१४४ अतिसम् (अति+सम्)

धा

  • {अतिसंधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत्। आत्मानं योऽतिसन्धत्ते सोन्यस्मै स्यात्कथं हितः’ (मी० १।३।२।४ तन्त्र० उद्धृतम्)॥ अतिसन्धत्ते वञ्चयते प्रतारयति।
  • ‘त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः’ (शा० ३)। उक्तोऽर्थः।
  • ‘संहृत्यारिविजिगीष्वोरमित्रयोः पराभियोगिनोः पार्ष्णि गृह्णतीर्यः शक्तिसम्पन्नस्य पार्ष्णिं गृह्णाति सोऽतिसन्धत्ते’ (कौ० अ० ७।१३।२)। हीनशक्तिपार्ष्णिग्राह्यपेक्षया लाभविशेषं प्राप्नोतीत्युक्तं भवति।
  • ‘लक्ष्यलम्भाधिकारेपि स्थैर्यप्रतिपत्त्यसंमोषैः शूरः कृतास्त्रमतिसन्धत्ते’ (कौ० अ० ७।१७।२६)। अतिसन्धत्तेऽतिक्रामति, अतिशेते।
  • ‘तानुपहस्यमानतामात्मनः परिहरन् कोऽतिसन्दधीत सचेताः’ (ध्वन्या० ३।३३ व्याख्यायाम्)। अतिसन्दधीत=लङ्घयेत्। नाभ्युपेयादित्यर्थः।
  • ‘मूलद्वारं नान्यैर्द्वारैरतिसन्दधी???पर्द्ध्या। घटफलपत्रप्रमथादिभिश्च तन्मङ्गलैश्चिनुयात्’ (बृ० सं० ५३।८२)॥ नातिसन्दधीत नावमानयेत्, नातिक्रमयेत्। नास्य गौरवं लघयेत्।
  • ‘कि पुनरिमामतिसन्धाय लभ्यते’ (शा० ५)। अतिसन्धाय विप्रलभ्य, वञ्चयित्वा।
  • ‘कथमतिसन्धेयं तुमुलम्’ (महावीर०)। अतिसन्धेयं शमयितव्यम्। तुमुलं रणसङ्कुलम्।
  • ‘तद्विशेषस्य ध्वनेर्यत्प्रकाशनं विप्रतिनिरासाय सहृदयव्युत्पत्तये वा तत्क्रियमाणमनतिसन्धेयमेव’ (ध्वन्या० ३।३३)। अनतिसन्धेयम् अभ्युपेयम्।
  • ‘ते हि शक्ता लुप्तप्रभुशक्तेरुत्साहशक्तिमतिसन्धातुम्’ (महावीर० ४)। अतिसन्धातुं वञ्चनेन वशयितुम्।
  • ‘परातिसन्धानमधीयते यै र्विद्येति ते सन्तु किलाप्तवाचः’ (शा० ५।२३)। परातिसन्धानं परवञ्चनम्, परप्रलम्भनम्। परप्रतारणम्।