अर्ज्
- {अत्यर्ज्}
- अर्ज् (अर्ज षर्ज अर्जने, अर्ज प्रतियत्ने)।
- ‘स्वस्ति हैनमत्यर्जन्ति स्वर्गं लोकर्माभ’ (ऐ० ब्रा० १।११)। अत्यर्जन्ति गमयन्ति प्रापयन्ति। अतिः सौष्ठव इति षड्गुरु०। अतिशब्दः क्षिप्रार्थ इति गोविन्दस्वामी।
- ‘अति नोर्जस्याकाशं नः कुर्विति’ ( )। अवकाशं नः प्रापयेत्याह।
अर्ह्
- {अत्यर्ह्}
- अर्ह् (अर्ह पूजायाम्)।
- ‘बृहस्पते अति यदर्यो अर्हति’ (तै० सं० १।८।२२।२)। अत्यर्हति=अतिक्रम्यार्हति।
अश्
- {अत्यश्}
- अश् (अश भोजने)।
- ‘अहं पतीन्नातिशये नात्यश्ने नातिभूषये’ (भा० वन० २३३।३८) नात्यश्ने=नात्यश्नामि नातिक्रम्याश्नामीत्याह। यावन्मे पतयो भुक्ता भवन्ति तावदेव भुञ्जे, न ततः प्राग् इति भावः।
- ‘यद्यु अश्नाति देवानत्यश्नाति’ (श० ब्रा० १।१।१।९)। उक्तोऽर्थः।
अस्
- {अत्यस्}
- अस् (अस भूवि)।
- ‘श्रिया समानाँ अति सर्वान्त्स्याम’ (अथर्व० ११।१।१२)। अतिष्याम अभिभवेमेत्यर्थः।
अस्
- {अत्यस्}
- अस् (असु क्षेपणे)।
- ‘बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्। विनिर्योक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु’ (रा० २।२३।३७)॥ अत्यस्यन् पराभावयन्, पराणुदन्।
- ‘तुहिनात्यस्तः’ (पा० २।१।२४ सूत्रवृत्तौ)। हिममतिक्रमित इत्यर्थः।
- ‘द्व्यहात्यासं गाः पाययति’ (पा० ३।४।५७ सूत्रे वृत्तौ)। अत्यसनेनातिक्रमणेन गवां पानक्रियां विच्छिनत्ति। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः।
आप्
- {अत्याप्}
- आप् (आप्लृ व्याप्तौ)।
- ‘राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः। अत्याप्तिरुच्छिष्टे’ (अथर्व० ११।७।२२)। अतिक्रान्ताऽऽप्तिरत्याप्तिः।
इ
- {अती}
- इ (इण् गतौ)।
- ‘अत्येति रजनी या तु सा न प्रतिनिवर्तते’ (रा० २।१०५।१९)। अत्येति अतिक्रामति विगच्छति। एतद्रुद्रावसं तेन परो मूजवतोऽतीहि (वा० सं० ३।६१)। अतीहि अतिक्राम। अवसं भोजनम्।
- ‘अवश्यकरणीये च मा त्वां कालोऽत्यगादयम्’ (भा० आदि० १५९।१६)। अकृतार्थं त्वा मातिक्रमीत्, मा हासीत्।
- ‘अत्यन्याँ अगां नान्याँ उपागाम्’ (वा० सं० ५।४२)। अत्यगां पर्यहार्षमुपैक्षिषि।
- ‘अत्यगान्मायां देवानाम्’ (भा० पु० ९।२०।२७)। आत्मानं देवानां मायायाः पर्यहार्षीत्, अरक्षीदित्यर्थः।
- ‘प्राप्तकालमिदं मन्ये मा त्वं दुर्योधनात्यगाः’ (भा० उ० १२५।२६)। मातिहासीरित्यर्थः।
- ‘न चैनमत्यगाद् वह्निर्वेलामिव महोदधिः’ (भा० सभा० ३१।५३)। एनं सहदेवं (सैन्यस्याभिमुखे स्थितम्) अतिक्रम्य सैन्यं न ददाहेत्यर्थ इति नील०।
- ‘एवं मे वसतो राजन्नेष कालोऽत्यगाद् दिवि’ (अर्जुन० ४।६२)। अत्यगात् अत्यक्रमीत्, व्यगात्।
- ‘नात्येति कालो यज्ञस्य यथाऽयं मम राघव’ (रा० १।१९।१८)। नात्येति नातिक्रामति, नातियाति।
- ‘अथ या अष्टाविष्टका अतियन्ति’ (श० ब्रा० ८।५।३।७)। अतिरिक्ता भवन्तीत्याह।
- ‘नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः’ (ऋ० १।३२।८)। अतियन्ति उपरि प्लवन्ते।
- ‘अतीयात्सागरो वेलां न प्रतिज्ञामह पितः’ (रा० २।११२।१८)। अतीयात् अतिलङ्घेत। वेलां मर्यादां भिन्द्यादित्यर्थः।
- ‘केनात्यगाद्राजा व्याधिना’ (रा० २।७२।२९)। अत्यगात् अमृत, मृतिमापत्।
- ‘मा मे वाङ् नाभिमतिगाः’ (का० श्रौ० ९।१२।४)।
- ‘सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम्’ (भा० द्रोण० १२८।१०)। अत्यगात् अतिक्रम्यागात्।
- ‘स्थातव्यं ते नयनविषयं यावदत्येति भानुः’ (मेघ० ३६)। नयनगोचरतां नातिक्रामतीत्यर्थः।
- ‘स हि देवोऽत्यगात् देवांस्तपसा विक्रमेण च’ (भा० सौ० ६।३४)। अत्यगात् अत्यशेत।
- ‘तद्धि (अग्निहोत्रम्) पवित्रं नात्येति’ (भा० श्रौ० ६।८।१८)। पवित्रं नक्तकः। अग्निहोत्रपयो नक्तकान्न बहिः स्रवतीत्यर्थः।
- ‘अद्वारेण च नातीयाद् ग्राम वा वेश्म वा वृतम्’ (मनु० ४।७३)। नातीयात् न प्रविशेत्।
- ‘असन्निवृत्त्यै तदतीतमेव (शा० ६।१०)। अतीतमतिक्रान्तम्।
- ‘सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम्’ (मनु० ५।७१)। अतीते मृते। क्षपणं लङ्घनम्।
- ‘अप्रजायामतीतायां भर्तुरेव तदिष्यते’ (मनु० ९।१९६)। अतीतायां मृतायामुपरतायाम्।
- ‘ततस्तु पूषतेऽतीते स राजा द्रुपदोऽभवत्’ (भा० आदि० १६६।८)।
- ‘अतीतमाज्ञाय तु पार्थिवर्षभम्’ (रा० २।६५।२९)। उक्तोऽर्थः।
- ‘कैर्लिङ्गस्त्रीन्गुणानेतानतीतो भवति प्रभो’ (गीता० १४।२१)।
- ‘सोऽन्तः पुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्’ (रा० २।३४।११)। अतीत्यैव अतिवेगेन प्राप्यैव।
- ‘न दिष्टमर्थमत्येतुमीशो मर्त्यः कथंचन’ (भा० वन० १३५।५५)। अत्येतुं परिहर्तुम्।
- ‘स्रोतोवहां पथि निकामजलामतीत्य’ (शा० ६।१६)। अतीत्य अतिक्रम्य विहाय।
- ‘अतीत्य हि गुणान्सर्वान् स्वभावो मूर्ध्नि वर्तते’ (हितोप० १।१८)। अतीत्य=अतिशय्य।
- ‘तपात्यये’ (कू० ४।४४)। निदाघान्त इत्यर्थः।
- ‘प्राणानामेव चात्यये’ (मनु० ५।२७)। अत्ययः संशयः। अत्ययशब्दो मुख्यया वृत्त्या नाशमाह। गौण्या तु तत्कारणे संकट उपचर्यते।
- ‘प्राणात्यये च सम्प्राप्ते’ (याज्ञ० १।१७९)।
- ‘न नर्मयुक्तमनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि’ (भा० आदि० ८२।१६)॥ उक्तोऽर्थः।
- ‘क्षत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत्’ (मनु० ८।२४३)। अत्ययोऽपराधः।
- ‘दाप्योऽष्टगुणमत्ययम्’ (मनु० ८।४००)। अत्ययो दण्डः।
- ‘साहसस्तेयपारुष्यगोभिशापात्यये’ (याज्ञ० २।१२)। अत्ययः प्राणधनातिपातः।
- ‘पितुरत्ययात्’ (दशकु० ६४)। अत्ययो मृत्युः।
- ‘नानात्ययानां वृक्षाणां रसान् समवहारमेकतां रसं गमयन्ति’ (छां० उ० ६।३।१)। अत्ययो गतिः स्वभावः।
- ‘बहव इमेस्मिन्पुरुषे कामा नानात्ययाः’ (छां० उ० ४।१०।३)। नानात्यया नानानर्थावहा इत्यर्थः।
- ‘वारणं (शङ्कुम्) पश्चादघं ये वारयाता इति वृत्रशङ्कुं दक्षिणतोऽघस्यैवानत्ययाय’ (श० ब्रा० १३।८।४।१)। अत्ययो वृद्धिः। यथा नातः पर वर्धेत तथेत्यर्थः।
- ‘क्षुरस्य धारा निशिता दुरत्यया’ (कठ० उ० १।३।१४)। अत्यय उपरिपादन्यासः। दुःखोत्ययो यस्याः सा।
- ‘बुद्धिश्च ते लोकैरपि दुरत्यया’ (रा०)। दुरत्यया, दुरवगमा, दुरासदा।**
- ‘राजा (=सोमः) पवित्रमत्येति’ (ऋ० ९।८५।९)। दशापवित्रमतिक्रम्य गच्छति।
- ‘ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्। श्येनो गृध्राणां सोमः पवित्रमत्येति रेभन्’ (तै० स० ३।४।११)॥ पवित्रान्नक्तकान्निश्च्योतति प्रस्रवति।
