अच्
- {न्यच्}
- अच् (अञ्चु गतिपूजनयोः अचु इत्येके)।
- ‘अथाङ्गुलीर्न्यचति’ (श० ब्रा० ३।१।३।२५)। न्यचति=न्यञ्चति=न्यक्नाः करोति।
अञ्च्
- {न्यञ्च्}
- अञ्च् (अञ्चु गतिपूजनयोः)।
- ‘द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति’ (काशिका १।३।६४)। न्यञ्चि अवाङ्मुखानि। तस्मात्पशवो न्यक्नाः (भुग्नाः)।
- ‘श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम्’ (अथर्व० ४।३६।६)। न्यञ्चनम् अपिधा, गुप्तिः, अन्तर्धिस्थानम्।
- ‘यदेवास्य तत्र न्यक्तम्। तदेवावरुन्धे’ (तै० ब्रा० १।१।३।४)। न्यक्तं निगूढम्।
- ‘यत्र यत्रैवास्य न्यक्तम्’ (तै० सं० १।५।२।४)। न्यक्तं निमग्नं विस्मृतम्। नीचैरक्तं गतमित्यक्षरार्थः।
अञ्ज्
- {न्यञ्ज्}
- अञ्ज् (अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु)।
- ‘यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि’ (अथर्व० ९।१।१७)। न्यञ्जन्ति निलिम्पन्ति।
- ‘त्वष्टा ग्नास्वन्तर्न्यानजे’ (ऋ० १।१६१।४)। न्यानजे=अन्तर्विवेश, अन्तर्दवे।
- ‘मेधां मे विष्णुर्न्यनक्त्वासन्’ (अथर्व० १८।३।११)। न्यनक्तु संयोजयतु। आसनि मुखे।
अस्
- {न्यस्}
- अस् (असु क्षेपे)।
- ‘अथ पुनर्लोष्ट न्यस्यति’ (श० ब्रा० ३।२।२३१)। न्यस्यति निक्षिपति अधःक्षिपति।
- ‘दृष्टिपूतं न्यसेत्पादम्’ (मनु० ६।४६)। न्यसेत्=न्यस्येत्=निदधीत। अर्थान्तरं न्यस्यति (शिशु० १।१७ इत्यत्र मल्लिः)।
- ‘अपि प्राणान् न्यसिष्यन्ति’ (रा० २।४६।२०)। जीवित त्यक्ष्यन्तीत्यर्थः।
- ‘श्रोतुं चैव न्यसेद्राजा प्राज्ञान्सर्वार्थदर्शिनः’ (भा० शां० ६९।२८)। न्यसेत् अधिकुर्यात्, नियुञ्जीत। क्रय्यं न्यस्तं क्रयाय यत् (अमरः)। न्यस्तं रचितं प्रसारितम्।
- ‘स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम्’ (मनु० ८।१८३)। न्यस्तं निक्षिप्तमुपनिहितम्।
- ‘भगवन्न्यस्तशस्त्रोहम्’ (हरि० १।११।४२)। न्यस्तशस्त्रस्त्यक्तायुधः।
- ‘न्यस्तदण्डा वयं राजन्’ (रा० ३। )।
- ‘न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ’ (भा० भीष्म० १७।१३)। न्यासितः त्याजितः।
- ‘स राज्यं सचिवे न्यस्य’ (भा० ३।९९२२)।** न्यस्य समर्प्य।**
- ‘धनुर्न्यस्य पृषत्कांश्च पञ्चभिः पुरुषर्षभैः’ (हरि० १।३०।२१)। धनुर्यस्य संन्यस्य परित्यज्य। पञ्चभिः पुत्रैः कृतकृत्यो भूत्वेति वाक्यशेषार्थः।
- ‘भीम नारायणास्त्रे मे गोषु च ब्राह्मणेषु च। एतेषु गाण्डिवं न्यस्यमेतद्धि व्रतमुत्तमम्’ (भा० द्रोण० १९९।५३)॥ न्यस्यं न्यास्यं त्याज्यमप्रयोक्तव्यम्। यथान्यासमेवास्तु (भाष्ये)। न्यासः सूत्रे पदन्यासः।
- ‘काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः’ (गीता १८।२)। न्यासस्त्यागः।
- ‘संवत्सरेण सोऽल्पायुर्देह-न्यासं करिष्यति’ (भा० वन० २९४।२५)। देहन्यासो देहत्यागो निधनम्।
- ‘चरणन्यासैः कम्पयन्निव मेदिनीम्’ (रा० ४।१४।५)। चरणन्यासैः पादनिक्षेपैः।
- ‘करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया’ (भा० पु० ६।८।६)।
- ‘खादन्ति हस्तिनं न्यासैः क्रव्यादा बहवोप्लुत’ (भा० शां० ८।१८)। न्यासैः सर्वकर्मत्यागैरुपेतं हस्तिनम् इत्याह।
- ‘ऋषेर्हि न्यस्तदण्डस्य वने वन्येन जीवतः’ (रा० २।६३।२७)। न्यस्तदण्डस्य त्यक्तपरपीडस्य।
- ‘न्यस्तमार्त्विज्यमकार्यम्’ (आश्व० गृ०)।
इ
- {न्यि}
- इ (इण् गतौ)।
- ‘स यत्रायं शारीर आत्मा बल्यं नीत्य (=नि इत्य) संमोहमिव न्येति’ (श० ब्रा० १४।७।२।१)। न्येति निगच्छति निश्चयेन प्राप्नोति।
- ‘तद्यथैकपात् पुरुषो यन्नेकचक्रो वा रथो वर्तमानो भ्रेषं न्येति’ (गो० ब्रा० पूर्व० ३।२)। भ्रंशमाप्नोतीत्याह।
- ‘वाश्रेव वत्सं सुमना दुहाना पतिरिव जायामभि नो न्येतु’ (ऋ० १०।१४९।४)।
- ‘अमून्हेति पतत्त्रिणी न्येतु’ (अथर्व० ६।२९।१)। न्येतु नितरां गच्छतु।
- ‘न्यङ् नियन्त्युपरस्य निष्कृतम्’ (ऋ० १०।९४।५)। न्यङ् नियन्ति=अन्तर्विशन्ति।
- ‘नि यन्नियन्त्युपरस्य निष्कृतिम्’ (अथर्व० ६।४९।३)। नियन्ति निर्गच्छन्ति निष्कृतिं निर्माणमिति सायणः।
- ‘ये केचन ग्राम्याः पशवो ये चारण्या अणिमानमेव तत् परुषिमाणं नियन्ति’ (ऐ० ब्रा० ४।२६)।
