वाममेति’ (ऋ० १०।६३।१६)।
- ‘अपान्यदेत्यभ्यन्यदेति’ (ऋ० १।१२३।७)। अभ्येति अभिवर्तते, उपैति।
- ‘तामौक्ष्णैश्चर्मभिः पश्चात्प्राञ्चो विभजमाना अभीयुः’ (श० ब्रा० १।२।५।२)।
- ‘प्रेह्य भीहि धृष्णुहि न ते वज्रो नि यंसते’ (ऋ० १।८०।३)। अभीहि संनिधेहि उपेहि।
- ‘अभीहि मन्यो तवसस्तवीयान्’ (अथर्व० ४।३२।३)। अभिमुखं गच्छेत्याह।
- ‘अस्मानत्तुमभ्येति परिग्लानो बुभुक्षया’ (भट्टि० ७।८४)। उपसर्पति, उपैति, उपक्रामतीत्यनर्थान्तरम्।
- ‘यो अन्येद्युरुभयद्युरभ्येति’ (अथर्व० १।२५।४)। अभ्येति=आयाति।
- ‘रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः’ (रा० ६।६।१६)। लङ्कामुपरोत्स्यामीत्यभिवर्तत इत्याह।
- ‘प्राज्ञस्य मूर्खस्य च कार्ययोगे समत्वमभ्येति तनुर्न बुद्धिः’ (अवि० ५।५)। अभ्येति प्राप्नोति।
- ‘देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः’ (भा० शां० २८।५१)। अभ्येति=उत्पद्यते, जायते, आविर्भवति।
- ‘वनं पदाभ्यैः केन हेतुना’ (भट्टि० ५।६७)। अभ्यैः=अभ्यागाः। उपायाः। लङि रूपम्।
- ‘शुनं कीनाशा अभि यन्तु वाहैः’ (ऋ० ४।५७।८)। सीरमादाय क्षेत्राण्यभिलक्ष्य यन्तु बलीवर्दैर्हालिका इत्यर्थः।
- ‘देहान् यथेष्टमभ्येति हित्वेमां मानुषीं तनुम्’ (भा० आश्व० १९।३१)। अभ्येति सङ्क्रामति, प्राप्नोति।
- ‘सतीव योषित्प्रकृतिः सुनिश्चला पुमांसमभ्येति भवान्तरेष्वपि’ (शिशु० १।७२)। उक्तोऽर्थः।
- ‘पावके विनिवृत्ते तु नीलो राजाऽभ्यगात् तदा’ (भा० सभा० २१।५८)। अभ्यगात् उपागमत्। प्राविक्षदित्यर्थः।
- ‘गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम्’ (भा० वन० ४५।४)। उपासर्पदित्यर्थः।
- ‘स हाहं यशसां यशः श्वेतं…लिन्दु माऽभिगाम्’ (छां० उ० ८।१४।१)। लिन्दु स्त्रीव्यञ्जनं गर्भवासं मा प्रापम्, तत्र मा प्रविक्षमित्याह।
- ‘स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान्’ (मनु० २।८२)। अभ्येति आभिमुख्येन गच्छति।
- ‘मारुतं पुरुहूतं च गुरुं पावकमेव च। चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः’ (मनु० ११।१२१)॥ अभ्येति सङ्क्रामति।
- ‘नाविविदिषुमभ्येति सम्पत्’ (भट्टि० ७।९९)। उपैतीत्यर्थः।
- ‘पूर्वं त्वामुपयास्यामि ततो भ्येष्यामि तं पतिम्’ (कथा० ८४।२५)। निगदव्याख्यातम्।
- ‘रयादभीयाय परान् रुषा वृत्र इवामरान्’ (शि० भा० १३।११८)। अभीयाय=अभिदुद्राव, प्रार्थयाञ्चके।
- ‘तामृश्यो भूत्वा रोहितं भूतामभ्यैत्’ (ऐ० ब्रा० ३।३३)। अभिगतवान्, मिथुनधर्मं प्राप्तवान्। रोहितं भूताम्। भू प्राप्तौ। लोहितं लोहितत्वं प्राप्ताम्। ऋतुमतीं जातामित्यर्थः।
- ‘यशसा वा एषोऽभ्येति य आर्त्विज्येन’ (ऐ० ब्रा० ६।३४)। युक्तो भवतीत्यर्थः। अष्टमेब्दे चतुर्वेदी द्वादशे सर्वशास्त्रवित्। षोडशे कृतवान्भाष्यं द्वाविंशे मुनिरभ्यगात्॥ शङ्करोद्देश्यकोक्तिः। अभ्यगात् समाधिस्थोऽभूदित्यर्थः। प्राणान्मुमोचेत्युक्तं भवति।
- ‘सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरोगात्’ (ऋ० १०।५।६)। अभिगात् अभिगच्छति अतिक्रामति।
- ‘विश्वा अभीती रपसो युयोधि’ (ऋ० २।३३।३)। अभीतयो भियानानि, आक्रमणानि।
- ‘याः सेना अभीत्वरीः’ (वा० सं० ११।७७)। अभीत्वरीः=अभियायिन्यः।
- ‘तासामेकामभिगच्छन्नंहस्वान् भवति’ (नि० ६।२७।२)। अभिगच्छन्नतिक्रामन्। अत्यर्थेऽभिः।
इष्
- {अभीष्}
- इष् (इष इच्छायाम्)।
- ‘निधिं निधिपा अभ्येनमिच्छात्’ (अथर्व० १२।३।४२)। निधिं वरयेत्, वनुयात्, याचेत, कामयेत।
इष्
- {अभिइष्}
- इष् (इष आभीक्ष्ण्ये)।
- ‘सरस्वती त्वा मघवन्नभीष्णात्’ (तै० ब्रा० १।४।२।१)। भिषज्यत्वित्यर्थः। अडभावश्छान्दसः।
ईक्ष्
- {अभीक्ष्}
- ईक्ष् (ईक्ष दर्शने)।
- ‘सोग्निमेवा भीक्षमाणो व्रतमुपैति’ (श० ब्रा० १।१।१।२)। अग्नौ दृशं पातयन्नित्यर्थः।
उक्ष्
- {अभ्युक्ष्}
- उक्ष् (उक्ष सेचने)।
- ‘यदिष्ट-रूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षित च तच्छुचि।’ सामान्येन जलेन धौतमभ्युक्षितमिति श्रौतपदार्थनिर्णयः।
- ‘प्रोक्षिताऽभ्युक्षिताः सौम्याः’ (भा० अनु० ९८।३४)। प्रोक्षणाभ्युक्षणावोक्षणानीत्थं विविञ्चन्ति कोविदाः–उत्तानेनैव हस्तेन प्रोक्षणं परिकीर्तितम्। न्यञ्चताभ्युक्षणं प्रोक्तं तिरश्चावोक्षणं स्मृतम्॥
- ‘संचारमभ्युक्ष्य’ (का० श्रौ० ३।४।१)। अभ्युक्ष्य=अभिषिच्य=अभिवृष्य।
- ‘शिरसि शकुन्तलामभ्युक्ष्य’ (शा० ४)।
उच्
- {अभ्युच्}
- उच् (उच समवाये)।
- ‘अभि वा एष एतानुच्यति येषां पूर्वापरा अन्वञ्चः प्रमीयन्ते’ (तै० सं० २।२।२।५)। अभ्युच्यति आभिमुख्येन समवैति। एषोग्निस्तान्रुचिविषयं करोति सोत्सुकं मार्गतीति संस्कृतशार्मण्यकोषः।
उन्द्
- {अभ्युन्द्}
- उन्द् (उन्दी क्लेदने)।
- ‘तस्मादसाविमां वृष्ट्याभ्युनत्ति’ (ऐ० ब्रा० २।१)। क्लेदयति आर्द्री करोतीत्यर्थः।
ऊर्णु
- {अभ्यूर्णु}
- ऊर्णु (ऊर्णुञ् आच्छादने)।
- ‘अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत् तुरम्’ (ऋ० ८।७९।२)। अभ्यूर्णोति अभित आच्छादयति। प्रावृणोति।
- ‘माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि’ (अथर्व० १८।२।५०)।
- ‘जायापतिमिव वाससाभ्येनं भूम ऊर्णुहि’ (अथर्व० १८।२।५१)। उक्तोऽर्थः।
ऊह्
- {अभ्यूह्}
- ऊह् (ऊह वितर्के)।
- ‘तस्माद्यदेव किञ्चानूचानोऽभ्यूहत्यार्षं तद् भवति’ (नि० १३।१२)। अभ्यूहति तर्कयति मीमांसित्वा विजानाति।
- ‘अथाङ्गारैरभ्यूहति’ (कपालानि) (श० ब्रा० १।२।१।१३)। आच्छादयति, उपदधाति। आस्तृणाति।
- ‘पुरीषेणाभ्यूहति’ (तै ० सं० ५।२।३।७)। उक्तोऽर्थः।
- ‘अदेवो यदभ्यौहिष्ट देवान्’ (ऋ० ६।१७।८)। अभ्यौहिष्ट पर्यवास्थित, परिपन्थ्यभूत्, देवान् प्रत्युपशयस्थोऽस्थात्।
- ‘उत्तरं सूत्रमभ्युह्य स्वयमेव मयोदितम्’ (कथा० ७।११)। अभ्युह्य स्वबुद्ध्योन्नीय।
ऋ
- {अभ्यृ}
- ऋ (ऋ गतिप्रापणयोः)।
- ‘अभि कृष्णेन रजसा द्यामृणोति’ (ऋ० १।३५।९)। अभ्यृणोति=आसादयति। सवितेति शेषः।
ऋष्
- {अभ्यृष्}
- ऋष् (ऋषी गतौ)।
- ‘अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः’ (ऋ० १०।७५।४)। अभ्यर्षन्ति=अभ्यृषन्ति=अभि त्वरन्ते, वेगेनाभिमुखं यान्ति।
- ‘अभी नो अर्ष दिव्या वसूनि’ (ऋ० ९।९७।५१)। अभ्यर्ष इत आवह।
- ‘अभ्यर्ष महानां देवानां वीतिमन्धसा’ (ऋ० ९।१।४)। वीतिं यज्ञमागच्छेत्याह।
- ‘अभ्यर्ष गुह्यं चारु नाम’ (ऋ० ९।९६।१६)।
कम्
- {अभिकम्}
- कम् (कमु कान्तौ)।
- ‘न च कामसम्पदमभिकामयते’ (कि० १८।२३)। अभिकामयते कामयते प्रार्थयते। अभिर्धात्वर्थं न विशिनष्टि।
- ‘दासी-कन्यासहस्रेण शर्मिष्ठामभिकामये’ (भा० आदि० ८०।१६)। अभिकामयेऽभिलषामि।
कम्प्
- {अभिकम्प्}
- कम्प् (कपि चलने)।
- ‘सोमविक्रयिणं हिरण्येनाभिकम्पयति’ (का० श्रौ० ७।८।१५)। अभिकम्पयति विचालयति प्रलोभयति, गर्धयति।
काङ्क्ष्
- {अभिकाङ्क्ष्}
- काङ्क्ष् (काक्षि वाछि इच्छायाम्)।
- ‘नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने’ (रा० २।४९।१५)। अभिकाङ्क्षामि काङ्क्षामि इच्छामि।
काश्
- {अभिकाश्}
- काश् (काशृ दीप्तौ)।
- ‘तया नस्तन्वा शन्तमयाभि चाकशीहि’ (वा० सं० १६।२)। अभिचाकशीहि=उद्भासय विभापय।
- ‘धृतस्य धारा अभि चाकशीमि’ (ऋ० ४।५८।५)। अभिचाकशीमि सम्पश्यामि प्रेक्षे।
कुष्
- {अभिकुष्}
- कुष् (कुष निष्कर्षे)।
- ‘न दालकर्णनासास्रोतोदशनविवराण्यभिकुष्णीयात्’ (सुश्रुत० १।१४५।२)। अभितो निष्कर्षेदित्यर्थः।
कृ
- {अभिकृ}
- कृ (डुकृञ् करणे)।
- ‘गर्भमेवैतत्सन्तमभिजुहोति गर्भं सन्तमभिकरोति’ (श० ब्रा० २।३।१।४)। अभिकरोति उपकरोति, अनुगुणमाचरति।
- ‘यथाभिचक्र देवास्तथाऽप कृणुता पुनः’ (अथर्व० ३।९।१)। अभिचक्र=संविदधथुः, उपचक्रथुः।
- ‘निः सपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः’ (भा० आदि० २१०।२७)। अभिचक्रतुः=निर्ममतुः।
कृष्
- {अभिकृष्}
- कृष् (कृष विलेखने)।
- ‘अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम्। अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः’ (भा० वन० २४८।११)॥ अभिकर्षन्तो दमयन्तो न्यग्भावयन्तः।
कृ
- {अभिकृ}
- कृ (कृ विक्षेपे)।
- ‘ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः। गङ्गायमुनयोर्वारि जालैरभ्यकिरस्तदा’ (भा० अनु० ५०।१५)॥ अभ्यकिरन्=आकिरन्, तत्र वारिणि जालानि विस्तारितवन्त इत्यर्थः।
- ‘अभ्यकीर्यत शोकेन भूय एव महीपतिः’ (रा० २।१४।५६)। शोकाप्लुतः शोकेन परीतो भूदित्यर्थः।
क्लृप्
- {अभिक्लृप्}
- क्लृप् (कृपू सामर्थ्ये)।
- ‘वासन्तिकावृतू अभिकल्पमानाः’ (वा० सं १३।२५)। अभिकल्पमानास्तद्योग्याः सम्पद्यमानाः।
- ‘अभिजिताभिक्लृप्ता’ (श० ब्रा० १२।३।१।४)।
क्रन्द्
- {अभिक्रन्द्}
- क्रन्द् (क्रदि आह्वाने रोदने च)।
- ‘अभि क्रन्दति हरितेभिरासभिः’ (ऋ० १०।९४।२)। अभिक्रन्दति=अभितः क्रन्दति शब्दायते।
- ‘अभि क्रन्द प्र त्रासय’ (अथर्व० ५।२१।४)। अभिक्रन्द शब्दायस्व वाश्यस्व रोरुहि।
- ‘अभिक्रन्दन्नृषभो वासितामिव’ (अथर्व० ५।२०।२)। स्त्रीगवीमभिगर्जन्नित्याह।
क्रम्
- {अभिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अभि स्रुचः क्रमते दक्षिणावृतः’ (ऋ० १।१४४।१)। स्रुचोऽभिक्रमते=ता अभि वर्तते, ता अभिमुखं याति।
- ‘स्पृधो अदेवीरभि च क्रमाम बिश आदेवीरभ्यश्नवाम’ (ऋ० ६।४९।१५)। अभिक्रमाम अभिभवाम।
- ‘ते सरांसि गिरीन्सर्वान्संकटानि वनानि च। दरीदुर्गांश्च शैलांश्च कृत्स्नांस्तानभिचक्रमुः’ (रा० ४।४७।३)॥ अभिचक्रमुः पर्याटुः।
- ‘यो हिसार्थमभिक्रान्तं हन्ति’ (आप० ध० १।२९।७)। अभिक्रान्तम् अभिपतितम्।
- ‘अभिक्रान्तापक्रान्तानि (सामानि) भवन्ति’ (पञ्चविं० ५।८।३)। अभिक्रान्तमारोहः। अपक्रान्तमवरोहः।
- ‘अभिक्रामं सायं जुहोत्यवक्रामं प्रातः’ (आप० श्रौ० ६।३।१०।५)। अभिक्रम्याभिक्रम्याहवनीयस्य समीपम्।
- ‘तमभिक्रम्य सर्वेऽद्य वयं चार्थामहे वसु’ (भा० वन० ९८।२०)। अभिक्रम्य=उपेत्य।
- ‘नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते’ (गीता० २।४०)। अभिक्रम उपक्रमः, प्रारब्धं कर्म। अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः (अमरः)। आरोहणमभिक्रम इति वैजयन्ती।
- ‘द्वाभ्यामभिक्रम्य’ (ऋ० प्रा० १०।२)। प्रारभ्येत्यर्थः।
- ‘अभिक्रमणं वचनाददृष्टेन’ (गौ० ध०)। अभिक्रमणमुपसर्पणम्।
- ‘अग्नि र्वा एतस्य पशूनपक्रमयति यस्य पशवोऽपक्रामन्त्यग्निरेव तस्य पशूनभिक्रमयति यस्य पशवोऽभिक्रामन्ति’ (पञ्च० ब्रा० १२।४।२५)। अपक्रमणाभिक्रमणे प्रतिद्वन्द्विनी। अपक्रमणमपसरणमाह। अभिक्रमणं चोपसरणम्।
क्री
- {अभिक्री}
- क्री (डुक्रीञ् द्रव्यविनिमये)।
- ‘एकं वा एष क्रीयमाणोऽभिक्रीयते छन्दसामेव राज्याय’ (श० ब्रा० ३।३।२।६)। किञ्चित् प्रयोजनमुद्दिश्य क्रयणमभिक्रयणम्।
क्रुश्
- {अभिक्रुश्}
- क्रुश् (क्रुश आह्वाने रोदने च)।
- ‘तं भूतान्यभ्यक्रोशन् ब्रह्महन्निति’ (तै० सं० २।५।१।२)। अभ्यक्रोशन् सनिन्दमाह्वयन् सक्रोधं समबोधयन्।
- ‘ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा। आरोपयदभिक्रोशन्नङ्गदेन सह प्रभुः’ (रा० ४।२५।२८)॥ अभिक्रोशन् विलपन् परिदेवयमानः। आरोपयत विक्रोशन्नङ्गदेन सहैव त्विति पाठान्तरम्।
क्षम्
- {अभिक्षम्}
- क्षम् (क्षमूष् सहने)।
- ‘ऽभी नु मा वृषभ चक्षमीथाः’ (ऋ० २।३३।७)। दयस्व मामनुगृहाण मां वेत्याह।
- ‘यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः’ (ऋ० २।२८।३)। सानुग्रहा भवतेत्यर्थः।
- ‘अभि नो वीरो अर्वति क्षमेत’ (ऋ० २।३३।१)। उक्तचर एवार्थः।
क्षर्
- {अभिक्षर्}
- क्षर् (क्षर संवलने)।
- ‘ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया’ (ऋ० ९।६१।५)। अभिक्षरन्ति=अभिस्रवन्ति=अभिष्यन्दन्ते।
- ‘शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः’ (अथर्व० ८।२।१४)।
- ‘सिन्धुर्न निम्नमभि वाज्यक्षाः’ (ऋ० ९।९७।४५)। अक्षा इति क्षरतेरीडभावे लुङि रूपम्।
- ‘मनो वै सम्राट् परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति’ (श० ब्रा० १४।६।१०।१५)। उदितपूर्व एवार्थः।
क्षिप्
- {अभिक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘महेन्द्रो मन्द्रगर्जाभिरभिक्षिपति गर्जतः’ (यो० वा० ६ (२)।११४।९) तर्जयते भर्त्सयत इत्यर्थः।
- ‘रथीव कशयाश्वाँ अभिक्षिपन्’ (ऋ० ५।८३।३)। अभिक्षिपन् प्रसभं प्राजन्नित्यर्थः।
- ‘अभिक्षिपन्तमैक्षिष्ट रावणं पर्वतश्रियम्’ (भट्टि० ८।५१)। अभिक्षिपन्तमतिशयानम्।
- ‘चतुष्पथगदायुद्धे’ (भा० आदि० ६८।१२)। अत्र भारतभावदीपे नीलकण्ठ आह– चत्वारः प्रक्षेप-विक्षेप-परिक्षेपाभिक्षेपाख्याः पन्थानोऽस्य। अभिक्षेपोऽग्रेण ताडनम् इति।
खन्
- {अभिखन्}
- खन् (खनु अवदारणे)।
- ‘यो हीहाभिखनेदप त्वाऽभिविन्देत्’ (श० ब्रा० ११।१।६।१६)। अभिखनेत्=उत्खनेत्। उदोऽर्थेऽभिः।
ख्या
- {अभिख्या}
- ख्या (ख्या प्रकथने)।
- ‘कदा मृळीकं सुमना अभिख्यम्’ (ऋ० ७।८६।२)। अभिख्यम्=पश्येयम्। चक्षिङ् ख्याञ् (चक्षिङ आदेशः)। ख्या च वेदे बहुलं दर्शने वर्तते।
- ‘दीर्घं यदाजिमभ्यख्यदर्यः’ (ऋ० ४।२४।८)।
- ‘अभि ख्यः पूषन्पृतनासु नस्त्वम्’ (ऋ० ३।४८।१९)। अनुग्रहबुद्ध्या पश्य। अवेक्षस्व नः। अस्मासु प्रतिजागृहीति वा।
- ‘अभि प्रयांसि सुधितानि हि ख्यः’ (ऋ० ६।१५।१५)।
- ‘नमः पितृभ्यो अभि ये नो अख्यन्’ (तै० सं० ३।२।८।३)।
- ‘अभिख्या नो मघवन्नाधमानान्’ (ऋ० १०।११२।१०)।
- ‘अभिख्या भासा बृहता शुशुक्वनिः’ (ऋ० ८।२३।५)। इह सर्वत्र निर्विशेषोऽनन्तरोदीरित एवार्थः।
- ‘अभिख्याता मर्डिता सोम्यानाम्’ (ऋ० ४।१७१७)। अभिख्याताऽवेक्षकः प्रेक्षकः। तृजन्तमेतत्।
- ‘पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत’ (भा० अनु० ९६।१६)। अभिख्यातं प्रख्यातं प्रतीतं विदितम्।
- ‘स्वयमुपहतः, विप्रकृतः पापकर्माभिख्यातः…चेति भीतवर्गः’ (कौ० अ० १।१४।३)। अभिशस्त इत्यर्थः।
- ‘काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः’ (रघु० १।४६)। अभिख्या शोभा।
- ‘कानि वाऽस्य पुण्यभाञ्जि भजन्त्यभिख्यामक्षराणि’ (हर्ष० प्रथम उच्छ्वासे)। मिथ्याऽभियोगोऽभिख्यानम् इति वैजयन्ती। अमरोपि मिथ्याभियोगोऽभिख्यानमिति पठति।
- ‘कलहकण्टक इत्यभिख्यापिताख्यः’ (दशकु० पृ० १३६)। अभिख्यापिता प्रसिद्धिं गमिता।
गम्
- {अभिगम्}
- गम् (गम्लृ गतौ)।
- ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’ (मुण्डको० १।२।१२)। अभिगच्छेत् उपेयात्, प्रतिपद्येत, उपपद्येत।
- ‘तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम्’ (रा० २।११७।१६)। ताम् (अनसूयाम्) अभिगच्छ उपेहि।
- ‘आ देवो दूतो अजिरश्चिकित्वान् त्वद् देवापे अभि मामगच्छत्’ (ऋ० १०।९८।२)। मामभ्यगच्छत् मामुपैत्, मामभ्यवर्तत।
- ‘त्यक्त्वा ज्ञातिजनम् …। अनुरागाद्वने रामं दिष्ट्या त्वमभिगच्छसि’ (रा० ३।२।२१)। अभिगच्छसि अनुसरसि।