- ‘अतीत्य मर्त्याननुपेत्य देवान् सृष्टावभूतामिव भूतधात्रा’ (सौन्दर० ४।६)। अतीत्य अतिक्रम्य अतिशय्य। परावरयोगे ल्यप्।
- ‘आजग्मुः परमं क्षोभमत्ययेष्विव सागराः’ (मात्स्यपु० १३८।४)। अत्ययः प्रलयः।
- ‘तयोः (अग्निहोत्रयोः) एतदेवात्ययनम्–अस्तमिते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात्’ (जै० ब्रा० १।६)।
ऊह्
- {अत्यूह्}
- ऊह् (ऊह वितर्के)।
- ‘अधोऽधोक्षं प्रत्यञ्चं द्रोणकलशमत्युह्य’ (का० श्रौ० ९।२।१६)। अत्युह्य (प्रतीच्यां) प्रेर्य।
एष्
- {अत्येष्}
- एष् (एषृ गतौ)।
- ‘शरभो न चत्तोति दुर्गाण्येषः’ (अथर्व० ९।५।९)। अत्येषः=अत्यैषः=अत्यतारीः।
कल्
- {अतिकल्}
- कल् (कल गतौ संख्याने च, कल विल क्षेपे)।
- ‘यज्ञे यज्ञे यथाकालं दक्षिणा अत्यकालयत्’ (भा० द्रोण० ५७।५)। अत्यकालयत्=अददात्। अपोदहरदिति शब्दार्थः।
- ‘ईजानो वितते यज्ञे दक्षिणामत्यकालयत्’ (भा० शां० २९।३३)। उक्तोऽर्थः।
काश्
- {अतिकाश्}
- काश् (काशृ दीप्तौ)।
- ‘दिक्ष्वतीकाशान् करोति’ (तै० सं० ६।१।१)। अतीकाशा द्वाराणि। भित्तौ छदिषि वाऽतीत्य व्यवधानं काशन्त इति।
कूप्
- {अतिकूप्}
- कूप् (कुप क्रोधे)।
- ‘तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा’ (भा० द्रोण० २०२।६३)। अतिकोपोऽतीतकोपः, शान्तसंरम्भः।
कृ
- {अतिकृ}
- कृ (डुकृञ् करणे)।
- ‘सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते’ (रा० ५।२५।२१)। अतिकृतमतिमात्रमाचरितम्।
- ‘यदतिकरोति यन्नापि करोति’ (तै० सं० ६।६।२।१)। अतिकरोति अनपेक्षितमतिरिक्तं करोति।
कृष्
- {अतिकृष्}
- कृष् (कृष विलेखने)।
- ‘फालमतिकर्षति’ (कौ० सू० २०)।
क्रम्
- {अतिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘अयि वात्सल्यादतिक्रामति प्रसङ्गः’ (मालती० ६)। अतिक्रान्तमर्यादो जायते, औचित्यसीमानं लङ्घते।
- ‘अलिचक्राम सुमहान्कालः’ (भा० आदि० १५७।७)। अतिचक्राम व्यतीयाय।
- ‘अत्यक्रामदविज्ञातः कालः परमदुस्तरः’ (भा० पु० १।१३।१६)।
- ‘सा निशाऽतिचक्राम (पञ्चत० १)।
- ‘यथा यथा यौवनमतिचक्राम’ (काद०)।
- ‘अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः’ (ऋ० १०|९७।१०)। व्रजमत्यक्रमुः=व्रजमावस्कन्दुः, अधस्पदं चक्रुः।
- ‘अत्यक्रामम् इमान् मासांस्तद्वधं परिचिन्तयन्’ (रा० ६।८८।२०)। अत्यक्रामम् अयापयम्, अक्षपयम्। अनैषम्।
- ‘कुसीदवृद्धिः…धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम्’ (मनु० ८।१५१)। पञ्चगुणतामतीत्य न वर्तते इत्यर्थः।
- ‘नैव देवा (प्रजापतेराज्ञाम्) अतिक्रामन्ति न पितरो न पशवो मनुष्या एवैकेऽतिक्रामन्ति’ (श० ब्रा० २।४।२।६)। अतिक्रामन्ति प्रतिघ्नन्ति, लङ्घन्ते।
- ‘अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तमेव वा’ (मनु० ९।७८)। अतिक्रामेत् शुश्रूषणाद्यकरणेनावजानीयात्, उपेक्षेत वा।
- ‘पितुः स नित्यसन्तुष्टो नातिचक्राम चाश्रमात्’ (रा० १।१०।८)। आश्रमाद् दूरं न निरगादित्याह।
- ‘तस्मादतिक्रमाम्येव भवादस्मात् सुदारुणात्’ (भा० अनु० ११७।१३)। अतिक्रमामि=अतिक्रामामि=अपक्रामामि, अपसर्पामि।
- ‘स हि स्वाम्यादतिक्रामेद् ऋतूनां प्रतिरोधनात्’ (मनु० ९।९३)। अतिक्रामेत्=हीयेत।
- ‘आप्नुहि श्रेयांसमति समं क्राम’ (अथर्व० २।११।१)। अतिक्राम अतिशेष्व विशेषय।
- ‘ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः। सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम्’ (भा० अनु० ६२।५७)॥ नातिक्रामन्ति नातिशेरते (कर्मविपाकेन) इत्यर्थः।
- ‘यौ तौ दैवासुरे युद्धे वरौ दशरथोऽददात्। तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत्’ (रा० २।९।२८)॥ सोऽर्थस्त्वां मातिक्रमौत्, अन्तर्गतो मा भूत्, मा स्मैनं विस्मार्षीरित्याह।
- ‘अभिमन्युवधं वीरः सोऽत्यक्रामन्महामतिः। अप्रियं वसुदेवस्य मा भूदिति महामतिः’ (भा० आश्व० ६१।२)॥ अत्यक्रामद् अलङ्घयत्। अन्तरितमकरोदित्यर्थः।
- ‘प्रत्यासन्नमधीयानं ब्राह्मणं यस्त्वतिक्रमेत्। भोजनाच्चैव दानाच्च दहत्यासप्तमं कुलम्’ (बौ० ध० १।१०।२७ इत्यत्र विवरणे सङ्गृहीतं शातातपवचनम्)॥ दानभोजनाभ्यां वर्जयेदित्याह।
- ‘अचिरात्तं वृथामन्त्रमतिक्रामन्ति विद्विषः’ (का० नी० सा० १२।३२)। अतीत्यातिसन्धाय तद्राज्यमाक्रम्य गृह्णन्तीत्युपाध्यायनिरपेक्षा।
- ‘इरावतीमतिक्रामन्ती भव’ (माल०)। अतिक्रामन्ती=अतिशयाना, पश्चात्कुर्वती, पृष्ठतः कुर्वाणा।
- ‘नष्टं मृतमतिक्रान्तं नानुशोचन्ति पण्डिताः’ (पञ्चत० १)। अतिक्रान्तम् अतीतम्।
- ‘यत्कथयितुं प्रवृत्तस्तत्परित्यज्यातिदूरमतिक्रान्तोऽस्मि।’ (काद० ३४६)। बह्वप्रस्तुतं प्रस्तोतुमारब्धो स्मीत्यर्थः।
- ‘अतिक्रान्तं भगवती कथयति’ (माल० ५)। अतीतकालाधिकरणकमित्यर्थः।
- ‘अतिक्रान्तावस्थो गजपतिरिदं स्थावरचरम्। जगत्सर्वं हन्तुं समभिलषति क्रोधकलुषः’ (मा० ली० ९।१७)॥ अतिक्रान्ता षष्ठी मदावस्था।
- ‘न कुप्यवेतनी कश्चिन्न चातिक्रान्तवेतनी’ (भा० वन० १५।२२)। अतिक्रान्तवेतनी विलम्बितवेतनः, अदत्तभक्तो वा। अतिरिक्तनिवेशो वा।
- ‘कथं ज्येष्ठानतिक्रम्य यवीयान्राज्यमर्हति’ (भा० आदि० ८५।२२)। अतिक्रम्य वर्जयित्वा।
- ‘प्रथितयशसां भाससौमिल्लक-कविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कोऽतिबहुमानः’ (माल० १)। अतिक्रम्य उपेक्ष्य।
- ‘किं वा देव्या परिजनमतिक्रम्य भवान् सन्दिष्टः’ (माल० ४)। अतिक्रम्य=अतिहाय।
- ‘व्यालद्विप इवास्माभिरतिक्रम्यैव दम्यते’ (महावीर० ३।३१)। अतिक्रम्य=अभिभूय, धर्षयित्वा।
- ‘जनकाग्रजन्मनोः शासनमतिक्रम्य’ (दशकु० २)। अतिक्रम्यातिलङ्घ्य, अवमान्य, अननुवृत्य। अतिक्रम्य तांस्तान् विशेषान्। तेषां परस्ताद् गत्वेत्यर्थः।
- ‘जम्बुद्वीपमतिक्रम्य शिशिरो नाम पर्वतः’ (रा० ४।४०।३४)। जम्बुद्वीपात्परेणेत्यर्थः। इदं कदलीगृहमतिक्रम्य दृश्यते। कदलीगृहात्परेण।
- ‘अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च। जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे’ (भा० सभा० ७६।४)॥ अतिक्रमितुमतिलङ्घितुमुपेक्षितुम् अननुमन्तुम्।
- ‘न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः’ (रा० २।९।२६)। उक्तोऽर्थः।
- ‘अनतिक्रमणीयं मे सुहृद्वाक्यम्’ (शा० २)। अनतिक्रमणीयमशक्यलङ्घनम्।
- ‘अनतिक्रमणीया दिवस्पतेराज्ञा’ (शा० ७)।
- ‘तेन ह्यनतिक्रमणीयानि श्रेयांसि’ (शा०)। व्यतिक्रमानर्हाणीत्यर्थः।
