१३१ अपि

अस्

  • {अप्यस्}
  • अस् (अस भुवि)।
  • ‘अप्सरास्वपि गन्धर्व आसीत्’ (अथर्व० २।२।३)। अप्यासीत् अन्तरासीत्।
  • ‘सर्वा ता ते अपि देवेष्वस्तु’ (ऋ० १।१६२।८)। अप्यस्तु भागोऽस्तु। सर्वस्मिन्नुक्तेऽर्थे भागी स्या इत्यर्थः।
  • ‘अस्मे स (रयिः) इन्द्रावरुणाव् अपिष्यात्’ (ऋ० १।६०।६)। उक्तोऽर्थः।
  • ‘युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु’ (ऋ० ८।४७।८)। अपि ष्मसि=अपिष्याम=युष्माकं ने??ष्ठिनः स्याम, अत्यन्तं निजाः स्यामेत्याह।

  • {अपी}
  • इ (इण् गतौ)।
  • ‘यदाप उच्छुष्यन्ति वायुमेवापियन्ति’ (छां० उ० ४।३।२)। अपियन्ति समाविशन्ति।
  • ‘तं यथा समुद्रं स्रोत्या एवं सर्वे यज्ञक्रतवोऽपियन्ति’ (ऐ० ब्रा० ३।३९)। अपियन्ति अन्तर्भवन्ति।
  • ‘तदन्तकोप्येति विनाशकाले’ (भा० उ० ४४।२९)। तद् ब्रह्म (द्वितीयान्तम्)। अन्तकः कालः। अप्येति लीयते ब्रह्मणि।
  • ‘उशिक् त्वं देव सोमाग्नेः प्रियं पाथोऽपीहि’ (श० ब्रा० ११।५।९।१२)। प्रियमन्तं प्रविशेत्याह।
  • ‘स्वां योनिमपीतन’ (अथर्व० १०।५।२३)। स्वस्यां योनौ लीयध्वम् इत्याह।
  • ‘पञ्च नद्यः सरस्वतीमपियन्ति सस्रोतसः’ (वा० सं० ३४।११)। तत्र लीना भवन्ति, तादात्म्यमापद्यन्त इत्यर्थः। दृषद्वती शतद्रूश्चन्द्रभागा विपाशेरावतीत्यादिकाः पञ्च नद्यः।
  • ‘या काश्चेष्टयस्ताः सर्वा अग्निष्टोममपियन्ति’ (ऐ० ब्रा० ३।४०)। अग्निष्टोमेऽन्तर्भवन्तीत्याह।
  • ‘यदा सूर्योऽस्तमेति वायुमेवाप्येति’ (छां० उ० ४।३।१)। उक्तोऽर्थः।
  • ‘स एवं विद्वांश्छन्दोमयो देवतामयो ब्रह्ममयोऽमृतमयः सम्भूय देवता अप्येति’ (ऐ० ब्रा० २।४०)। अप्येति प्राप्नोति।
  • ‘वृषेव वाजी शिशुमतीरपीत्या’ (ऋ० २।४३।२)। अपीत्य, अभिगत्य, अन्तः प्रविश्य। सांहितिको दीर्घः।
  • ‘य एतद् विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति’ (बृ० उ० ४।४।१४)। अपियन्ति प्राप्नुवन्ति निगच्छन्ति।
  • ‘शुचयः शुचिमपि यन्ति लोकम्’ (अथर्व० ४।३४।२)। उक्तोऽर्थः।
  • ‘अश्वो न देवाँ अप्येति यज्ञियः’ (ऋ० ९।७१।६)। अप्येति अभिगच्छति।
  • ‘मा शिश्नदेवा अपि गु र्ऋतं नः’ (ऋ० ६।२२।५) माऽपिगुः=माऽऽगमन्, मोपगमन्, मा निविक्षन्त। अपिराङर्थ उपार्थे वा।
  • ‘आगादुदगादयं जीवानां व्रातमप्यगात्’ (अथर्व० २।९।२)। जीवानां व्रातेन समुदयेन मिश्रोऽभूदित्यर्थः।
  • ‘वशा पर्जन्यपत्नी देवाँ अप्येति ब्रह्मणा’ (अथवं० १०।१०।६)। अप्येति प्राप्नोति।
  • ‘जरामृत्युं पुनरेवापियन्ति’ (मुण्ड० १।२।७)।
  • ‘मा त्वा तपत् प्रिय आत्माऽपियन्तम्’ (ऋ० १।१६२।२०)। अपियन्तं लोकान्तरं प्रयन्तं म्रियमाणमित्यर्थः।
  • ‘स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते’ (छां० उ० ६।७।१)। स्वमपीत आत्मनैकीभूत इत्याह।
  • ‘लोकानपीतान् ददृशे स्वदेहे’ (भा० पु० ३।८।१०)। अपीतान् लीनान् लयं गतान्।
  • ‘एवं ह्येते तदापीता भवन्ति’ (श० ब्रा० १०।५।२।१५)। अपीताः समाविष्टाः।
  • ‘प्रभवाप्ययौ हि’ (ब्र० सू० )। अप्ययो लयः, प्रलयः।
  • ‘अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्’ (ब्र० सू० २।१।८)। अपीतिः=अप्ययः।
  • ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृह० उ० ४।४।६)। ब्रह्माप्येति ब्रह्माभिसंविशति, ब्रह्मणि लीयते।
  • ‘अथा पितॄन् सुविदत्रानपीतन’ (तै० सं० १।८।५)। अपीतन=अपि इतन=अपीत=अनुप्राप्नुत, एकी भवत इति भट्टभास्करः।
  • ‘वृषेव वाजी शिशुमतीरपीत्या’ (ऋ० २।४३।२)। अपीत्य व्यवायार्थमुपगम्य। सांहितिको दीर्घः।