- ‘ततस्त्वां ब्राह्मणः…अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने’ (भा० वन० ७६।२८)॥ अविन्दत् समगच्छत्।
- ‘श्रमेणानड्वान् कीलालं कीनाशश्चाभिगच्छतः’ (अथर्व० ४।११।१०)। अभिगच्छतः=अधिगच्छतः=अर्जयतः।
- ‘(मनसा) उशिजो जग्मुरभि तानि वेदसा’ (ऋ० ३।६०।१)। अधिजग्मुरवजग्मुरजानन्।
- ‘यद्वै हृदयेनाभिगच्छति तज्जिह्वया वदति’ (तै० सं० ६।३।१०।४)। अभिगच्छति सवेति, अनुभवति।
- ‘अभ्यागच्छः पतिं यत्त्वं भजगानम्’ (भा०)। मिथुनीभावं प्राप्नोरित्याह।
- ‘आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः’ (मनु० २।१९६)। अभिगच्छन् अभिमुखं गच्छन्।
- ‘मया पूर्वं बहुशोऽभिगतो हि सः’ (रा० ४।५९।११)। अभिगतः प्रपन्न उपदृष्टः।
- ‘पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः’ (भा० उ० ७।१४)। अभिगतमभिमुखं प्राप्तम्। पूर्वसारिणः पूर्वाधारानुकारिणः।
- ‘आशावतेऽभिगताय सद्यः’ (बुद्ध० २।४०)। अभिगताय=अभ्यागताय=अभ्युपेताय।
- ‘नावमन्येदभिगतं न प्रणुद्यात्कथं चन’ (भा० अनु० ६३।१३)। उक्तोऽर्थः।
- ‘अस्मानभिगतश्चासि वयं च त्वामुपस्थिताः’ (भा० शां० ३५८।६)। उक्तपूर्व एवार्थः।
- ‘सर्वदाऽभिगतः सद्भिः’ (रा० १।१।१५)। अभिगतः पर्युपासितः।
- ‘नो ह्यनभिगतं मनसा वाग्वदति’ (श० ब्रा० ४।६।७।१९)। अनभिगतमविषयीकृतमविज्ञातम्।
- ‘अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः’ (रघु० १।१६)। अभिगम्यः सुखमुपगम्यः। स्पृह्यो रुच्य इति तूपचारात्।
- ‘अभिगमनीयाश्च गुणाः सर्वस्य’ (हर्ष०)। इहोक्तपूर्व औपवारिक एवार्थः।
- ‘विषवृक्षो नियोगी च यदेवाश्रित्य वर्धते। चित्रं करोति तस्यैव स्थानस्यानभिगम्यताम्’ (राज० ८।९१)॥ अनभिगम्यताऽनुपेयता, उपगमानर्हता।
- ‘तथा प्यनभिगमनीयो लोकस्य’ (मृच्छ० ४)।
- ‘मनुमेकाग्रमासीनमभिगम्य महर्षयः’ (मनु० १।१)। अभिगम्य=अभिमुखं गत्वा।
- ‘अभिगम्य हताशो हि निवृत्तो दहते कुलम्’ (भा० उ० ११५।८)। उक्तोऽर्थः।
- ‘अभिगम्य तु विप्रोष्य’ (गौ० ध० १।६।२)।
- ‘अनस्तमितमादित्यमभिगन्तुं समुत्सहे’ (रा० ४।६७।१५)। प्रत्युद्गन्तुमित्यर्थः।
- ‘अभिगन्तैव ब्रह्मा कर्ता क्षत्रियः’ (श० ब्रा० ४।१।४।१)। अभिगन्ता=प्रतिपत्ता=बोद्धा।
- ‘अभिगन्तास्मि भगिनीं मातरं वा तवेति ह’ (याज्ञ० २।२०५)। अभिगन्तास्मि=प्रकर्तास्मि=परामर्ष्टास्मि।
- ‘प्रसह्य दास्यभिगमे दण्डो दशपणः स्मृतः’ (याज्ञ० २।२९१)। अभिगमः प्रकर्म पारदार्यम्।
- ‘वधूसंयानं वा तदभिगमनोपस्थितमिदम्’ (मृच्छ० ६।४)। अभिगमनम् उपगमनम्।
- ‘योजनं गच्छति’ (पा० ५।१।७४) इत्यत्र ततोऽभिगमनमर्हतीति च क्रोशशतयोजनशतयोरुपसंख्यानम् इति वार्तिकम्। यौजनशतिक आचार्य इत्युदाहरणम्। शतयोजनादभिगमनमर्हतीत्यर्थः। आदरप्रयुक्तमभिमुखं गमनमभिगमनम्।
गर्ज्
- {अभिगर्ज्}
- गर्ज् (गर्ज शब्दे)।
- ‘शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम्’ (भा० द्रोण० १३३।३०)। अभ्यगर्जताम् आह्वयेताम्, आहूतिपूर्वमवाश्येताम्। उदनर्दताम्।
गाह्
- {अभिगाह्}
- गाह् (गाहू विलोडने)।
- ‘अभि गोत्राणि सहसा गाहमानः’ (ऋ० १०।१०३।७)। अभिगाहमानो विलोडयमानः, सुदूरमन्तः प्रविशन्नित्यर्थः।
गुप्
- {अभिगुप्}
- गुप् (गुपू रक्षणे)।
- ‘तेन नः सर्वतोऽभिगोपाय’ (श० ब्रा० २।३।४।४०)। अभिगोपाय गोपाय रक्ष। अनर्थकोऽभिः। तदर्थस्य सर्वत इत्यनेनोक्तत्वात्।
- ‘लङ्कायामभिगुप्तायां सागरेण समन्ततः’ (रा० ४।५८।२६)।
- ‘स्वचरित्राभिगुप्ता’ (रा० ५।५१।१७)। उक्तोऽर्थः।
गुर्
- {अभिगुर्}
- गुर् (गुरी उद्यमने)।
- ‘अभी नो अग्न उक्थमिज्जुगुर्याः’ (ऋ० १।१४०।१३)। अभिजुगुर्याः=अभिनन्देः=अनुमन्येथाः=सहर्षं प्रतीच्छेः।
- ‘इष्टं बीतमभिगूर्तं वषट्कृतं तं देवासः प्रतिगृभ्णन्त्यश्वम्’ (ऋ० १।१६२।१५)। अभिगूर्तं प्रशस्तमभिनन्दितम्।
- ‘उतो तेषामभिगूर्तिर्न इन्वतु’ (ऋ० १।१६२ १२)। अभिगूर्तिः स्तुतिः।
गृ
- {अभिगृ}
- गृ (गृ शब्दे)।
- ‘पूर्वमेवोदितमुत्तरेणाभिगृणाति’ (तै० सं० ५।१।४।१९)। अभिगृणाति=अनुवदति।
- ‘अभि यं (सर्वं) देव्यदिति र्गुणाति’ (ऋ० ७।३८।४)। अभिगृणाति स्तवीति, जुषते वा।
- ‘अभि यज्ञं गृणीहि नः’ (ऋ० १।१५।३)। अभिगृणीहि=अभिरोचय=अभिनन्द=जुषस्व।
- ‘तां त्वा विश्वे अभिगृणन्तु देवाः’ (वा० सं० १४।४)। उक्तोऽर्थः।
- ‘विश्वावसुरभि तन्नो गृणातु’ (ऋ० १०।१३९।५)।
- ‘एहि स्तोमाँ अभि स्वराऽभि गृणीह्या रुव’ (ऋ० १।१०।४)।
- ‘इमां वाचमभि विश्वे गृणन्तः’ (वा० सं० २।१८)। स्तुवन्त इत्यर्थः।
- ‘अन्तर्वेद्यभिगरो बहिर्वेद्यपगरः’ (वाराह श्रौ० ३।२।५।३३)। अभिनन्दता प्रशंसता ऋत्विजाऽऽह्वानमभिगरः।
गै
- {अभिगै}
- गै (कै गै शब्दे)।
- ‘अभि सोभरे गिरा। गाय गा इव चर्कृषत’ (ऋ० ८।२०।१९)। अभिगाय कीर्तय।
- ‘प्राणांस्त्वं भूमानमभिगायतात्’ (छां० उ० १।५।४)। उक्तोऽर्थः।
- ‘इन्द्रगाथाभिर्वै देवा असुरानभिगायाथैनानत्यायन्’ (ऐ० ब्रा० ६।३२)। अभिगाय गीतैर्विमुग्धान्कृत्वा। योद्धुमाभिमुख्येन प्राप्येति तु सायणः। तत्रभवान् गाङ् गतौ इत्यस्य ल्यपि रूपं पश्यति। तदपि शक्यग्रहम्। धातुस्तु विरलप्रयोगः।
- ‘अपघ्नन्नेषि पवमान शत्रून् प्रियां न जारो अभिगीत इन्दुः’ (ऋ० ९।९६।२३)। अभिगीतः प्रशस्तः।
- ‘भृङ्गराजाभिगीतानि’ (वनानि) (रा० ६।१५।११)। मधुरैर्गुञ्जारवैरनुनादितानीत्याह।
ग्रह्
- {अभिग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘अभिजग्राह सौमित्रिर्विनद्योभौ पतत्त्रिभिः’ (भा० वन० २८७।२२)। अभिजग्राह प्रतिजग्राह प्रत्युज्जगाम। अभिहारोऽभिग्रहणमित्यमरः। अभियोगः, अवस्कन्द आस्कन्द इत्यर्थः।
घ्रा
- {अभिघ्रा}
- घ्रा (गन्धोपादाने)।
- ‘अभिजिघ्रन्ती भुवनस्य नाभिम्’ (ऋ० १।१८५।५)। अभिजिघ्रन्ती लालयन्ती स्फालयन्ती।
- ‘तस्मादसाविमां वृष्ट्याभ्युनत्त्यभिजिघ्रति’ (ऐ० ब्रा० १।७)। अभिजिघ्रति चुम्बति। अभिघ्राणमुपभोगः। भूगतं हविर्द्योरुपभुङ्क्त इत्यर्थ इति षड्गुरुशिष्यः। अभिघ्राणं भौमरसादानमिति भट्टभास्करादयः। लोके प्रायेणोपाङ्पूर्वस्य जिघ्रतेः प्रयोगः।
- ‘वत्सं जातं गौरभिजिघ्रति’ (तै० सं० ६।४।११।४)। उक्तोऽर्थः।
चक्ष्
- {अभिचक्ष्}
- चक्ष् (चक्षिङ् व्यक्तायां वाचि, छन्दसि दर्शने प्रायेण)।
- ‘इति ब्रुवाणं विदुरम् मुनिरभ्यचष्ट’ (भा० पु० ३।१३।५)। अभ्यचष्ट अभ्यभाषत।
- ‘यत्कायमभिचक्षते’ (भा० पु० ३।१२।५२)। अभिचक्षतेऽभिदधते।
- ‘यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः’ (ऋ० ७।१०४।८)। अभिचष्टेऽभिशपति, परुषं वदति।
- ‘मित्रः कृष्टीरनिमिषाऽभि चष्टे’ (ऋ० ३।५९।१)। अभिचष्टेऽभितः पश्यति।
- ‘अभि यो विश्वा भुवनानि चष्टे’ (ऋ० ७।६१।१)। उक्तोऽर्थः।
- ‘कदा चिकित्वो अभि चक्षसे नः’ (ऋ० ५।३।९)। अनुग्रहबुद्ध्या करुणाकटाक्षेण द्रक्ष्यसीत्याह।
- ‘ऋजु मर्तेषु वजिना च पश्यन्नभि चष्टे सूर्यो अर्य एवान्’ (ऋ० ६।५१।२)।
- ‘अभि ब्रह्मणि चक्षाथे ऋषीणाम्’ (ऋ० ७।७०।५)। उक्तोऽर्थः।
- ‘अथापि यत्र च्छिद्र इवादित्यो दृश्यते रथनाभिरिवाभिख्यायेत’ (ऐ० आ० ३।२।४)। अभिख्यायेत प्रतीयेत।
- ‘वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम्’ (अथर्व० ६।१२७।२)। अभिचक्षणं वशीकरणमन्त्रमभिचारमन्त्रं वा।
चर्
- {अभिचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘यर्थवाहं नाभिचरे कदाचित्पतीन्’ (भा० वि० १६।६)। व्यभिचरामीत्यर्थः। विर्द्योतक इति त्यक्तः।
- ‘पतिं या नाभिचरति मनोवाग्देहसंयता’ (मनु० ९।२९)। उक्तोऽर्थः।
- ‘यथा नाभिचरेतां तौ वियुक्तावितरेतरम्’ (मनु० ९।१०२)। अत्राप्यभिचरणमतिचरणमाह।
- ‘तत्र विराधदनुकबन्धप्रभृतयः केप्यभिचरन्तीति नः श्रुतम्’ (महावीर० २)। अभिचरन्ति अपचरन्ति दुर्व्यवहरन्ति।
- ‘वेदे दुर्धिया जिहिंसिषया वा वैरिषु मन्त्रादिप्रयोगेऽभिचरतिः प्रसिध्यति। तथा चोदाहृतयः–मा नो घोरेण चरताभि धृष्णु’ (ऋ० १०।३४।१४)।
- ‘तं त्वष्टा हतपुत्रोऽभ्यचरत् सोऽभिचरणीयमपेन्द्रं सोममाहरत्’ (श० ब्रा० १२।७।१।१)।
- ‘अथो हैनयाप्यभिचरेत् (एनया=उद्वासनीयेष्ट्या) एतया वै भद्रसेनमजातशात्रवयाऽऽरुणिरभिचचार’ (श० ब्रा० ५।५।५।१४)।
- ‘मायायोगविदो वेदविदो वर्षं वाभिचरेयुः’ (कौ० अ० ४।३।११)। मन्त्रप्रयोगेणातिवृष्टिं शमयेयुरित्यर्थः।
- ‘अमुष्येति द्विषच्छब्देऽभिचरन्’ (का० श्रौ० २।४।२७)। वैरिमारणानुकूलो व्यापारोऽभिचारः, तं फलत्वेनाभिलषन्नित्यर्थः।
- ‘अभिचार्यमाणोपि तां दिशं गत्वा’ (का० श्रौ० १५।२।९)। अभिचारकर्मणा मार्यमाणोपीत्यर्थः।
- ‘वृष्ट्यायुः पुष्टिकामो वा तथैवाभिचरन्नपि’ (याज्ञ० १।२९५)। अदृष्टोपायेन परपीडाऽभिचार इति मिताक्षरा।
- ‘पूर्वाभिचरिता (मागधी नदी) राम सुक्षेत्रा सस्यमालिनी’ (रा० १।३२।१०)। पूर्वाभिचरिता पूर्वदिग्गामिनी।
- ‘वक्षोभिचारि चरुभाण्डमिव स्तनं यो देव्या विदेहदुहितुर्विददार काकः’ (हनुमन्नाटके ६।३२)। वक्षोभिचारि वक्षोभिचरतीति वक्षोपचरणशीलः। क्लीबत्वं दुःसमाधानम्।
- ‘उपचाराभिचाराभ्यां धर्ममावाहयस्व वै’ (भा० आदि० २२२।४३)। अभिचारो देवताकर्षणशक्तिरिति नीलकण्ठः।
- ‘धर्मं धर्मराजम्। ब्रह्मद्विषो ह्येष निहन्ति सर्वानाथर्वणस्तीव्र इवाभिचारः’ (महावीर० १।६२)। पूर्वतर एवार्थः।
- ‘ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः’ (महिम्नः २१)। अभिचाराय हिंसायै विनाशाय। अनुप्लवः सहायश्चानुचरोभिचरः समाः (अमरः)। अभिसर इति पाठान्तरम्। तत्साधीयः।
चुद्
- {अभिचुद्}
- चुद् (चुद संचोदने)।
- ‘ऋषिः कश्चिदागत्य मम जन्माभ्यचोदयत्’ (भा० आदि० ७१।१९)। अभ्यचोदयत्=अपृच्छत्। नार्थोऽभिना।
- ‘असुरास्तत्र मां दृष्ट्वा कस्त्वमित्यभ्यचोदयन्’ (भा० आदि० ७६।३७)। उक्तोऽर्थः।
जन्
- {अभिजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘कामाक्रोधोऽभिजायते’ (गीता०)। आविर्भवति, संभवतीत्यनर्थान्तरम्।
- ‘शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ (गीता० ६।४१)। अभिजायते पुनर्जायते।
- ‘तस्याः स्पृष्ट्वैव सलिलं नरः शैलोभिजायते’ (रा०)। सद्यो जायत इत्यर्थः। अभिः सामीप्ये।
- ‘कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः। सम्यग् विजेतुं यो वेद स महीमभिजायते’ (भा० उ० १२९।३३)। महीं शासितुमर्हति।
- ‘एवं ज्येष्ठो प्यथोत्सिक्तो न राज्यमभिजायते’ (भा० उ० १।४९।१३)। प्रथमज इति न राज्येधिक्रियत इत्युक्तं भवति।
- ‘इषं स्वरभिजायन्त धूतयः’ (ऋ० १।१६८।२)। इषि स्वश्च निसर्गतोऽधिकृता भवन्तीत्यर्थः।
- ‘जायमानाऽभिजायते देवान्त्सब्राह्मणान्वशा’ (अथर्व० १२।४।१०)।
- ‘संभवत्यभिजातानामभिमानो ह्यकृत्रिमः’ (कथा० १८।५५)। अभिजाताः कुलोद्गताः=महति कुले संजाताः।
- ‘जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः’ (रघु० १७।४)। संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् (वदेत्)। उक्तोऽर्थः।
- ‘प्रजल्पितायामभिजातवाचि’ (कु० १।४५)। अभिजाता वल्गुर्मधुरा।
- ‘अभिजातं खल्वस्य वचनम्’ (विक्रम० १)। अभिजातं दक्षिण सदाक्षिण्यम्।
- ‘अभिजातमभिहितं देवेन’ (हर्ष०)। अभिजातमुदातं युक्तं सुन्दरम्।
- ‘क्षीणवृत्तेरभिजातस्येव मणेः’ (योग० सू० १।४०)। अभिजातस्य मणेः=अनुपहतप्रसादस्य स्वभावनिर्मलस्य स्फटिकस्य।
- ‘अभिजातं हि ते मन्ये यथा मातुस्तथैव च’ (रा० २।३५।१५)। अभिजातमभिजननं स्वभाव इति भूषणम्।
- ‘परचक्राभिजातस्य दुर्बलस्य बलीयसा’ (भा० शां० १३१।३)। परचक्रमभिजातं संमुखं यस्य, परचक्रेणाभिभूतस्येत्यर्थः।
- ‘मा शुचः सम्पदं दैवीमभिजातोसि पाण्डव’ (गीता० १६।५)। दैव्या सम्पदा सहैव जातोऽसीत्यर्थः।
- ‘सो भिजात्या च भक्त्या च’ (भा० द्रोण० ११०।६६)। अभिजातिराभिजात्यम्, कौलीन्यम्।
- ‘आढ्योऽभिजनवानस्मि’ (गीता० १६।१५)। अभिजन उच्चैः कुलम्।
- ‘तुल्योप्यभिजने जातो न कश्चित्पर्युपासते’ (भा० शां ३६०।७)।
- ‘पतिं देवं त्यक्त्वा भुवनपतिमुच्चैरभिजनम्’ (मुद्रा० ६।६)। अभिजनः कुलमन्वयोऽन्ववायः।
- ‘तुल्याभिजनेषु राज्ञां वृत्तिरीदृशी’ (माल० १)।
- ‘विवादे विद्याभिजनसम्पन्ना वृद्धा मेधाविनो धर्मेष्वविनिपातिनः’ (आप० ध० २।२९।५)।
- ‘श्रुतं तन्माहात्म्यं यदभिजनतो यच्च गुणतः’ (मालती० २।१३)। अभिजन आभिजात्यम्।
- ‘येषामभिजनं प्राप्य मतिः क्रोधसमन्विता’ (रा० ५।८७।१५)। उक्तोऽर्थः।
- ‘कल्याणाभिजनः साधुरदीनः सत्यवागृजुः’ (रा० २।१।२१)। कल्याणानां जन्मभूरित्यर्थः।
- ‘अभिजनो ह्येष वेतसावकयोः’ (मी० शा० भा० १।२।१।१०)। अभिजनः प्रभवः।
- ‘एष इत्यनेनैता आपः परामृश्यन्ते। विशुद्धवंशाभिजनाग्रहस्तः…राधवगन्धहस्ती’ (रा० ३।३१।४६)। अभिजनो जन्म।
- ‘अभिजनश्च’ (पा० ४।३।९०) इति सूत्रे भाष्ये निवासो नाम यत्र सम्प्रत्युष्यते। अभिजनो नाम यत्र पूर्वैरुषितम् इत्युक्तम्। वृत्तिश्च–अभिजनः पूर्वबान्धवः। तत्सम्बन्धाद्देशो प्यभिजन इत्युच्यत इति। पूर्वबान्धवेऽर्थे वृत्तिकारवचः प्रमाणम्।
- ‘सर्वो प्यभिजनः श्रीमाञ्श्रीमतः सत्यवादिनः’ (रा० २।१९।३६)। अभितो वर्तमानो जनः, परिजनः परिवार इत्यर्थः।
- ‘वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च’ (भा० उ० १२।१५)।
- ‘सह सा सहसाऽभिजनैः स्निग्धैः कुञ्जमन्दिरम्’ (सा० द० ७।१५ इत्यत्रोदाहरणम्)। उक्तोऽर्थः।
जल्प्
- {अभिजल्प्}
- जल्प् (जप जल्प व्यक्तायां वाचि)।
- ‘ये क्षन्तारो नाभिजल्पन्ति चान्यान्’ (भा० अनु० १०२।३१)। अपवदन्ति, निन्दन्तीत्यर्थः।
- ‘सोऽयमित्यभिसम्बन्धाद् रूपमेकीकृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते’ (वा० प० २।१२८)॥ निगदव्याख्यातम्।
जि
- {अभिजि}
- जि (जि जये, जि ज्रि अभिभवे)।
- ‘प्रामुं जयाऽभीमे जयन्तु’ (अथर्व० ६।१२६।३)। अभिजयन्तु शत्रूनभिमुखं गच्छन्तो जयं प्रतिपद्यन्तामित्यर्थः।
- ‘सर्वांल्लोकान्पशुबन्धयाज्यभिजयति’ (आप० श्रौ० ७।१।१।१)। पूर्वेण समोऽर्थः।
जीव्
- {अभिजीव्}
- जीव् (जीव प्राणधारणे)।
- ‘यस्य सीता भवेद्धार्या…। अभिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात्’ (रा० ३।३४।१८)। अभिजीवेत्=अभ्यधिकं जीवेत्।
ज्ञा
- {अभिज्ञा}
- ज्ञा (ज्ञा अवबोधने)।
- ‘पितृपक्षे ते पार्था मातृपक्षे च वृष्णयः। द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ’ (भा० उ० १४०।१०)॥
- ‘इदं तु नाभिजानामि तव धीरस्य नित्यशः’ (भा० उ० ५४।२)।
- ‘यथाहमभिजानीयां ब्राह्मणं लक्षणैः’ (भा० आदि० २८।९)।
- ‘न पापमभिजानासि साध्वी साधुव्रते स्थिता’ (भा० वि० ३।२२)। अभिजानासि जानासि। अपार्थोऽभिः।
- ‘कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिवादिनीम्’ (रा० २।९।३८)। नाभिजानामि न सम्यग् जानामि।
- ‘नहीदृशमहं भावमवशः प्राप्य केवलम्। यदेवमभिजानामि का व्यथा मे विजानतः’ (भा० शां० २२४।८)॥ उक्तोऽर्थः।
- ‘न पुत्रमभिजानामि त्वयि जातं शकुन्तले’ (भा० आदि० ७४।७३)। नाङ्गीकरोमि। ममेदमपत्यमिति नैव प्रतिपद्ये।