- ‘युध्यमानाः शरैः …ध्वजिनी न्यगात्। अन्योन्यम्’ (भा० भीष्म० ४८।२०)। न्यगात्=अन्तः प्राविक्षत्।
- ‘एनो मा निगां कतमच्चनाहम्’ (ऋ० १०।१२८।४, अथर्व० ५।३।४)।
- ‘मा दम्पती पौत्रमघं नि गाताम्’ (अथर्व० १२।३।१४)। पुत्रादागतं व्यसनं माऽऽपत्साताम् इत्याह।
- ‘नियन्त्यनेनेति न्याय इति दीक्षितः’ (सि० कौ० ३।३।३७)।
- ‘यन्नियानं न्ययनं संज्ञानं यत् परायणम्’ (ऋ० १०।१९।४)।
- ‘य उदानट् परायणं य उदानण्त्यायनम्’ (अथर्व० ६।७७।२)। न्यायनं=न्ययनं नीचीनं गमनमिति सायणः।
- ‘अपामिदं न्ययनं समुद्रस्य निवेशनम्’ (वा० सं० १७।७, अथर्व० ६।१०६।२)। निलयनमावासस्थानम्।
- ‘न्ययं गतः पापः’ (काशिका ३।३।३७)। न्ययो नीचैर्गतिः। अधोगतिः।
- ‘यत्रायमणिमानं न्येति’ (बृह० उ० ४।३।३६)। कार्श्यं नितरामेतीत्यर्थः।
- ‘आर्तिं वा एते नियन्ति’ (तै० ब्रा० १।४।६।५)। नियन्ति नितरां प्राप्नुवन्ति।
- ‘यद्यपरपक्षे भङ्गं नीयात्’ (शां० ब्रा० ४।१)। भङ्गं भ्रंशं व्यसनमुपेयात्।
ईर्
- {नीर्}
- ईर् (ईर गतौ)।
- ‘उतादः परुषे गवि सूरश्चक्रं हिरण्ययं न्यैरयद्रथीतमः’ (ऋ० ६।५६।३)। न्यैरयत् प्रैरयत् प्राणुदत्।
उच्
- {न्युच्}
- उच् (उच समवाये)।
- ‘तत्र सेदिर्न्युच्यतु’ (अथर्व० २।१४।३)। नीचीना समवैतु। सेदिर्निर्ऋतिः सादयतीति।
- ‘नि यो गृभं पौरुषेयीमुवोच’ (ऋ० ७।४।३)।
- ‘असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच’ (ऋ० ७।२१।१)। **न्युवोच परितोषमाप। संगतोऽभूदिति वा।
उब्ज्
- {न्युब्ज्}
- उब्ज् (उब्ज आर्जवे)।
- ‘भाजनानि सम्प्रक्षाल्य न्युब्जति’ (बौ० ध० ३।२।२।८)। अवाङ्मुखानि करोति।
- ‘तत्रैतांश्चमसान्न्युब्जन्’ (ऐ० ब्रा० ७।३०)। अधोमुखानस्थापयन्नित्यर्थः।
- ‘भुजन्युब्जौ पाण्युपतापयोः’ (पा० ७।३।६१)। न्युब्जिताः शेरते ऽस्मिन्निति न्युब्ज उपतापो रोगः।
उन्द्
- {न्युन्द्}
- उन्द् (उन्दी क्लेदने)।
- ‘यदाज्यमुच्छिष्यते तस्मिन्रशनां न्युनत्ति’ (तै० ब्रा० ३।८।२।३)। नितरामुनत्ति क्लिन्नां करोतीति सायणः। नीचैः कृत्वा निमज्ज्य उनत्तीति तु वयम्।
- ‘आस्वास्वोषधीष्वात्मानं न्युद्यापूर्यमाणोऽमुं लोकं गच्छति’ (जै० ब्रा० २।३)। उक्तोऽर्थः।
उष्
- {न्युष्}
- उष् (उष दाहे)।
- ‘सत्यं धूर्वन्तमचितं न्योष’ (ऋ० १०।८७।१२)।
- ‘पराशृणीतमचितं न्योषतम्’ (ऋ० ७।१०४।१)। न्योषतं नितरां दहतम्। भस्मसात्कुरुतमित्यर्थः।
ऊह्
- {न्यूह्}
- ऊह् (ऊह वितर्के)।
- ‘न्योहतेऽधा नियुत ओहते’ (ऋ० ५।५२।११)। न्योहते=न्योहन्ते=अवदधते।
- ‘पशूनेवैतेन न्यौहन्त’ (पञ्च० ब्रा० १३।६।१३)। न्यौहन्त नितरां प्राप्नुवन्, समूहीकृतवन्त इति वा।
ऋ
- {न्यृ}
- ऋ (ऋ गतिप्रापणयोः)।
- ‘प्राणमपानो ऽनु न्यृच्छेत्’ (तै० सं० ६।४।६)। न्यृच्छेत् निर्गच्छदवस्तात्।
ऋ
- {न्यृ}
- ॠ (ॠ गतौ)।
- ‘तमग्निमस्ते वसवो न्यृण्वन्’ (ऋ० ७।१।२)। न्यृण्वन् न्यक्षिपन्।
- ‘न्यर्पयतं बृषणा तमोवृधः’ (ऋ० ७।१०४।१)। न्यर्पयतम्=नीचैर्गमयतम्, निर्ॠतिं प्रापयतम्।
- ‘इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतम्’ (अथर्व० ८।४।१)। उक्तोऽर्थः।
- ‘यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः’ (अथर्व० १०।३।१५)। न्यर्पिता नीचैर्गमिताः, पातिताः, भुग्नाः।
ऋच्छ्
- {न्यृच्छ्}
- ऋच्छ् (ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु)।
- ‘उप यद्धीदं किं च जायतेऽस्यां तदुपजायतेऽथ यन्न्यृच्छत्यस्यामेव तदुपोप्यते’ (श० ब्रा० २।३।४।९)। न्यृच्छति नीचैर्गच्छति निखातं भवति।
ऋष्
- {न्यृष्}
- ऋष् (ऋषी गतौ)।
- ‘ह्रदं न हि न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना’ (ऋ० १।५२।७)। न्यृषन्ति नितरां प्राप्नुवन्ति, त्वयि प्रविशन्ति, त्वद्हृद्गतानि भवन्ति।
कण्
- {निकण्}
- कण् (कण रण गतौ)।
- ‘अक्षिनिकाणं जल्पति’ (पा० ३।४।५४ सूत्रे वृत्तौ)। नेत्रनिकोचं नेत्रे निकोच्य। णमुलन्तमेतत्।
कम्
- {निकम्}
- कम् (कमु कान्तौ, कान्तिरिच्छा)।
- ‘तदग्निर्न्यकामयत’ (तै० सं० १।५।१।१)। न्यकामयत नितरामकामयत।
- ‘ज्यायो भागधेयं निकामयमानः’ (तै० सं० १।५।२।२)। निकामयमानोऽभीच्छन्। माध्यन्दिनं वा एष (सोमः)।
