१२१ न्याङ् (नि+आङ्)

ईर्

  • {न्येर्}
  • ईर् (ईर गतौ)।
  • ‘ये त्वे कामं न्येरिरे’ (ऋ० ८।१९।१८)। न्येरिरे नितरां प्रेरयन्ति।
  • ‘यं देवा दूतमरतिं न्येरिरे’ (ऋ० ८।१९।२१)। न्येरिरे प्रेरयन्ति प्रस्थापयन्ति विसृजन्ति।

कृ

  • {न्याकृ}
  • कृ (डुकृञ् करणे)।
  • ‘पुनरेना निवर्तय पुनरेना न्याकुरु’ (ऋ० १०।१९।२)। न्याकुरु पृष्ठतो नियच्छ।

धा

  • {न्याधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘यं देवासो मर्त्येष्वादधुः’ (ऋ० ८।७३।२)।

धृ

  • {न्याधृ}
  • धृ (धृञ् धारणे)।
  • ‘न्यस्मिन्दध्र आ मनः’ (ऋ० ८।१७।१३)। न्यादध्रे न्यक्षिपत् प्रासञ्जयत्।