- ‘अहं तन्नाभिजानामि यत्कृतं न मया पूरा’ (भा० आदि० ९३।११)। उक्तोऽर्थः।
- ‘नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात्’ (रा० ४।६।२२)। अभिजानामि प्रत्यभिजानामि। परिचिनोमि।
- ‘अभिजज्ञे महाबुद्धिं (विदुरं) महाबुद्धिर्युधिष्ठिरः’ (भा० आश्रम० २६।२३)। प्रत्यभिजज्ञावित्यर्थः।
- ‘अभिज्ञानं नरेन्द्राणां विक्षतं प्रेक्ष्य संयुगे’ (भा० शल्य० ४।५)। अभिज्ञानम् केतुम्।
- ‘तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः’ (रघु० १२।६२)। अभिज्ञानं परिचायकं चिह्नम्।
- ‘वत्स योगिन्यस्मि मालत्यभिजानं धारयामि’ (मालती० )। अभिज्ञानम् प्रत्यभिज्ञानलक्षणम्।
- ‘पूर्ववृत्तमभिज्ञानं भूयः सम्प्रत्यभाषत’ (रा० ५।६८।१)। अभिज्ञानं संस्मरणम्।
- ‘राजभावस्त्वभिज्ञातो भवेत्’ (शा० १)। अभिज्ञातो विदित उद्भिन्नो विवृतः।
- ‘अभिज्ञावचने लृट्’ (पा० ३।२।११२)। अभिज्ञा स्मरणम्।
डी
- {अभिडी}
- डी (डीङ् विहायसा गतौ)।
- ‘आभिमुख्येन गमनमभिडीनं प्रचक्षते’ (भा० कर्ण० ४१।२७)।
तड्
- {अभितड्}
- तड् (तड आघाते)।
- ‘उल्काभिताडितशिखः शिखी शिवः’ (व० बृ० सं० ११।६१)। अभिताडिता ग्रस्ता।
- ‘वाक्शरैरभिताडितः’ (रा०)। आहतः क्षत इत्यर्थः।
तन्
- {अभितन्}
- तन् (तनु विस्तारे)।
- ‘तद्वो यामि द्रविणं सद्य ऊतयो सेना स्वर्ण ततनाम नृँरभि’ (ऋ० ५।५४।१५)। अभिततनाम=अभिततान् करवाम।
- ‘अभि व्रजं तत्निषे गव्यमश्व्यम्’ (ऋ० ९।१०८।६)। अभितत्निषे सन्दानितचरणं कुरु।
तप्
- {अभितप्}
- तप् (तप सन्तापे)।
- ‘तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत् समतपत्’ (गो० ब्रा० १।१।५)। अभ्यतपत्=ऊष्मणाऽकदर्थयत् सोष्मणोऽकरोत्, घर्ममन्वभावयत्।
- ‘घर्म इवाभितपन् दर्भ’ (अथर्व० १९।२८।३)। अभितस्सन्तापं कुर्वन्नित्यर्थः।
- ‘तस्मात् किमभितप्यन्तं वाक्शरैरुपकृन्तसि’ (भा० द्रोण० १५१।२७)। अभितप्यन्तं दुःख्यन्तम् दूयमानम्।
- ‘अभितप्तमयोपि मार्दवं भजते कैव कथा शरीरिषु’ (रघु० ८।४३)। अभितप्तम् उत्तप्तम्। सन्तप्तम्। सम्यक् तापं प्राप्तम्।
तर्ज्
- {अभितर्ज्}
- तर्ज् (तर्ज भर्त्स भर्त्सने)।
- ‘तां परुषै र्वाक्यैरभितर्ज्य’ (रा० ३।५५।३२)।
तस्
- {अभितस्}
- तस् (तसु उपक्षये)।
- ‘बृहस्पते अभि ये नस्ततस्रे’ (ऋ० ४।५०।२)। अभिततस्रे=अभितेसिरे=उपक्षपयामासुः=लुलुण्ठुः=मुमुषुः।
तृद्
- {अभितृद्}
- तृद् (उतृदिर् हिंसानादरयोः)।
- ‘अभ्यभि हि श्रवसा ततर्दिथोत्सम्’ (ऋ० ९।११०।५)। ततर्दिथ चकर्तिथ रेदिथ विववरिथ।
- ‘अभि गन्धर्वमतृणदबुध्नेषु रजःस्वा’ (ऋ० ८।७७।५)। अभ्यातृणत्=अहिनत्।
तॄ
- {अभितॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘उभा तेरते अभि मातरा शिशुम्’ (ऋ० १।१४०।३)। अभितेरते=उपेतः। तरतिरिह गतिसामान्ये प्रयुक्तः।
- ‘(हयाः) कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्’ (भा० द्रोण० ९।२०)। नाभ्यतरन् नासादयन्। नोपायन्।
त्यज्
- {अभित्यज्}
- त्यज् (त्यज हानौ)।
- ‘जनपदान्ते ध्रुवनिधिमापदर्थमभित्यक्तैः कारयेत्’ (कौ० अ० २।५।४)। अभित्यक्तो घोषितवधदण्डः।
दस्
- {अभिदस्}
- दस् (दसु उपक्षये)।
- ‘यो अस्माँ अभिदासति’ (ऋ० १०।९७।२३)। उपदासयतीत्यर्थः। छन्दस्युभयथेति शप आर्धधातुकत्वाण्णिलोपः।
- ‘यश्चैनमभिदासति’ (छां० उ० १।२।८)। पीडयतीत्यर्थः।
दिव्
- {अभिदिव्}
- दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
- ‘प्राणान्सत्यजतां युद्धे प्राणद्यूताभिदेवने’ (भा० शल्य० १५।८)। अभिदेवनम् अभिदेवनफलकं यत्राक्षैर्दीव्यते।
दिश्
- {अभिदिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
- ‘यां यामभ्यदिशत् सा सैनमकामयत’ (पञ्च० ब्रा० १२।११)। अभ्यदिशद् निरदिशत् प्रत्यवामृशत्। अभ्यध्यायदिति वा।
दीप्
- {अभिदीप्}
- दीप् (दीपी दीप्तौ)।
- ‘सोस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः। तस्तम्भे बाणजालेन’ (हरि० २।७३।४६)॥ अभिदीप्यन्तम्=अभिदीप्यत्, अभिमुखं ज्वलत्। अभिदीप्यन्तमापतन्तमिति पुंसि प्रयोगौ दुष्यतः।
दृश्
- {अभिदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः’ (भा० अनु० २३।४)। अभिदृष्टमभिलक्षितं दृग्विषयीभूतम्।
- ‘द्रौपद्या नः सहासीनान् अन्योन्यं योऽभिदर्शयेत्। स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत्’ (भा० आदि० २१२।२९)॥ अभिदर्शयेदात्मानमिति शेषः। अन्योऽन्यस्य संमुखे संनिदधीतेति तात्पर्यार्थः।
- ‘गिरिमिमं सदा। नाशक्नुवन्नभिद्रष्टुं कुत एवाधिरोहितुम्’ (भा० वन० ११०।१४)॥ अभिद्रष्टुमुल्लोकयितुम्। उदोर्थेऽभिः।
- ‘स यैः स्पष्टोऽभिदृष्टो वा संविष्टोऽनुगतोपि वा’ (भा० पु० ९।११।२२)। अपार्थोऽभिः। दृष्ट इत्येवार्थः।
- ‘यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः’ (मार्क० पु० २३।८९)। इहापि नार्थोऽभिना। अभिद्रष्टुं मनः प्रवणं कुरुते=दर्शनोन्मुखं करोति दर्शनोत्को भवति दिदृक्षत इति यावत्। अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः।
- ‘शङ्काऽसतां तु संसर्गात् तत्त्वं होढाभिदर्शनात्’ (याज्ञ० २।५ इत्यत्र मिताक्षरायामुद्धृतं नारदवचनम्)।
द्युत्
- {अभिद्युत्}
- द्युत् (द्युत दीप्तौ)।
- ‘अभिद्योतिष्यते रामो भवन्तमचिरादिह’ (भट्टि० ८।८९)। अभिद्योतिष्यते त्वदन्तिके विराजिष्यते। अभिः सामीप्यमाह।
द्रा
- {अभिद्रा}
- द्रा (द्रा कुत्सायां गतौ)।
- ‘न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु’ (ऋ० ८।४७।७)। अभिद्रासत् आसादयति। द्रातेः पञ्चमे लकारे तिपि रूपम्।
द्रु
- {अभिद्रु}
- द्रु (द्रु गतौ)।
- ‘सिन्धो यद्वाजाँ अभ्यद्रवस्त्वम्’ (ऋ० १०।७५।२)। अभ्यद्रवः=अभ्यधावः।
- ‘अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः’ (भा० वि० ३३।४)। उक्तोऽर्थः।
- ‘पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्नहि समुपैति रिक्तताम्’ (शिशु० १७।४०)। भुवं पयसि जलेऽभिप्लवमाने सतीत्याह।
- ‘अभिद्रवत्ययस्कान्तमयो निश्चेतनं यथा’ (भा० शां० २११।३)। अभिद्रवति अभिमुखं सरति।
- ‘मकरन्देन प्रतिहतो जामाता बलात्कारेणाभिद्रवन्’ (मालती० ७)। अभिद्रवन् उपद्रवन् आस्कन्दन्।
- ‘गजा इवान्योन्यमभिद्रवन्तः’ (मृच्छ०)। उक्तोऽर्थः।
- ‘अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्’ (रा० २।८।३६)। अभिद्रुतम् आक्रान्तमास्कन्नम्।
- ‘जन्ममृत्युजराव्याधि-वेदनाभिरभिद्रुतम्। अपारमिव चास्वस्थं संसारं त्यजतः सुखम्’ (भा० शां० ९।३३)॥ अभिद्रुतमाक्रान्तं परीतमुपहतम्।
- ‘अपरेद्युरुद्यति द्युमणावुद्दामद्युतावभिद्रुततारके’ (हर्ष० उ० १)। अभिद्रुतास्तारका न्यक्कृतास्ताराः।
- ‘अभिद्रवणमाप्लावमवस्थानं सविग्रहम्’ (रा० ६।४०।२५)। अभिद्रवणं युद्धमार्गविशेषः। भारते शल्यपर्वणि ५७।१९ इत्यत्रापि गदायुद्धाङ्गत्वेनोपन्यस्तम्। वेगेनाभ्यागमनमर्थः।
द्रुह्
- {अभिद्रुह्}
- द्रुह् (द्रुह जिघांसायाम्)।
- ‘अभिद्रुग्धा परे चेन्नो भेतव्यं परन्तप’ (भा० उ० ५५।१८)। अभिद्रुग्धा जिघांसिता द्रोहविषयं नीताः।
- ‘मया पूनरेभ्य एवाभिद्रुग्धमज्ञेन’ (उत्तर० ६)। उक्तोऽर्थः। चतुर्थी तु दुरुक्ता। द्वितीया तु युक्ता।
- ‘नित्यमस्मच्छरीरमभिद्रोग्धुं यतते’ (मुदा० १)। पूर्वेण समोर्थः।
धा
- {अभिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘चकितमभिधत्ते श्रुतिरपि’ (महिम्नः २)। वर्णयति निर्दिशति निरूपयति।
- ‘अभिधास्ये च ते राजन्नक्षय्यं द्रव्यमुत्तमम्’ (भा० आश्व० ७।२४)। अभिधास्ये वक्ष्ये कथयिष्ये।
- ‘कोऽभिधास्यति…स्वयमात्मनः स्तवे कथाम्’ (रा० ३।३५।२२)।
- ‘प्रभवन्तं पदस्थं च परुषं कोऽभिधास्यति’ (रा० ६।१२।७)। उक्तचर एवार्थः। साक्षात्संकेतितं योर्थमभिधत्ते स वाचकः।
- ‘तन्नाम येनाभिदधाति सत्त्वं तदाख्यातं येन भावम्’ (ऋक् प्रा० १२।५)। निगदव्याख्यातम्।
- ‘केनोत्क्रमते कथं बाह्यमभिधत्ते कथमध्यात्मम्’ (प्रश्नोप० ३।१)। अभिधत्ते धारयति यच्छति।
- ‘रशनाभिर्दशभिरभ्यधीताम्’ (ऋ० १०।४।६)। अबध्नीताम् (तस्करौ)। अभिपूर्वो दधातिश्छन्दसि बहुलं बन्धने वर्तते।
- ‘इमाश्च काश्चन दिशः–प्रतूर्त्तं वाजिन्नाद्रवेत्यश्वमभिदधाति’ (तै० सं० ५।१।२।१)।
- ‘रज्ज्वा वै वत्सं च मातरं चाभिदधाति’ (जै० ब्रा० १।१९)।
- ‘यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया’ (अथर्व० ३।११।८)।
- ‘शतेन पाशैरभिधेहि वरुणैनम्’ (अथर्व० ४।१६।७)।
- ‘भ्रातृव्यगवीं वाऽभिदध्याद् गोष्ठे वा न्यसेत्’ (सत्या० श्रौ० २२।२।२६)।
- ‘अभि तं निर्ऋतिर्धत्तामश्वमिवाश्वाभिधान्या’ (अथर्व० ४।३६।१०)।
- ‘मुञ्च गां वरुण पाशात् द्विषन्तं मेऽभिधेहि’ (गो० गृ० ४।१०।१८)। मन्त्र ब्रा० २।८।१३ इत्यत्राप्पेवम्।
- ‘जीवान्नो अभि धेतनादित्यासः पुरा हथात्’ (ऋ० ८।६७।५)। रिरक्षिषया परीत नः, परितो नोऽवस्थिता भवतेत्याह।
- ‘विजित्य युधि कौन्तेयो मगधानभ्यधाद् बली’ (भा० सभा० ३०।१६)। सेनयाऽरुधदित्यर्थः।
- ‘पतिर्यद् वध्वो वाससा स्वमङ्गमभिधित्सते’ (ऋ० १०।८५।३०)। अभिधित्सते परिधातुमावरीतुमिच्छतीत्युक्तं भवति।
- ‘ददर्श गां (भुवम्) तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त’ (भा० पु० ३।१३।१०)। अभ्यधत्त प्रतिसमहरत्, अन्तरधापयत्।
- ‘मा कस्मै धातमभ्यमित्रिणो नः’ (ऋ० १।१२०।८)। अभिधातम् परादातम्।
- ‘बृहस्पते यो नो अभि ह्वरो दधे’ (ऋ० २।२३।६)। ह्वरो जिह्मता। तदस्मदमिमुखी करोति, तल्लक्ष्यं नः करोतीत्यर्थः।
- ‘अभि वो देवीं धियं दधिष्व प्र वो देवत्रा वाचं कृणुध्वम्’ (ऋ० ७।३४।९)। उक्तोऽर्थः।
- ‘योऽभिधास्यति’ (भा० पु० ९।१८।३७)। अभितो धारयिष्यतीत्यर्थः। तेनाभिहितम्। मयाऽभिहितम्। तेनोक्तम्। मयोक्तमित्यर्थः।
- ‘यत्र वह्निरभिहितो दुद्रवद् द्रोण्यः पशुः’ (ऋ० ५।५०।४)। अभिहितो धुरि युक्तः।
- ‘पुनरभिहितो रथः पुनरुत्स्यूतं’ (आप० श्रौ० ५।२९।३)। अभिहितो युक्तस्तुरङ्गैः।
- ‘सर्वाः प्रजा रश्मिभिः प्राणेष्वभिहिताः’ (श० ब्रा० २।३।३।७)। अभिहिता बद्धाः।
- ‘यदि स्थ तमसावृता जालेनाभिहिता इव’ (अथर्व० १०।१।३०)। उक्तोऽर्थः।
- ‘ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति’ (श० ब्रा० ६।३।१।२६)। पूर्वोदित एवार्थः।
- ‘अथो यो अर्वतः शिरोऽभिधाय निनीषति’ (अथर्व० १९।५०।५)। अभिधाय बद्ध्वा।
- ‘तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्’ (अथर्व० ८।८।५)। अभिधाय परिवेष्ट्य।
- ‘वागेव मे नाभिधेयविषयमवतरति त्रपया’ (काद०)। अभिधेयं वक्तव्यम् प्रतिपाद्यम्।
- ‘पूर्वमेवाक्षरं (अक्षरं श्रेयः) चान्यदभिधेयं ततः परम्’ (भा० अनु० ६९।९)। अभिधेयं वाच्यं निन्द्यम्।
- ‘भवताप्यकृपणशौण्डीर्यमभिधातव्यम्’ (मृच्छ०)। अभिधातव्यं वक्तव्यम्।
- ‘एतावतामर्थानामिदमभिधानम्’ (नि० १।२०)। अभिधानं नाम, वाचकम्।
- ‘अभिधानं मम माल्यवानितीदम्’ (कथा० ७।११२)। अभिधानं नामधेयं समाख्या।
- ‘षट्पादतन्त्री मधुराभिधानम्’ (रा० ४।२८।३६)। अभिधानं गानम्।
- ‘अभिधानप्रगल्भस्य तव प्रत्ययघातिनी’ (रा० ३।३०।३)। अभिधानप्रगल्भस्य वाचि प्रौढस्य, प्रवचनपटोः।
- ‘समुत्पन्नाभिधानोस्मि वाङ्माधुर्येण तेऽनघ’ (भा० शां० ३५४।१)। समुत्पन्नाभिधानो जातबन्धनः।
- ‘अश्वाभिधानीमादत्ते’ (तै० सं० ५।१।२।१)। अभिधानी बन्धनरज्जुः।
- ‘ते मौञ्जीभिरभिधानीभिरभिहिता भवन्ति’ (श० ब्रा० ६।३।१।२६)। उक्तोऽर्थः।
- ‘अभिधानी निदाने चत्वारि विशाखदामानि’ (सत्या० श्रौ० २४।२।६)। अभिधानी गोबन्धनार्था रज्जुः। निदाने पादबन्धनार्थे रज्जू। वत्सबन्धनार्थानि द्विशिरस्कानि दामानि। अभिधा व्यञ्जना लक्षणा इति तिस्रो वृत्तयः। अयं शब्द इममर्थमभिदधात्विति संकेतोऽभिधा।
- ‘अभिधा असि भूवनमसि यन्ताऽसि’ (तै० सं० ७।१।११।१)। अभिधा इति विच्प्रत्ययान्तम्। हेऽश्व त्वं बन्धनीयोसीत्याह।
- ‘मालेति चेद् ब्रूयुः स्रगित्यभिधापयीत’ (आश्व० गृ० ३।८।१३)। अभिधापयीत अभिधापयेत् उच्चारयेत्।
धाव्
- {अभिधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘एष वृषा कनिक्रदद् दशभिर्जामिभिर्यतः। अभि द्रोणानि धावति’ (ऋ० ९।२८।४)। अभिधावति=अभित्वरते।
- ‘कान्तेव कृतसङ्केता (नदी) समुद्रमभिधावति’ (रा० ४।४१।२४)।
- ‘प्रदीप्य यः प्रदीप्ताग्निं प्राक् चिरं नाभिधावति। भस्मापि न स विन्देत शिष्टं क्वचन भारत’ (भा० सभा० ६४।१०)॥ अभिधावति=अभित इतस्ततो धावति।
- ‘मरीचितोयप्रायांस्तान् एवाभिधावति’ (भा० पु० ५।१४।१०)। अनुध्यायंस्तान् प्रति सरभसं प्रवर्तते।
- ‘ग्रामघाते हिताभङ्गे पथिमोषाभिदर्शने। शक्तितो नाभिधावन्तो निर्वारया सपरिच्छदाः’ (मनु० ९।२७४)॥ अभिधावन्तो रक्षार्थमभित्वरमाणाः। हिताभङ्गे जलसेतुभङ्गे इति कुल्लूकः। क्षेत्रोत्पन्नसस्यनाशने वृतिभङ्गे चेति तु मेधातिथिः।
धृ
- {अभिधृ}
- धृ (धृञ् धारणे)।
- ‘युध्यमानं महेष्वासं…सर्वे ते नाभ्यधारयन्’ (भा० भीष्म० १०९।९)। नाभ्यधारयन् नासहन्त।
धृष्
- {अभिधृष्}
- धृष् (ञिधृषा प्रागल्भ्ये धृष प्रसहने)।
- ‘न बहवः समशकन्नार्भका अभि दाधृषुः’ (अथर्व० १।२७।३)। नाभिदाधृषुः=न प्रसेहिरे=नाधिचक्रिरे नाभिबभूवुः। अर्भकाः=अल्पाः।
- ‘तान्नाभ्यधृष्णुवन्’ (काठक० २५।६)। जिधृषोपि धर्षणेऽर्थे प्रयोगः।
- ‘ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन्’ (भा० आश्व० ३।७)। उक्तोऽर्थः।
ध्मा
- {अभिध्मा}
- ध्मा (ध्मा शब्दाग्निसंयोगयोः)।
- ‘अभि दस्युं वकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय’ (ऋ० १।११७।२१)। अभिधमन्त उपधमन्तो वातेनाग्निं संयोजयन्तः।
ध्यै
- {अभिध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘तं (सोमं) देवाश्च ऋषयश्चाभ्यध्यायन् कथमयमस्मान् सोमो राजागच्छेदिति’ (ऐ० ब्रा० १।२७)। अभ्यध्यायन् निरन्तरमचिन्तयन्।
- ‘तासां रोहिणीमभ्यध्यायत्’ (तै० बा० ३।१।४।२)।
- ‘या वै श्रीरभ्यध्यासिषमिमास्ताः’ (श० ब्रा० ६।२।१।७)। उदितचर एवार्थः।
- ‘यं यं देवमभिध्यायेद् भक्तियुक्तेन चेतसा’ (वराह पु० १६९।४०)। पूर्वेण समोऽर्थः।
- ‘प्रजापतिर्वै स्वां दुहितरमभ्यध्यायत् दिवमित्यन्य आहुरुषसमित्यन्ये’ (ऐ० ब्रा० ३।३३)। भार्यात्वेन ध्यानमकरोदिति सायणः।
- ‘प्रजापतिर्वै स्वां दुहितरमभिदध्यौ। दिवं वोषसं वा। तां सम्बभूव’ (श० ब्रा० १।७।४।१)। अभिदध्यौ चकमे कामयाञ्चक्र इत्यर्थः।
- ‘अग्निर्ह ता अपोऽभिदध्यौ मिथुन्याभिः स्यामिति’ (श० ब्रा० २।१।१।५)।
- ‘इमाश्च कामेऽर्थेऽभिध्यायतेर्दिशः काश्चन दृश्याः– सोमो वै राजा दिशोऽभ्यध्यायत् स दिशोऽनुप्राविशत्’ (तै० सं० ६।४।४।१८)।
- ‘यज्ञो दक्षिणामभ्यध्यायद्’ (तै० सं० ६।१।३।२२)।
- ‘स पुनरिमं लोकमभ्यध्यायत्’ (तै० सं० १।५।९।४)।
- ‘आपो वरुणस्य पत्नय आसन् ता अग्निरभ्यध्यायत्’ (तै० ब्रा० १।१।३।८)।
- ‘ता (अपः) अग्निरभ्यध्यायत्’ (तै० ब्रा० १।१।३।८) इति।