- ‘निकामयमानोऽभ्यतिरिच्यते’ (पञ्च० ब्रा० ९।७।२)। उक्तोऽर्थः।
- ‘तं (उत्तरसवनसोमं) निकामयमानोऽभ्यतिरिच्यते’ (पूर्वसवनसोमः) (का० श्रौ० २५।१३।१६)।
- ‘निकामे निकामे नः पर्जन्यो वर्षतु’ (वा० सं० २२।२२)। यदा यदास्माभिः काम्येत तदा तदेत्युक्तं भवति।
- ‘न्याहवनीयो गार्हपत्यमकामयत’ (तै० ब्रा० १।१।५।६)। न्यकामयत नितरामकामयत। सुतरामभ्यलष्यत्।
- ‘तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे’ (जै० ब्रा० १।३०)। निश्चितः कामो निकामः।
कष्
- {निकष्}
- कष् (कष हिंसायाम्)।
- ‘उद्धरन्ति कुमीनङ्गाद् दशतो निकषन्ति च।’ (भा० शां० १८०।१४)। निकषन्ति कण्डूयनेन हिंसन्ति।
- ‘सभानिकषकटस्वस्तरांश्च’ (आप० ध० १।८।१३)। निकषो नाम कृषीवलानामुपकरणं कृष्टं क्षेत्रं येन समीक्रियते, यच्च कस्मिंश्चिदारूढे केनचिदाकृष्यते इति हरदत्त उज्ज्वलायाम्।**
- ‘निकषिष्यते निकषमाणाय निकषिताय’ (तै० सं० ७।१।१९।३)।
काश्
- {निकाश्}
- काश् (काशृ दीप्तौ)।
- ‘प्रेष्यन्तं निकाशं मे कालेनाल्पीयसा पुनः’ (भा० ३।१६३१)। निकाशः सामीप्यम्। नीकाश इति तु पाणिनीयाः।
- ‘क्वचिन्मणिनिकाशोदाम् (नदीम्)’ (रा० २।९५।१०)। स्फटिकसदृशोदकामित्याह।
- ‘गजयूथनिकाशेन बलेन महता वृतः’ (रा० ६।५७।२१)। गजयूथनिकाशेन करिघटासदृशेन। नीकाश इति तु पाणिनीया इच्छन्ति।
कित्
- {निकित्}
- कित् (कित निवासे)।
- ‘नय मां स्वनिकेतनम्’ (हरि० १।२९।४२)। निकेतनं वसतिर्गृहम्।
कृ
- {निकृ}
- कृ (डुकृञ् करणे)।
- ‘नि काव्या वेधसः शश्वतस्कः’ (ऋ० १।७२।१)। नीचैरकरोः। अवानयः।
- ‘मा नो नि कः पुरुषत्रा’ (ऋ० ३।३३।८)। मा स्मास्मानवमानयः।
- ‘तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया’ (अथर्व० ७।३८।२)। निकुर्वे स्ववशे करोमीत्यर्थः।
- ‘मा त्वा नि क्रन् पूर्वचित्ता निकारिणः’ (अथर्व० ७।८७।३)। अनपकारिणं त्वां स्वाधीनं मा कार्षुरित्याह। निकारिणोऽपकारिणः।
- ‘येना निचक्रे आसूरीन्द्रं देवेभ्यस्परि’ (अथर्व० ७।३८।२)। उक्तोऽर्थः। देवेभ्यस्परि देवान्वर्जयित्वा। परिर्वर्जने।
- ‘अयं स शिङ्क्ते येन गौरभीवृता…सा चित्तिभिर्नि हि चकार मर्त्यम्’ (ऋ० १।१६४।२९)।
- ‘त्वां रुद्र निचिकीर्षति’ (अथर्व० ११।२।१३)। निचिकीर्षति अभिभवितुमिच्छति प्रसोढुमभिलक्षति। सायणस्त्वाह–निपूर्वः करोति हिंसने वर्तत इति।
- ‘न चानि क्षिप्तदण्डस्य परेषामनिकुर्वतः’ (अवदा० अपुत्र जा० १३)। अनिकुर्वतोऽतिरस्कुर्वतः, शाठ्यं वाऽनाचरतः।
- ‘सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर। निकृतानीह पाण्डूनां नीचैरिव यथा नरैः’ (भा० भीष्म० ६५।२०)॥
- ‘जरायुजानि भूतानि निकृतान्यपि’ (भा० आश्व० ४२।३८)। निकृतानि प्राकृतानि।
- ‘निकृतप्रज्ञः’ (रा० ५।२३।६)। उक्तोऽर्थः। निकृतस्त्वनृजुः शठ इति कोषः।
- ‘दुर्योधनेन निकृता वर्षमद्य चतुर्दशम्’ (भा० उ० ९०।६०)। निकृता वञ्चिताः।
- ‘असकृन्निकृताः पूर्वं मत्स्यशाल्वेयकैः प्रभो’ (भा० वि० ३०।२)।
- ‘असकृच्चापि निकृतो न च निर्विद्यसे ततः’ (भा० शां० १७७।१८)। अनन्तरोदीरित एवार्थः।
- ‘न हि ते व्युपशाम्यन्ति निकृता वा निराकृताः’ (भा० वन० ३०।३०)।
- ‘म्लेच्छाश्चान्ये बहुविधाः पूर्वं ये निकृता रणे’ (भा० आश्व० ७३।२५)॥ निकृताः पराभूताः।
- ‘अस्माभिर्ह्येष निकृतो वर्षाणीह त्रयोदश’ (भा० वि० ४९।१८)। निकृतो वमानितः।
- ‘किमाग्नेयो ग्रावा निकृत इव तेजांसि वमति’ (उत्तर० ६।१४)। उक्तोऽर्थः।
- ‘नास्ति त्वनिकृतार्थानां रणेऽरीणां प्रतिक्रिया’ (भा० वन० ८६।१५)।
- ‘ततेजस्वी पुरुषः परकृतनिकृतिं कथं सहते’ (भर्तृ० २।३०)। निकृतिः पराभवः। अवमानः।
- ‘स्वाग्रासनापनयनान्निकृतिर्न सोढा’ (मुद्रा० ४।११)। उक्तोऽर्थः।
- ‘अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड’ (वेणी० ५।२१)। निकृतिः शाठ्यम्।
- ‘निकृत्योपचरन्वध्य एष धर्मः सनातनः’ (भा० वन० १२।७)। उक्तोऽर्थः।
- ‘निकृत्या कामये नाहं सुखान्युत धनानि वा’ (भा० सभा० ५९।१३)। नीचेन कर्मणेत्यर्थः।
- ‘हत्वा वै पुरुषो राजन्निकर्तारमरिन्दम’ (भा० वन० ३५।१०)। निकर्ता वञ्चकः।