इष्

  • {अपीष्}
  • इष् (इष गतौ)।
  • ‘अस्य व्रतेष्वपि सोम इष्यते’ (ऋ० ९।६९।१)। अपीष्यतेऽन्विष्यते, मृग्यते, तत्प्राप्तौ प्रयत्यते।

ईक्ष्

  • {अपीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘दीर्घकालमपीक्षेत निहन्यादेव शात्रवान्’ (भा० शां० १०३।१८)। अपीक्षेत प्रतीक्षेत।

ऊह्

  • {अप्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘मोघं वा देवाँ अप्यूहे’ (ऋ० ७।१०४।१४)। अप्यूहे अवजगाम अवागमम्। लिट्युत्तमैकवचने रूपम्। अमन्त्र इति पर्युदासादामभावः। वर्णाकारप्रतिध्वाननेत्रगात्रविकारतः।
  • ‘अप्यूहन्ति मनस्तज्ज्ञाः’ (हितोप० ३।३३)। अप्यूहन्ति उन्नयन्ति। तर्कयन्ति।

कृत्

  • {अपिकृत्}
  • कृत् (कृती छेदने)।
  • ‘इदमहं रक्षसो ग्रीवा अपिकृन्तामि’ (वै० सं० १।२।५)। अपिकृन्तामि अपकृन्तामि।
  • ‘वागपि गच्छतु’ (अथर्व० २।१२।८)। अपिगच्छतु अप्येतु।

गम्

  • {अपिगम्}
  • गम् (गम्लृ गतौ)।
  • ‘अपि पन्थामगन्महि स्वस्तिगामनेहसम्’ (ऋ० ६।५१।१६)। अप्यगन्महि आतिष्ठेम।
  • ‘असुं वागपि गच्छतु’ (अथर्व० २।१२।८)। अपिगच्छतु अप्येतु।

ग्रह्

  • {अपिग्रह्}
  • ग्रह् (ग्रह उपादाने)।
  • ‘कुणपगन्धान्नापि गृह्णीत सोमस्य हैष राज्ञो गन्धः’ (श० ब्रा० ४।१।३।८)। नासिकां हस्तेन नापिदधीतेत्यर्थः।
  • ‘यदि स्मयेतापि गृह्यस्मयेत’ (आप० ध० १।२।७।७) अपिगृह्य मुखं हस्तेनापिधाय।
  • ‘कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति’ (छां० उ० ३।१३।७)।
  • ‘प्राणो ह वै हिङ्कारस्तस्मादपिगृह्य नासिके न हिङ्कर्तुं शक्नोति’ (श० ब्रा० १।४।१।२)। उक्तोऽर्थः।