- ‘आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी’ (रा० २।१६।२१)। अभिध्यायन्तीत्यर्थः। इह परार्थस्य सतृष्णं चिन्तनं नार्थः। चिन्तनमात्रं त्वर्थः।
- ‘स यद्येनं मनसाऽभिध्यातः। यज्ञो नोपनमेत्’ (श० ब्रा० १२।६।१।३)। अभिध्यातः संकल्पितः, चिन्तितः।
- ‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः’ (मनु० १।८)। अभिध्याय विचिन्त्य।
- ‘तथा तदनभिध्येयं वाक्यं यादवनन्दन’ (भा० शां० ४६।२७)। अनभिध्येयम् अविचारणीयम्।
- ‘अभिध्योपदेशाच्च’ (ब्रह्म सू० १।४।२४)। अभिध्या=इच्छा।
- ‘न चाचिकीर्षीत्परवस्त्वभिध्याम्’ (बुद्ध० २।४४)। ममेदमस्त्विति सङ्कल्पोऽभिध्या।
- ‘अभिध्या वै प्रथमं हन्ति लोकान्’ (भा० उ० ४२।११)। अभिध्या विषयस्मरणम्।
- ‘कामाभिध्या स्वशरीरं दुनोति’ (भा० उ० २६।५)। कामाभिध्या विषयध्यानम्। अभिध्या तु परस्य विषये स्पृहेत्यमरः।
- ‘अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्’ (भा० अनु० १३।५)। अनभिध्याऽलोभ।
- ‘अभिध्याऽप्रख्यता चैव सर्वं लोभात्प्रवर्तते’ (भा० शां० १५८।५) अभिध्या चिन्ता दौर्मनस्यम्।
- ‘ईश्वरस्तमनुगृह्णात्यभिध्यानमात्रेण’ (योगसूत्रे १।२३ भाष्ये)।
- ‘परद्रव्येष्वभिध्यानम्’ (मनु० १२।५)। परधनमन्यायेन गृह्णामीत्येवं चिन्तनम्।
- ‘यो निर्वदेत संमोहाद् ब्राह्मणं वेदपारगम्। सोऽभिध्यानाद् ब्राह्मणस्य पराभूयादसं शयम्’ (भा० शां० ३२७।५०-५१)॥ अभिध्यानात् शापाद्, अनुव्याहारात्।
ध्वंस्
- {अभिध्वंस्}
- ध्वंस् (ध्वंसु अवस्रंसने, गतौ च)।
- ‘पुत्राधिभिरभिध्वस्ताम्’ (भा० उ० ९०।९०)। मनः पीडारजोवकीर्णाम् इत्याह। अभिप्लुतामिति पाठान्तरम्।
- ‘निशोऽभि वातमभिध्वंसयन् परीयात्’ (काठक० ११।६)।
- ‘यदभिध्वंसयेत्पात्राणि’ (काठक० २७।८)। उक्तोऽर्थः।
नद्
- {अभिनद्}
- नद् (नद शब्दे)।
- ‘अन्येऽन्तरिक्षेऽभ्यनदन् घर्मान्त इव तोयदाः’ (भा० सभा० १२७।१४८)। अभ्यनदन् आक्रोशन्, उच्चैराक्रन्दन्।
- ‘ननाद च महानादं त्रैलोक्यमभिनादयन्’ (हरि० २।१२६।१५)। प्रतिशब्दितं कुर्वन्।
- ‘किन्नरोद्गीतमधुराः प्रतिश्रुत्याभिनादिताः’ (वाचः) (हरि० २।२८।४१)। अभिनादिता नादेन पूर्णाः।
नन्द्
- {अभिनन्द्}
- नन्द् (टुनदि समृद्धौ)।
- ‘दैवहता बहुबुद्धयो विनश्यन्ति स्वल्पधियोपि विधिरक्षिता अभिनन्दन्ति’ (पञ्चत० )। अभिनन्दन्ति स्मृध्यन्ति।
- ‘रिपुं निहत्याभिननन्द वै तदा। ह्यलम्बुषं पक्वमलम्बुषं यथा’ (भा० द्रोण० १०९।३६)॥ अभिननन्द जहर्ष।
- ‘अभिनन्दन्ति भूतानि विनाशे पापकर्मणः’ (रा० ५।२१।१३)। नन्दन्ति प्रसीदन्तीत्यर्थः।
- ‘नाभिनन्दन्ति केलिकलाः’ (मालती० ३)। केलिकलासु न रमन्त इत्यर्थः।
- ‘आत्मविडम्बनामभिनन्दन्ति’ (काद०)। विडम्बनया तुष्यन्ति, तां रोचयन्ते।
- ‘अतस्ते वचो नाभिनन्दामि’ (शा० २)। न रोचये, नेदमभिमतं ममेत्यर्थः।
- ‘नाभिनन्देत मरणं नाभिनन्देत जीवितम्’ (मनु० ६।४५)। अभिनन्देत=अभिनन्देत् इच्छेत्। नोभयेन प्रतिहृष्येत्, उभयत्रोदासितः स्यादित्यर्थः।
- ‘अचिन्त्यं शीलगुप्तानां चरित्रं कुलयोषिताम्। इति चाभिननन्दुस्तामुपकोशां सभासदः’ (कथा० ४।८३)॥ अभिननन्दुः प्रशशंसुः शश्लाघिरे। साध्वित्यवदन्।
- ‘ततोऽभ्यगच्छत् सहसा मन्दपालोपि भारत। अथ ते सर्व एवैनं नाभ्यनन्दंस्तदा सुताः’ (भा० आदि० २३३।२०)॥ नाभ्यनन्दन् नान्वमोदन्त, न मुदा प्रत्यगृह्णन्।
- ‘हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः’ (भा० उ० १४९।२५)। तत्र तल्लक्षणे राज्ञि न प्रसीदन्तीत्याह।
- ‘वर्षोपवर्षौ तद् बुद्ध्वा साध्वीं तामभ्यनन्दताम्’ (कथा० ४।८६)। दानमानाभ्यां पर्यतोषयताम् इत्यर्थः।
- ‘अभिनन्दस्व गच्छेयम्’ (रा० ४।१०।३३)। अभिनन्दस्व अभिनन्द अनुमन्यस्व। गमनं मेऽनुजानीहीत्याह।
- ‘सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति’ (मनु० ८।५४)। नाभिनन्दति न प्रतिपद्यते नाभ्युपैति। न समाधत्त इति तु कुल्लूकः।
- ‘यन्मे बभस्ति नाभिनन्दति’ (अथर्व० ९।२।२)। नाभिनन्दति न रोचते, नाह्लादयति।
- ‘गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः। श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः’ (शा० ३।२१)॥ अभिनन्दिता अनुमोदितकर्माणः।
- ‘द्वावप्यभूतामभिनन्द्यसत्त्वौ’ (रघु० ५।३१)। अभिनन्द्यं स्तुत्यं प्रशस्यम्, वन्द्यम्।
- ‘आशीर्भिश्चाभिन्द्यैतां जग्मुर्नगरमेव हि’ (भा० आदि० १४५।१८)। अभिनन्द्याभिवर्ध्य।
- ‘अभिनन्दा विष्फुलिङ्गाः’ (श० ब्रा० १४।९।१।१६)। अभिनन्दाः प्रमदानुभूतयः।
- ‘दाहप्रपाकौ शिशिराभिनन्दा धूमायनं पित्ताभिपन्ने नयने भवन्ति’ (सुश्रुत० २।२१३)। अभिनन्दोऽभिलाषः, कामः।
नम्
- {अभिनम्}
- नम् (णम् प्रह्वत्वे शब्दे च)।
- ‘देवान्वै यज्ञो नाभ्यनमत्’ (शाङ्खा० ब्रा० १०।१)। देवान् प्रति प्रवणो नाभूदित्यर्थः। अभिनत इवोदरेण (क्षुधितः)। अभिनतो भुग्नः।
नश्
- {अभिनश्}
- नश् (णश अदर्शने)।
- ‘छन्दसि तु व्याप्तौ वर्तते। मा नो दीर्घा अभिनशन् तमिस्राः’ (ऋ० २।२७।१४)। निगदव्याख्यातम्।
नह्
- {अभिनह्}
- नह् (णह बन्धने)।
- ‘यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय’ (छां० उ० ६।१४।१)। अभिनद्धाक्षः पटसंवृताक्षः।
- ‘तस्य यथाभिनहनं प्रमुच्य प्रब्रूयात्’ (छां० उ० ६।१४।१)। अभिनहनं बन्धनम्।
नी
- {अभिनी}
- नी (णीञ् प्रापणे)।
- ‘अभि सूयवसं नय’ (ऋ० १।४२।८)। अभिनय=इतो नय।
- ‘स नः स्वर्गमभि नेष लोकम्’ (अथर्व० १२।३।१६)। अभिनेष=नय। पञ्चमो लकारः।
- ‘सरस्वत्यभि नो नेषि वस्यो’ (ऋ० ६।६१।१४)। अभिनेषि समीपं नय।
- ‘ऽभि मा वपुर्दृशये निनीयात्’ (ऋ० ७।८८।२)। अभिनिनीयात्=प्रापयेत्।
- ‘सूदारालिकव्यञ्जनो वा रसप्रयोगार्थं राजवचनमर्थं चास्य लोभनीयमभिनयेत्’ (कौ० अ० १२।२।२३)। अभिनयेत् संमुखं नयेत्।
- ‘केनोपायेन वै शक्यम्’ (रा० २। )। इत्यादिना राज्ञश्चिन्तामभिनयति (इति तत्र रामष्टीकाकारः)। स्वरूपमुपन्यरयतीत्यर्थः। क्रोधमभिनयति। क्रोधमाभिमुख्यं नयति नाटयतीत्यर्थः।
- ‘दृष्ट्वा शरं ज्यामभिनीयमानम्’ (भा० वन० १९।२०)। अभिनीयमानम् आरोप्यमाणम्।
- ‘मित्रार्थमभिनीतस्त्वम्’ (रा० ४।२८।१३)। अभिनीतः प्रवणोऽनुकूलः।
- ‘आशंसा प्रधारितोऽर्थोऽभिनीतश्चानभिनीतश्च’ (पा० ३।३।१३२ सूत्रे भाष्ये)। अभिनीतः कारणयोग्यवशाच्छक्यप्राप्तिः।
- ‘एतावदभिनीतार्थमुक्त्वा स जननीं वचः’ (रा० २।३९।३६)। अभिनीतार्थं निर्णीतार्थम्।
- ‘वाक्यं हितमुवाचेदमभिनीतार्थमर्थवत्’ (भा० शां० १३८।७२)। अभिनीतार्थं युक्तार्थम्। युक्तेऽतिसंस्कृते मर्षिण्यभिनीत इत्यमरः।
- ‘तटाभिनीतेनाम्भसा’ (कि० ८।३२)। तटाभिमुखं नीतं तटाभिनीतम्।
- ‘अभिनीताश्च शिक्षाभिः’ (गजाः) (भा० भीष्म० ४६।९)। अभिनीता अभिविनीताः शिक्षिताः।
- ‘अभिनीतानि शस्त्राणि’ (भा० शां० १००।१०)। संस्कृतानीत्यर्थः।
- ‘गीतानि रम्याणि जगुः प्रहृष्टाः कान्ताभिनीतानि मनोहराणि’ (हरि० ८४४८)। अभिनीतान्यङ्गचेष्टाविशेषैर्युतानि।
- ‘अक्षिभ्रुवौष्ठहस्तैरभिनीतं’ (पठेत्) (सुश्रुत० १।१३।६)। उक्तोऽर्थः।
- ‘राजापथ्यकारिणोऽमात्यराक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि’ (मुद्रा० १।५)। अभिनीय प्रापय्य।
- ‘श्रावितोस्मि श्रियं शत्रोरभिनीय च दर्शितः’ (मुद्रा० ६।१५)। अभिनीय=इहानीय।
- ‘तान् ब्राह्मणान्स्वभवनमभिनीय’ (अवदा० जा० १३)। उक्तोऽर्थः।
- ‘ते ह्यपरिगृहीतमभिनीय विक्रीणीरन्’ (कौ० अ० ५।२।२५)। अभिनीय दर्शयित्वा।
- ‘ते भिनीयैवाहः पशुमालभन्त। तेनाभिनीयैव रात्रेः प्राचरन्’ (तै० ब्रा० १।५।६।९)। अभिनीय=परिणमय्य=नीत्वा=गमयित्वा (इति सं० शार्० को०)। प्राप्येति तु सायणः।
- ‘अभिनीय निशां प्रातः प्रतिष्ठामहे’ (बृ० श्लो० सं० ८।३०)। अभिनीय नीत्वेत्यर्थः। नार्थोऽभिना।
- ‘श्रुतिमभिनीय’ (शा० ३ इत्यत्र कविवाक्यम्)। श्रवणं प्रयोगेण दर्शयित्वा, किञ्चिच्छ्रूयत इति रूपयित्वा।
- ‘शिक्षा नरः समिथेषु प्रहावान् वस्वो राशिमभिनेतासि भूरिम्’ (ऋ० ४।२०।८)। अभिनेतासि=आहर्तासि। ताच्छील्ये तृन्नन्तमेतत्।
- ‘तद्यत्तत्र यजुः पुरस्तादेत्यभिनेतैव तदेति’ (श० ब्रा० १०।१।१।४)।
- ‘आभिमुख्यं नयन्नर्थान् विज्ञेयोऽभिनयो बुधैः’ (अग्निपु० ३४१ तमे अध्याये)। आभिमुख्यं नयन्=स्वरूपमुपन्यस्यन्।
- ‘ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः’ (विक्रम० २।१८)। भावव्यञ्जकोङ्गचेष्टाविशेषोऽभिनयः।
- ‘स्वर्गस्य लोकस्याभिनीत्यै’ (तै० सं० ६।६।१।१)।
- ‘श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिम्’ (नारा० ६१।३)। नाकर्णयाम इत्यङ्गचेष्टितेन दर्शयामासुः।
नु
- {अभिनु}
- नु (णु स्तवने)।
- ‘अभी नवन्तेऽद्रुहः प्रियमिन्द्रस्य काम्यम्’ (ऋ० ९।१।१००)।
- ‘अभि त्वा शूर नोनुमः’ (ऋ० ७।३२।२२)। भृशं पुनः पुनर्वा स्तुम इत्यर्थः।
नुद्
- {अभिनुद्}
- नुद् (णुद प्रेरणे)।
- ‘दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला’ (भा० आश्व० ५८।२९)। अभिनुन्नम्=अभितः क्षिप्तम्।
- ‘ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम्’ (भा० आश्व० ५२।१)। अभ्यनोदयत् प्रैरयत् प्राचोदयत्।
- ‘तां यदर्वाचीमभिनुदन् गायत्यात्मन्नेव तद् वाचं प्रतिष्ठापयति’ (जै० ब्रा० १।१०२)।
नू
- {अभिनू}
- नू (णू स्तवने)।
- ‘अभि वाणी र्ऋषीणां सप्त नूषत’ (ऋ० ९।१०३।३)। अभिनूषत स्तुवीत।
- ‘स्वर्विदो अभ्यनूषत व्राः’ (अथर्व० २।१।१)। आभिमुख्येन स्तुवन्तीत्यर्थः।
- ‘तमापो अभ्यनूषत वत्सं संशिश्वरीरिव’ (ऋ० ८।५८।११)।
- ‘अभि कण्वा अनूषतापो न प्रवता यतीः’ (ऋ० ८।६।३४)।
पच्
- {अभिपच्}
- पच् (डुपचष् पाके)।
- ‘क्षीरं स्थालीगतमभिपच्यमानम्’ (सुश्रुत० १।१४९।११)। अभिपच्यमानं श्रप्यमाणम्। श्रीयमाणम्। श्रीञः कर्मणि शानचि रूपम्।
पत्
- {अभिपत्}
- पत् (पत्लृ गतौ)।
- ‘तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः’ (रा० २।३४।१८)। अभ्यागतवान् इत्यर्थः।
- ‘अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्’ (रा० २।७७।१०)। अभिपेतुरभिमुखं ययुः।
- ‘यं सत्यसन्धं सहसाऽभिपेतुर्दिदृक्षया चारणसिद्धसङ्घाः’ (भा० वन० २४।२२)। अभिपेतुरभिजग्मुः।
- ‘यदि वृक्षादभ्यपप्तत्फलं तत्’ (अथर्व० ६।१२४।२)। अभ्यपप्तत्=न्यपतत्=अवापतत्।
- ‘एकेनैव शतस्यैष पातेनाभिपतिष्यति। हंसस्य पतितं काकः…’ (भा० कर्ण० ४१।३६)॥ अतिपतिष्यतीत्यर्थः। अतेरर्थेऽभिः।
- ‘पुत्राणां नेत्रेभ्यो दुःखादभ्यपतज्जलम्’ (भा० द्रोण० १४६।१३२)। अभ्यपतत्=अवास्यन्दत।
- ‘वैनतेयो यथा पक्षी गरुत्मान् पततां वरः। तथैवाभिपतिष्यामि भयं वो नेह विद्यते’ (भा० वन० १२।९०)॥ अभिपतिष्यामि उपद्रोष्यामि आस्कन्त्स्यामि।
- ‘वधायाभिपपातैनान्’ (भा० आदि० १५३।२०)।
- ‘पत्तिं पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्। यन्ता गजस्याभ्यपतद् गजस्थम्…’ (रघु० ७।३७)॥ उक्तोऽर्थः।
- ‘(क्षिप्ता) शक्तिरभ्यपतद् वेगाल्लक्ष्मणे’ (रा० ६|८०|३४)। अभ्यपतत् अपतत्। नार्थोऽभिना।
- ‘एकेनाभिपतत्यह्ना योजनानि चतुर्दश’ (भा० ५।३०५१)। अभिपतति=अतिक्रामति।
- ‘हन्तुमभिपतति पाण्डुसुतम्’ (कि० १२।३६)। अभिपतति=अभित्वरते।
- तदेवासनमन्विच्छेद्यत्र नाभिपतेत् परः’ (भा० वि० ४।१३)। अभिपतेत् ममेदमिति कृत्वा तदभिमुख आगच्छेत्। अभिषजेत् परम् इति पाठान्तरम्। अभिषजेत् परिभवेत्।
- ‘सारथिं चाभ्यपातयत्’ (भा० भीष्म० ४५।१५)। न्यपातयदित्यर्थः।
- ‘मुक्तशापश्च राजर्षिः कालेन महता ततः। ऋतुकालेऽभिपतितो मदयन्त्या निवारितः’ (भा० आदि० १८२।२४)॥ अभिपतितः संभवायोपेतः।
- ‘अभिपतितुमना लघूत्वभीतेः’ (शिशु० ७।५१)। अभिपतितुमना अपसर्तुकामा।
- ‘वियदभिपातलाघवेन’ (कि० ७।२१)। अभिपातो विहरणम्।
- ‘नूनं प्रियाया मम नाभिपातः’ (रा० ३।६३।८)। अभिपातो नाशः।
- ‘भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः। दीनाभिपातिनः…’ (भा० वन० ६।२३)॥ दीनपक्षपातिनः। अभिरानुकूल्ये।
पद्
- {अभिपद्}
- पद् (पद गतौ)।
- ‘यथर्तु लिङ्गान्यृतव: स्वयमेवर्तुपर्यये। स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः’ (मनु० १।३०)॥ अभिपद्यन्ते प्राप्नुवन्ति।
- ‘तस्याञ्जल्युदके काचिच्छफर्येकाऽभ्यपद्यत’ (भा० पु० ८।२४।१२)। अञ्जलिजलमविन्ददित्यर्थः।
- ‘ये वित्तमभिपद्यन्ते सम्यक्त्वं तेषु दुर्लभम्’ (भा० शां० २६।२०)। प्राप्नुवन्तीत्यर्थः।
- ‘ऋत्विजो नाभ्यपद्यन्त’ (भा० आदि० २२३।२४)। न संन्यधीयन्त, नोपास्थिषत।
- ‘समयं कृत्वा दुर्मतिर्नाभिपद्यते’ (रा० ४३०।८)। नाभिपद्यते नाभ्युपपद्यते, आपद्गतं मां नानुगृह्णातीत्याह।
- ‘त्वमस्यामवस्थायां मातरं नाभिपद्यसे’ (रा० ३।५४।६)। उक्तोऽर्थः।
- ‘शक्तोपि धार्ष्ट्याद्धार्दिक्यमक्रूरो नाभ्यपद्यत’ (हरि० १।३९।१३)। पूर्वेण समोऽर्थः। साहाय्यार्थं न गतवानिति शब्दार्थः। अभ्युपपत्तिरनुग्रहः (परित्राणम्) इत्यत्र परित्राणार्थं समीपगमनमेव मूलमर्थ इति विस्पष्टम्।
- ‘किरन् शरशतैस्तीक्ष्णैरभिपेदे महाकपिम्’ (रा० ५।४१।२४)। अभिमुखं जगामेत्यर्थः।
- ‘रावणावरजा तत्र राघवं मदनातुरा। अभिपेदे निदाधार्ता व्यालीव मलयद्रुमम्’ (रघु० १२।३२)॥ उक्तोऽर्थः।
- ‘यथा कुमारो जातः स्तनमभिपद्यते’ (जै० ब्रा० १।१)।
- ‘व्यसने सज्जमानं हि यो मित्रं नाभिपद्यते’ (शुक्र० ३।२३१)। सहायो भूत्वा नोपगच्छति।
- ‘क्रोशन्तं हि यथात्यर्थं नैनमभ्युपपद्यसे’ (रा० ३।५९।१८)। त्राणाय न गच्छसीत्यर्थः।
- ‘अभ्यपद्यत कौन्तेयं कर्णो राजन् वृकोदरम्’ (भा० द्रोण० १३१।३०)। अभ्यपद्यत उपागमत् समासदत्।
- ‘असमाप्तव्रते तस्मिन्स्वकार्यमभिपद्यताम्’ (रा० १।२९।७)। अभिपद्यताम् सम्पाद्यताम्, निर्वर्त्यताम्, साध्यताम्।
- ‘अधर्मं धर्मवेषेण यद्यहं लोकसङ्करम्। अभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जिताम्’ (रा० २।१०९।६)॥ अभिपत्स्ये प्रतिपत्स्ये चरिष्यामि वर्तयिष्यामि।
- ‘अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते। न यावदभ्यपद्येतां व्यावर्तदथ भास्करः’ (भा० ९८।५३)॥ नाभ्यपद्येतां न पराभूयेतामिति नीलकण्ठः।
- ‘राज्यं गतजनं साधो पीतमण्डां सुरामिव। निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते’ (रा० २।३६।१२)॥ नाभिपत्स्यते न प्रतिपत्स्यते नाङ्गी करिष्यति।
- ‘मया यथोच्यमानं यदि नाभिपत्स्यसे’ (रा० ३।३९।२५)। उक्तोऽर्थः।
- ‘क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति’ (शिशु० ९।२७)। अभ्यपद्यत स्वीकृतं प्रतिपन्नम्।
- ‘मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत’ (भा० द्रोण० १३३।३७)। नाभ्यपद्यत नाजानात्।
- ‘न पण्डितः क्रुध्यति नाभिपद्यते’ (भा० शां० २२६।१५)। नाभिपद्यते न सज्जत इति नीलकण्ठः।
- ‘दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति’ (भा० वन० ६।२४)। अभिपन्ना गता।
- ‘मदान्धभावेन मयाभिपन्नो मतङ्गशापेन कुरङ्गभावः’ (महावीर० ६।४)। प्राप्त इत्यर्थः।