- ‘मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति’ (अथर्व० १०।१।२६)। निकर्तुमभिभवितुम्, धर्षयितुम् अधरीकर्तुम्।
- ‘अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः’ (भा० वन० ३५।३१)। प्रयोक्तव्यमस्मासु शाठ्यमित्यर्थः।
- ‘तीर्णो निकारार्णवः’ (वेणी० ६।४३)। निकारोऽवहेलाऽपमानः।
- ‘अलमङ्ग निकारोऽयं त्रयोदश समाः कृतः’ (भा० उ० १२९।४७)। निकारोऽपकारः।
- ‘होतारं मृत्युः प्रत्यालीयत तमाज्येन न्यकरोत्’ (शां० ब्रा० १५।५)। न्यकरोत् पृथगकरोत्।
- ‘सा चित्तिभिर्नि हि चकार मर्त्यम्’ (ऋ० २।१६४।२९)। निचकार नीचैः करोति भयोत्पादनात्।
- ‘ब्रह्मा ऽनिकृतिश्चास्तु यस्ते हरति पुष्करम्’ (भा० अनु० ९४।२०)। अनिकृतिरकृतप्रायश्चित्तः।
- ‘चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः’ (प्र० च० ६।९)। निकृतिस्तिरस्कारः।
कृत्
- {निकृत्}
- कृत् (कृती छेदने)।
- ‘क्षालयन्नपि वृक्षाङ्घ्रीन्नदीवेगो निकृन्तति’ (हितोप० ४।५९)। निकृन्तति मूलोच्छेदं करोति।
- ‘निकृन्त छिन्धि भिन्धीति परवर्मावकर्तनम्’ (भा० आश्व० ३७।४)। निकृन्त समूलमुद्धर।
- ‘विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति’ (पञ्चत० २।३९)। निशब्दो निःशेषत्वे।
- ‘भल्लनिकृत्तकण्ठैः’ (रघु० ७।५८)।
- ‘यानि शप्तानि गेहानि निकृत्तानीव कृत्यया’ (भा० अनु० ४६।७)।
- ‘एतान्निकृत्य धीमान् बाणसङ्घैरतन्द्रितः’ (भा० आश्व० ३१।३)। निकृत्य छित्त्वा।
- ‘निकर्तनमिवात्युग्रं लाङ्गूलस्य महाहरिः’ (भा० द्रोण० १७०।२५)। स्पष्टोर्थः।
- ‘उत्सादनममित्राणां परसेनानिकर्तनम्’ (भा० वन० १६७।५५)। निकर्तनं निसूदनं निबर्हणं कदनम्।
- ‘निकर्तने देवने योऽद्वितीयः’ (भा० उ० ३०।२८)। निकर्तनेऽर्थापहारे।
कृष्
- {निकृष्}
- कृष् (कृष विलेखने)।
- ‘यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा’ (भा० आदि० ९०।१७)। निकृष्यतेऽपवाह्यते नदीरयेण। निकर्षणमधस्तात् कर्षणम्। निशब्दो नीचैस्त्वे। नितरां वा कर्षणं निकर्षणम्।
- ‘(मौर्यनृपस्य लक्ष्मीम्) निकृष्यमाणामिव लक्षयामि’ (मुद्रा० २।२)। निकृष्यमाणाम् अधः पात्यमानाम्।
- ‘निकृष्टयुद्धं संसक्तं महदासीत्सुदारुणम्’ (भा० द्रोण १८७।१५)। निकृष्टयोः सन्निकृष्टयोः संश्लिष्टयोर्युद्धम्।
- ‘नातिदूरे निकृष्टे वा’ (सुश्रुत० १।९४।४)। निकृष्टे संनिकृष्टे।
- ‘सुनिकृष्टा च ते योनिः’ (भा० आदि० ७४।८०)। निकृष्टाऽवरा, जघन्या।
- ‘सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः। निकृष्टभूता राजानो वत्सा ह्यनडुहो यथा’ (भा० वन० १३४।५)॥ उक्तोऽर्थः। निकृष्टप्रतिकृष्टार्वयाप्यरेफावमाधमा इत्यमरः पर्यायान्पठति।
- ‘संलीनवालघिराकृष्य करं निकृष्टजानुः’ (तन्त्रा० ३।३)। निकृष्टजानुः=अन्वञ्चितजानुः।
- ‘वयमेनं हनिष्यामो निकृष्यामो धनाद् बहिः’ (भा० द्रोण० १७।१५)। निकृष्य=आकृष्य।
- ‘यत्र पदार्थस्वरूपं प्रस्तावानुगुण्येन केनापि निकर्षेणोत्कर्षेण वा युक्तम्’ (वक्रोक्ति० १)। निकोर्षोऽपकर्षः। सान्निवेशो निकर्षणम् (अमरः)। निकर्षणमिति सर्वानन्दः पठति, निकर्षण इति तु स्वामी। निवृत्तं कर्षणमत्रेति व्युत्पत्तेर्निकर्षणशब्देन विहारार्थः प्रकाशोऽवकाश उच्यते।
- ‘यथा हि कनकं शुद्धं तापच्छेदनिकर्षणैः। परीक्षेत…’ (भा० शां० ३२७।४६)॥ निकर्षणं निकषणम्।
- ‘भर्तृभावाद् भुजङ्गानां शेषस्त्वत्तो निकृष्यते’ (काव्यादर्शे २।१८८)।** निकृष्यते निकृष्टोस्ति, जघन्यो भवति।**
कृ
- {निकृ}
- कृ (कृ विक्षेपे)।
- ‘निकारो धान्यस्य’ (काशिका ३।३।३०)। धान्यस्यावक्षेप इत्यर्थः। निशब्दोवस्यार्थे।
क्रम्
- {निक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘सोदक्रामत् सा (विराट्) गार्हपत्ये न्यक्रामत्’ (अथर्व० ८।१०।२)। न्यक्रामत् अन्तः प्रविशेत्, न्यलीयत।
- ‘तौ (मित्रावरुणौ) ततो गां समैरयतां सा यत्र यत्र न्यक्रामत् ततो घृतमपीडयत तस्माद् घृतपद्युच्यते’ (तै० सं० २।६।७।१)। न्यक्रामत् प्राविशत्, पादान्वा न्यधत्त।
- ‘महान्तं चिदर्बुदं न्यक्रमीः पदा’ (ऋ० १।५१।६)। आस्कान्त्सीः , अधस्पदमकार्षीः।
- ‘मधुमन्मे निक्रमणम्’ (अथर्व० १।३४।३)। निक्रमणं निकटगमनम्। संनिहितार्थेषु प्रवर्तनम्।