- ‘अहो अतिक्रमः’ (मालती० ७)। समुदाचारातिचरणम्।
- ‘भोजनवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति’ (माल०)। भोजनकालातिपाते।
- ‘केवलमुपचारातिक्रमं प्रमार्ष्टुमस्माकमयमारम्भः’ (माल० ४)। अतिक्रमो लङ्घनम्।
- ‘दिशत्यपायं हि सतामतिक्रमः’ (कि० १४।९)। अतिक्रमोऽपराधः।
- ‘अनेकसंवत्सरातिक्रमे’ (उत्तर० ४)। अतिक्रमोऽत्ययो व्यपायः। स्वभावो दुरतिक्रमः। दुर्जय इत्यर्थः।
- ‘त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्’ (रा० ४।३०।८२)। सत्यादतिक्रान्तं सत्यात्प्रच्युतमपेतम्। अकर्मकोऽत्रातिक्रमिः।
क्रीड्
- {अतिक्रीड्}
- क्रीड् (क्रीडृ विहारे)।
- ‘त एनमत्यक्रीडन्’ (तै० ब्रा० १।६।७)। द्यूतक्रियया देवनेनात्यशेरतेत्याह।
क्षर्
- {अतिक्षर्}
- क्षर् (क्षर संचलने)।
- ‘सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः। पवित्रमत्यक्षरन्’ (ऋ० ९।६३।१५)। पवित्रस्योपरि प्रास्यन्दन्त।
ख्या
- {अतिख्या}
- ख्या (ख्या प्रकथने)।
- ‘वशा समुद्रमत्यख्यत्’ (अथर्व० १०।१०।१५)। समुद्रं सुदूरम् प्रैक्षत।
- ‘मा नो गव्येभिरश्व्यैः सहस्रेभिरतिख्यतम्’ (ऋ० ८।७३।१५)। माऽतिख्यतम् मोपेक्षिषाथाम्।
- ‘मा नो अतिख्य आगहि’ (ऋ० १।४।३)। दर्शनपथान्मा यीयव इत्युक्तं भवति।**
- ‘मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रानतिख्यतम्’ (ऋ० ८।२२।१४)। मार्पिपतम् इत्याह, मा परिदा इति वा। माऽस्माञ्शत्रोरामिषं वोचतम् इति त्वक्षरार्थः।
गम्
- {अतिगम्}
- गम् (गम्लृ गतौ)।
- ‘ततो दशाहेऽतिगते’ (रा० २।७७।१)। अतिक्रान्त इत्यर्थः।
- ‘परगृहमतिगतायाः षट्पणः’ (दण्डः) (कौ० अ० ३।४।३)। स्वगृहमतिक्रम्य गतायाः।
गाह्
- {अतिगाह्}
- गाह् (गाहू विलोडने)।
- ‘विश्वा उत त्वया वयं धारा उदन्या इव। अति गाहेमहि द्विषः’ (ऋ० २।७।३)। अतिगाहेमहि अतिक्रामेम। उपप्लवेमहि।
- ‘इन्दुः पुनानो अतिगाहते मृधः’ (ऋ० ९।८६।२६)। उक्तोऽर्थः।
गुर्
- {अतिगुर्}
- गुर् (गुरी उद्यमने)।
- ‘मुगो नाश्नो अति यज्जुगुर्यात्’ (ऋ० १।१७३।२)। **अतिजुगुर्यात्, आक्रोशेत् (हृष्टः सन्)। **
ग्रह्
- {अतिग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘वृत्ततोऽतिगृह्यते’ (पा० ५।४।४६ सूत्रे वृत्तौ)। सुष्ठुवृत्तवानन्यानतिक्रम्य वृत्तेन गृह्यते इत्यर्थः।
- ‘त एतानतिग्राह्यान् ददृशुस्तानत्यगृह्णत तद्यदेनानत्यगृह्णत तस्मादतिग्राह्या नाम’ (श० ब्रा० ४।५।४।२)। संख्यामतीत्याददतेत्यर्थः।
- ‘बभूवुरनतिग्राह्या योषितश्छन्दतः किल’ (भा० सभा० ३१।३७)। अत्यन्तं सुग्रहा न बभूवुरित्याह।
- ‘अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः’ (पा० ५।४।४६)। अतिक्रम्य ग्रहोऽतिग्रह इति वृत्तिः।
चर्
- {अतिचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘तत्र विराधदनुकबन्धप्रभृतयः केप्यतिचरन्तीति श्रुतम्’ (महावीर० २)। अभिचरन्ति अतिशयेनाटन्ति।
- ‘पुत्राः पितॄनत्यचरन् नार्यश्चात्यचरन्पतीन्’ (भा० शां० २।२८।५५)। अत्यचरन् वचने नातिष्ठन्, अनुव्रता अनुरक्ता नाभूवन्नित्यर्थः।
- ‘नातिचरेद्भर्तारम्’ (गो० ध० २।९।२)। न व्यभिवरेत्।
- ‘सुवृत्ता वृत्तशौटीर्यं न त्वामत्यच्चरच्छुभा’ (रा० ६।११८।६)। उक्तोऽर्थः।
- ‘स्वं स्वमाचारमत्यचारिषुः’ (दशकु० १६२)। अत्यचारिषु=उदलङ्घिषत।
- ‘ऋत्विगाचार्यौ नातिचरितव्यौ’ (मी० शा० भा० १०।२।१६।४६)। नातिक्रमणीयौ।
- ‘स्त्री यातिचारिणी’ (गौ० ध० ३।४।३५)। पतिमतिचरतीत्येवंशीला, स्वैरिणीत्यर्थः।
- ‘अतिक्रम्य स्वस्थानं सरोऽन्तरं गच्छति अतिचरा संचारिणी स्थलपद्मिनी। मनसा भर्तुरतिचारे’ (व० ध० २१।६)। अतिचारोतिक्रमः। अतिचारः कुजादिपञ्चग्रहाणां स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमनम्।
छिद्
- {अतिच्छिद्}
- छिद् (छिदिर् द्वैधीकरणे)।
- ‘अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः’ (भा० अनु० १२०।९)। अतिच्छेदोऽत्यन्तमन्तरम् मशकेन समुद्रशोषणमिवेति नील०। स्मयो विस्मयः।
जन्
- {अतिजन्}
- जन् (जनी प्रादुर्भावे)।
- ‘अतिजातः (सुतः)। यः पितॄनतिक्रामति गुणैः’ (पञ्चत०)।
जि
- {अतिजि}
- जि (जि जये, जि अभिभवे)।
- ‘लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति’ (रा० ३।७०।५)। अतिजितमतिपराभूतम्।
जीव्
- {अतिजीव्}
- जीव् (जीव प्राणधारणे)।
- ‘अतिजीवेत्स सर्वेषु लोकेष्वपि पुरन्दरात्’ (रा० ३।३४।१९)। अतिजीवेत् ततोऽधिकं जीवेत्, चिरजीविततरः स्यात्।
- ‘गुरूनमात्यांश्च नातिजीवेत्’ (आप० ध० २।१०।२५।१०)। भक्ष्यभोज्याच्छादनादिषु तान् नातिशयीतेत्याह। ततोप्युत्कृष्टमुल्बणतरं न जीवेदिति भावः।
- ‘अत्यजीवदमरालकेश्वरौ’ (रघु० १९।१५)। उक्तोऽर्थः।
डी
- {अतिडी}
- डी (डीङ् विहायसा गतौ)।
- ‘प्रचण्डमतिडीनकम्’ (भा० कर्ण० ४१।२७)।
तप्
- {अतितप्}
- तप् (तप सन्तापे)।
- ‘अविषह्यांशुरादित्यो यावन्नातितपत्यसौ’ (रा० ३।१२।८)। अतितपति प्रचण्डं दीप्यते।
- ‘रोहितोऽत्यतपद् दिवम्’ (अथर्व० १३।२।४०)। अत्यतपत् उष्णिमानमगमयत्। अत्युष्णतामनयत्।
- ‘अतितप्तया गिरा’ (रा० ३।६६।२६)। अतिमात्रं क्रुद्धया, बलवन्निन्दन्त्या।
तृद्
- {अतितृद्}
- तृद् (उतृदिर् हिंसानादरयोः)।
- ‘अति धन्वान्यत्यपस्ततर्द’ (अथर्व० ७।४१।१)। अतिततर्द द्विधा चकार।
- ‘यन्मे छिद्रं चक्षुषो हृदयस्य मनसो वातितृण्णम्’ (वा० सं० ३६।२) अतितृण्णं विदीर्णम्।
तॄ
- {अतितॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘ययाऽति विश्वा दुरिता तरेय’ (ऋ० ३।४१।३)। अतितरेय पारयेय। अपरेऽतितरामसि। उक्तोऽर्थः।
- ‘तेपि चातिचरन्त्येव मृत्युं श्रुतिपरायणाः’ (गीता० १३।२५)। मृत्युमतियन्तीत्याह।
त्वर्
- {अतित्वर्}
- त्वर् (ञित्वरा संभ्रमे)।
- ‘किं सौम्य नातित्वरसे’ (भा० शां० १३८।९२)। किमिति तेऽतिसंभ्रमो न।
दा
- {अतिदा}
- दा (डुदाञ् दाने)।
- ‘अध प्लायोगिरिति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः’ (ऋ० ८।१।३३)। अतिदासत् अन्यान्=अन्यानपेक्ष्याधिकं ददाति।
- ‘न जीवन्तमतिददातीति श्रुतेः’ (का० श्रौ० ४।१।२७)। जीवन्तमतीत्येति पाठान्तरम्। अतिक्रम्य ददाति। जीवपित्रा व्यवेताय पितामहाय पिण्डं न ददातीत्यर्थः।
दाश्
- {अतिदाश्}
- दाश् (दाशृ दाने)।
- ‘मघैर्मघोनो प्रति शूर दाशसि’ (ऋ० ८।२४।२)। मघोनो मघवतो धनवतोऽतिक्रम्यास्मभ्यं ददासीत्याह।