दृभ्

  • {अपिदृभ्}
  • दृभ् (दृभी ग्रन्थे)।
  • ‘परेत्ययममुं लोकं पिदृभ्मः’ (शां० ब्रा० २।९)। अपिदृभ्मः=अपिदृभामः, दृढमाशंसामहे।

दो

  • {अपिदो}
  • दो (दो अवखण्डने)।
  • ‘भिनद्मि मुष्कावपि द्यामि शेपः’ (अथर्व० ४।३७।७)। अपिद्यामि अवद्यामि विशसामि।

धा

  • {अपिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘वैश्वानरस्य दंष्ट्रयोरग्नेरपिदधामि तम्’ (अथर्व० ४।३६।२)। अपिदधामि प्रक्षिपामि प्रास्यामि।
  • ‘तांस्ते अग्ने पिदधाम्यास्ये’ (वा० सं० ११।८०)। उक्तोऽर्थः।
  • ‘तस्मा एतदन्नाद्यमपिदधाति यथा कुमाराय वा जाताय वत्साय वा स्तनमपिदध्यात्’ (श० ब्रा० २।२।१।१)। अपिदध्यात् मुखे निदधीत। तस्मै दद्यात्।
  • ‘अश्मना बिलमप्यधाम्’ (अथर्व० ७।३३।२)। आच्छादयमित्यर्थः।
  • ‘धनेनाधर्मलब्धेन यच्छिद्रमपिधीयते’ (भा० उ० ३५।७०)। संव्रियत इत्यर्थः।
  • ‘क्रव्यादो वृष्ट्वापि धत्स्वासन्’ (अथर्व० ८।३।२)। आसन् आसनि आस्य ओष्ठाभ्यामाच्छादयेत्युक्तं भवति।
  • ‘चक्षूंष्यपिधध्वं वो विधास्ये क्षेममञ्जसा’ (भा० पु० १०।३०।२२)। अपिधध्वं संवृणुध्वं निमीलयध्वम्।
  • ‘सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे’ (भा० अनु० ११४।६)। आच्छाद्यन्ते। सर्वे पादा हस्तिपादे निमग्ना इति सुभाषितार्थ एवात्रानूदितः। अयमेवार्थः (शां० २४५।१८) इत्यत्राप्युक्तः। अथो अप्येवैनं दध्यात्।
  • ‘अमुष्य त्वा प्राणमपिदधामीति’ (श० ब्रा० ४।१।१।१८)। अपिदध्यात् अवपीडयेद् हस्तेनेत्याह।
  • ‘मृत्यव आत्मानमपिदध्यात्’ (श० ब्रा० १३।३।५।२)। अपिदध्याद् अर्पयेत्।
  • ‘रुद्राय पशूनपिदध्यात्’ (तै० ब्रा० १।१।५।९)। उक्तोऽर्थः।
  • ‘जातायैवास्मा अन्नमपिदधाति’ (तै० सं० ५।३।४।१)। उक्तपूर्व एवार्थः।
  • ‘तुच्छेनाभ्वपिहितं यदासीत्’ (ऋ० १०।१२९।३)। अपिहितमावृतम्।
  • ‘अपिहितपाणिः’ (शां० गृ० ४।२।१२)। बद्धमुष्टिरित्यर्थः।
  • ‘ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे’ (भा० वि० ४६।१८)। आच्छादिता इत्यर्थः।
  • ‘आनुडहेन चर्मणापिहितः’ (बाणः) (लाट्या० श्रौ० ४।१।१)। अपिहितः परिवृतः परिहितः।
  • ‘अर्थो गिरामपिहितः विहितश्च किञ्चित्। सत्यं चकास्ति मरहट्टवघूस्तनाभः॥’ (सुभाषितम्)। अपहितोऽसंवृतः। पिहितः संवृतः।
  • ‘शङ्कापिहितचारित्रः’ (बौ० ध० १।५।१४।८)। शङ्कोपरुद्धानुष्ठान इत्यर्थः।
  • ‘ऋच एव हि प्रायेणातितरामपिहितार्थाः’ (नि० ७।१।१ इत्यत्र दुर्गः)। अपिहितार्थाः संवृतार्थाः।
  • ‘जातरूपेणापिधाप्य’ (कौ० सू० १३।२६)। पिधानं कारयित्वा।
  • ‘अमृतापिधानमसि’ (तै० आ० १०।३५।२)। अपिधानमाच्छादनम्।
  • ‘नैकजलदच्छत्रापिधानं जगत्’ (मृच्छ० ५।२४)। उक्तोऽर्थः।
  • ‘उत्तरेणापिधान्याम्’ (आप० ध० २।४।??)। अपिधानी कवाटम्। तदर्गलमित्यन्य इति हरदत्तः।
  • ‘गव्यं चिदूर्वमपिधानवन्तम्’ (ऋ० ५।२९।१२)।
  • ‘प्रियाँ अपिधीर्वनिषीष्ट मेधिरः’ (ऋ० १।१२७।७)। अपिधिरग्नावधिश्रितं हव्यम्।
  • ‘अथो यज्ञस्यैव छिद्रमपिदधाति’ (तै० सं० १।७।३)। अपिदधाति पिदधाति छादयति पूरयति।
  • ‘वधार्थं रावणस्येह पिहितं पुरुषोत्तमम्’ (रा० ६।११९।१७) मत्पुत्रत्वेनाच्छादितम्।