- ‘न रोचते तद् वचनं हि तस्य कालाभिपन्नस्य विनाशकाले’ (रा० ४।१५।३१)। अभिपन्नः प्राप्तः संनिहितः कालोऽस्य। निष्ठायाः परनिपातः।
- ‘कालाभिपन्नाः सीदन्ति सिकता सेतवो यथा’ (रा०)। उक्तोऽर्थः।
- ‘बन्धवधभयाद्वा यः सामन्तो न्यायवृत्तिर्धार्मिकः सत्यवागविसंवादकः प्रतिग्रहीता मानयिता चाभिपन्नानाम्’ (कौ० अ० १।१८।६)। अभिपन्नानाम् प्रपन्नानामर्पितानाम्।
- ‘आशया ह्यभिपन्नानामकृत्वाऽश्रुप्रमार्जनम्’ (भा० शां० ३६०।९)। उपेतानामित्यर्थः।
- ‘अभिपन्नस्तु राजेन्द्रे साम्बो वृष्णिकुलोद्गतः’ (भा० वन० १६।१८)। अभिपन्नोभित आसादितः।
- ‘सर्वतश्चाभिपन्नैषा धार्तराष्ट्री महाचमूः’ (भा० )। अभिग्रस्तेत्यर्थः।
- ‘तस्य कृष्णाभिपन्नस्य पीडितस्य वलीयसः। मुखाद् रुधिरमत्यर्थमुज्जगाम मुमूर्षतः’ (हरि० २।३०।५१)॥
- ‘न लक्ष्मणास्मिन् मम राज्यविघ्ने माता यवीयस्यभिशङ्कितव्या। दैवाभिपन्ना…’ (रा० २।२२।३०)॥ उक्तोऽर्थः।
- ‘सीता वितत्रास यथा वनान्ते सिंहाभिपन्ना गजराजकन्या’ (रा० ५।२८।१)। पूर्वेण समोऽर्थः।
- ‘अभिपन्नास्मि पाञ्चालि याज्ञसेनि क्षमस्व माम्’ (भा० वन० २३३।६१)। अभिपन्नाऽपराद्धा।
- ‘मयाऽभिपन्नं तं चापि न सर्पो धर्षयिष्यति’ (भा० आदि० ५०।२०)। अभिपन्नं रक्षितम्।
- ‘मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः। मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः॥’ उक्तोऽर्थः।
- ‘क्रन्दन्ति भर्तारमिवाभिपन्नम्’ (भट्टि० १२।६९)। अभिपन्नं मृतम्।
- ‘अभिपन्नमिदं लोके राज्ञामुद्धतदण्डनम्’ (भा० शां० ३२।२०)। अभिपन्नं स्वभावजं कर्म।
- ‘न चैवालभसे त्राणमभिपन्ना बलीयसा’ (भा० वि० २२।८)। अभिपन्ना परिभूता।
- ‘पूर्वाभिपन्नाः सन्तश्च भजन्ते पूर्वचोदनम्’ (भा० उ० ४।९)। पूर्वम् अभिपन्नाः पूर्वं साहाय्यार्थं वृता इति नीलकण्ठः। पूर्वा चोदना प्रेरणा यस्य तमिति च सः।
- ‘न तु राजाभिपन्नस्य शेषः क्वचन विद्यते’ (भा० शां० ६८।५०)।
- ‘राजाभिपन्नस्य कुतः सुखानि’ (भा० शां० ६८।५८)। उभयत्राऽभिपन्नस् तिरस्कृत इत्यनर्थान्तरम्।
- ‘सर्वम् मृत्युनाऽभिपन्नम्’ (श० ब्रा० १४।६।१।५)। आक्रान्तं व्याप्तमित्यर्थः।
- ‘येन चैवाभिपन्नोऽयम्’ (भा० पु० १।१३।२०)।
- ‘चिरकार्याभिपत्तिं च चिरकारी तथोच्यते’ (भा० शां० २६६।५)। कार्याभिपत्तिं कार्याधिगमम्।
- ‘इतीदमवगच्छामि व्यक्तमर्थाभिपत्तितः’ (भा० कर्ण० ७।२४)। अर्थाभिपत्तिः फलोपपत्तिः।
- ‘अथाभिपत्तिर्लोकस्य कर्तव्या पुण्यपापयोः’ (भा० शां० ३२।२०)। अभिपत्तिरुपपत्तिः।
- ‘त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः’ (ऋ० १०।७१।९)।
- ‘आत्तं राज्यमिदं पश्चात्तथा भ्रात्रा यवीयसा। नाभिपत्तुमलं रामः पीतसोममिवाध्वरम्’ (रा० २।६१।१८)॥
- ‘पित्रा दत्ता नृपश्रीर्हि दायाद्यं तस्य धीमतः। नाभिपत्तुं मया शक्या सावित्री वृषलैरिव’ (रा० २।८८।१६)॥ उभयत्र स्वीकर्तुं प्राप्तुं प्रत्येषितुं वार्थः।
- ‘अधि वा अगन्न त्वभिपत्तुं शक्नुमः’ (श० ब्रा० ९।५।१।६)। ग्रहीतुमित्यर्थः॥
- ‘उष्णाश्रुता पीतकनेत्रता च पित्ताभिपन्ने नयने भवन्ति’ (सूश्रत० उत्तर० ६।४)। पित्ताभिपन्ने पित्तग्रस्ते।
- ‘ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते’ (भा० उ० ९३।१५)। नाभ्युपपद्यते, नानुगृह्णाति।
- ‘उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे’ (भा० वि० ७१।२२)। अभिपन्नोऽपराद्धः, अपराधं कृतवान्।
पा
- {अभिपा}
- पा (पा रक्षणे)।
- ‘अग्निष्ट्वाभि पातु’ (वा० सं० १३।१९)। अभितः पात्वित्यर्थः।
- ‘यो वामदब्धो अभि पाति चित्तिभिः’ (ऋ० ८।५९।३)। अवेक्षते, प्रतिजागर्तीत्यर्थः।
पू
- {अभिपू}
- पू (पूङ् पवने)।
- ‘यतोऽयं पवते। यदभिपवते’ (तै० ब्रा० २।३।९।१)। अभिपवतेऽभिलक्ष्य वाति।
पृ पॄ
- {अभिपृ|अभिपॄ}
- पृ–पॄ (पालनपूरणयोः)।
- ‘अभि नः पूर्यतां रयिः (पा० गृ० ३।४)। अभिपूर्यतां सम्पूर्णो भवतु।
- ‘जना येस्मिन्कृशधनास्तान् घनेनाभिपूरय (हरि० २।५८।६२)। अतिरोहितोर्थः।
- ‘शोको मामभ्यपूरयत्’ (रा० ५।५६।१११)। शोकाप्लुता विषादाविष्टाभूवमित्याह।
प्याय्
- {अभिप्याय्}
- प्याय् (स्फायी ओप्यायी वृद्धौ)।
- ‘अभि स्वेन पयसा पीप्यानाः’ (ऋ० ७।३६।६)। अभिपीप्यानाः=अभितो वृद्धाः। कानचि रूपम्। लिड्यङोश्चेति पीभावे द्वित्वे ह्रस्वे तुजादीनां दीर्घोऽभ्यासस्येति दीर्घः।
प्रच्छ्
- {अभिप्रच्छ्}
- प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
- ‘उपशिक्षाया अभिप्रश्निनम्’ (तै० ब्रा० ३।४।६)। प्रश्नस्योपरि पुनः प्रश्नोऽभिप्रश्न इति सायणः।
प्रथ्
- {अभिप्रथ्}
- प्रथ् (प्रथ प्रख्याने)।
- ‘प्रत्यङ् स विश्वा भुवनाभि पप्रथे’ (ऋ० ९।८०।३)। अभिपप्रथेऽभिव्याप व्यानशे।
प्लु
- {अभिप्लु}
- प्लु (प्लुङ् गतौ)।
- ‘त आदित्या लघुभिः सामभिश्चतुर्भिः स्तोमैर्द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकमभ्यप्लवन्त’ (गो० ब्रा० पूर्व० ४।२२)। अभ्यप्लवन्त=अभ्युपायन्। सर्वे एवामी क्लेशा अविद्याभेदाः। कस्मात्।
- ‘सर्वेष्वविद्यैवाभिप्लवते’ (यो० सू० २।४ भाष्ये)। सर्वानिमान्क्लेशानभिव्याप्नोतीत्याह।
- ‘रजसाभिप्लुतां नारीं नरस्य ह्युपगच्छतः’ (मनु० ४।४।१)। रजस्वलाम्, रजोवकीर्णाम्।
- ‘तमसाऽभिप्लुते लोके रजसा चैव भारत’ (भा० वि० ३३।१)। अन्धकारेण नैशेन पूर्णे।
- ‘पितरि प्रोषिते प्रेते व्यसनाभिप्लुतेपि वा’ (याज्ञ० २।५०)। व्यसनाभिप्लुते व्याध्याद्यभिभूते।
- ‘तत्र यद् द्रव्य भूतं तदुपायाभिप्लुतम्’ (चरक० विमान० ८।८७)। उपायाभिप्लुतमुपायव्याप्तम्, उपायग्रहणगृहीतमिति यावत्।
- ‘अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम्’ (भा० भीष्म० ४६।३२)। अभीतस्याभिमुख्येन सर्पणमभिप्लुतमिति नीलकण्ठः।
- ‘त्रयोऽभिप्लवाः पृष्ठ्योऽभिजित्स्वरसामान उक्थ्या वाग्निष्टोमा वा’ (वाराह श्रौ० ११।२।३।११)। गवामयने यागेऽन्तराचर्यमाणोऽनुष्ठानविशेषोऽभिप्लवो भवति।
भज्
- {अभिभज्}
- भज् (भज सेवायाम्)।
- ‘यो भागो मामभिभजते स दीयताम्’ (पा० १।४।९० सूत्रे न्यासे)।
भा
- {अभिभा}
- भा (भा दीप्तौ)।
- ‘मा त्वा काचिदभिभा विश्व्या विदत्’ (ऋ० २।४२।१)। अभिभा दुर्निमित्तम्।
भाष्
- {अभिभाष्}
- भाष् (भाष व्यक्तायां वाचि)।
- ‘भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित्’ (मनु० २।१२८)। आलपेत् सम्बोधयेत् इत्यर्थः।
- ‘नोदक्ययाऽभिभाषेत’ (मनु० ४।५७)। अभिभाषणमाभाषणमालापः।
- ‘निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम्’ (रा० ५।२९।९)। उक्तोऽर्थः।
- ‘गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये’ (मनु० ११।१०३)। अभिभाष्य विख्याप्य।
भू
- {अभिभू}
- भू (भू सत्तायाम्)।
- ‘अभि यो विश्वा भुवना बभूव’ (ऋ० ४।१६।५)। सर्वेभ्यो लोकेभ्यो ज्यायान्भवतीत्याह।
- ‘अभि द्विषन्तं भविष्यामि’ (श० ब्रा० १२।४।४।३)। अभिभविष्यामि न्यक् करिष्यामि।
- ‘सिंहनादं च सैन्यानां भीमसेनरवोऽभ्यभूत्’ (भा० भीष्म० ४४।९)। अभ्यभूत्=अधर्यकार्षीत्।
- ‘परं योनेरवरं ते कृणोमि मा त्वा प्रजाऽभिभूत्’ (अथर्व० ७।३५।३)।
- ‘अभी षु णः सखीनामविता जरितॄणाम्। शतं भवास्यूतिभिः’ (ऋ० ४।३१।३)॥
- ‘धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत’ (गीता० १।४०)। अभिभवति बाधते पराजयते प्रभवति अधिकुरुते।
- ‘विपदोऽभिभवन्त्यविक्रमम्’ (कि० २।१४)। अभिभवन्ति धर्षयन्ति आक्रामन्ति आस्कन्दन्ति।
- ‘कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः। तान्यप्यभिभविष्यामि’ (भा० वि० २।३)॥ अभिभविष्यामि=अतिशयिष्ये, विशेषयिष्यामि।
- ‘परित्रायध्वं मामनेन मधुकरेणाभिभूयमानाम्’ (श० १)। अभिभूयमानां विप्रक्रियमाणां कदर्थ्यमानाम्।
- ‘पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना। धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः’ (भा० द्रोण० १३३।१२)॥ स्नेहाभिभूतेन स्नेहवशंवदेन स्नेहेन परवता स्नेहपराजितेन।
- ‘श्रियाऽभिभूतं देवेशं दुर्निरीक्ष्यतरं हरिम्’ (हरि० २।५५।३३)। अभिभूतं व्याप्तम्।
- ‘एकश्चित्सन्नभिभूतिः’ (ऋ० ८।१६।८)। उक्तोर्थः।
- ‘आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः’ (रा० ३।७५।११)। अभिभूरभिभावकः। सह प्रभुरिति पाठान्तरम्।
- ‘अभिभूर्यशो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः’ (अथर्व० ६।९७।१)।
- ‘त्वष्टारमिन्द्रो जनुषाऽभिभूय’ (ऋ० ३।४८।५)।
- ‘अभिभूय विभूतिमार्तवीम्’ (रघु० ८।३६)। अभिभूय=अतिशय्य।
- ‘अभीवर्तो अभिभवः सपत्नक्षयणो मणिः’ (अथर्व० १।२९।४)। अभिभवोऽभिभावी।
- ‘निरभिभवसाराः परकथाः’ (भर्तृ०)। अभिभवस्तिरस्कारः। अवमानोऽधिक्षेपः।
- ‘वैशाखशुक्लद्वादश्यां स्वप्ने योऽभिभवं तव। करिष्यति स ते भर्ता रजिपुत्रि भविष्यति’ (वि० ३२।५।१४)॥ अभिभवो हठात् संभोगः।
मन्
- {अभिमन्}
- मन् (मन ज्ञाने)।
- ‘अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते’ (भा० आदि० २२४।९)। वस्तुतो नरनारायणौ सन्तौ तावर्जुनवासुदेवौ जानाति। अभिभानोऽन्यथाग्रहणम् मिथ्याज्ञानम्।
- ‘अवीरामिव मामयं शरारुरभिमन्यते’ (अथर्व० २०।१२६।९)। उक्तोऽर्थः।
- ‘वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे’ (रा० २।१००।१३)। अभिमन्यसे बहु मन्यसे।
- ‘न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः’ (रा० २।६१।१३)। अभिमन्यन्तेऽनुमन्यन्ते।
- ‘असौ ते मुख्यो यौवनोत्सिक्तो भार्यां स्नुषां दुहितरं वाऽभिमन्यते’ (कौ० अ० ५।१।५१)। इयं मे गम्या स्यादितीच्छति।
- ‘न त्वेव ज्यायसीं वृत्तिमभिमन्येत कर्हिचित्’ (मनु० १०।९५)। नाभिमन्येत न कामयेत।
- ‘यथा कथा च परपरिग्रहमभिमन्यते’ (आप ध० १।१०।२८।१)। ममायमस्त्विति कामयते।
- ‘यो वाऽयं देवः पशनामीष्टे न वा हैनमभिमन्येत’ (श० ब्रा० ३।६।२।२०)। उक्तोऽर्थः।
- ‘अप्रार्थनीयामिह यां सूतपुत्राभिमन्यसे’ (भा० वि० १४।३४)। कामयस इत्यर्थः।
- ‘कच्चिन्म परदारान्वा राजपूत्रोऽभिमन्यते’ (रा० २।७२।४५)। उक्तोऽर्थः।
- ‘न चेत्तदभिमन्येत तस्मै दद्यामहं पुनः’ (भा० कर्ण० ३८।३)। अल्पमिति कृत्वा नेच्छेत्, नाभिनन्देत्। अभिमन्येत अवजानीतेति नीलकण्ठः। स च तात्पर्यार्थः। अवजानीयादिति तु पाणिनीयाः साधु पश्यन्ति।
- ‘माऽभिमंस्थाः’ (श० ब्रा० ७।५।२।१७)। मा क्षणिष्ठाः, माऽभिद्रुह इत्यर्थः।
- ‘योऽस्मान्ब्रह्मणस्पतेऽदेवो अभिमन्यते’ (अथर्व० ६।६।१)। अभिहन्तव्यान् जानातीत्यर्थः। अभिपूर्वो मन्यतिश्छन्दसि बहुलं हिंसायां वर्तते।
- ‘तत्रेमाः काश्चन दिश उदाह्रियन्ते—परिवृङ्ग्घि हरसा माऽभिमंस्थाः’ (काण्व सं० १४।४; श० ब्रा० ७।५।२।१७)। मा त्वा क्रव्यादभिमंस्त। मम त्वमाहार इत्यभिमानं मा करोतु।
- ‘विश्वरूपं त्वाष्ट्रमभ्यमंस्त’ (ऐ० ब्रा० ७।२८)। अहिंसीदित्यर्थः।
- ‘नास्य रुद्रः प्रजां पशूनभिमन्यते’ (तै० ब्रा० १।५।६।७)। न हिनस्ति, हन्तुं नेच्छति। इति।
- ‘शत्रवो नाभिमन्यन्ते भक्षान् विषकृतानिव’ (रा० २।८८।२५)। अभिभवितुं न स्मरन्ति (राजधानीम् ) इति गोविन्दराजः।
- ‘ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः’ (भा० उ० १६६।६)। ये राष्ट्रमस्मदीयमिदमस्माभी रक्षणीयमित्यभिमानवन्त इति नीलकण्ठः।
- ‘अतिवादांस्तितिक्षेत नाभिमन्येत कञ्चन’ (भा० शा० २७८।६)। कञ्चनोद्दिश्याभिमानं न कुर्यादित्याह। यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते। अभिमानं न गच्छतीत्यर्थः।
- ‘यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मणकन्यामभिमन्यमानः’ (कौ० अ० १।६।५)। इयं मे गम्या स्यादितीच्छन्।
- ‘नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम्’ (काद०)। अभिमतमिष्टम्, संमतम्।
- ‘अभिमतफलशंसी चारु पुस्फोर बाहुः’ (भट्टि० १।२७)।
- ‘इक्ष्वाकुवंशोऽभिमत प्रजानाम्’ (उत्तर० १।४४)।
- ‘न किल भवतां स्थानं देव्या गृहेऽभिमतं ततः’ (उत्तर० ३।३२)। अभिमतमनुमतम्।
- ‘माहात्म्याभिमतानामपि कपिलकणभुक् प्रभृतीनाम्’ (ब्र० सू० शां० भा०)। अभिमतानां सत्कृतानाम्।
- ‘अभिमतेऽनुमते वा’ (आश्व० गृ० ४।९।१२)। तदन्नमभिमन्यन्ते आत्मसात्कुर्वन्ति अस्मभ्यमेव देहीति।
- ‘न विक्रिया विश्वसुहृत्सखस्य साम्येन वीताभिमतेस्तवापि’ (भा० पु० ५।१०।२५)। अभिमतिरभिमान आत्मसंभावना, आहोपुरुषिका, अहंयुता।
- ‘सदाभिमानैकधना हि मानिनः’ (शिशु० १।६७)। अभिमान आत्मसंमानः, स्वस्मिन्गुरुत्वबुद्धिः।
- ‘मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतयेऽभिमानः’ (कि० १३।७)। एषोऽभिमान एषा कल्पना।
- ‘ये चरन्त्यभिमानानि सृष्टार्थमनुषङ्गिणः’ (भा० शां० १६८।२३)। अभिमानानि सर्वतः प्रमाणानि शास्त्रादीनि।
- ‘विश्वा मृधो अभिमातीर्जयेम’ (अथर्व० १८।२।५९)। अभिमातीहिंसकाञ्शत्रून् इति सायणः।
- ‘इन्द्राभिमातिषाह्ये’ (अथर्व० २०।१९।३)। अभिमातयः शत्रवः।
- ‘सपत्नहाग्ने अभिमातिजिद् भव’ (अथर्व० २।६।३)। उक्तोऽर्थः।
- ‘स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे’ (ऋ० ५।२३।४)। अभिमाति हिंसकं घातुकम्।
- ‘…ऽभिमातिं कयस्य चित्। तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः’ (ऋ० ८।२५।१५)। अभिमातिः कपटप्रबन्ध इति संस्कृतशार्मण्यकोषः।
- ‘अभिमानं च मानं च त्यक्त्वा’ (रा० २।५८।१६)। साधारण्याभिमानात्। साधारण्यं मत्वा, समुत्प्रेक्ष्य।
- ‘न सा स्त्री त्वभिमन्तव्या यस्यां भर्ता न तुष्यति’ (पञ्चत० ३।१५४)। नाभिमन्तव्या न मन्तव्या, न गणयितव्या, पत्नीति बुद्ध्या न द्रष्टव्या।
- ‘धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्। बुभूषताऽभिमन्तव्यम्…’ (भा० अनु० २।९५)॥ अभिमन्तव्यम् एष्टव्यम्।
- ‘अनभिमानुको हैष देवः प्रजा भवति’ (आश्व० गृ० ४।१०।२८)। अभिमानुक आघातुकः। प्रजा इति द्वितीयाबहुवचनम्।
मन्त्र्
- {अभिमन्त्र्}
- मन्त्र् (मत्रि गुप्तपरिभाषणे)।
- ‘गायत्र्या चाभिमन्त्रयेत्’ (याज्ञ० ३।३२५)। गायत्र्युच्चारणेन संस्कुर्यादित्यर्थः। उपाकृतः पशुरसौ योऽभिमन्त्र्य क्रतौ हतः (इत्यमरः)।
- ‘वामदेवाभिमन्त्रितोऽश्वः’ (उत्तर० २)। वामदेव्यमन्त्रैः संस्कृतः।
- ‘प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः’ (भा० सभा० ३५।३)। अभिमन्त्रिताः प्रार्थिताः।
मा
- {अभिमा}
- मा (मा माने, माङ् माने)।
- ‘यज्ञस्य (सोमः) प्रमाभिमोन्मा प्रतिमा वेद्यां क्रियमाणायाम्’ (काठक० ३४।१४)। अभिमा विस्तारमानम्।
- ‘यज्ञस्य त्वा प्रमयाऽभिमया परिमयोन्मया परिगृह्णामि’ (आप० श्रौ० ४।५।४, ९।१३।६)। उक्तोऽर्थः।
मिह्
- {अभिमिह्}
- मिह् (मिह सेचने)।
- ‘देवी देवयजनी सा दीक्षितेन नाभिमिह्या’ (=नाभिमेह्या) (श० ब्रा० ३।२।२।२०)। तस्या उपरि दीक्षितो न मेहेत् न मूत्रयेत्।
मृ
- {अभिमृ}
- मृ (मृङ् प्राणत्यागे)।
- ‘गुरुणाभिमृता अन्यतो वाऽपक्षीयमाणाः’ (आश्व० गृ० ४।७।१)। येषु जीवत्सु गुरुर्म्रियते ते गुरुणाभिमृताः। द्वौ चराभिमरौ स्पशौ (इत्यमरः)। अभिम्रियत इत्यभिमरः। प्राणनिरपेक्षस्तीक्ष्णाख्यः, यो द्रव्यहेतो र्व्यालं वा हस्तिनं वा योधयतीति स्वामी।