- ‘स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना’ (ऋ० ६।१६।२०)।
दिव्
- {अतिदिव्}
- दिव् (दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु)।
- ‘उत प्रहामतिदीव्या जयाति’ (ऋ० १०।४२।९)। अतिदीव्य=उच्चैः प्रोप्य।
- ‘तद्वै वित्तं मातिदेवीः’ (भा० सभा० ५९।१२)। देवनेन मा पराजेष्ठाः।
दिश्
- {अतिदिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यकार:)।
- ‘वतण्डी चासौ युवतिश्च वातण्ड्ययुवतिः। पुंवद्भावेनान्तरतम: पुंशब्दोऽतिदिश्यते’ (पा० १।१।५० सूत्रे वृत्तौ)।
- ‘जनपदतदवध्योश्चेति’ (४।२।१२४)
- ‘प्रकरणे ये प्रत्यया विहितास्ते जनपदिभ्योस्मिन्नर्थेतिदिश्यन्ते’ (पा० ४।३।१०० इति सूत्रे वृत्तौ)। स्वविषयं व्यतिरिच्य विधीयन्ते इत्यर्थः।
- ‘प्रधानमल्लनिबर्हणन्यायेनातिदिशति’ (मी० शा० भा०)।
- ‘अतिदेशो नाम ये परत्र विहिता धर्मास्तमतीत्यान्यत्र तेषां देशः’ (मी० शा० भा० ७।१।१२)।
- अन्यत्रैव प्रणीतायाः कृतस्नाया धर्मसंहतेः। अन्यत्र कार्यतः प्राप्तिरतिदेशः स उच्यते॥ प्राकृतात्कर्मणो यस्मात्तत्समानेषु कर्मसु। धर्मप्रवेशो येन स्यादतिदेशः स उच्यते॥ इत्यर्थितः स भगवान् अतिदिश्यात्मनः पदम्।…धाम स्वमयात्’ (भा० पु० ४।९।२६)॥ अतिदिश्य आदिश्य शंसित्वा। अस्थानेऽतिशब्दः।
दृश्
- {अतिदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘सहस्राक्षा अतिपश्यन्ति भूमिम्’ (अथर्व० ४।१६।४)। अतिशयेन पश्यन्तीत्यर्थः।
- ‘ततः परं नातिपश्यामि किंचन’ (अथर्व० १८।२।३२)। अतिरतिक्रमणे वर्तते। विप्रकृष्टं नेक्ष इति विवक्षत्यृषिः।
द्रु
- {अतिद्रु}
- द्रु (द्रु गतौ)।
- ‘अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ’ (ऋ० १०।१४।१०)। अतिद्रव=अतिक्राम। अतिक्रम्य याहि।
- ‘उत्तरं गिरिमतिदुद्राव’ (श० ब्रा० १।८।१।५)। अतिदुद्राव त्वरया प्राप।
धा
- {अतिधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘आयुर्यत्ते अतिहितं पराचैः’ (अथर्व० ७।५३।३)। अपाकृतमपनीतमित्याह।
धाव्
- {अतिधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘अति ह्वरांसि धावति’ (सोमः) (ऋ० ९।३।२)। अतिधावति परिस्रवति। शत्रून् हन्तुं त्वरत इत्यर्थः।
ध्यै
- {अतिध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘ततोऽतिध्यायतस्तस्य जज्ञिरे मानसीः प्रजाः’ (मूरसंस्कृतपाठावल्यां वायुपुराणवाक्यम्)। अतिध्यायतो ध्यान-निमग्नस्य।
ध्वंस्
- {अतिध्वंस्}
- ध्वंस् (ध्वंसु गतौ च)।
- ‘श्यावीरति ध्वसन्पथः’ (वालखिल्येषु ६।५)। अत्यध्वसन् अत्यध्वंसन्त अवधुता अभूवन्।
नम्
- {अतिनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘प्रीतिप्रामोद्येन तमहोरात्रमतिनामयामास’ (अवदा० जा० ७)। पर्यणमयामास, गमयामास क्षपयाञ्चकार।
- ‘अतिनत्येव पात्राणि’ (श० ब्रा० १।१।४।४)। अतिनत्य अतिनम्य पार्श्वतोऽवलम्ब्य अवष्टभ्य।
- ‘विधूय निद्रां योगेन निशामप्यतिनामयेः’ (सौन्दर० १४।२०)। अतिनामयेः परिणमयेः। गमयेः क्षपयेः।
निद्
- {अतिनिद्}
- निद् (णिदृ णेदृ कुत्सासन्निकर्षयोः)।
- ‘अति वा एता वर्त्रं नेदन्ति’ (तै० सं० १।६।८।१)। अतिनेदन्ति अतिक्रामन्ति।
नी
- {अतिनी}
- नी (णीञ् प्रापणे)।
- ‘इन्द्रो ययैनं शरदो नयात्यति’ (अथर्व० ३।११।३)। अतिनयाति अतिक्रमयति। सप्तमीं (रात्रिं) नातिनयेत्। सप्तमीमतिनयन्नब्रह्मचारी भवति। अतिनयेत् अतिक्रामेत्।
- ‘न स्वर्गं लोकमतिनयेत्’ (छां० उ० १।८।५)। अतिनयेत् इतो निष्क्रमय्य प्रापयेत्।
- ‘ऋतस्य नः पथा नयातिदुरिता’ (ऋ० १०।१३३।६)। दुरितान्यतिनय दुरितान्यतीतान्नः कुर्वित्याह।
- ‘तदेनं (पूर्णग्रहम्) सर्वाणि सवनान्यति नयति’ (श० ब्रा० ४।२।४।५)। अतिनयति अन्तरेण नयति।
- ‘शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः’ (ऋ० ६।४७।१६)। अतिनेनीयमानः=अग्नेऽग्रे नयमानः कर्षन्।
- ‘अतिनीय मानुषं कालम्’ (श० ब्रा० ३।२।२।१६)। अतिनीय व्यतियाप्य।
- ‘याभिरिन्द्रमनयन्नत्यरातीः’ (काण्व सं० ११।१)। अत्यनयन् अतिक्रम्यानयन्।
- ‘अन्तपालो वा दुर्गसम्प्रदानेन बलैकदेशमतिनीय विश्वस्तं घातयेत्’ (कौ० अ० १२।५।२५)। अतिनीय प्रतिसंहृत्य, पृष्ठतः कृष्ट्वा।
- ‘तदवरुद्धदेशमतिनीय विश्वस्तं घातयेत्’ (कौ० अ० १२।५।२७)। उक्तोऽर्थः।
- ‘संसिद्धमेवास्य रात्रियागे वनयागे वनक्रीडायां वा प्रवृत्तायां तीक्ष्णा विशस्याभित्यक्तमतिनयेयुः’ (कौ० अ० ५।२।६५)। अतिनयेयुः=देशान्तरं प्रापयेयुः।
- ‘प्रवृत्तस्य कालातिनये’ (सत्या० श्रौ० २२।२।९)। अतिनयोऽतिक्रमः।
- ‘पुरा द्वादश्या दीक्षेत यद् द्वादशीमतिनयेदन्तर्धीयेत’ (पञ्च० ब्रा० ९।९।१५)। अतिनयेत् अतिक्रामेत् अतीयात्।
नु
- {अतिनु}
- नु (णु स्तवने)।
- ‘अग्निष्ठां तस्याश्रिमाहवनीयादित्थं वेत्थं वाति नावयेत्’ (तै० सं० ६।३।४।४)। आवर्तयेदित्यर्थः।
नुद्
- {अतिनुद्}
- नुद् (णुद प्रेरणे)।
- ‘गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः’ (अथर्व० ८।७।१५)। अतिनुत्तः=अतिनुन्न: पराणुन्नः। दूरं प्रेरितः।
नेद्
- {अतिनेद्}
- नेद् (णिद, णेदृ कुत्सासन्निकर्षयोः)।
- ‘या हुता अतिनेदन्ति’ (श० ब्रा० १४।६।१।१०)। उपरि प्लवन्ते फेनिला वा भवन्तीत्यर्थः।
- ‘एता वर्त्रं नेदन्त्यति’ (तै० सं० १।६।८।१)। अतिनेदन्ति अतिक्रामन्ति।
पठ्
- {अतिपठ्}
- पठ् (पठ व्यक्तायां वाचि)।
- ‘नारायणाङ्कप्रख्यस्त्वं साम्परायेऽतिपठ्यसे’ (भा० वन० १२८१३)। अभिपठ्यस इति त्विष्यते।
पत्
- {अतिपत्}
- पत् (पत्लृ गतौ)।
- ‘अथ ह हंसा निशायामतिपेतुः’ (छां० उ० ४।१।२)। हर्म्यतलमधिशयानस्योपर्युत्पेतुरित्यर्थः।
- ‘घृणा तपन्तम् अति सूर्यं परः शकुना इव पप्तिम’ (ऋ० ९।१०७।२०)। अतिपप्तिम अतिपेतिम। उक्तोऽर्थः।
- ‘ये सत्यमेव हि गुरूनतिपातयन्ति’ (मुद्रा० ३।३४)। अतिपातयन्ति अवमानयन्ति अवजानन्ति।
- ‘हित्वा व्रजमादितः कर्शयेत्पशून् नातिपातयेत्’ (आप० ध० २।११।२८।५)। नातिनिरोधनं कुर्यात् ताडयेद्वा।
- ‘संशमनमेव संशोधनमतिपातयेत्’ (सुश्रुत० १।१४६।१२)। अकार्मुकं कुर्यात्, अप्रभावुकं कुर्यात्।
- ‘इषुमनतिपातयन्’ (लाट्या० श्रौ० ३।१०।१२)। अनतिपातयन् अमुञ्चन् अविसृजन्।
- ‘विषं मुहूर्त्तमप्युपेक्षितमातुरमतिपातयति’ (सुश्रुत० )। अतिपातयेत् अत्ययं मृत्युमापादयेत्।
- ‘सम्प्राप्तामतिपत्य तां नृपतितां शक्रर्द्धिविस्पर्धिनीम्’ (अवदा० २।२६)। अतिपत्य परित्यज्य।
- ‘अस्थि निःशेषतश्छिन्नमतिपातितम्’ (सुश्रुत०)। अतिपातितं निर्भिन्नम्।