- ‘निक्रमणं निषदनं विवर्तनं यच्च पड्वीशमर्वतः’ (ऋ० १।१६२।१४)।
- ‘सा यत्र यत्र न्यक्रामत्’ (तै० सं० २।६।७।१)। न्यक्रामत् निष्क्रम्यापतत्।
- ‘निक्रमणं निषदनं विवर्तनम्’ (ऋ० १।१६२।१४)। अर्थनिर्दिष्टयेऽनुवादः। निक्रमणं न्यक्पतनम्।
- ‘यस्यै निक्रमणे घृतं प्रजाः संजीवन्तीः पिबन्तीति’ (तै० सं० १।७।२)। उक्तोऽर्थः।
क्रीड्
- {निक्रीड्}
- क्रीड् (क्रीडृ विहारे)।
- ‘तस्याश्चत्वारि चत्वार्यक्षराणि निक्रीडयन्निव गायति’ (लाट्या० श्रौ० ७।१२।९)।
क्षिप्
- {निक्षिप्}
- क्षिप् (क्षिप प्रेरणे)।
- ‘अन्नं भूमौ श्वचाण्डालवायसेभ्यश्च निक्षिपेत्’ (याज्ञ० १।१०३)। निक्षिपेत् स्थापयेत्।
- ‘निक्षिप्य चरणं रक्ताक्ते मेषचर्मणि’ (राज० ५।३२५)। निक्षिप्य न्यस्य निधाय।
- ‘गात्राणि कान्तासु च निक्षिपन्ति’ (रा० ५।११।१२)। समावेशयन्ति।
- ‘निक्षिपैतद् धनुस्तात प्राप्तोसि परमां गतिम्’ (भा० वन० ३७।४७)। निक्षिप त्यज।
- ‘निक्षिपाम्यहमग्नित्वं त्वमग्निः प्रथमो भव’ (भा० वन० २१७।१६)। निक्षिपामि त्यजामि।
- ‘निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये’ (भा० द्रोण० १९९।४१)। निक्षेप्स्यन्ति त्यक्ष्यन्ति।
- ‘हिरण्यं भाण्डागारेषु निक्षिपेत्’ (याज्ञ० १।३२७)।
- ‘यो यथा निक्षेपेद् हस्ते यमर्थं यस्य मानवः’ (मनु० ८।१८०)। निक्षिपेत् रक्ष्यमित्यर्पयेत्।
- ‘पुत्रेषु भार्यां निक्षिप्य’ (मनु० ६।३)। अवेक्ष्येयमित्यर्पयित्वा।
- ‘राज्ये राममनिक्षिप्य पिता मे विनशिष्यति’ (रा० २।५१।१७)। राज्येऽनधिकृत्य, अप्रतिष्ठाप्य।
- ‘रक्षितं वर्धयेद वृद्ध्या वृद्धं पात्रेषु निक्षिपेत्’ (मनु० ७।१०१)। निक्षिपेत् प्रतिपादयेत्, दद्यात्, वितरेत्।
- ‘बलं प्रसादयेद्राजा निक्षिपेद् बलिनो नरान्’ (भा० आश्रम० ७।१७)। अधिकुर्यादित्यर्थः।
- ‘निक्षिप्तवादेषु जनाधिपेषु’ (भा० आदि० १८७।२९)। त्यक्तधनुरुद्यमनकथेषु इति नीलकण्ठः।
- ‘निक्षिप्तक्षितिरक्षस्तु सर्वमेव विमुञ्चति’ (बृ० श्लो० सं २।४)। निक्षिप्ता त्यक्ता।
- ‘सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम्’ (वर्णाः) (रघु० ७।६२)। निक्षेपिता न्यस्ता उल्लिखिता इत्यर्थः।
- ‘निक्षिप्य मानं दर्पं च वासुदेवसहोदरा’ (भा० शल्य० ५।२०)। निक्षिप्य विहाय उत्सृज्य।
- ‘अलं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण’ (सा० द०)। कृतं तिर्यग्दृष्टिपातेनेत्यर्थः।
- ‘निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम्। निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम्’ (पञ्चत० १।१४)॥ निक्षेपो न्यासः।
- ‘निक्षेपस्वर्णसम्पूर्णकटाहजठरां धराम्’ (शि० भा० ३०।६)। निक्षेपो निधिः॥
- ‘अमी पवननिक्षिप्ता विनदन्तीव पादपाः’ (रा० ४।१।१८)। निक्षिप्ता निपातिता अवपातिताः।
- ‘निक्षिप्तविजयो रामो गतश्रीः’ (रा० ५।२०।२६)। निक्षिप्त विजयस्त्यक्तविजयः।
खन्
- {निखन्}
- खन् (खनु अवदारणे)।
- ‘हृदि रामो विराधस्य निचखान शरोत्तमम्’ (रा० ३।८।७)।
- ‘ऊनद्विवर्षं निखनेत्’ (याज्ञ० ३।१)। निखनेत् भूमाववटं कृत्वा निदध्यात्।
- ‘वसुधायां निचख्नतुः’ (रघु० १२।३०)। उक्तोऽर्थः।
- ‘निचखान जयस्तम्भान्’ (रघु० ४।३६)। निचखान निममौ, उच्छिश्राय।
- ‘असुरास्त्वां न्यखनन्देवास्त्वोदवपन्’ पुनः (अथर्व० ६।१०९।३)।
- ‘निचखान शरं भुजे’ (रघु० १२।९०)। समानर्च्छ शरेण बाहुमित्यर्थः।
- ‘शल्यं निखातमुदहारयतामुरस्तः’ (रघु० ९।७८)। अन्तःप्रत्युप्तं शल्यम् उदहारयतामुद्धृतवन्तौ।
- ‘गाढं निखात इव मे हृदये कटाक्षः’ (मालती० १।२९)। उक्तोऽर्थः।
- ‘इमां महीं परितो निखनद्भिः’ (सगरात्मजैः) (भा० पु० ५।१९।२९)। निखनद्भिः उत्खनद्भिः। यथान्यत्र तथात्राप्यस्थान उपसर्गप्रयोगः कवेः।
- ‘यावतः कुरुते जन्तुः सम्बन्धानात्मनः प्रियान्। तावन्तोऽस्य निखन्यन्ते हृदये शोकशङ्कवः’ (हितोप० ४।६९)॥ निखन्यन्ते निमीयन्ते निहन्यन्ते।
खिद्
- {निखिद्}
- खिद् (खिद परिघाते)
- ‘त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रम्’ (ऋ० ४।२८।२)। अवाधात्, अवाकृक्षत्, अवाक्षिपत्।
गद्
- {निगद्}
- गद् (गद व्यक्तायां वाचि)।