मृद्
- {अभिमृद्}
- मृद् (मृद क्षोदे)।
- ‘कृतोऽभिमर्दः कुरुभिः प्रसह्य’ (द्रौप० ६।८) (अभिमर्दः कदनं विशसनम्।
- ‘कथं शक्ष्यामहे ब्रह्मन् दानवैरभिमर्दनम्’ (भा० शां० २०९।१२)। अभिमर्दनम् अभ्यामर्दः, युद्धम्, आयोधनम्।
मृश्
- {अभिमृश्}
- मृश् (मृश आमर्शने, आमर्शनं स्पर्शः)।
- ‘तया त्वाभि मृशामसि’ (अथर्व० ३।२५।६)। अभिमृशामसि अभिमृशामः, अभितः स्पृशामः।
- ‘अथास्या उदरमभिमृशति’ (शां० गृ० १।२२।१४)। उक्तोऽर्थः।
- ‘नश्येदभिमृशन्सद्यो मृगः कूटमिव स्पृशन्’ (भा० शां० ६८।५२)। अभिमृशन् स्पृशन्। राजस्वमिति शेषः। कूटं मारणयन्त्रम्।
- ‘सोऽमृष्यमाणो वचसाऽभिमृष्टः’ (भा० वि० ६६।१)। अभिमृष्टस्तुन्नः। अत्र मृशस्तोदनमर्थो यथा मर्मस्पृग् इत्यत्र स्पृशः। अभिरर्थं विशिनष्टि।
- ‘उष्णांशुकराभिमर्शात्’ (शिशु० ४।१६)। अभिमर्शः स्पर्शः।
- ‘कृताभिमर्शामनुमन्यमानः’ (शा० ५।२०)। अभिमर्शो दूषणम्।
- ‘परदाराभिमर्शेषु प्रवृत्तान्’ (मनु० ८।३५२)।
- ‘पराभिमर्शो न तवास्ति पितुर्गृहे। कः करं प्रसारयेत्पन्नगरत्नसूचये’ (कु० ५।४३)॥ उक्तोर्थः।
- ‘कन्याप्रदानं प्रति समुत्पन्नोऽभिमर्शः’ (प्रतिज्ञा० २)। अभिमर्शो विमर्शः। अभिरस्थाने।
- ‘निवर्तय मनः पापात्परदाराभिमर्शनात्।’ (भा० उ० १२।४)। अभिमर्शनं दूषणं धर्षणम्।
- ‘निवर्तय मतिं नीचां परदाराभिमर्शनात्।’ (रा० ३।५०।७)।
- ‘दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम्’ (भा० अनु० १९।८९)। उक्तोऽर्थः।
- ‘दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्’ (भा० शां० ३४।१३)। अभिमर्शनमामर्शनमाच्छेदनम्। अपहारः।
- ‘अत्रैव कीर्त्यते सद्भिर्ब्राह्मणस्वाभिमर्शने’ (भा० अनु० ७०।१)। उक्तोऽर्थः।
- ‘परदाराभिहर्तारः परदाराभिमर्शिनः’ (भा० अनु० २३।६१)। अभिमर्शका दूषकाः, जाराः।
मृष्
- {अभिमृष्}
- मृष् (मृष तितिक्षायाम्)।
- ‘सर्वतः समुपेतस्य तव (दशग्रीवस्य) तेनाभिमर्षणम्’ (रा० ६।१११।८)। अभिमर्षणं प्रसहनं पराभवः।
मे
- {अभिमे}
- मे (मेङ् प्रणिदाने)।
- ‘स हि ष्मा विचर्षणिरभिमाति सहो दधे’ (ऋ० ५।२३।४)। अभिमाति हिंसकं धातुकं जिह्मम्। अपरेऽभिमातीति मन्यतेरभिपूर्वस्य रूपं पश्यन्ति। तन्नोऽभिमतम्।
मेथ्
- {अभिमेथ्}
- मेथ् (मेथृ मेधृ संगमे)।
- ‘तयोः शयानयोः। यजमानोऽभिमेथति’ (श० ब्रा० १३।५।२)। अभिमेथति=आह्वयति।
यज्
- {अभियज्}
- यज् (यज देवपूजासङ्गतिदानेषु)।
- ‘देवता अभियजेत्’ (गो० गृ० ४।७।१६)। हविर्भिः पूजयेदित्याह।
- ‘आमावास्येन हविषा पूर्वपक्षमभियजते’ (पञ्चरा० ३।७।१२) उक्तोऽर्थः।
- ‘पक्षान्ता उपवस्तव्याः, पक्षादयोऽभियष्टव्याः’ (गो० गृ० १।५।५-६)।
या
- {अभिया}
- या (या प्रापणे, प्रापणमिह गतिः)।
- ‘शैनेयस्त्वरितो राजन्कृतवर्म्माणमभ्ययात्’ (भा० द्रोण० ११५।३)। अभ्ययात् अभिमुखमयात्, तं प्रार्थयतेत्यर्थः।
- ‘अभिययुः सरसो मधुसंभृतां कमलिनीम्’ ( )।
- ‘अभिययौ स हिमाचलमुच्छ्रितम्’ (कि० ५।१)। अभिलक्ष्य जगामेत्यर्थः।
- ‘अभियास्यति मां कोपात्सम्बन्धी सुमहाबलः’ (भा० उ० १९०।१४)। माम्प्रत्यभियानं करिष्यति, मां प्रार्थयिष्यते।
- ‘ऽभि स्पृधो यासिषद् वज्रबाहुः’ (ऋ० १।१७४।५)। उक्तोऽर्थः।
- ‘अन्यत्र राज्ञामभियातु मन्युः’ (अथर्व० ६।४०।२)। यात्वित्येवार्थः।
- ‘तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा।’ सभाजयितुं पुरत प्रासरन्नित्याह।
- ‘निर्यान्तो वाऽभियान्तो वा नरमुख्या यथा पुरा’ (रा० २।७१।२४)। अभियान्तः प्रविशन्तः।
- ‘कुबेरादभियास्यमानात्’ (रघु० ५।३०)। अभियातुमिष्यमाणात्, प्रार्थयिष्यमाणात्, अभिषेणयिष्यमाणात्।
- ‘अभियाता प्रहर्ता च’ (रा० २।१।२९)। अभियाताऽभिमुखं याता। दुर्गप्रदेशावलम्बनेन यो न युध्यते तल्लक्षणः। प्रहर्ता नासीरे स्थित्वा प्रथमं प्रहरतीत्येवंविध इति टीकाकृद्रामः।
याच्
- {अभियाच्}
- याच् (टुयाचृ याच्ञायाम् )।
- ‘शिरसा त्वभियाचेऽहं कुरुष्व करुणां मयि’ (रा० २।१०६।२९)। याच इत्येवार्थः। नार्थोऽभिना।
- ‘सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः’ (भा० वन० १०७।४१)। उक्तोऽर्थः। अभ्यभाषन्तेति पाठान्तरम्।
यु
- {अभियु}
- यु (यु मिश्रणामिश्रणयोः।
- ‘स्त्रीयोनिरभियुत एनां गर्भः’ (नि० २।१९)। अभियुत आमिश्रीभूत इति दुर्गः।
युज्
- {अभियुज्}
- युज् (युजिर् योगे, युज समाधौ)।
- ‘यां गतिमभियुङ्क्ते तां गतिं गत्वाऽन्ततो विमुञ्चते’ (शा० ब्रा० १।८।३।२७)। अभियुङ्क्ते रथं तुरङ्गेण युनक्ति।
- ‘सञ्जयाचक्ष्व येनास्मान् पाण्डवा अभ्ययुञ्जत’ (भा० उ० ५०।९)। अभ्ययुञ्जत आक्रामन्, आस्कन्दन्।
- ‘अस्मानालक्ष्य सन्नद्धा अभूवन्निति वा।’ (रघौ ४।८०) इत्यत्र नहि शूराः परेण पराजितपूर्वमभियुज्यन्त इति मल्लिः। श्यन्विकरणस्य युजेः प्रयोगोऽस्थाने।
- ‘शृणु यैर्हि महाराज पाण्डवा अभ्ययुञ्जत’ (भा० उ० ५०।१६)। उक्तोऽर्थः।
- ‘यश्च त्वाऽभियुञ्जीत युद्धाय’ (रा० ७।६१।९)। अभियुञ्जीत आह्वयेत। युद्धं मे देहीत्यामन्त्रयेत।
- ‘कुपितोऽर्थपतिर्व्यवहर्तुमर्थगौरवादभियोक्ष्यते’ (दशकु०)। अभियोक्ष्यते=उद्योक्ष्यते।
- ‘आधिव्याधिदुःखेन कदाचिन्नाभियुज्यते।’ नाभियुज्यते न युज्यते नोपसृज्यते।
- ‘न तत्र विद्यते किंचिद् यत्परैरभियुज्यते’ (मनु० ८।१८३)। इदं मे निक्षिप्तं मे दीयतामिति निक्षेप्त्रा व्यवहारेण काम्येत।
- ‘हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता। विभावितैकदेशेन देयं यदभियुज्यते’ (विक्रम० ४।१७)॥ उक्तोऽर्थः।
- ‘तद्यदि न सहसे ततः स्वयमभियुज्यस्व। एते स्वकर्मण्यभियुज्यामहे’ (मुद्रा० ३)। इहोभयत्राभियोगो व्यापारः। अभियुज्यस्व व्याप्रियस्व यतस्व घटस्व।
- ‘वायुर्यत्राभियुञ्जते’ (=युङ्क्ते) (श्वेताश्व० २।६)। शब्दमभिव्यक्तं करोतीति विवृतिः। सुश्रुते १।९४।१६ इत्यत्राभियुजि भिषक्कर्मण्युपचारेऽपि प्रयुक्तो दृश्यते।
- ‘तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्’ (गीता० ९।२२)। ध्यानयोगपराणाम् इत्यर्थः।
- ‘स्वस्वकर्मण्यधिकतरमभियुक्तः परिजनः’ (मुद्रा० १)। अभियुक्तोऽवहितो व्यापृतः।
- ‘वसिष्ठः किल राक्षसस्त्वमित्यभियुक्तः’ (नि० ७।३।४ इत्यत्र दुर्ग:)। अभियुक्तोऽभ्याख्यातो दुरुक्तः। यदा तु गमनमभियुक्तस्तदेवापलपति न तदात्यन्तापह्नव इति लङेव भवति इत्यत्यन्तापह्नवे लिड्वक्तव्य इत्यत्र दीक्षितः प्रौढमनोरमायाम्। तत्राभियुक्तः पृष्टः।
- ‘तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी न भवति’ (याज्ञ० २।२० मिताक्षरायाम्)।
- ‘आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत्’ (याज्ञ० २।२८)।
- ‘अस्मिन्नर्थेऽनेनाहमभियुक्तः’ (याज्ञ० २।७ मिताक्षरायाम्)।
- ‘अथ स एनमभियुक्तः प्रतिब्रूयात्’ (मी० सू० ३।२।१-२, श० भा०)। अभियुक्तः पृष्टः।
- ‘प्रतिगृह्य तदाख्येयमभियुक्तेन धर्मतः’ (याज्ञ० ३।४३)। उक्तोऽर्थः।
- ‘इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा’ (उत्तर० ३।३०)। अभियुक्तेन=अवहितेन=प्रसितेन=एकायनगतेन।
- ‘कोष्ठागारेऽभियुक्त: स्यात्’ (का० नी० सा० ५।७७)। अभियुक्तः कृतावेक्षः प्रतिजागरितः।
- ‘भवतु, भूयोऽभियुक्तः स्वरव्यक्तिमुपलप्स्ये’ (मुद्रा० १)। अभियुक्तो दत्तावधानः।
- ‘यत्त्वभियुक्ताः शब्दार्थेषु शिष्टा इति तत्रोच्यते–अभियुक्ततराः पक्षिणां पोषणे बन्धने च म्लेच्छाः’ (मी० सू० १।३।५।१० शा० भा०)। अभियुक्ता निपुणाः।
- ‘कुहकादिषु प्रयोगेष्वभियुक्तानाम्’ (कथा० ३२।१२५)। उक्तोऽर्थः।
- ‘यत्नेनानुमितोप्यर्थः कुशलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते’ (वा० प० १।३४)॥ अभियुक्ता विपश्चितः, विशेषज्ञाः, लब्धवर्णाः।
- ‘न हि शक्यते दैवमन्यथा कर्तुमभियुक्तेनापि’ (काद०)।
- ‘अन्येऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते’ (वेणी० २)।
- ‘सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति’ (वेणी० २)।
- ‘अभियुक्तं बलवता दुर्बलं हीनसाधनम्’ (भा० उ० ३३।१३)। अभियुक्तमाक्रान्तमास्कन्नम्।
- ‘न जाने बलवता महामोहेनाभियुक्तस्य वत्सविवेकस्य कीदृशो वृत्तान्तः’ (प्र० च० ५)। उक्तोऽर्थः।
- ‘देवि केनाभियुक्तासि केन वासि विमानिता’ (रा० २।१०।२८)। अभियुक्ता धर्षिता कृतपराभवा।
- ‘अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम्’ (भा० शल्य० ३१।६१)। अभियुक्तः प्रार्थित इत्यर्थो भाति। अभियुक्तः परिचिते परिक्षिप्तेऽरिसेनया। व्यवहारप्रवृत्तानां तथैवोत्तरवादिनि॥ इति कोषः।
- ‘वृषलमभियोक्तुमुद्यतः’ (मुद्रा० १)। अभियोक्तुम् अभियातुमास्कन्तुम्।
- ‘एतस्य सिंहीमिव राज्यलक्ष्मीमङ्कस्थितां कः क्षमतेऽभियोक्तुम्’ (विक्रमाङ्क०)। उक्तोऽर्थः।
- ‘त्वय्युत्कृष्टबलेऽभियोक्तरि नृपे’ (मुद्रा० ४।१५)। अभियोक्ताऽऽस्कन्ताऽऽक्रमिताऽभियाता।
- ‘पर्यायैर्हन्यमानानामभियोक्ता न विद्यते’ (भा० शां० २२६।१३)।
- ‘अभियोक्तादिशेद् देश्यं करणं वान्यदुद्दिशेत्’ (मनु० ८।५२)। अभियोक्ता=अर्थी।
- ‘सन्तः परहितेषु स्वयं कृताभियोगाः’ (भर्तृ० २।६५)। कृताभियोगा दत्तावधानाः।
- ‘नयाभियोगं मनसः प्रसादं समापयस्वात्मगुणेन कामम्’ (रा० ४।२९।२५)। अभियोगस्तात्पर्यमासक्तिः।
- ‘अनेकार्थाभियोगेपि यावत्संसाधयेद् धनी’ (याज्ञ० २।२० मिताक्षरायां कात्यायनवचनम्)। यदानेकेऽर्था ममैत इति प्रार्थ्यन्ते।
- ‘अनभियोगश्चार्थेष्वागन्तूनाम्’ (कौ० अ० २।१६।१३)। अनभियोगोऽव्यवहारः।
- ‘यत्नेनानुमितो योर्थः कुशलैरनुमातृभिः। अभियोगशतेनापि स नान्यथोपपाद्यते’ (न्या० म०)॥ अभियोगो यत्नः।
- ‘अभियोगः शब्दादेरशिष्टानामभियोगश्चेतरेषाम्’ (मी० शा० भा०)। अभियोगः परिचयः।
- ‘अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्’ (याज्ञ० २।९)।
- ‘कुसुमपुराभियोगं प्रत्यनुदासीनो राक्षसः’ (मुद्रा० २)। अभियोगोऽवस्कन्दः। अभियोजनं नाम युक्ते पुनर्योजनमिति श० ब्रा० ९।४।२।११ इत्यत्र सायणः।
- ‘विश्वा अग्ने अभियुजो विहत्य’ (अथर्व० ७।७७।९)। अभियुजोऽभियोक्त्रीः सेनाः।
- ‘विश्वा अग्नेऽभियुजो विहत्य’ (तै० ब्रा० २।४।१।१)। अभियुजोऽभियोगान् आस्कन्दानिति सायणः।
- ‘कृतपरिचयां दर्शितेङ्गिताकारां कन्यामामिषोपायतोऽभियुञ्जीत’ (का० सू० ५।२।१९)। अभियुञ्जीत आत्मना योजयेत्।
रक्ष्
- {अभिरक्ष्}
- रक्ष् (रक्ष पालने)।
- ‘तमर्यमाऽभि रक्षत्यृजूयन्तमनु व्रतम्’ (ऋ० १।१३६।५)। अभिरक्षति=अभितः पाति।
- ‘यमादित्या अभि द्रुहो रक्षथ’ (ऋ० ८।४७।१)।
- ‘यः कृत्स्नामटवीमेतां पर्यन्तस्थोऽभिरक्षति’ (कथा० २९।१३५)।
- ‘आविश्येमां धरणीं येऽभ्यरक्षन् पुरातनीं तस्य देवस्य सृष्टिम्’ (भा० अनु० १८।७८)। उक्तचर एवार्थः।
रञ्ज्
- {अभिरञ्ज्}
- रञ्ज् (रञ्ज रागे)।
- ‘न कथाभिरभिरज्यन्ते।’ कथासु नाभिरमन्ते इत्यर्थः।
- ‘(गीतम्) संरक्तमभिरक्तं च परया स्वरसम्पदा’ (रा गोरे० १।३।६१)। अभिरक्तं प्राप्तसंमदम्।
रम्
- {अभिरम्}
- रम् (रमु क्रीडायाम्)।
- ‘न गन्धहरिणो दमनककेदारिकायामभिरमति’ (विद्ध० ३)। अभिरमते=रतिं लभते, नन्दति। दमनको वृक्षविशेषः।
- ‘विद्यासु विद्वानिव सोऽभिरेमे’ (भट्टि० १।९)। आश्चर्यं परिपीडितोऽभिरमते पश्चातकस्तृष्णया। उदितोऽर्थः।
- ‘दृष्टिरिहाभिरमते हृदयं च’ (मृच्छ० ४)।
- ‘आचान्तांश्चानुजानीयादभि भो रम्यतामिति’ (मनु० ३।२५१)। अभिरम्यताम्=विश्रभ्यताम्।
- ‘यत्राभिरंस्यमाना भवन्ति’ (आश्व० गृ० ४।६।१६)। विश्रमितुकामा भवन्ति।
- ‘अभिरम्यतामिति वदेद् ब्रूयुस्तेऽभिरता स्म ह’ (याज्ञ० १।१५२)। अभिरतास्तुष्टाः, तृप्ताः।
- ‘माऽकल्पां नारीमभिरमयेत्’ (गौ० ध० १।८।२९)। नानया मिथुनी भवेदित्यर्थः। अकल्पा रोगादिनाऽस्वस्था।
- ‘मनोभिरामाः शृण्वन्तौ…षड्जसंवादिनीः केकाः’ (रघु० १।३९)। मनोऽभिरामा मनोहरा मनोरञ्जिकाः, मनोज्ञाः।
- ‘अनपेतकालमभिरामकथाः’ (कि० ६।३०)। अनन्तरोदीरित एवार्थः।
- ‘राम इत्यभिरामेण वपुषा तस्य चोदितः’ (रघु० १०।६७)। अभिराममभिरूपं रम्यम्।
- ‘रामाभिराम…चित्तदोषः’ (रा० ५।११।८)। अभिरामो हृदयहारी।
राध्
- {अभिराध्}
- राध् (राध साध संसिद्धौ)।
- ‘अभिराद्धदेवतावितीर्णवीर्यातिशयान्’ (शिशु० १।७१)। अभिराद्धा आराद्धाः।
रु
- {अभिरु}
- रु (रु शब्दे)।
- ‘वृषेव यूथे सहसा विदानो गव्यन्नभि रुव संधनाजित्’ (अथर्व० ५।२०।३)। अभिरुव=अभितो नर्द।
- ‘शिवैषोद्यन्तमादित्यमभिरौति’ (भा० पु० १।१४।१२)। अभिलक्ष्य वाश्यते क्रोशति।
- ‘हंसकारण्डवोद्गीताः सारसाभिरुतास्तथा’ (भा० वन० ३८।२०)। सारसरुतेन प्रतिशब्दिताः, सारसरवेणाभिव्याप्ताः।
रुच्
- {अभिरुच्}
- रुच् (रुच दीप्तावभिप्रीतौ च)।
- ‘धर्मोऽभिरोचते यस्माद् धर्मराजस्ततः स्मृतः’ (मार्क० पु०)। अभिरोचते राजते दीप्यते शोभते। अभिर्विशेषको न।
- ‘यदभिरोचते भवते’ (विक्रम० २)। यथाऽत्र भवतोऽभिरुचिः। यथा ते वशः। यथा ते छन्दः।
लक्ष्
- {अभिलक्ष्}
- लक्ष् (दर्शने)।
- ‘पार्षतश्च महायुद्धे विमुखोऽद्याभिलक्ष्यते’ (भा० कर्ण० २६।९)। अभिलक्ष्यते लक्ष्यते दृश्यते प्रतिभाति।
- ‘मुमोच परमेष्वासः षट् शरानभिलक्षितान्’ (रा० ३।२८।२६)। अभिलक्षितान् कृताङ्कान्, लक्ष्मोपेतान्।
- ‘दक्षिणां प्रेषयामास वानरानभिलक्षितान्’ (रा० ४।४१।१)। वृतान् गुणमाहात्म्येन निर्धारितान्।
लप्
- {अभिलप्}
- लप् (लप व्यक्तायां वाचि)।
- ‘न च स्मार्तमतद्धर्माभिलापाद्’ (ब्र० सू० १।२।१९)। अभिलापो व्यपदेशो निर्देशः कथनं कीर्तनम्।
- ‘अभिलापिनी प्रतीतिः कल्पना’ (तत्त्वसं० १२१३)। अभिलापो वाचकः शब्दः।
लिख्
- {अभिलिख्}
- लिख् (लिख अक्षरविन्यासे)।
- ‘धात्राभिलिखितान्याहुः सर्वभूतानि कर्मणा’ (भा० स्त्री० ७।१२)। अभिलिखितानि सर्वतो न्यस्तानि। तत्तल्लक्षणैः पृथगवस्थापितानि।
ली
- {अभिली}
- ली (लीङ् श्लेषणे)।
- ‘भीष्ममेवाभ्यलीयन्त सह सर्वैस्तवात्मजाः’ (भा० भीष्म० ७१।१०)। समाश्लिष्यन्न् इत्यर्थः।
- ‘कपिलाशवमभ्यलीयत’ (दशकु०)। शवेऽन्तरलीयतेत्यर्थः।
- ‘पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः’ (मेघ० ३७)। अभिलीनः समाश्रितः।
- ‘विहङ्गमाभिलीनाश्च लताः’ (हरि० २०१२)। शकुन्ताक्रान्ताः।
- ‘भ्रमराभिलीनयोः सुजातयोः पङ्कजकोषयोः श्रियम्’ (रघु० ३।८)। अभिलीनौ समाश्लिष्टौ।
वच्
- {अभिवच्}
- वच् (ब्रू-वच व्यक्तायां वाचि)।
- ‘आचार्यो नाभिवक्तव्यः पुरुषेण विजानता’ (भा० वि० ५१।२)। अपवक्तव्य इत्यर्थः।
वद्
- {अभिवद्}
- वद् (वद व्यक्तायां वाचि, वद सन्देशवचने)।
- ‘समूलो वा एष परिशुष्यति योऽनृतमभिवदति’ (प्रश्नोप० ६।१)। अभिवदति परस्याभिमुखे वदति, प्रत्युत्तरं वदतीत्यर्थः।
- ‘तं ह्यभ्युवाद’ (छां० उ० ४।२।१)। अभिसम्बोध्योवाच।
- ‘परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेपि वा’ (मनु० ८।३५६)। अभिवदेत्=अभिलपेत्=आलपेत्=आभाषेत।