- ‘काममनतिपात्यं धर्मकार्यं देवस्य’ (शा० ५)। अनतिपात्यमनतिलङ्घनीयम्, अव्याक्षेप्यम्, अनुपेक्ष्यम्।
- ‘न चेदन्यकार्यातिपातः’ (शा० १)। कार्यान्तरव्यतिक्रमः। कार्यान्तरान्तराय इति यावत्।
- ‘परावनुपात्यय इणः’ (पा० ३।३।३८) इति सूत्रे वृत्तौ कालस्य पर्ययः, अतिपात इति स्थितम्।
- ‘दुःखातिपातेन कलुषी क्रियन्ते’ (काद० १८९)। दुःखोपनिपातेन, दुःखोपनामेन। अतिशब्दो नातीवौपयिकः, महाकवेः प्रयोग इति कथं चित्सह्यः।
- ‘प्राणातिपातनिरतो निरनुक्रोशतां गतः’ (रा० १।५९।२१)। प्राणातिपातः प्राणविनाशः।
- ‘ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः’ (रघु० ३।३०)। पवनातिपातिभिः=वातवेगातिशायिभिः।
- ‘अतिपातिवृत्तान्तनिवेदनत्वरयाऽवस्थान्तरं नावेक्षितम्’ (अभि० ५)।
- ‘अतिपाति कार्यमिदम्, शीघ्रं निवेद्यताम्’ (पञ्च० २)। अतिपाति आत्ययिकं बिलम्बासहम्।
- ‘यदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेव जह्यात्’ (सर्व० सं० बौ० पं० १८)। अतिपतेत् अतिक्रामेत्, अतीयात्।
- ‘अतिपातिषु रोगेषु’ (सुश्रुत० १।५।२०)। आशुकारिषु अथवा बन्धकालादिनियमं व्यभिचरत्सु।
पद्
- {अतिपद्}
- पद् (पद गतौ)।
- ‘अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य पौर्णमासी वाऽमावस्या वातिपद्येत’ (काठक० १०।५)। अतिपद्येत अतिक्रामेत् अतीयात्।
- ‘संस्कारा अतिपद्येरन्स्वकालाच्चेत् कथं चन’ (का० स्मृ०)। अतिपद्येरन्=प्रच्यवेरन्। विहित-कालमतिक्रामेयुः।
- ‘न सूक्तेन निविदमतिपद्येत’ (ऐ० ब्रा० ३।११, ४।१०)।
- ‘येन सूक्तेन निविदमतिपद्येत न तत् पुनरुपनिवर्तेत’ (ऐ० ब्रा० ३।११)।
- ‘यद्व्रतमतिपेदे चित्त्या मनसा हृदा’ (कौ० सू० ५२।१७)। अतिपेदे ललङ्घे।
- ‘अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं वाऽतिपादयेत्’ (तै० सं० २।२।२।१)। अतिपादयेत् अतिक्रमयेत्। स्वकालेऽननुष्ठानमतिपादनम्।
- ‘यद्वो देवा अति पादयानि’ (आप० श्रौ० ९।४।१५।५१)। अतिपादयानि अतिक्रामाणि।
- ‘अप्रज्ञातं हि तद्यदतिपन्न आहुरिदं कार्यमासीदिति’ (तै० सं० ६।३।४।८)। अतिपन्नमनिष्पन्नम्। कुतश्चिद् वैगुण्यात् क्रियाया अनिर्वृत्तिरतिपत्तिरिति भट्ट०।
- ‘ततो घृतातिपत्तौ घृतभोजनक्रियाप्यतिपन्नैव’ (पा० ३।३।१३९ सूत्रे पदमञ्जरी)।
- ‘लिङ्निमित्ते लृङ् क्रियातिपत्तौ’ (पा० ३।३।१३०)। क्रियातिपत्तिः क्रियाया अनिष्पत्तिः।
- ‘लघूत्थितो हन्यान्मा भूत् कालातिपत्तिरिति’ (का० नी० सा० १९।६८ मङ्गलायाम्)। कालातिपत्तिः कालातिपातः।
- ‘देशकालातिपत्तौ तु गृहीत्वा स्वयमर्पयेत्’ (याज्ञ० १६९)। अतिपत्तिरतिक्रमः।
- ‘यदाप्ते प्रवतीः कुर्युरतिपद्येरन्’ (पञ्च० ब्रा० १५।९।३)। अतिपद्येरन् दूरं गच्छेयुः।
- ‘यद्वै पुत्रोऽतिपादयते पिता वैतस्य शमयिता पिता निषेद्धा’ (जै० ब्रा० १।१४४)। अतिपादयते=अतिक्रमं करोति।
- ‘देवा वा आदित्यस्य सुवर्गस्य लोकस्य पराचोऽतिपादादबिभयुः’ (तै० ब्रा० १।२।४।२)। अतिपादोऽतिगमनम्। पराचः पुनरावृत्तिरहितादूर्ध्वभाविनः।
- ‘देशकालातिपत्तौ वा स्वयं गृहीत्वोपहरेत्’ (कौ० अ० ३।१६।११)। अतिपत्तिरतिक्रमोऽत्ययः।
- ‘अनिधनमन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय’ (पञ्च० ब्रा० ६।३)। अतिपादो विनाशः।
पा
- {अतिपा}
- पा (पा पाने)।
- ‘सा मद्यं तेनातिपायिता’ (कथा० ३९।२०७)। अतिपायिता सातिशयं पानं कारिता।
पाल्
- {अतिपाल्}
- पाल् (पा+लुक्, रक्षणार्थे)।
- ‘शालिग्रामाभिधाने भगवतः क्षेत्रे कञ्चित्कालमतिपालयामि’ (प्र० च० ५)। अतिपालयामि गमयामि नयामि क्षपयामि।
पॄ
- {अतिपॄ}
- पॄ (पॄ पालनपूरणयोः)।
- ‘पिपर्तु नो अदिती राजपुत्राऽति द्वषांस्यर्यमा सुगेभिः’ (ऋ० २।२७।७)। अति पिपर्तु पारं नयतु, पारयतु।
- ‘ये नो अंहोतिपिप्रति’ (ऋ० ७।६६।५)।
- ‘इन्द्रं रात्रेस्तमसो मृत्योर्बिभ्यतमत्यपारयन्’ (ऐ० ब्रा० ४।५)।
- ‘स नः पर्षदति द्विषः’ (अथर्व० ६।३४।१)। अतिपर्षत् अतिपारयतु। पञ्चमे लकारे रूपम्।
- ‘सिन्धुं न नावा दुरिताऽति पर्षि’ (तै० ब्रा० २।४।१।५)। अतिपर्षि अतितारयसि, पारं नयसि।
प्रच्छ्
- {अतिप्रच्छ्}
- प्रच्छ् (प्रच्छ ज्ञीप्सायाम्)।
- ‘गार्गिं माति प्राक्षी:, मा ते मूर्घा व्यप्तत्’ (श० ब्रा० १४।६।६।१)। उत्तरोत्तरं प्रश्नान् मा कार्षीः। अति प्रश्न्या वै देवता अति पृच्छसि। अतिक्रम्य मर्यादां प्रश्नोऽतिप्रश्नः। दत्तोत्तरोपि पुनः प्रश्नो यः केवलाय खेदाय भवति सोऽतिप्रश्नः। अतीन्द्रियार्थप्रश्नो वातिप्रश्नः।
- ‘नक्षत्रमतिपृच्छन्तं बालमर्थोतिवर्तते’ (कौ० अ० ९।१४२।४)। अतिपृच्छन्तमतिशयेन पृच्छन्तम्।
बाध्
- {अतिबाध्}
- बाध् (बाधृ लोडने, लोडनं प्रतिघातः)।
- ‘कच्चित्सखीं वो नातिबाधते शरीरातपः’ (शा०)।
बृह्
- {अतिबृह्}
- बृह् (बृहू उद्यमने)।
- ‘अति बृहति रेतः’ (नि० ९।२२)। रेतः सेक्तुमतिशयेनात्मानमुद्यच्छति।
ब्रू
- {अतिब्रू}
- ब्रू (ब्रूञ् व्यक्तायां वाचि)।
- ‘यो नात्युक्तः प्राह रूक्षं प्रियं वा।’ अत्युक्तो विधेयं प्रति निन्दितः, दूषितः।
- ‘यशस्विनस्तीक्ष्णविषान् महारथानतिब्रुवन् मूढ न लज्जसे’ (भा० वन०)। अतिब्रुवन् वाचावमानयन्।
भा
- {अतिभा}
- भा (भा दीप्तौ)।
- ‘प्रकर्षे लङ्घनेप्यति’ इत्यमरोक्तिं व्याचक्षाणः स्वाम्याह–सर्वान्गुणानेष गुणोतिभाति। अतिक्रम्य भातीत्यर्थः।
भुज्
- {अतिभुज्}
- भुज् (भुजो कौटिल्ये)।
- ‘किमनेनातिभुग्नेन वाग्भिः काष्ठसधर्मणा’ (भा० शल्य० ६१।२२)। भुग्नेन रुग्णेन तुन्नेन।
भू
- {अतिभू}
- भू (भू सत्तायाम्)।
- ‘शब्दश्च घोरोऽति बभूव तत्र’ (भा० कर्ण० ८९।१८)। अतिबभूव=प्रादुर्बभूव।
- ‘इन्द्रोऽत्यन्या देवता अभवत्’ (पञ्च० ब्रा० २२।८।२)। अत्यभवत् अत्यशेत।
- ‘पितॄन् दश तु मातैका सर्वां वा पृथिवीमपि। गुरुत्वेनातिभवति… ’ (भा० अनु० १०५।१५)। अतिभवति अतिशेते, अतिक्रामति।
- ‘द्यौर्न भात्यतिभूतार्का घोरेण तमसा वृता’ (हरि० १।४२।१९)। अतिभूतार्का=उपप्लुतादित्या। अभिभूतार्केति पाठान्तरम्। तच्च साधीयः।
- ‘अथवाऽतिभवेन्नेत्रशूलम्’ (का० सं० खिल० कुक्कुण० श्लो० ३७)। अतिभवेत्=अधिकं भवेत्।
- ‘अति-भूमिं गतेन रणरणकेन’ (उत्तर० १)। अतिभूमिं परां सीमानम्।
- ‘बिपदि न दूषिताऽतिभूमिः’ (शिशु० ८।२०)। अतिभूमिर्मर्यादा नातिक्रान्तेत्याह। अतिधार्ष्ट्यं दोषो नाजायतेत्यर्थः।
मन्
- {अतिमन्}
- मन् (मन ज्ञाने)।