नह्

  • {अपिनह्}
  • नह् (णह बन्धने)।
  • ‘मन्दारमाला हरिणा पिनद्धा’ (शा० ७।२)। पिनद्धा बद्धा।
  • ‘पिनद्धां धूमजालेन प्रभामिव विभावसोः’ (रा० ५।१८।४)। पिनद्धां परिवेष्टितां रुद्धाम्।
  • ‘कवचं पिनह्य’ (भट्टि० ३।४७)। अपेरल्लोपः प्रायिकः।
  • ‘पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी’ (भा० अनु० ४२।९)। पिनह्य बद्ध्वा ग्रथित्वा।
  • ‘एकशङ्खास्तदा नार्यो गवेधुकपिनद्धकाः’ (हरि० ३।३।३७)। पिनद्धका अलङ्काराः।

नी

  • {अपिनी}
  • नी (णीञ् प्रापणे)।
  • ‘वाचैव तद्यज्ञं पन्थानपि नयति (ऐ० ब्रा० १।८)। अपिनयति प्रापयति।
  • ‘स एवैनमपथात् पन्थानमपिनयति’ (तै० सं० २।२।२१)। अपिनयति अभिवर्तयति प्रापयति।
  • ‘यदि ह वा अपिनीत इव यजमानो भवति’ (ऐ० ब्रा० २।२)। अपिनीतोऽपनीतो लोकान्तरं सङ्क्रमितः। उपरत इति यावत्।
  • ‘अग्नि र्वै पथिकृत् पथामपिनेता। स एवैनं यज्ञपथमपिनयति’ (श० ब्रा० १२।२।६।१)।

पद्

  • {अपिपद्}
  • पद् (पद गतौ)।
  • ‘प्राणो वातमपिपद्यते’ (श० ब्रा० ३।४।२।६)। अपिपद्यतेऽप्येति अभिसंविशति, समाविशति।

भू

  • {अपिभू}
  • भू (भू सत्तायाम्)।
  • ‘अप्यभूर्भद्रे सुकृतस्य लोके’ (अथर्व० २।१०।७)।
  • ‘तस्य वयं हेडसि मापि भूम’ (अथर्व० ७।२०।३)। तस्य क्रोधविषये मा पप्तामेत्यर्थः। अप्यभूः=अन्तरभूः।
  • ‘अयमग्ने जरिता त्वे अभूदपि’ (ऋ० १०।१४२।१)। त्वेप्यभूत् त्वयि भाग्यभूदित्यर्थः।
  • ‘अपीन्द्रः सोमपीथेऽभवत्’ (ऐ० ब्रा० ७।२८)। सोमपाने भाग्यभूत्, सोमस्यापिबदित्यर्थः।