- ‘कामेन ताताभिवदाम्यहं त्वाम्’ (भा० वि० ७।१०)। आभिमुख्येन वदामि।
- ‘एतद्वा अश्वस्य प्रियं नामधेयम् (यद्ययुरिति) प्रियेणैवैनं नामधेयेनाभिवदति’ (तै० ब्रा० ३।८।९।२)। अभिवदति अभिमुखीकृत्य वदति।
- ‘ते वा इमे इतरे छन्दसी गायत्रीमभ्यवदेताम्’ (ऐ० ब्रा० ३।२८)। अभ्यवदेताम्=सप्रश्रयं समबोधयेताम्।
- ‘पूर्वो राज्ञोऽभिवदति’ (श० ब्रा० ३।३।४।१४)। उक्तोर्थः।
- ‘जारं चौर इत्यभिवदन् दाप्यः पञ्चशतं दमम्’ (याज्ञ० २।३०१)। अभिवदन् व्यपदिशन् अपदिशन् निर्दिशन्।
- ‘यत्कर्म क्रियमाणमृगभिवदति’ (ऐ० ब्रा० १।४)। अभिवदति कीर्तयति परामृशति।
- ‘एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति’ (श० ब्रा० १४।६।८।८)। व्याहरन्ति, उदाहरन्ति आचक्षते। अभिवदति गुरुं देवदत्तः। नमस्करोतीत्यर्थः। उपसर्गो विशेषकः। अभिवादयते गुरुं देवदत्तं देवदत्तेन वा। नमस्कारयतीत्यर्थः।
- ‘तात प्राचेतसान्तेवासी लवोऽभिवादयते’ (उत्तर० ६)। वद सन्देशवचने। अभिपूर्वकत्वान्नमस्कारार्थता। अभिवादये देवदत्तोऽहं भोः।
- ‘सम्बन्धिशब्दाश्च सर्वे सापेक्षा विना पदान्तरेण न पूर्णमर्थमभिवदन्ति’ (शा० भा०)। अभिवदन्ति वदन्ति।
- ‘शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः’ (भा० द्रोण० ४।११)। शिवेनाभिवदामि साशीर्वचनं वच्मि।
- ‘नानर्णसमवाये तु नैकं द्वौ युगपदभिवदेयाताम्’ (कौ० अ० ३।११।१९)। अभिवदेयाताम् अभियुञ्जीयाताम्।
- ‘अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्’ (रा० २।४४।२९)। अभिवाद्य चरणौ स्पृष्ट्वा। अपर आह—प्रवरोच्चारणमभिवादनम्, तत्पूर्वकम्।
- ‘नन्वशक्तमिदं सूत्रमिमावर्थावभिवदितुम्’ (ब्र० सू० १।१।२ शां० भा०)। अभिवदितुमभिधातुम्।
- ‘को नु मार्हेन्नाम्नैवाभिवदितुम्’ (जै० ब्रा० २।५३)। अभिवदितुमभिधातुम् अभिसम्बोधयितुम्।
- ‘न खलु भवान् अस्मत्संकल्पानभिवादकैः’ (कि०)। अभिवादकोऽनुकूलं वदिता।
- ‘तदभिवादिन्येषर्ग्भवति’ (नि०)।
वन्
- {अभिवन्}
- वन् (वन षण संभक्तौ)।
- उदा वर्धन्तामभिषाता अर्णाः (ऋ० ५।४१।१४)। अभिषाताः संभक्ताः (मरुद्भिः)।
वप्
- {अभिवप्}
- वप् (डुवप् बीजसन्ताने, बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च, अयं छेदनेऽपि)।
- ‘स्वप्नेनाभ्युप्या चुमुरिं धुनिं च’ (ऋ० २।१५।९)। अभ्युप्य=अवकीर्य=आकीर्य।
- ‘अभि स्वपूभिर्मिथो वपन्त’ (ऋ० ७।५६।३)।
वश्
- {अभिवश्}
- वश् (वश कान्तौ कान्तिरिच्छा)।
- ‘वृषेव बध्रीँ रभि वष्ट्योजसा’ (ऋ० २।२५।३)। अभिवष्टि ईष्टे प्रभवति।
- ‘स दूतो विश्वेदभिवष्टि सद्मा’ (ऋ० ४।१।८)। अभिवष्टि=अभीच्छति प्राप्तुम्।
वस्
- {अभिवस्}
- वस् (वस आच्छादने)।
- ‘भस्मनाभि वासयति’ (तै० सं० २।६।३।४)। अभित आच्छादयतीत्यर्थः।
वह्
- {अभिवह्}
- वह् (वह प्रापणे)।
- ‘ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम्। यत्रातिष्ठत् कृपो राजन्योत्स्यमानो धनञ्जयम्’ (भा० वि० ५५।६०)॥ अभ्यवहत् (कृपसमीपं) प्रापयत्।
वा
- {अभिवा}
- वा (वा गतिगन्धनयोः)।
- ‘मयोभूर्वातो अभि वातूस्राः’ (ऋ० १०।१६९।१)। अभिवातु आभिमुख्येन वातु।
- ‘शन्न इषिरो अभि वातु वातः’ (ऋ० ७।३५।४)।
- ‘सुखो वातोऽभिवाति माम्’ (भा० वि० ६८।७४)। उक्तोऽर्थः।
वाश्
- {अभिवाश्}
- वाश् (वाशृ शब्दे)।
- ‘अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः’ (ऋ० २।२।२)। अभिववाशिरे आभिमुख्येन वाश्यन्ते शब्दायन्ते, सस्नेहं सादरं चाकारयन्ते।
विश्
- {अभिविश्}
- विश् (विश प्रवेशने)।
- ‘मदनाभिविष्ट०’ (रा० ५।११।१८)। अभिविष्टः=आविष्टः।
वी
- {अभिवी}
- वी (वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
- ‘वामं नृभ्यो अभिवीताः सखिभ्यः’ (ऋ० ७।२७।४)। अभिवीता प्रेरिता (दक्षिणा)।
वृ
- {अभिवृ}
- वृ (वृञ् वरणे)।
- ‘घृतेन द्यावापृथिवी अभीवृते’ (ऋ० ६।७०।४)। अभीवृते आकीर्णे आच्छादिते। सांहितिको दीर्घः।
- ‘अयं स शिङ्क्ते येन गौरभीवृता’ (ऋ० १।१६४।२९)। उक्तोऽर्थः।
- ‘(तम्) अभ्यवारयदत्युग्रः क्रूरकर्माऽऽपगासुतः’ (भा० उ० ६१।३४)। इदं नातितिरोहितम्।
- ‘अभिवृत्य सपत्नान्’ (अथर्व० १।२९।२)। अभिमुखं पर्यावृत्येत्यर्थः।
वृत्
- {अभिवृत्}
- वृत् (वृतु वर्तने)।
- ‘भरतो मन्त्रिभिः सार्धमभ्यवर्तत’ (रा० २।९१।३८)। राजासनमुपायादित्यर्थः।
- ‘अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः’ (भा० उ० १३५।३१)। अभिमुखं यातीत्यर्थः।
- ‘अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम्’ (भा० द्रोण० १५३।१३)। समासादयदित्यर्थः।
- ‘नाभ्यवर्तन्त राजानः सहिता वानरध्वजम्’ (भा० भीष्म० ११७।३९)। साम्मुख्यं नादधुरित्यर्थः।
- ‘स इदानीं जरासन्धः किमर्थं नाभिवर्तते’ (हरि० २।४३।५४)। अभिमुखं नायाति।
- ‘नानाप्रहरणैः क्रुद्धस्तत्सैन्यं सोऽभ्यवर्तत’ (रा० १।२७।४०)। अभ्यवर्तत अभ्ययात्।
- ‘वदनं मधुकरोऽभिवर्तते’ (शा० १)। अभिवर्ततेऽभितो वर्तते, परिवर्तते परिभ्रमति।
- ‘एकीभूतस्तदा राजन् सोऽभ्यवर्तत मां युधि। दीर्घारण्यानि दक्षिणां दिशमभिवर्तन्ते’ (उत्तर० २)। दक्षिणस्यां दिशि वितायन्त इत्यर्थः। इत एवाभिवर्तते देवः। इहैवोपैतीत्यर्थः।
- ‘सहस्रसनिं वाजमभिवर्तस्व रथ’ (आश्व० गृ० २।६।५)। वाजमभिलक्ष्य प्रयाहीत्यर्थः।
- ‘संवत्सरः सर्वाणि भूतान्यभिवर्तते’ (श० ब्रा० ८।४।१।१५)।
- ‘(भार्यां गान्धारीं कथम्) आनुकूल्ये वर्तमामां धृतराष्ट्रोऽभ्यवर्तत’ (भा० आदि० ११५।५)। अभ्यवर्तत उपैत्।
- ‘ये चैनमभिवर्तन्ते याचितार इतस्ततः’ (रा० १।२९।८)। उपयान्ति, उपसर्पन्ति प्राप्नुवन्ति।
- ‘अस्तमभ्यागमत्सूर्यो रजनी चाभ्यवर्तत’ (रा० २।१३।१६)। अभ्यवर्तत उपातिष्ठत आगच्छत्, उपानमत्, अवातरत्।
- ‘अनश्वासो ये पवयोऽरथाः। इन्द्रेषिता अभ्यवर्तन्त दस्यून्’ (ऋ० ५।३१।५)। अभ्यवर्तन्त=अभ्यभवन्, प्रासहन्त, व्यजयन्त।
- ‘शोको महानभिवर्ततेऽयम्’ (रा० ४।२४।१६)। उक्तोऽर्थः।
- ‘अभि त्वा देवः सविताऽभि सोमो अवीवृतत्’ (ऋ० १०।१७४।३)।
- ‘यस्यां देवा असुरान् अभ्यवर्तयन्’ (अथर्व० १२।१।५)। रिणजधिकः। अर्थस्त्वनधिकः।
- ‘वर्तयत तपुषा चक्रियाभि तम्’ (ऋ० २।३४।९)। चक्रेण चक्रयता यानेन आक्रमयतेत्युक्तं भवति।
- ‘तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय’ (ऋ० १०।१७४।१)। राष्ट्रे स्वामिनो नः कुर्वित्याह।
- ‘तस्य कल्यगता भार्या चरितुं नाभ्यवर्तत’ (भा० शां० १४४।२)। नाभ्यवर्तत इह न न्यवर्तत। कल्यगता प्रातर्गता।
- ‘सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत’ (रा० १।१४।१)। अभ्यवर्तत प्रावर्तत प्राक्रम्यत।
- ‘पञ्च तं (दानवं) नाभ्यवर्तन्त विपरीतेन कर्मणा। वेदो धर्मः…’ (मार्क० पु० १७८।१)॥ तत्र दानवेन संन्यधीयन्तेत्यर्थः।
- ‘अभीवर्तेन मणिना येनेन्द्रो अभिवावृधे’ (अथर्व० १।२९।१)। अभितो वर्तते चक्रमनेनेति अभिवर्तो नेमिः। उपसर्गस्य धञ्यमनुष्ये बहुलम् इति दीर्घः।
वृध्
- {अभिवृध्}
- वृध् (वृधु वृद्धौ)।
- ‘वर्धस्व पत्नीरभि जीवो अध्वरे’ (ऋ० ५।४४।५)। पत्नीरभि वर्धस्व ता अतिक्रामेत्याह।
- ‘वार्यमाणस्य वाञ्छा विषयेष्वभिवर्धते’ (कथा० ३१।९१)। भूयो वर्धत इत्यर्थः।
- ‘दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च’ (मनु० ३।२५९)।
- ‘हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते’ (मनु० २।९४)। इहाभिर्नार्थे विशेषं करोति।
- ‘पुरा वोऽर्थोऽभिवर्धते’ (भा० वन० ८।१२)। नश्यतीत्यर्थः। इहाभिरर्थं विपर्यासयति। विरलोऽत्रार्थेऽभिवृधेः प्रयोगः। अतिवर्तते निवर्तते इति नीलकण्ठधृते पाठान्तरे।
वृष्
- {अभिवृष्}
- वृष् (वृषु सेचने)।
- ‘यदीमेनाँ उशतो अभ्यवर्षीत्’ (ऋ० ७।१०३।३)। वर्षेणाभिषिक्तवान् इत्यर्थः।
- ‘समा द्वादश पर्जन्यस्तद्राष्ट्रं नाभिवर्षति’ (भा० सौ० १५।२३)। नाभिवर्षति नाभिषिञ्चति।
- ‘सस्यानि मन्दमभिवर्षति वृत्रशत्रौ’ (ब० बृ० सं० १९।२१)। उक्तोऽर्थः।
- ‘तथाभिवर्षेत्स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन्’ (मनु० ९।३०४)। राष्ट्रे काम्यानां वृष्टिं कुर्यादित्यर्थः।
- ‘मण्डूको यदभिवृष्टः कनिष्कन्’ (ऋ० ७।१०३।४)।
- ‘रुधिरं च महाकायावभिवृष्टाविवाचलौ’ (भा० द्रोण० १७८।३१)। उक्तोऽर्थः।
व्यध
- {अभिव्यध}
- व्यध (व्यध ताडने)।
- ‘मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन्’ (अथर्व० १।१९।१)। अभिमुखमागत्य विध्यन्ति ये तेऽभिव्याधिनः।
- ‘युधिष्ठिरं सप्तभिरभ्यविध्यत’ (भा० शल्य० १७।१२)। उक्तोऽर्थः।
व्ये
- {अभिव्ये}
- व्ये (व्येञ् संवरणे)।
- ‘अभि व्ययस्व खदिरस्य सारम्’ (ऋ० ३।५३।१९)। अभिव्ययस्व वस्स्व आच्छादय परिधेहि। अभिर्धात्वर्थेनैव गतार्थ इति सुपरिहरः।
शंस्
- {अभिशंस्}
- शंस् (शंसु स्तुतौ)।
- ‘अनिन्द्रियो वा एषोऽपदेवो भवति यमभिशंसन्ति’ (जै० ब्रा० १।९६)। अभिशंसन्ति दोषेणाभियुज्य कथयन्ति।
- ‘यमजघ्निवांसमभिशंसेयुः’ (तै० सं० २।१।१०।१०)। मिथ्या पापसंयोजनमभिशंसनमिति भट्टभास्करः।
- ‘अनेनसमेनसा सोऽभिशस्तात्’ (ऐ० ब्रा० ५।३०)। अभिशस्तात् अभिशंसेत् अपवदेत्।
- ‘महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम्’ (याज्ञ० ३।२८५)। अभियुक्तं कथयदित्यर्थः।
- ‘पतनीयेन कर्मणा कृतेनाभिशस्यमानस्य’ (सत्या० श्रौ० २२।२।१९)। दूष्यमाणस्य, अभ्याख्यायमानस्य।
- ‘किं नाम कृपणं दैवमशक्तमभिशंससि’ (रा० २।२३।७)। अभिशंससि प्रशंससि। अत्यन्तं विरलोऽत्रार्थेऽन्यत्र प्रयोगः। प्रकृते चायमेवार्थः सङ्गच्छते। कश्च दैवेन सौमित्रे योद्धमुत्सहते पुमान् इति दैवप्रभावं स्तुवन्तं रामं प्रति लक्ष्मणस्योक्तिरियम्।
- ‘यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव’ (रा० २।१००।५९)। मिथ्यादूषितानाम्। दोषेणाभियुज्य ख्यातोऽभिशस्तो भवति। इह धातुः स्तुत्यर्थं विहाय कथनमात्रमर्थान्तरं सङ्क्रान्तः। सोऽयं सङ्क्रमोऽन्यत्रापि बहुलं लक्ष्यते।
- ‘स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिँल्लोकेऽपरिमिते निरये वृत्ते जायते’ (आप० ध० (२।२।६)। स्तेनोभिशस्तः स्तेनः सन्यस्तथाऽनाख्यातः। अत्राभिर्नञर्थे। अन्यत्र दुर्लभोऽर्थः।
- ‘आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः’ (गाम्) (मनु० ११।११२)। अभिशस्तामाक्रान्तामिति कुल्लूकः। कथमस्यार्थस्य लब्धिरिति न जानीमः।
- ‘दुःशासनस्तूपहतोऽभिशस्तो नावर्तते मन्युवशात् कृतघ्नः’ (भा० उ० ३६।१८)। अभितः शस्त्रै र्दीर्ण इति नीलकण्ठः। व्यक्तमसौ शसु हिंसायाम् इति धातोर्निष्ठायां रूपं पश्यति। धृष्टार्थादन्यत्र निष्ठायामिट् स्यादेवेति न पश्यति। अर्थासङ्गतिं चापि न पश्यति। उत्तमादिलक्षणाख्यानप्रसङ्गे दुःशासनोऽधम इति विवक्षन्निदमाह–दुःशासन इति। तत्र शस्त्रालीढः स उत नेति वधोऽनवकाशम्। तेन दूषित इति प्रसिध्यन्नर्थ एव ग्राह्यः।
- ‘अभिशस्ता इवाभूवन् ध्यानमूकत्वमास्थिताः’ (भा० द्रोण० ३३।५)।
- ‘वेदाध्यायं हत्वा सवनगतं चाभिशस्तः’ (सत्या० श्रौ० २६।६।५५)। अभिशस्त इति ब्रह्मघ्नोऽभिधानमिति टीका।
- ‘तितिक्षन्ते अभिशस्तिं जनानाम्’ (ऋ० ३।३०।१)। अभिशस्तिं गर्हां निन्दाम्।
- ‘नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि’ (ऋ० १।७१।१०)।
- ‘अभिशस्तिपा भुवनस्य राजा’ (ऋ० ९।९६।१०)। अभिशस्तिरभ्याख्यानं दोषारोपः।
- ‘भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः’ (अथर्व० ६।१२।२)। अभिशस्त्याऽभिशंसनेन। मिथ्यापवादजनितात् पापादिति सायणः।
- ‘इति देवी महेष्वासं परिगृह्याभिशस्य च’ (रा० २।११।१६)। अभिशस्य प्रशंस्य।
- ‘ब्राह्मणमनृतेनाभिशंस्य’ (व० ध० २३।३९)। अभियुज्येत्यर्थः।
- ‘अनभिशस्तेन्यमञ्जसा सत्यमुपगेषम्’ (वा० सं० ५।५)। अभिपूर्वः शंसतिर्गर्हार्थे वर्तत इत्युवटः।
- ‘अनभिशस्तेन्यमगर्ह्यम्। पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने’ (मनु० ८।२६८)। अभिशंसने आक्रोशे।
- ‘स्वभावात्क्रूरकर्माणश्चान्योन्याभिशंसिनः’ (भा० वन० १९०।५६)। अन्योन्यस्य दूषका इत्यर्थः।
- ‘मिथ्याभिशंसिनो दोषः’ (याज्ञ० ३।२८४)। ब्रह्महत्यादिकमनेन कृतमिति मिथ्या शंसति कथयति दुदूषयिषया, तस्य।
शिक्ष्
- {अभिशिक्ष्}
- शिक्ष् (शिक्ष विद्योपादाने)।
- ‘क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्’ (भा० आदि० २२१।७३)। अभ्यशिक्षयत् अग्राहयत्, तेषु विशेषेष्वभिव्यनयत्।
- ‘चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससङ्ग्रहम्। अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्’ (हरि० २।३३।७)॥ अभिः साकल्ये।
शी
- {अभिशी}
- शी (शीङ् शये)।
- ‘ते हासुरा असूयन्त इवोचुर्यावदेवैष विष्णुरभिशेते तावद् वो दद्मः’ (श० ब्रा० १।२।५।१)। यावदभिशेते यावन्तं प्रदेशं शयनेन (निपद्य) परिगृह्णाति आवृणोति।
शुच्
- {अभिशुच्}
- शुच् (शुच शोके छन्दसि तु बहुलं दीप्तौ वर्तते)।
- ‘यदि शोको यदि वाभिशोकः’ (अथर्व० १।२५।३)। अभिशोकोभ्यधिकः शोको दीप्तिः।
- ‘मा द्यावापृथिवी अभिशोचीः’ (वा० सं० ११।४५)। मा सन्तापयेत्यर्थः।
- ‘यां ज्ञात्वा नाभिशोचन्ति ब्राह्मणास्तत्त्वदर्शिनः’ (भा० शां० ३०२।२९)। अभिशोचन्ति अभिलक्ष्य शोचन्ति दुःख्यन्ति।
शुम्भ्
- {अभिशुम्भ्}
- शुम्भ् (शुभ, शुम्भ भाषणे, भासने इत्येके, हिंसायामित्यन्ये)।
- ‘समानं वर्णमभिशुम्भमाना’ (अथर्व० १।९२।१०)। समानेन वर्णेन भासमाना।
श्वस्
- {अभिश्वस्}
- श्वस् (श्वस प्राणने)।
- ‘अभिश्वसन्त्स्तनयन्नेति नानदत्’ (ऋ० १।१४०।५)। अभिश्वसन् अभिवान्।
सच्
- {अभिसच्}
- सच् (षच समवाये)।
- ‘पोषैरभि नः सचध्वम्’ (अथर्व० १८।४।६२)। अभिसचध्वम् अभितः समवेतेत्यर्थः।
- ‘रातिषाचो अभिषाचः स्वर्विदः’ (ऋ० १०।६५।१४)।
सञ्ज्
- {अभिषञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- ‘ततो देवानसुरा अभ्यषजन्त। तेन्योऽन्यं युयुधिरे’ (का० सं० कल्प० रेवती० ६)। अभ्यषजन्त पराभावयन् पराजयन्त।
- ‘भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः’ (रा० ३।७।२१)। अभिषज्येत मया कृतपराधो भवेदित्यर्थ इति कतकः। अभिषज्येत पोड्येतेति तु रामः। रामस्य सुतीक्षणं महर्षि प्रत्युक्तिरियम्।
- ‘अभिषज्यमाने तु गुरौ तद्वृत्तं रोषकारितम्’ (भा० वि० ५१।१६)। अभिषह्यमाणे, अभिमृष्यमाणे, परिभूयमाणे। अभिद्यमाने शेषकारितम् इति पाठान्तरे।
- ‘न च सन्दर्शने किं चित् प्रवृत्तमभिसञ्जयेत्’ (भा० वि० ४।२९)। राज्ञां सन्दर्शने समक्षं प्रवृत्तमपि भक्तादिवानमहंपूर्विकयाऽनाकारितः सन् न स्वीकुर्यादिति नीलकण्ठः। अपि सञ्जयेदिति नीलकण्ठधृतः पाठः।
- ‘अभिषक्तो ह्यभिषजेत् आहन्याद् गुरुणाहतः’ (भा० वन० २९।२६)। अभिषक्तस्तापित इति नीलकण्ठः। अयं तात्पर्यार्थ उक्तः स्यात्।
- ‘पार्थानामभिषङ्गेण तथा क्रुद्धं जनार्दनम्’ (भा० वन० १२।८)। अभिषङ्गः पराभवः। त्वभिषङ्गः पराभव इत्यमरश्च।
- ‘व्यतीपातादिसर्वदोषाभिषङ्गरहितेऽहनि’ (हर्ष० चतुर्थ उच्छ्वासे)। अभिषङ्गः सम्बन्धः।