- ‘न हि त्वा पूषन्नतिमन्ये’ (ऋ० १।१३८।४)। आत्मानं नाधिकं (श्रेयांसं) गणयामीत्यर्थः। न त्वामतिक्रम्यान्यां देवतां मन्य इति दुर्गः।
- ‘भृगुर्ह वै वारुणिः। वरुणं पितरं विद्ययाऽतिमेने’ (श० ब्रा० ११।६।१।१)। उक्तोऽर्थः।
- ‘मद्विधं योतिमन्येत धर्मनित्यं जितेन्द्रियम्’ (रा० ३।४३।४५)। अतिमन्येत=अतिक्रामेत्। अवमन्येत।
- ‘किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे’ (ऋ० १।१७०।३)। उक्तपूर्व एवार्थः।
- ‘तस्मान्नाति मन्येत पराभवस्य हैतन्मुखं यदतिमानः’ (श० ब्रा० ५।१।१।१)। अतिमानः गर्वः, दर्पः।
- ‘प्रजापतिः सविता भूत्वा प्रजा असृजत। ता एनमत्यमन्यन्त’ (तै० ब्रा० १।६।४)। अत्यमन्यन्त अवाजानन्, अवज्ञां कृतवत्यः।
- ‘अतीव यो मरुतो मन्यते नः’ (अथर्व० २।१२।६)। अतिमन्यतेऽतिक्रान्तान्मन्यते।
यज्
- {अतियज्}
- यज् (यज देवपूजासंपतिकरणदानेषु)।
- ‘यः स्वां देवतामतियजते’ (तै० सं० २।५।४।४)। अतिक्रम्य देवतान्तरं यजत इत्याह।
या
- {अतिया}
- या (या प्रापणे)।
- ‘मातियासीः’ (भट्टि० २।५१)। मातिक्रमीः, माऽतिक्रम्य गमः।
- ‘येनातियाथो दुरितानि विश्वा’ (ऋ० ५।७७।३)। येन रथेन। अनन्तरोदित एवार्थः।
- ‘अति वायो ससतो याहि’ (ऋ० १।१३५।७)। ससतः स्वपतो जनस्योपरि वाहि, प्रवान्याहीत्याह।
याच्
- {अतियाच्}
- याच् (टुयाचृ याच्ञायाम्)।
- ‘अतियाच्ञा तु जीयेत दौर्मत्याविनयेन वा’ (कौ० अ० ३।१३।३७)। अतियाच्ञाऽत्यधिकनिर्वेशस्य मार्गणम्।
युज्
- {अतियुज्}
- युज् (युजिर् योगे)।
- ‘ग्राम्यातियोगात्’ (माधव० २६।७)। मैथुनातिसेवयेत्युक्तं भवति।
राज्
- {अतिराज्}
- राज् (राजृ दीप्तौ)।
- ‘सद्यो यः स्पन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट्’ (ऋ० ६।१२।५)। अतिराट् अतिराजति अतिक्रम्य राजते।
रिच्
- {अतिरिच्}
- रिच् (रिचिर् विरेचने)।
- ‘संभावितस्य चाकीर्तिर्मरणादतिरिच्यते’ (गीता० २।३४)। मरणादधिका भवति। अकीर्तिरयश उपक्रोशः। अकीर्तिरनिष्टतरा दुःखतरा भवतीत्याशयः।
- ‘पुत्रगात्रस्य संस्पर्शश्चन्दनादतिरिच्यते’ (भा० वन० )। चन्दनाच्छ्रेयान्भवति। सुखावहतरो भवतीत्यर्थः।
- ‘न तद्भूतमहं मन्ये यदर्कादतिरिच्यते’ (भा० वन० ३।४५)। ततः श्रेयो भवतीत्यर्थः।
- ‘अश्वमेधसहस्रेभ्यः सत्यमेवातिरिच्यते’ (हितोप० ४।१३१)। ततो ज्यायो भवतीत्यर्थः।
- ‘गृहं तु गृहिणीहीनं कान्तारादतिरिच्यते’ (पञ्चत० ४।८१)। अधिकमनेषणीयं भवति, शून्यत्वादतितरां प्रतिभयं भवतीति भावः। वाचः कर्मातिरिच्यते। कर्म गरीयो भवति।
- ‘दैवमत्रातिरिच्यते’ (हितोप०)। दैवमुत्तरं भवति, प्रभवतीति यावत्।
- ‘आकिञ्चन्यं च राज्यं च तुलया समतोलयम्। अत्यरिच्यत दारिद्र्यं राज्यादपि गुणाधिकम्’ (रा० गोरेसियो० २।६१।१०)। अतिरिक्तं हि दारिद्र्यस्य गौरवं प्रादुरासीत् इत्यर्थः।
- ‘छन्दसामति त्रीण्यरिच्यन्त। न त्रीण्युदभवन्’ (तै० ब्रा० १।५।१२।१)। त्रीणि भूयोक्षराण्यभूवन्। त्रीणि च न्यूनाक्षराणीत्याह।
- ‘न वा आत्माङ्गान्यतिरिच्यते, नात्मानमङ्गान्यतिरिच्यन्ते’ (श० ब्रा० १२।२।३।६)। पृथगवस्थितानि नोपलभ्यन्ते, आत्मनान्तरीयकाणि, भवन्तीति भावः। आत्मेह देहवचनः।
- ‘यस्य दिवमति मह्वा पृथिव्याः पुरुमायस्य रिरिचे महित्वम्’ (ऋ० ६।२१।२)। दिवमतिरिरिचे महत्त्वम् दिवोपि ज्यायो बभूव, दिवमतिलङ्घ्य पप्रथ इत्याह।
- ‘सोमं मातिरीरिचः’ (श० ब्रा० ४।४।२।७)। माऽतिसावीरित्यर्थः।
- ‘इदं वाऽत्यरीरिचन्निदं न्यूनमक्रन्’ (श० ब्रा० ११।२।३।७)। अत्यरीरिचन् यावद् विहितं ततो तिरिक्तमवारिषुः।
- ‘यदस्य कर्मणोत्यरीरिचं यद्वा न्यूनमिहाकरम्’ (आप० श्रौ० ३।१५।१)। उक्तोऽर्थः।
रुच्
- {अतिरुच्}
- रुच् (रुच दीप्तावभिप्रीतौ च)।
- ‘दूरे चित्सन्तळिदिवाति रोचसे’ (ऋ० १।९४।७)। अतिशयेन दीप्यस इत्यर्थः।
- ‘यः परस्याः परावतस्तिरो धन्वातिरोचते’ (ऋ० १०।१८७।२)। अतिरोचतेऽतिभासते।
- ‘अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान्’ (भा० द्रोण० २३।८१)। अत्यरोचत धाम्नात्यशेत।
रह्
- {अतिरह्}
- रह् (रुह बीजजन्मनि)।
- ‘यदन्नेनातिरोहति’ (ऋ० १०।९०।२)। यदन्नेन संवर्धत इत्याह।
- ‘अतिरूढत्वम्’ (राज० ६।२७२)। अतिप्रसिद्धिः, महती प्रथा। सार्वलौकिकत्वम्।
लभ्
- {अतिलभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘तस्य परिचारकजनं वाग्दण्डपारुष्यातिलब्धं मार्गेत’ (कौ० अ० ४।७।१४)। अतिलब्धं परुषं व्यवहृतं तीक्ष्णं वा दण्डितम्।
वच्
- {अतिवच्}
- वच् (वच परिभाषणे, ब्रूञ् आदेशो वा)।
- ‘यो नात्युक्तः प्राह रूक्षं प्रियं वा’ (भा० शां० २९९।१७)। अत्युक्तो निन्दितः स्तुतो वा।
वद्
- {अतिवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘दुन्दुभिः सर्वा वाचोऽतिवदति’ (तै० ब्रा० १।३।६।२)। सर्वान्ध्वनीन्न्यक् करोति, सर्वाञ्शब्दांस्तिरयति।
- ‘एष तु अतिवदति यः सत्येनातिवदति’ (छां० उ० ७।१६।१)। सुतरां वदतीत्यर्थः।
- ‘यदिदं कुरुपञ्चालानां ब्राह्मणानत्यवादीः किं ब्रह्म विद्वानिति’ (बृ० उ० ३।९।१९)। अत्यवादीः=अनिन्दीः, अवाक्षैप्सीः।
- ‘यः परेषां नरो नित्यमतिवादांस्तितिक्षते। देवयानि विजानीहि तेन सर्वमिदं जितम्’ (भा० आदि० ७९।१)। अतिवादो निन्दावचनम्।
- ‘पारुष्यमतिवादः स्यात्’ (अमरः)। अतिवादं शंसति।
- ‘अतिवादेन वै देवा असुरानत्युद्य अथैनानत्यायन्’ (ऐ० ब्रा०)। अतिवादोऽत्युक्तिः।
- ‘अतिवादाद् वदाम्येष मा धर्ममभिशङ्किथाः’ (भा० वन० ३१।७)। मानान्तरमतिक्रान्तो वादोऽतिवादः। वेदैकप्रमाणप्रमितः।
- ‘प्राणो ह्येष सर्वभूतैर्विभाति। विजानन् विद्वान् भवते नातिवादी’ (मुं० उ० ३।१।४)। इतरनैरपेक्ष्येण स्वेन प्रतिज्ञातमर्थमेव प्रतितिष्ठापयिषुरतिवादी भवति।
- ‘अति वै नो ऽवादीरिति होचुर्यो नो भूयसः सतः पूर्वो ऽ प्राक्षीः’ (जै० ब्रा० १।२२)। अत्यवादीः=अतिक्रम्यावादीः, अनिन्दीः।
- ‘कामदानमतिमात्रमेकस्यातिवादं च वर्जयेयुः’ (कौ० अ० ४।१।५९)।
- ‘परिभवोपघातकुत्सातिवादांश्चैषु न प्रयुञ्जीत’ (कौ० अ० ७।१६।२२)। अतिवादो धिक्कारः।
वस्
- {अतिवस्}
- वस् (वस निवासे)।
- ‘श्राद्धात् पूर्वस्मिन्नहन्युपवासोऽतिवास उच्यते।’
वह्
- {अतिवह्}
- वह् (वह प्रापणे)।
- ‘अथैना (देवताः) मृत्युमत्यवहत्’ (श० ब्रा० १४।४।१।१२)। मृत्युमत्यवहत् मृत्योः पारेऽनयदित्यर्थः।
- ‘अतिवाहयाम्बभूव त्रियामाम्’ (रघु० ९।७०)। अतिवाहयाम्बभूव क्षपयाम्बभूव।
- ‘अस्मिँस्तमालविटपान्धकारे प्रविश्य एनमतिवाहयामः’ (रत्ना० २)। तत्कृतानुसारादात्मानं परिहराम इत्युक्तं भवति।