- ‘सार्पराज्ञीर्होता निगदेत्’ (शां० श्रौ० १३।११।७)। निगदेत् शंसेत्, गायेत्। नञभावे निगद्यते। नञिति निपातोऽभावमाचष्टे।
- ‘मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे’ (रघु० ३।४४)। निगद्यसे संज्ञायसे समाख्यायसे।
- ‘पुलकैः प्रियं नववधूर्न्यगदत्’ (शिशु० ६।७६)। न्यगदत् असूचयत् प्रावेदयत् प्राख्यापयत्।
- ‘सिंहोरुसत्त्वं निजगाद सिंहः’ (रघु० २।३३)। निजगाद अभ्युवाच।
- ‘धर्मे निगदितश्चैव पितुर्निर्देशकारकः’ (रा० ४।५३)। धर्मे धर्माचरणे। निगदितः प्रख्यातः।
- ‘(गदाः) अस्मिञ्शास्त्रे निगदिताः’ (सूश्रुत० २।३८१।२१)। निगदिता विशिष्य निर्दिष्टाः परिगणिताः।
- ‘यदधीतमविज्ञातं निगदेनैव शब्द्यते’ (नि० १।१८।१)। निगद उच्चारणमात्रम्। इति निगदव्याख्यातम्। पाठमात्रेणैव व्यक्तार्थम्, व्याख्यानानपेक्षम्। निगदो गद्यात्मकं स्तोत्रम्। निगद इति च यजुरिति च मिथो भिद्येते। यजुरनुच्चैरुच्चार्यते।
गम्
- {निगम्}
- गम् (गम्लृ गतौ)। ‘…यत्र दुःखान्तं च निगच्छति’ (गीता १८।३६)। निगच्छति प्राप्नोति। निर्निश्चयस्य द्योतकः स्यात्।
- ‘शश्वच्छान्तिं निगच्छति’ (गीता ९।३१)।
- ‘गङ्गायाः सुरनद्या वै स्वादु भूत्वा यथोदकम्। महोदधेगुँणाभ्यासाल्लवणत्वं निगच्छति’ (भा० भीष्म० ८३।५)।
- ‘अमुं वा एते लोकं निगच्छन्ति ये पितृयज्ञेन चरन्ति’ (मै० सं० १।१०।१९)।
- ‘बहु हि वाचा घोरं निगच्छति’ (श० ब्रा० ९।३।१।१२)।
- ‘इज्यमाना देवता निगच्छति तस्मान्निगमस्थानानि’ (शां० श्रौ० १६।१०।९)।
- ‘किमु सवसा यन्निर्ऋतिर्निगच्छात्’ (ऋ० १०।१०।११)। सर्वत्र निगमिः प्राप्तौ।
- ‘पापमाहुर्यः स्वसारं निगच्छात्’ (ऋ० १०।१०।१२)। निगच्छात् निगच्छेत् संविशेत्, संभवेत्।
- ‘सूक्तवाके देवता निगच्छन्ति’ (शां श्रौ० १।१६।१०)। सूक्तभाजोऽनुवाकभाजश्च भवन्तीत्युक्तं भवति।
- ‘तस्माद्यत्र क्व च कुरुक्षेत्रस्य निगच्छति’ (श० ब्रा० १४।१।१।२)। कुरुक्षेत्रे तत्सदेशे वा निविशत इत्याह।
- ‘हते मित्रे निगतान् हन्ति वीरान्’ (ऋ० १०।१३२।५)। निगता नीचैर्गता आक्रान्ताः।
- ‘तमिदं निगतं सहः’ (अथर्व० १३।४।१२)।
- ‘उत्तमे चैनं प्रयाजे प्रागाज्यपेभ्यो निगमयेत्सूक्तवाके चाग्निहोत्रेणेत्येतस्य स्थाने’ (आश्व० श्रौ० २।१९)। निगमयेत् अन्तः प्रक्षिपेत्। स्वमतं निगमयन्परमतं शुश्रूषुः पृच्छति (इति वयम्)। निगमयन् प्रतिज्ञाहेतूभयकथनपूर्वमुपसंहरन्। उक्तमर्थं निगमयति (इति बहुत्र टीकासु)। उपसंहरतीत्यर्थः।
- ‘पिपर्त्ति पपुरिरिति पृणातिनिगमौ वा प्रीणातिनिगमौ वा’ (नि० ५।२४।१)। पृणात्यर्थं निगमयतः प्रत्याययत इत्यर्थः।
- ‘यदुद्वतो निवतो यासि’ (ऋ० १०।१४२।४)। निवतो निगतानीति सायणः। नीचैर्गमनानीत्यर्थः।
- ‘अविचिकित्सा यावद् निगन्तव्यम् इति हारीतः’ (आप० ध० १।४।१३।११)। निगन्तव्यं नियमपूर्वमधिगन्तव्यमित्यर्थः।
- ‘निगमतरोर्गलितं फलम्’ (भा० पु० १।१।३)। निगमो वेदः। तत्रापि च निगमो भवति (नि० बहुत्र)। वेदोद्धृतं पदं वाक्यं वा।
- ‘नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान्’ (मनु० ४।१९)। वेदार्थबोधकान्निगमाख्यान् ग्रन्थान् इति कुल्लूकः।
- ‘निगमेष्वध्ययनं वर्जयेत्’ (आप० ध० १।९।४)। निगमाश्चत्वराणि ग्रामनिर्गमनमार्गा वा।
- ‘सयोधश्रेणिनिगमः सोपाध्यायपुरोहितः। सर्वः प्ररुदितो जनः’ (रा० गो० सं० २।१२३।५)। निगमः=नैगमो वाणिजः।
- ‘संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्’ (पुरीम्) (रा० २।१२५।१०)। उक्तोऽर्थः।
- ‘अमात्या बलमुख्याश्च मुख्या ये निगमस्य च’ (रा० २।१५।२)। निगमो वणिक्समूहः।
- ‘सर्वे च येन्ये धृतराष्ट्रपुत्रा बलप्रधाना निगमप्रधानाः’ (भा० उ० २।६)। निगमो नीतिशास्त्रम्।
- ‘स्वनिगममपहाय मत्प्रतिज्ञाम्’ (भा० पु० १।९।३७)। निगमो निश्चयः प्रतिज्ञा वा।
- ‘इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम्’ (भा० पु० १।५।३९)। निगम उपदेशोऽनुशासनम्।
- ‘पन्था मन्निगमः स्मृतः’ (भा० पु० ११।१९।४२)। मन्निगमो मत्प्राप्तिकः, मत्प्रापकः।
- ‘निगमनं च प्रतिज्ञाया हेतोश्च पुनर्वचनम्’ (मी० ७।१।१२ शा० भा०)।
- ‘इत्येवमुपक्रम्य निगमन इदं श्रूयते’ (मी० ३।३।२ शा० भा०)। निगमनमुपसंहारोऽवसानम्।