या

  • {अपिया}
  • या (या प्रापणे)।
  • ‘भिनद्मि मुष्कावपि यामि शेपः (अथर्व० ४।३७।७)। अपियामि अपिगतं निरुद्धं करोमि।

याच्

  • {अपियाच्}
  • याच् (टुयाचृ याच्ञायाम्)।
  • ‘अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः’ (अथर्व० १२।४।३८)। अपिस्तिङन्तेन न सम्बध्यत इति साधीयो दर्शनम्। न ह्यपियाचिर्याचेर्भिन्नमर्थमाह। याचयते याच्यान् करोतीत्यर्थः।

रुह्

  • {अपिरुह्}
  • रुह् (रुह बीजजन्मनि)।
  • ‘पृथिव्यै खातमपि रोहति’ (तै० सं० २।५।१।३)। अपिरोहति उद्भवति।

वह्

  • {अपिवह्}
  • वह् (वह प्रापणे)।
  • ‘मोघं वा देवाँ अप्यूहे अग्ने’ (ऋ० ७।१०४।१४)। अप्यूहे तर्कयामि चिन्तयामि।

वृ

  • {अपिवृ}
  • वृ (वृञ् वरणे)।
  • ‘अपीव योषा जनिमानि वव्रे’ (ऋ० ३।३८।८)। अपिवव्रे वृणुते कामयते।

वृज्

  • {अपिवृज्}
  • वृज् (वृजी वर्जने)।
  • ‘मयि देवासोऽवृजन्नपि क्रतुम्’ (ऋ० १०।४८।३)। अपिवृजन् अपावर्जयन्, अभिमुखमकुर्वन्, मां प्रापयन्।

वृत्

  • {अपिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून्’ (ऋ० १।१२१।१३)। कर्तमप्यवर्तयः=गर्तेऽन्तरपातयः।

व्ये

  • {अपिव्ये}
  • व्ये (व्येञ् संवरणे)।
  • ‘अक्ष्यावपि व्ययामसि’ (अथर्व० १।२७।१)। प्रक्षिणी अभिनह्यामः संवृण्म इत्यर्थः।

व्रश्च्

  • {अपिव्रश्च्}
  • व्रश्च् (ओव्रश्चू छेदने)।
  • ‘शीर्षाणि हरसापि वृश्च’ (ऋ० १०।८७।१६)। अपिवृश्च छिन्द्धि।

सृज्

  • {अपिसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘यस्मिन्नेनमपिसृज्य रक्षन्ति’ (श० ब्रा० १३।४।२।५)। अपिसृज्य विसृज्य।
  • ‘गार्हपत्येङ्गारानपिसृज्य’ (भा० श्रौ० ६।१०।१२)। अपिसृज्य अतिसृज्य।
  • ‘सोमोंशून् पुनरपि सृजति’ (तै० सं० ६।४।४)। पुनरपि सङ्घात एकी करोतीत्यर्थः।

स्था

  • {अपिस्था}
  • स्था (ष्ठा गतिनिवृत्तौ)।
  • ‘मा मे सख्युः स्तामानमपि ष्ठात’ (अथर्व० ५।१३।५)। मापिष्ठात मोपगात मोपसृपत।
  • ‘यदीं गच्छन्त्युशतीरपिष्ठितम्’ (ऋ० १।१४५।४)। अपिष्ठितमुपसृप्तमुपेतम्।
  • ‘एको वो देवोऽप्यतिष्ठत् स्यन्दमाना यथावशम्’ (अथर्व० २।१३।४)। अप्यतिष्ठत् अध्यतिष्ठत्। अध्यर्थेऽपिः।

ह्नु

  • {अपिह्नु}
  • ह्नु (ह्नुङ् अपनयने)।
  • ‘न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः’ (ऋ० ८।३१।७)। अपिह्नुतः प्रत्याचक्षाते।