- ‘राजपुत्रैः समं सख्यं कृच्छ्रादप्यतिवाह्यते’ (कथा० २८।१११)। अतिवाह्यते निर्वाह्यते।
- ‘किं वा मयापि न दिनान्यतिवाहितानि’ (मालती० ६।१३)। गमितानीति यावत्।
- ‘गुहाविसारीण्यतिवाहितानि मया कथंचिद् धनगर्जितानि’ (रघु० १३।२८)। अतिवाहितानि सोढानि।
- ‘लोकातिवाहिते मार्गे’ (सर्वद०)। लोकेन प्रहत इत्यर्थः।
- ‘अलकामतिवाह्यैव वसतिं वसुसम्पदाम्’ (कु० ६।३७)। अतिवाह्य सङ्क्रमय्य। अतिशय्य, परिच्छिद्येति यावदिति तु मल्लिः।
- ‘स शापस्तेनातिवाहितः’ (कथा० ३३।९१)। अतिवाहितः सोढः।
- ‘आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः’ (यो० वा०)। अत्यन्तं कार्याकारं वोढुं समर्थोऽतिवाही सूक्ष्मभूतसङ्घः, तेन निर्वृत्त आतिवाहिकः।
- ‘कार्यमदेशेनातिवाहयति’ (कौ० श्र० ४।९।१५)। अतिवाहयति निर्वाहयति।
वा
- {अतिवा}
- वा (वा गतिगन्धनयोः)।
- ‘न भूमिं वातो अतिवाति’ (अथर्व० ४।५।२)। नातिमात्रं गच्छत्वित्यर्थः।
वी
- {अतिवी}
- वी (वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु)।
- ‘वेत्यग्रुर्जनिवान्वा अति स्पृधः’ (ऋ० ५।४४।७)। स्पृधोतिवेति योद्धृनत्यासादयति।
वृत्
- {अतिवृत्}
- वृत् (वृतु वर्तने)।
- ‘अपत्यलोभाद्या तु स्त्री भर्तारम् अतिवर्तते’ (मनु० ५।१६१)। अतिवर्ततेऽतिलङ्घते व्यभिचरति।
- ‘दुःशासनरथं प्राप्य यत्पार्थो नात्यवर्तत’ (भा० भीष्म० ११०।२०)। नालङ्घत।
- ‘यथाहं कर्मणा वाचा शरीरेण च राघवम्। नातिवर्तेय…’ (रा० )। अनुव्रता न स्यामित्यर्थः।
- ‘बान्धवस्नेहं राज्यलोभोऽतिवर्तते’ (कथा० ४१।४०)। अतिवर्ततेऽभिभवति। बाधते।
- ‘नक्षत्रमतिपृच्छन्तं बालमर्थोऽतिवर्तते।’ (कौ० अ० ९।४।२६)। अतिवर्तते त्यजति।
- ‘ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्। अति वर्तेत दुष्टात्मा…’ (रा० २।७५।५२)॥ अतिवर्तेत=उपेक्षेत, तत्रौदासीन्येन वर्तेत।
- ‘उपासते पुरुषं ये ह्यकामास्ते शुक्रमेतदतिवर्तन्ते’ (मुं० उ० ३।२।१)। अतिवर्तन्तेऽतितरन्ति।
- ‘कोऽन्यो जीवितुकामो देवस्य शासनमतिवर्तते’ (मुद्रा० ३)। अतिवर्तते लङ्घते।
- ‘एवं तयोः प्रत्यहमन्योन्याहारादिदानेन कालोतिवर्तते’ (हितोप० १)। अतिवर्ततेऽतियाति।
- ‘आ षोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते’ (मनु० २।३८)। अतिक्रान्तकाला न भवतीत्युक्तं भवति।
- ‘यथा मे हृदयं नित्यं नातिवर्तते राघवाद्’ (रा० )। नातिवर्तते न व्यपवर्तते।
- ‘…प्रविष्टस्तात भारतीम्। सूर्योदये महाबाहुर्दिवसश्चातिवर्तते।’ अतिक्रामति, व्यत्थेति।
- ‘असाध्यानतिवर्तन्ते प्रमेहा रजनी यथा’ (सुश्रुते)। अभिभवन्ति अधिकूर्वते।
- ‘विद्या वितर्को विज्ञानं स्मृतिस्तत्परता क्रिया। यस्यैते षड् गुणास्तस्य न साध्यमतिवर्तते’ (चरक० सूत्र० ९।२०)। नातिवर्तते न नश्यति।
- ‘किमाचारः कथं चैतान् त्रीन् गुणानतिवर्तते’ (गीता० १४।२१)। गुणातीतो भवतीत्याह। निस्त्रैगुण्योभवतीति वा।
- ‘येनेन्द्रियेण गृह्यते शब्दस्तस्य विषयभावमतिवृत्तोऽर्थो न गृह्यते’ (न्यायसू० २।१।५१ भाष्ये)।
- ‘त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात्। कथमल्पेन कालेन पृथिवीमटसि द्विज’ (मार्क० पु० ६१।११)॥ यौवनादतिवृत्तः=यौवनाद् दूरं गतः।
- ‘अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम्। शर्मिष्ठयाऽतिवृत्तास्मि दुहित्रा वृषपर्वणः’ (भा० आदि० ८३।२८)॥ अतिवृत्ताऽतिशयिता, विशेषिता, दूरीकृता, पश्चात्कृता।
- ‘नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम्। यदर्थं यत्नवानेव न लभे विप्रतां विभो’ (भा० अनु० २९।१९)॥ अतिवर्तितुम्, बाधितुम्, अभिभवितुम्।
- ‘यानस्य चैव यातुश्च यानस्वामिन एव च। दशातिवर्तनान्याहुः शेषे दण्डो विधीयते’ (मनु० ८।२९०)। अतिवर्तनानि क्षम्याण्यागांसि। दण्डनिर्मुक्ता अपराधाः।
- ‘रामं दर्शय मे शीघ्रं पुरा मेऽर्थोऽतिवर्तते’ (रा० ७।१०५।२)। अतिवर्तते ऽतिक्रामति, अत्येति। कालम् इति शेषः।
व्यध्
- {अतिव्यध्}
- व्यध् (व्यध ताडने)।
- ‘अति क्षिप्रेव विध्यति’ (ऋ० ४।८।८)।
- ‘आ राष्ट्रे राजन्यः शूर इषव्योतिव्याधी महारथो जायताम्’ (वा० सं० २२।२२)। अतिव्याधी दूराद् व्यधनशीलः। यो वा निष्पत्रा करोत्यरीन्।
व्रज्
- {अतिव्रज्}
- व्रज् (व्रज गतौ)।
- ‘अपरेण वेदिमतिव्रज्य’ (आश्व० श्रौ० २।३।११)। अतिव्रज्य लङ्घयित्वा।
शी
- {अतिशी}
- शी (शीङ् स्वप्ने)।
- ‘अहं पतीन्नातिशये नात्यश्ने नातिभूषये’ (भा० वन० २३३।३८)। पतीनतिक्रम्य न शये, यावन्मे पतयो न शेरते तावन्नाहं शये। अहं जघन्यसंवेशिनीत्याह।
- ‘नैतानतिशयेज्जातु नात्यश्नीयान्न दूषयेत्’ (भा० शां० १०८।१०)। उक्तोऽर्थः।
- ‘पूर्वान्महाभाग तयाऽतिशेषे’ (रघु० ५।१४)। अतिक्रामसीत्यर्थः।
- ‘धाम्नाऽतिशाययति धाम सहस्रधाम्नः’ (मुद्रा० ३।१७)। स्वार्थेणिच्। उक्तचर एवार्थः।
- ‘चरितेन चातिशयिता मुनयः’ (कि० ६।३२)। अतिवृत्ताः। चरितोत्कर्षेण पृष्ठतः कृता इत्यर्थः।
- ‘न शक्नुमो वयमार्यस्य मतिमतिशयितुम्’ (मुद्रा० ३)। अतिशयितुमतिक्रमितुम्, मतिमाहात्म्यमत्येतुम्।
- ‘महार्घस्तीर्थानामिव हि महतां कोप्यतिशयः’ (उत्तर० ६।११)। अतिशयः प्रकर्ष उत्कर्षः, माहात्म्यम्, गौरवम्।
- ‘रत्नातिशयप्रकाशाभ्यर्थनं’ (वर्जयेत्) (कौ० अ० ५।४।१०)। अतिशयो विशिष्टः प्रसादः।
- ‘प्रासादशोभातिशयालुभिः पथि प्रभोर्निवासाः पटवेश्मभिर्बभुः’ (शिशु० १२।६३)। प्रासाद०=प्रासादशोभातिशायनशीलैः।
शंस्
- {अतिशंस्}
- शंस् (शंसु स्तुतौ)।
- ‘तदाहुः कस्मात्स्तुतमनुशस्यते कस्मात्स्तोममतिशंसन्ति’ (शां० ब्रा० २८।१०)। स्तोमात्परेण किमिति शस्त्रमुदीर्यत इति पृच्छन्ति।
श्लिष्
- {अतिश्लिष्}
- श्लिष् (श्लिष आलिङ्गने)।
- ‘अतिश्लिष्टचीनांशुकान्तरीयम्।’ अतिश्लिष्टं सन्दष्टम्।
सृ
- {अतिसृ}
- सृ (सृ गतौ)।
- ‘अहरतिसृता मुहूर्त्ताः। रात्र्यतिसृता मुहूर्त्ताः’ (कालाः २।१।२८ इत्यत्र वृत्तावुदाहरणे)। अतिसृताः सङ्क्रान्ताः।
- ‘अनेकवर्णं वमति मूत्रयत्यतिसार्यते।’ (अष्टाङ्ग० सू० ७।२३)। अतिसार्यते विरेच्यते। अतिसारः। रुधिरादिकमतिशयेन सारयतीति व्युत्पत्तिः। व्याधिविशेषः।
- ‘शकृता यस्तु संसृष्टमतिसार्येत शोणितम्’ (सुश्रुत० उत्तर० ४०।५७)।
- ‘गूढदण्डातिसारणम्’ (कौ० अ० १।१६।३३)। इति दूतस्य कर्मोक्तम्। अतिसारणं छद्मना देशान्तरे सङ्क्रमणम्।
सृज्
- {अतिसृज्}
- सृज् (सृज विसर्गे)।