- ‘वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः। तालज्ञश्चाप्रयासेन मोक्षं मार्गं निगच्छति’ (याज्ञ० ३।११५)॥ निगच्छति निश्चितं प्राप्नोति।
- ‘तमिदं निगतं सहः’ (अथर्व० १३।४।१२)। निगतमन्तः प्रविष्टम्।
- ‘निगमो वेदार्थव्याख्यानवचनोऽप्यस्तीति निगमा इमे भवन्तीति निरुक्ते पाठात्’ (मनु० ९।१९ इत्यत्र मेधातिथिः)। निगदव्याख्यातम्।
- ‘व्यर्थं निगमनं ततः’ (तत्त्वसंग्रहे १४।३९ तम श्लोकांशः)। निगम्यन्तेऽनेन प्रतिज्ञाहेतूदाहरणोपनया एकार्थतया समर्थ्यन्ते सम्बध्यन्त इति निगमनमिति कमलशीलः।
- ‘न्यायभाष्येपि’ (१।१।३९) प्रायेणेदमानुपूर्वीक एव ग्रन्थः स्थितः।
- ‘अञ्जनसामान्येन वाक्यस्योपक्रमो घृतेन विशेषेण निगमनम्’ (मी० शा० भा० १।४।१३।२४)। निगमनं समाप्तिः, उपसंहारः। इदं चापि तत्रैवाह शबरस्वामी–यथोपक्रमं च निगमयितव्यमेकस्मिन्वाक्य इति। निगमयितव्यम् उपसंहर्तव्यम्।
गर्ह्
- {निगर्ह्}
- गर्ह् (गर्ह गल्ह कुत्सायाम्)।
- ‘श्राद्धाय निगर्हते’ (क्रियाग्रहणमपि कर्तव्यम् इत्यत्र भाष्यस्थमुदाहरणम्)। श्राद्धं कुत्सयतीत्यर्थः।
- ‘अवृत्या विलश्यमानोपि वृत्त्पुपायान्निगर्हयन्’ (भा० अनु० १२४।१३)। विगर्हयन्निति पाठान्तरम्। अर्थेऽविशेषः।
गुप्
- {निगुप्}
- गुप् (गुपू रक्षणे)।
- ‘इच्छतीशश्च्युताचारान् दारानिव निगोपितुम्’ (कि० १५।१९)। निगोपितुं निगोप्तुं निगोपायितुम् प्रच्छादयितुम्।
गॄ
- {निगॄ}
- गॄ (गॄ निगरणे)।
- ‘मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत्’ (ऋ० ५।४०।७)। अत्रे इति सम्बुद्धिः। मा निगारीत् मा ग्रसिष्ट।
- ‘असंखादन्निगिरेत्’ (लाट्या० श्रौ० ४।११।१३)।
- ‘भूमिरेतौ निगिरति सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्’ (भा० शां० २३।१५)॥ निगिरति ग्रसते। चाप्ययोद्धारम् इत्यनुशासने ३६।१३ इत्यत्र पाठान्तरम्।
- ‘सर्वानेव गुणानियं (द्विजिह्वावली) निगिरति श्रीखण्ड ते सुन्दरान्’ (भामिनी० १।३८)। निगिरति निगिलति ग्रसते अध्यवस्यति। नाशयतीति तात्पर्यार्थः।
गै
- {निगै}
- गै (कै गै शब्दे)।
- ‘वीणामेव वादयन्तो निगायन्तः’ (श० ब्रा० ३।२।४।६)।
- ‘तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि (मनु० ९।१९)। निगीताः पठिताः। उद्बोधिताः।
ग्रन्थ्
- {निग्रन्थ्}
- ग्रन्थ् (ग्रन्थ सन्दर्भे)।
- ‘तद्यथा पुनराग्रन्थं पुनिर्निग्रन्थं बध्नीयान्मयूखं वाऽन्ततो धारणाय निहन्यात् तादृक् तत्’ (ऐ० ब्रा० ५।१५)।
ग्रह्
- {निग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘उरसि न्यगृह्णीत’ (श० ब्रा० ३।९।४।१५)। वक्षसा पर्यरभतेत्यर्थः।
- ‘तं वरुणो न्यगृह्णीत’ (ऐ० ब्रा० ३।३४)। श्रद्धया मम पुत्रोऽयमिति भृगुं वरुणः पर्यग्रहीत्।
- ‘तपाम्यहमहं वर्षं निगृह्णामि च भारत’ (गीता ९।१९)। निगृह्णामि अवगृह्णामि प्रतिबध्नामि।
- ‘राज्यं स त्वं निगृह्णीष्व भरतेन प्रसादितः’ (रा० २।१०८।१८)। वशे कुरु, स्वायत्तं कुर्वित्यर्थः।
- ‘अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः। निरोधनेन बन्धेन विविधेन वधेन च’ (मनु० ८।३१०)॥ उक्तोऽर्थः।
- ‘द्विपा वा बलिनो राजन्वृषभा वा महाबलाः। विनिग्राह्या यदि मया निग्रहीष्यामि तानपि’ (भा० वि० २।६)॥ अनन्तरोदीरित एवार्थः।
- ‘निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान्। वार्ष्णेयो यावदेनं मे पटमानयतामिह’ (भा० वन ७२।४)॥ ** निगृह्णीष्व निरुन्त्स्व, स्तभान, स्थापय।**
- ‘न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः। पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम्’ (भा० वन० १३।१२)॥ निगृह्णीयां वारयेयम्, प्रतिषेधेयम्।
- ‘जीवग्राहं निगृह्णीमो वयमेतम्’ (भा० ६।६३४६)। निगृह्णीमः प्रगृह्णीमः, बध्नीमः।
- ‘तत एनां बलाद्राजा निजग्राह रहोगताम्’ (भा० आदि० १२५।८)। निजग्राह जग्राह पराममर्श।
- ‘क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्’ (भा० वि० ३७।२२)। निगृह्णीष्व यच्छ संयच्छ, रश्मिषु लम्बस्व, प्रग्रहान्गृहाण।
- ‘तथा पापान्निगृह्णीयात्’ (मनु० ९।३०८)। शिष्यात्, दण्डयेदित्यर्थः।
