ईर्
- {न्येर्}
- ईर् (ईर गतौ)।
- ‘ये त्वे कामं न्येरिरे’ (ऋ० ८।१९।१८)। न्येरिरे नितरां प्रेरयन्ति।
- ‘यं देवा दूतमरतिं न्येरिरे’ (ऋ० ८।१९।२१)। न्येरिरे प्रेरयन्ति प्रस्थापयन्ति विसृजन्ति।
कृ
- {न्याकृ}
- कृ (डुकृञ् करणे)।
- ‘पुनरेना निवर्तय पुनरेना न्याकुरु’ (ऋ० १०।१९।२)। न्याकुरु पृष्ठतो नियच्छ।
धा
- {न्याधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘यं देवासो मर्त्येष्वादधुः’ (ऋ० ८।७३।२)।
धृ
- {न्याधृ}
- धृ (धृञ् धारणे)।
- ‘न्यस्मिन्दध्र आ मनः’ (ऋ० ८।१७।१३)। न्यादध्रे न्यक्षिपत् प्रासञ्जयत्।