- ‘कामानभिव्यायन्नचिकेतोऽत्यस्राक्षीः’ (कठ० उ० १।२।३)। अत्यस्राक्षीरत्याक्षीरित्यर्थः।
- ‘इत्यृषभं सम्पातवन्तमतिसृजति’ (कौ० सू० २४।१९)। अतिसृजति=उत्सृजति।
- ‘स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्यातिसृज होष्यामि’ (आप० ध० २।३।७।१५)। अतिसृज अनुजानीहि।
- ‘स चातिसृजेज्जुहुया न चातिसृजेन्न जुहुयात्’ (अथर्व० १५।१२।२,३)। चो यद्यर्थे।
- ‘काममुद्ध्रियतामिति ब्राह्मणा अतिसृजेयुः’ (आप० ध० २।१७।१९)। उक्तोऽर्थः।
- ‘यः सत्यवाद्यति तं सृजन्तु’ (अथर्व० ४।१६।४)। अतिसृजन्तु मुञ्चन्तु।
- ‘न हि नमस्कारमति देवाः। ते हि नमासिताः कर्तारमतिसृजन्ति’ (गो० ब्रा० उ० २।१८)। मुञ्चन्तीत्येवार्थः। अंहोमुचो भवन्तीत्याह।
- ‘इत्यतिसृष्ट उद्धरेत्’ (आप० ध० २।१७।१९)। अतिसृष्टोऽनुज्ञातः।
- ‘एवमतिसृष्टस्य’ (गुरुणा शिष्यस्येति शेषः) (आश्व० गृ० ३।८।७)। अतिसृष्टस्यानुज्ञातगमनस्य।
- ‘करोतु कटं भवानतिसृष्टः’ (पा० ३।३।१६३ सूत्र वृत्तौ)। अनुज्ञात इत्यर्थः।
- ‘अतिसृष्टं सुरैरेकं त्र्यम्बकाय’ युयुत्सवे’ (रा० १।७५।१२)। कतकानुसारी पाठः। अतिसृष्टं दत्तम्।
- ‘किं वातिसृष्टः पर्वतकभ्रात्रे वैरोचकाय पूर्वप्रतिश्रुतो राज्यार्धविभागः’ (मुद्रा० २)। अतिसृष्टः समर्पितः।
- ‘पुरा नारायणेनेयमतिसृष्टा मरुत्वते’ (विक्रम० १।१७)। प्रतिग्रहो दत्तः, उपायनी कृता, उपहृता।
- ‘अतिसृज्य ददानीति वरं मम विशांपतिः’ (रा० २।१८।२३)। अतिसृज्य प्रतिज्ञाय।
- ‘अतिसृष्टमतिबद्धं कुपितमत्यल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्’ (चरक० वि० ५।१०)। अतिसृष्टम् अतिप्रस्रुतम्।
- ‘अतिसृष्टो अपां वृषभ’ (अथर्व० १६।१।१) इति सूक्तेनापोऽतिसृज्याऽवकरं विसर्जयति। कांस्यपात्रेऽपोऽवसिच्य ताभिस्तन्मध्यगतं मलं निर्गमयतीत्यर्थ इति साम्प्रदायिकाः (इति सायणः)। अतिसर्गः कामचारानुज्ञेति प्रैषातिसर्गप्राप्तकालेषु कृत्याश्चेति सूत्रे वृत्तिः।
- ‘अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्’ (रा० ५।६२।७)। अतिसर्गोऽनुज्ञानम्।
- ‘स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते न पुंसः’ (नि० ३।४)। अतिसर्गः परित्यागः परासनम्।
- ‘स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः’ (रघु० १०।४२)। वरातिसर्गो वरदानम्।
- ‘तवातिसर्गाद् देवेश प्राजापत्यमिदं पदम्’ (भा० कर्ण० ३४।२)। अतिसर्गः प्रसादः।
- ‘विधुरां ज्वलनातिसर्जनात्’ (कु० ४।३२)। ज्वलने वह्नौ प्रक्षेपात्।
- ‘दीयतामिति वचोऽतिसर्जने’ (शिशु० १४।४८)। अतिसर्जनं वितरणं विश्राणनम्।
- ‘तत्तदीयविशिखातिसर्जनात्’ (कि० १३।५७)। अतिसर्जनात् प्रत्यर्पणात्।
- ‘सैषा ब्रह्मणोऽतिसृष्टिः ’ (बृ० उ० १।४।६)। अतिशयिता समुत्कृष्टा सृष्टिरतिसृष्टिः।
- ‘ते नमसिता होतारमतिसृजन्ते’ (शां० ब्रा० १३।१)। अतिसृजन्ते अतिसृजन्ति अनुजानन्ति।
- ‘तच्छ्रेयो रूपमत्यसृजत् क्षत्रम्’ (बृह० उ० १।४।११)। अत्यसृजत् अतिशयेनासृजत्।
- ‘ब्राह्मणेभ्यश्चात्मानमतिसृजेत्’ (कौ० अ० १०।३।३७)। अतिसृजेत् परिदद्याद् अर्पयेत्।
- ‘स चेदाचारक्रमं दर्शयेन्न विक्रेतारं तस्य द्रव्यस्यातिसर्गेण मुच्येत’ (कौ० अ० ३।१६।१३)। अतिसर्गेण प्रत्यर्पणेन।
- ‘तं राजा दूष्यद्रव्योपभोगातिसर्गेण दृष्ये विक्रमयेत्’ (कौ० अ० ५।१।६)। अतिसर्गोऽनुज्ञानम्।
सृप्
- {अतिसृप्}
- सृप् (सृप्लृ गतौ)।
- ‘अहिर्न जूर्णामतिसर्पति त्वचम्’ (ऋ० ९।८६।४४)। अतिसर्पति परित्यज्य गच्छति।
स्कन्द्
- {अतिस्कन्द्}
- स्कन्द् (स्कन्दिर् गतिशोषणयोः)।
- ‘ते स्पन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः’ (ऋ० ५।५२।३)। अतियान्तीत्यर्थः।
स्था
- {अतिस्था}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘स भूमिं विश्वतो वृत्वात्यतिष्ठद् दशाङ्गुलम्’ (ऋ० १०।९०।१)। अत्यतिष्ठत् अतिक्रम्यातिष्ठत्।
- ‘इदं सर्वमतितिष्ठत्यार्वागेवास्मादिदं सर्वं भवति यो राजसूयेन यजते’ (श० ब्रा० ५।४।२।५)। अतितिष्ठति अतिक्रम्य अतिशय्य तिष्ठति।
- ‘पुरुषो ह नारायणोऽकामयत। अतितिष्ठेयं सर्वाणि भूतानि’ (श० ब्रा० १३।६।१।१)। उक्तोऽर्थः।
- ‘यो जनान् महिषाँ इवातितस्थौ पवीरवान्’ (ऋ० १०।६०।३)। अतितस्थौ अतितष्ठौ अतिभवति, अतिभूय तिष्ठतीति वा। पवीरवान् आयुधवान्।
- ‘बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धा’ (कौ० ब्रा० उ० ४।२)। अतिष्ठाः अतितिष्ठतीति। कर्तरि विच्।
- ‘अतिष्ठा सर्वेषां भूतानां मूर्धा राजेति’ (श० ब्रा० १४।५।१।२)। अतिष्ठा=अत्युत्कर्षः। अतिष्ठा वा एषा च्छन्दसां यदतिच्छन्दाः।
- ‘अतिष्ठाऽअश्वमेधो यज्ञानाम्’ (श० ब्रा० १३।५।१।९)।
- ‘अतिष्ठावान् बभूव हि’ (अथर्व० ३।२३।६) अतिक्रम्यावस्थानमतिष्ठा। तद्वान्।
- ‘अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः’ (भा० भीष्म० ४९।४५)। अत्यतिष्ठत् (इतरान्) अतिक्रम्यातिष्ठत्।
स्वृ
- {अतिस्वृ}
- स्वृ (शब्दोपतापयोः)।
- ‘यदा वा ऋचमाप्नोत्योमित्येवाति स्वरति’ (छां० उ० १।४।४)। अतिशयेन स्वरति शब्दं करोति उच्चारयति।
हन्
- {अतिहन्}
- हन् (हन हिंसागत्योः)।
- ‘तच्चेदतिहन्यात्’ (आप० श्रौ० ६।४।१४।१३)। सायम्प्रातर्हुतमतीत्य पुनश्चेद् रुद्रो हन्यात् (पशूनिति शेषः) इत्यर्थः।
- ‘तस्य हैतस्य हृदये पादावतिहतौ’ (श० ब्रा० १०।५।२।१३)। अतिहतौ निखातौ।
- ‘तदेतत् सृष्टम् (अन्नम्) पराङ् अत्यजिघांसत्’ (ऐ० उ० १।३)। अत्यजिघांसत् अतिक्रम्य गन्तुमैच्छत्। इह हन्तिर्गत्यर्थः।
- ‘स यथा कुमारो वा महाराजो वा ऽतिघ्नीमानन्दस्य गत्वा शयीत’ (बृह० उ० २।१।१९)। अतिघ्नीम् अतिशयम्, परां काष्ठाम्।
हा
- {अतिहा}
- हा (ओहाक् त्यागे)।
- ‘अतिहाय पूर्वामाहुतिं तूष्णीमुत्तरां समिधि जुहोति’ (भा० श्रौ० ६।१२।१०)। अतिहाय अतिक्रम्य। पूर्वस्या आहुतेः परेण।
- ‘माऽस्मानतिहाय दाः’ (नि० १।३।७)। अतिहाय=अतिक्रम्य। परिहृत्य।
हि
- {अतिहि}
- हि (हि गतौ वृद्धौ च)।
- ‘आयुर्यत्ते अतिहितं पराचैः’ (अथर्व० ७।५५।३)। पराचैरतिहितं पराङ् अतिगतम्।
हृ
- {अतिहृ}
- हृ (हृञ् हरणे)।
- ‘ता (अपः) नातिहृत्य सादयेन्नो अनाप्ताः’ (श० ब्रा० १।१।१।२१)। अतिहृत्य सीमानमतिक्रम्य।
- ‘न प्रत्यञ्चमक्षमध्वर्युः। सोमग्रहमतिहरति’ (श० ब्रा० ५।१।२।१७)। अतिहरति नयति। अतिशब्दः प्रत्यङ्नयनमतिक्रमो भवतीति द्योतनाय।
- ‘न च देशकालोपभोगच्छलेनातिहरेयुः’ (कार्याणि) (कौ० अ० ३।२०।२२)। न प्रत्यादिशेयुरित्यर्थः।