- ‘कन्यका दुन्वन्ति हृदयं मनुष्याणामीदृशाद् दूरभिषङ्गात्’ (मालती० ७)। अभिषङ्गः संसर्गः, आसङ्गः।
- ‘जाताभिषङ्गो नृपतिर्निषङ्गात्’ (रघु० २।३०)। जाताभिषङ्गः प्राप्तपराभवः।
- ‘ततोऽभिषङ्गालिविप्रविद्धा’ (सीता) (रघु० १४।५४)। अभिषङ्ग आकस्मिक आघातः।
- ‘विनोदयिष्यन्ति नवाभिषङ्गाम्’ (रघु० १४।७७)। प्रत्यग्रदुःखाम्।
- ‘उच्चारितं मे मनसोऽभिषङ्गात्’ (भा० उ० ३०।१)। अभिषङ्गाद् आवेगाद् उद्वेगात् क्षोभात्।
- ‘अभिघाताभिचाराभ्यामभिशापाभिषङ्गतः’ (सुश्रुत० उ० अ० ३९)। अभिषङ्गो भूताद्यावेशः।
- ‘क्षेपायमाणमभिषङ्गव्यलीकं निगृह्णाति ज्वलितं यश्च मन्युम्’ (भा० शां० २९९।११)। अभिषङ्गोभिनिवेशः। व्यलीकमप्रियम्
सद्
- {अभिषद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘अथान्यो भिषगभिषदेत्’ (का० सं० विमान० शिष्योपक्रम० अ०)। अभिषदेत् अभिषीदेत् अभ्यागच्छेत्।
- ‘मृधा वा एषोऽभिषण्णः’ (तै० सं० २।४।२।३)। मृधाऽभिषण्णः सङ्ग्रामेणाभिभूतः।
सि
- {अभिषि}
- सि (षिञ् बन्धने)।
- ‘तैस्त्वा सर्वैरभिष्यामि पाशैः’ (अथर्व० ४।१६।९)। अभिष्यामि बध्नामि। अभिस्तु सर्वैरित्यनेन गतार्थः।
सिच्
- {अभिषिच्}
- सिच् (षिच क्षरणे)।
- ‘यत्काम इदमभिषिञ्चामि’ (अथर्व० ६।१२२।५)। अभिषिञ्चामि अभितो निनयामि। इदम् इदानीम्।
- ‘तथाभ्यषिक्त वारीणि पितृभ्यः शोकमूर्च्छितः’ (भट्टि० ६।२३)। सलिलं न्यवपत्, उदकमकरोदित्यर्थः।
- ‘तद्यथा जक्षुषेऽभिषिञ्चेदेवं तत्’ (श० ब्रा० २।४।२।२३)। भुक्तवन्तमाप्लावयेदित्यर्थः।
- ‘सङ्गे पुनर्बहुतराममृताभिषिक्ताम्’ (चौर० २९)। अमृतेनाभिवृष्टामित्यर्थः।
- ‘अथ वपुरभिषेक्तुं तास्तदम्भोभिरीषुः’ (शिशु० ७।७५)। अभिषेक्तुमाप्लावयितुम्।
- ‘अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयम्…’ (रघु० १९।१)। अभिषेचनेनाभिषेकपूर्वकं स्वस्थाने प्रतिष्ठाप्येत्यर्थः।
- ‘अभिषेकं करिष्यामि तासु नित्यमनुव्रता’ (रा० २।२७।१९)। अभिषेकं स्नानम्।
- ‘कृताभिषेको गङ्गायाम्’ (रा० १।४४।३०)। उक्तोऽर्थः।
- ‘उपनीयतां मन्त्रेण संभृतः कुमारस्याभिषेकः’ (विक्रम०)। इहाभिषेकार्थं जलमभिषेक उक्तः। तादर्थ्यात्ताच्छब्धम्।
- ‘किं पुष्करजलैरभिषेचनेन’ (हरि० १।१।२)। अभिषेचनं स्नानम्।
सु
- {अभिषु}
- सु (षुञ् अभिषवे। अभिषवः स्नानं सुरासन्धानं च)।
- ‘रामाभिषवसंयुक्ताश्चक्रुरेव कथा मिथः’ (रा० २।६।१६)। रामाभिषवो रामाभिषेकः। अत्र धातुः स्नानमभिधत्ते।
सृ
- {अभिसृ}
- सृ (सृ गतौ)।
- ‘पराजितश्चेद् द्विगुणदण्डः क्रियेत न कश्चन राजानमभिसरिष्यति’ (कौ० अ० ३।२०।६)। अभिसरिष्यत्यभ्युपैष्यति (न्यायार्थम्)।
- ‘पतिलोभेन यं गङ्गा विनीताऽभिससार ह’ (हरि० १।२७।५, १।३२।४४)। अभिससार अभिसरणं अभिलक्ष्य सरणं कृतवती, प्रोवाह।
- ‘यद्येतावान् बहुमानः, किं नाभिस्रियते। …किन्तु सहसाऽभिसृतः प्रत्युपकारदुर्लभतया पुनर्मे दुर्लभो भवेदिति विलम्बे’ (चारु० २)।
- ‘आर्ये यदि स मनीषितस्तकिमर्थमिदानीं सहसा नाभिसार्यते’ (मृच्छ० २)। स्वार्थे णिच्।
- ‘पुरोऽभिसस्रे सुरसुन्दरीजनैः’ (कि० ८।४)।
- ‘अभिससार न वल्लभमङ्गना’ (शिशु० ६।२६)। अनन्तरोदीरित एवार्थः।
- ‘इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम्’ (दशकु० पृ० १६५)। अभ्यसरं प्रायाम्।
- ‘छिन्धि भिन्द्धि प्रधाव त्वं पातयाभिसरेति च। अश्रूयन्त महाघोराः शब्दाः…’ (भा० आदि० १९।१।८)॥ अभिसर=अनुसर।
- ‘अभि स्ववृष्टिं मदे अस्य युध्यतो रध्वीरिव प्रवणे सस्रुरूतयः’ (ऋ० १।५२।५)। अभिसस्रुः=अभिसस्यन्दिरे।
- ‘अनभियुक्तस्तु लघुव्यसनः सुखेन व्यसनं प्रतिकृत्यामित्रो यातव्यमभिसरेत्’ (कौ० अ० ७।५।८)। अभ्युपपद्येत, साहायकमाचरेत्, साचिव्यं कुर्यात्।
- ‘अनभिसरतां द्वादशपणो दण्डः’ (कौ० अ० ४।३।९)। साहाय्यार्थं नोपसर्पतामित्यर्थः।
- ‘सुखा हि प्राप्तुं पालयितुमभिसारयितुं च भवति’ (अल्पा प्रत्यासन्ना भूः) (कौ० अ० ७।१०।१८)। अभिसारयितुं संरक्षणायोपैतुम्।
- ‘लोचनैरभिसृतस्य चेतसः प्राभवन्न सुरलोकसुभ्रुवः’ (पारिजात० १७।११)। कृताभिसरणस्य सङ्केतं प्रतियियासतश्चेतसो न प्राभवन्नेशाञ्चक्रिरे।
- ‘मन्मथाभिसरा तदगारमभिसरामि’ (दशकु०)। अभिसरः सहायः। अनुप्लव: सहायश्चानुचरोऽभिसरः समा इत्यमरः।
- ‘कृत्वा साभिसरमुत्तरापथं प्राहिणोत्’ (हर्ष० पृ० १५०)।
- ‘मया साभिसारमकरोत्स्वामी’ (हर्ष० पृ० २७)। अभिसारोऽभिसरः।
- ‘लोहाभिसारो निर्वृत्तः, कुरुक्षेत्रमकर्दमम्’ (भा० उ० १६०।९३, १६१।११)। लोहाभिसारः शस्त्रादीनां नीराजनादिकम्।
- ‘त्रिपक्षादूर्ध्वमनभिसारं राजा हरेत्’ (कौ० अ० ३।१६।२२)। अनभिसारं ममेदं मे दीयतामित्यप्रार्थितम्।
- ‘अतो विपरीता रोगाणामभिसरा हन्तारः प्राणानाम्’ (चरक० सूत्र० २९।८)। अभिसरा आनेतारः।
- ‘तद्वदासीदभीसारो द्रोणपार्षतयो रणे’ (भा० द्रोण० १९१।३१)। अभीसारोऽनुसारः।
- ‘श्वोऽभिसारः पुरस्य नः’ (रा० ६।९।१९)। अभिसार आस्कन्दः। अन्यत्राभिसारः सङ्केतस्थानं कामुकानाम्।
- ‘शत्रोः सर्वाभिसारे सति रचयति यस्तस्य सर्वापहारम्’ (प्र० सर्व० मङ्गलश्लोके द्वितीये। सर्वाभिसारमिच्छन्ति सर्वसंनहनं बुधाः (प्र० सर्व०)। निगदव्याख्यातम्।
- ‘अभिसारेण सर्वेण तत्र युद्धमवर्तत’ (भा० वन० १३ ४।)। आयुधानां सर्वतः सरणमभिसारः।
- ‘स पन्थानमासाद्य समुद्राभिसरं तदा’ (भा० शां० १६९।६)। समुद्रगामिनं सागरमुपतिष्ठमानम्।
- ‘अदण्ड्यागन्तुकी गौश्च सूतिका वाऽभिसारिणी’ (याज्ञ० २।१६३ मिताक्षरायामाशनसं वचः)। अभिसारिणी स्वयूथात्प्रच्युता पुनः स्वयूथगामिनी।
- ‘एते ते दैवतानामसुरपुरवधे गच्छन्त्यभिसरीम्’ (प्रतिमा० ३।७)।
सृज्
- {अभिसृज्}
- सृज् (सृज विसर्गे)।
- ‘मा नोऽभि स्रा मत्यं देवहेतिम्’ (अथर्व० ११।२।१९)। अभिस्राः=अभिस्राक्षीः, उपरि नो मा क्षैप्सीः, मा नोऽभिलक्ष्य प्रास्थः। मेतो मुञ्चेत्यर्थः।
- ‘यदोषघीरभिसृष्टो वनानि च’ (ऋ० १०।९१।५)।
- ‘तेषामाजिं यतामभिसृष्टानां वायुमुखं प्रथमः प्रत्यपद्यत’ (ऐ० ब्रा० २।२५)। अभिसृष्टानां सन्नद्धानाम् इति षड्गुरु०। अभितः प्रवृत्तानामिति सायणः।
- ‘त्वयाऽभिसृष्टेन हतः शैनेयेन महात्मना’ (भा० शल्य० ६१।३५)। अभिसृष्टेन प्रेरितेन।
सृप्
- {अभिसृप्}
- सृप् (सृप्लृ गतौ)।
- ‘तस्य ह ज्येष्ठः पुत्रोऽभिसृप्य मुखमभिजग्राह’ (शां० ब्रा० ३०।५)। अभिसृप्य=उपसृप्य उपेत्य।
सो
- {अभिषो}
- सो (षो अन्तकर्मणि)।
- ‘तैस्त्वा सर्वैरभिष्यामि पाशैः’ (अथर्व० ४।१६।९)। अभिदधामि, प्रसिनामि, बध्नामि।
स्कन्द्
- {अभिस्कन्द्}
- स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
- ‘अभिचस्कन्द वन्दनेव वृक्षम्’ (अथर्व० ७।१२०।२)। अभितो व्याप्ता वर्तत इत्यर्थः।
स्था
- {अभिष्ठा}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘अभिवाद्याभिसंहृष्टौ गमनायाभितस्थतुः’ (रा० १।२३।४)। अभितस्थतुरभिमुखं स्थितौ। अभितष्ठतुरिति तु पाणिनीयाः।
- ‘पदाऽभितिष्ठन्ति’ (वेदिम्) (श० ब्रा० १।२।५।२६)। वेद्यां पदानि निदधतीत्यर्थः।
- ‘इदमहं रक्षोऽभितिष्ठामि’ (वा० सं० ६।१६)। पादेनाभित आक्रम्य तिष्ठामीत्यर्थः।
- ‘अभितिष्ठ पृतन्यतः’ (वा० सं० ११।२०)। आक्रामेत्यर्थः।
- ‘अभितिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च’ (अथवे० ६।४२।३)। आक्रम्य तिष्ठामीत्यर्थः।
- ‘शत्रूयतामभितिष्ठ महांसि’ (तै० ब्रा० २।५।२।४)। शात्रवमिच्छतां तेजांस्यभितिष्ठ अभित आक्रामेत्युक्तं भवति।
- ‘तस्य पदा शिरोऽभितष्ठौ’ (श० ब्रा० ५।४।१।९)। उपापीडयदित्यर्थः।
- ‘अभिष्ठितो वरुणस्य पाशः’ (तै० सं० १।४।४५)। अभिष्ठितोऽभिभूय क्रान्तः।
- ‘अधः सपत्ना मे पदोरिमे सर्वेऽभिष्ठिताः’ (ऋ० १०।१६६।२)। अभिभूताः सन्तः स्थिताः।
स्मि
- {अभिस्मि}
- स्मि (ष्मिङ् ईषद्धसने)।
- ‘तदा स्म मन्त्रं सहिताः प्रचक्रु स्त्रैलोक्यनाशार्थमभिस्मयन्तः’ (भा० ३।१०१।१९)। त्रिदशानामुपरि स्मयमाना असुराः।
स्यन्द्
- {अभिष्यन्द्}
- स्यन्द् (स्यन्दू प्रस्रवणे)।
- ‘यदि त्वामीदृशं रामभद्रः पश्येत्तदास्य हृदयं स्नेहेनाभिष्यन्देत’ (उत्तर० ५)। अभिष्यन्देत द्रवेत् प्रस्रवेत्। अभिरविशेषकः।
- ‘सततमभिष्यन्दमानमेधमेदुरितनीलिमा’ (गिरिः) (उत्तर० १)। अभिष्यन्दमानो वर्षन्।
- ‘प्रायेण सर्वे नयनामयास्ते भवन्त्यभिष्यन्दनिमित्तमूलाः’ (सुश्रुत० उत्तर० ६।२)। नयनाभ्यां जलबिन्दुनिपतनमभिष्यन्दः।
- ‘भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन स्वदेशाभिष्यन्दवमनेन वा निवेशयेत्’ (कौ० अ० २।१।१)। अभिष्यन्दोऽतिरेकः (प्रजानाम्)।
- ‘स्वर्गाभिष्यन्दवमनं कृत्वेव विनिवेशितम्’ (रघु० १५।२९, कु० ६।३७)। उक्तोऽर्थः।
- ‘गुर्वभिष्यन्दिभक्तानि’ (विष्णुधर्मोत्तरे २।४६।४४)। अमिष्यन्दीनि मलशैथिल्यकराणि।
- ‘दिवास्वप्नात् पुरोवाताद् गुर्वभिष्यन्दिभोजनात्’ (का० सं० खिल० सूतिकोप० श्लो० ४१)। उक्तोऽर्थः। नवं धान्यमभिष्यन्दि लघु संवत्सरोषितम् इत्यायुर्वेदविदः। अभिष्यन्दिरमणं शाखानगरमिति कोषः।
स्वञ्ज्
- {अभिष्वञ्ज्}
- स्वञ्ज् (ष्वञ्ज परिष्वङ्गे)।
- ‘नाभिष्वजेत् परं वाचा कर्मणा मनसापि वा’ (भा० शां० २४०।२९)। नाभिष्वजेत् नाभिष्वजेत। न परिगृह्णीयान्ममायमिति न तत्र सज्जेत्।
- ‘अभिष्वक्तस्य कामेषु’ (सौन्दर० ११।१०)॥ अभिष्वक्त आसक्तः प्रसक्तः प्रसङ्गी।
- ‘अभिष्वङ्गस्तु कामेषु महामोह इति स्मृतः’ (भा० आश्व० ३६।३२)। अभिष्वङ्ग आसक्तिः।
- ‘आहारे शरीरे चानभिष्वङ्गात्’ (अवदा० जा० ७)। उक्तोऽर्थः।
- ‘नास्ति मे त्वय्यभिष्वङ्गः’ (रा० ६।१०।२१)। स्नेहः प्रेमा रागः।
- ‘असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु’ (भा० पु० १३।९। )। निगदव्याख्यातम्।
- ‘न तत्कुर्यादभिष्वङ्गं पापज्ञप्त्येकहेतवे। स्त्रीभिः कदाचन…’ (कथा० ६६।७१)॥
- ‘स तं दृष्ट्वा झटित्येव गाढाभिष्वङ्गतो गतम्। सप्तमीं मदनावस्थाम्…’ (कथा० ८६।६७)॥ अभिष्वङ्गो रागः। अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियामित्यमरः। अभिष्वङ्गो राग इति स्वामी।
स्वृ
- {अभिस्वृ}
- स्वृ (स्वृ शब्दोपतापयोः)।
- ‘इह त्या सधमाद्या… हरी इन्द्र प्रतद्वसू अभि स्वर’ (ऋ० ८।१३।२७)। अभिस्वर अस्मान् प्रत्यागच्छेति दुर्गो निरुक्तवृत्तौ।
हन्
- {अभिहन्}
- हन् (हन हिंसागत्योः)।
- ‘अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः’ (भा० अनु० १००।२३)। अभ्यहनत्। अभिघातमकरोत्। अविध्यदित्यर्थः।
- ‘मर्मस्वभ्यवधीत् क्रुद्धः पादाष्ठीलैः सुदारुणैः’ (भा० सौ० ८।२४)। अभ्यवधीद् अभितोऽताडयदित्यर्थः। पादाष्ठीलैः पादग्रन्थिभिः। पार्ष्णिघातैरित्यर्थः।
- ‘ततः शङ्खाश्च भेर्यश्च…। सहसैवाभ्यहन्यन्त…’ (गीता० १।२३)॥ अभ्यहन्यन्त अताड्यन्त।
- ‘सोऽभिहतो व्यनदत्’ (ऐ० ब्रा० ४।२)। स वृत्रः। अभिहतः प्रहृतः।
- ‘अन्योन्यहराभिहतौ हरांशौ’ (लीला०)। अभिहतौ गुणितौ।
- ‘अस्त्रेण मेदिनीमभिहत्य’ (भा० द्रोण० ९९।५९)। अभिहत्य=आहत्य=ताडयित्वा।
हर्य्
- {अभिहर्य्}
- हर्य् (हर्य गतिकान्त्योः)।
- ‘मनसा वै सम्राट् स्त्रियमभिहर्यति’ (श० ब्रा० १४।६।१०।१५)।
हा
- {अभिहा}
- हा (ओहाङ् गतौ)।
- ‘तस्याभ्यग्निरैतशायन एत्याकालेऽभिहाय मुखमप्यगृह्णात्’ (ऐ० ब्रा० ६।३३)। अभिहाय स्वासनादुत्थाय।
हु
- {अभिहु}
- हु (हु दानादनयोः)।
- ‘सोऽपो जुहोति’ (श० ब्रा० ३।९।३।२३)। अपामुपरि हविर्दत्त इत्यर्थः।
- ‘अथोपविश्य मृदमभिजुहोति’ (श० ब्रा० ६।३।३।१५)। मृद उपरि हव्यं प्रदिशतीत्यर्थः।
हृ
- {अभिहृ}
- हृ (हृञ् हरणे)।
- ‘इमा विशो अभि हरन्तु ते बलिम्’ (अथर्व० १९।४५।४)। अभिहरन्तु उपहरन्तु।
- ‘तस्मै ह स्म पूर्वाह्णे देवा अशनमभिहरन्ति’ (श० ब्रा० १।६।३।१२)। उक्तोऽर्थः।
- ‘तस्मादु दिशो दिश एव राज्ञेऽन्नाद्यमभिह्रियते’ (श० ब्रा० ५॥५।१??)
- ‘सा मुक्ताऽभ्यहरच्छक्तिर्महिषस्य शिरो महत्’ (भा० वन० २३१।९६)। अभ्यहरदपाहरत्, अच्छिनत्।
- ‘तदन्तरमथावृत्य कोटिकास्योऽभ्यहारयत्’ (भा० वन० २७१।५)। भीमजयद्रथयोर्मध्ये प्रवेशेनान्तरं व्यवधानमकरोत्।
- ‘सवज्रायसगर्भं तु कवचं तत्र काञ्चनम्। विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत्’ (भा० वि० ३१।१२)॥
- ‘सर्वपारसवं वर्म कल्याणपटलं दृढम्। शतानीकादवरजो मदिराक्षोऽभ्यहारयत्’ (भा० वि० ३१।१२-१३)॥ अभ्यहारयत् अबध्नात्।
- ‘सुरामैरेयपानानि प्रभूतान्यभ्यहारयन्’ (भा० वि० ७२।२८)। अभ्यहारयन् अभित आहारयन् आनयन्।
- ‘पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यहारयत्’ (भा० )। नाभिमुखमापद्यत।
- ‘पूर्वं दक्षिणं पादमभिहरन्ती प्रदक्षिणमग्निमनु परिक्रामेत्’ (चरक० शारीर० ८।११)। अभिहरन्ती अग्रतो निदधती, उद्यच्छमाना।
- ‘अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु’ (भा० द्रोण० ८८।३)। अभिहारयत्सु सन्नह्यमानेषु, अभियुञ्जानेषु वा। प्रहरत्स्विति केचित्।
- ‘स्नातस्तु काले यथाविध्यभिहृतम्’ (सत्या० श्रौ० २६।२।९५, आप० ध० १।२।८७)। अभिहृतमाबद्धं (स्रगादि)।
- ‘मुखतोऽभिहृत्य मुखत उपावहरति’ (आप० श्रौ० २।४।१३।३)। अभिमुखं कृत्वा उपावहरति अपादत्त इति रुद्रदत्तः।
- ‘प्रियं कर्तुमुपस्थातुं बलिकर्म स्वकर्मजम्। अभिहर्तुम्…’ (भा० सभा० १३।१६)॥ उपहर्तुमुपायनीकर्तुम्। अभिहारोऽभिग्रहणम् (वैजयन्ती)।
- ‘चौर्यकरणं बलादपहारो वा। सुहृत्कार्येष्वनभिगमनमनभिहारहेतोः’ (कामसूत्रे)। अभिहार उपहार उपायनम्।
- ‘याच्यमाहुरनीशस्य अभिहारं च भारत’ (भा० अनु० ६०।४०)। अभिहारस्तिरस्कार इति नीलकण्ठः। बलादपहार इत्यन्ये। अनीशस्य दरिद्रस्य।
- ‘अतिदूरात्सामीप्यादिन्द्रियाघातान्मनोऽनवस्थानात्। सौक्ष्म्याद् व्यवधानादभिभवात्समानाभिहाराच्च’ (साङ्ख्यका० ७)॥ अनुपलब्धिरित्यनुषङ्गः। समानाभिहारः सजातीयसंवलनम्, सजातीयपदार्थसंमिश्रणम्।
- ‘व्यादिदेश गणशोऽथ पार्श्वगान् कार्मुकाभिहरणाय मैथिलः’ (रघु० ११।४३)। अभिहरणमाहरणम्।
- ‘यानक्षोभो यानपातो यानाभिहरणं तथा।’ (का० नी० सा० १५।२०)। अभिहरणमनभिमतदेशप्रापणमिति मङ्गला। यानेन (प्रजविना) अभिहरणमिति विग्रहः।
- ‘सर्वं सुगुणलक्ष्मीवत् तदभूदाभिहारिकम्’ (रा० २।६५।१०)। प्राता राज्ञे यदभिहर्तव्यं मङ्गलाद्यानेतव्यं तदाभिहारिकमुच्यते। आभिहारिकं सौख्यदमिति तु संस्कृतशार्मण्यकोषः। बलादुपधिना वाऽपहृतमित्यन्ये।
- ‘भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः’ (भा० वन० वन० २८१।४६)। भार्याभिहर्ता दारापहारकः।
- ‘लोहाभिहारोऽस्त्रभृतां राज्ञां नीराजनाविधिः’ (अमरः)। लोहस्य शस्त्रस्याभितो हरणम्।
हेष्
- {अभिहेष्}
- हेष् (हेषृ अव्यक्ते शब्दे, अश्वरवे)।
- ‘तद्यथा भिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक् तत्’ (ऐ० ब्रा० ६।८)। अभिहेषतेऽभिहेषमाणाय (घासार्थं) आभिमुख्येन शब्दं कुर्वाणाय।
- ‘हया हयानभ्यहेषन्’ (भा० कर्ण० ८७।९९)। अभिलक्ष्याहेषन्तेत्यर्थः।