- ‘इन्द्रः सीतां निगृह्णातु’ (ऋ० ४।५७।७)। नीवीनं गृह्णात्वित्यर्थः।
- ‘स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा। निगृहीतो बलाद् द्वारि…’ (३।१०७६९)। रुद्ध इत्यर्थः।
- ‘(चटकः) निगृहीतः कन्धरायां शिशुना दृढमुष्टिना। दुर्भङ्गमुष्टिना राजन्नसून् सद्यस्त्वजीजहत्’ (हरि० १।२०।९८)। निगृहीतो गृहीतो धृतः।
- ‘निगृहीतधेनुः’ (रघु० २।३३)। दृढं गृहीता धेनुर्येन सः।
- ‘तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता’ (गीता २।६८)। निगृहीतानि संहृतानि प्रत्याहृतानि।
- ‘प्रविशन्नेव स वनं निगृहीतः स कण्टकैः’ (भा० शां० १४९।७)। निगृहीतः प्रतिरुद्धः। कण्टका अस्य लग्ना इत्यर्थः।
- ‘निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः’ (रा० १।५६।२१)। निगृहीतः=वैवश्यं नीतः, अभिभूतः।
- ‘किं ह्रियमाणं किं निगृहीतम्’ (श० ब्रा० ११।५।३।२)। निगृहीतं निहितम्।
- ‘भो निगृहीतोसि’ (उत्तर० ४)। पराजितोसि। नोत्तरं प्रतिपत्तुमर्हसीत्यर्थः।
- ‘किमिति निगृहीतवाननागसं सरस्वतीम्’ (हर्ष० १)। दण्डितवान्।
- ‘ता वामेन पाणिना निगृह्य’ (गो० गृ० २।९।१५)। दृढं गृहीत्वा, सर्वतोभावेन गृहीत्वा।
- ‘निगृह्य पाणिना चापम्’ (रा० ३।३०।३४)। निगृह्य आलम्ब्य।
- ‘माथुरोऽक्षिणी निगृह्य’ (मृच्छ० २)। निगृह्य संकोच्य निमील्य।
- ‘प्रज्ञया निग्रहीतुं शक्यः’ (मुद्रा० १।२६)। निग्रहीतुं वशयितुमात्मीयः कर्तुम्।
- ‘ज्येष्ठं पुत्रं निगृह्णानः’ (ऐ० ब्रा० ७।१५)। हस्तेन स्वसमीयं समाकर्षन्नित्यर्थः।
- ‘वेगादहं प्रविसृतं पवनं निरुन्ध्यां त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः’ (मृच्छ० १०।२१)। निग्रहो ग्रहो वशीकारः।
- ‘यत्राश्रौषं कर्णदुर्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य’ (भा० आदि० १।१७६)। उक्तोऽर्थः।
- ‘तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्’ (गीता० ६।३४)। निग्रहो निरोधः। दमनं दमः।
- ‘इदं त्वन्यत् प्रवक्ष्यामि न राजन्निग्रहादिव’ (भा० शां० २६०।२)। निग्रहात् कुतर्काग्रहेण।
- ‘तयोरथ भुजाघातान्निग्रहात्प्रग्रहात्तथा। आसीत्सुभीमसम्पातः’ (भा० सभा० २३।२३)॥ निग्रहो हस्ताभ्यां कन्धराकर्षणेन शत्रोरधोमुखीकरणम्। निग्राहस्ते वृषल भूयात् (पा० ३।३।४५ इत्यत्र वृत्तावुदाहरणम्)। निग्रहोऽस्य भवेदित्याक्रुश्यते।
- ‘अधा सपत्नानिन्द्रो मे निग्राभेणाधराँ अकः’ (वा० सं० १७।६३)। निग्राभेण नीचैः कृत्वा हस्तमन्नादिग्रहणेन। मत्तस्ते ममारयो धनादि याचेरन्नित्यर्थः।
- ‘एवमनेनार्धर्चेन दक्षिणजुहूमुद्गृह्य अर्धर्चान्तरेण सव्येनोपभृतं निगृह्णाति’ (तै० सं० १।१।१३ इत्यत्र भट्टभास्करः)। निगृह्णाति नीचैर्गृह्णाति।
- ‘ब्रह्मणैवात्मानमुद्गृह्णाति ब्रह्मणा भ्रातृव्यं निगृह्णाति’ (तै० सं० ५।४।७)। उद्गृह्णाति उन्नयति उन्नमयति। निगृह्णाति अवनमयति, नीचैः करोति विधेयी करोति।
- ‘ये त्वामुत्पथमारूढं न निगृह्णन्ति सवंशः’ (रा० ३।४१।६)। निगृह्णन्ति वारयन्ते, प्रतिषेधन्ति।
- ‘निगृह्यानुयोगे च’ (पा० ८।२।९४)। स्वमतात् प्रच्यावनं निग्रह इति वृत्तिः।
- ‘उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन्’ (३।३।३५ सूत्रे भाष्ये)। निग्राभं स्रुग्निपातनं कृत्वा।
घृष्
- {निघृष्}
- घृष् (घृषु सङ्घर्षे)।
- ‘त्रिशूलमाश्रित्य सुतीक्ष्णधारं सर्वाणि गात्राणि निघर्षसि त्वम्’ (भा० कर्ण० ३९।१७)। निघर्षसि नितरां घर्षसीत्यर्थः।
- ‘तस्यामञ्जनं निघृष्य’ (गो० गृ० ४।२।२१)। घर्षणेनान्तः प्रेर्येत्यर्थः।
चम्
- {निचम्}
- चम् (चमु अदने)।
- ‘निचुम्पुणः सोमो (भवति)। निचान्तपृणो निचमनेन प्रीणाति’ (नि० ५।१८।१)। अत्र निराङ्प्रतियोगी। आङीषदर्थे, निस्तु साकल्ये। निवान्तपृणः=निचान्तः सन्प्रीणाति।
चर्
- {निचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘अवभृथ निचुम्पुण निचेरुरसि’ (वा० सं० ३।४८)। निचेरुर्नितरां गमनशीलः। निचुम्पुणो मन्थरगामी। चुप मन्दायां गतौ।
- ‘पुरूणि बभ्रो नि चरन्ति मामव’ (ऋ० ९।१०७।१९)। न्यवचरन्ति नीचीनं चरन्ति बाधन्त इत्यर्थः।
- ‘नमो निचेरवे’ (काण्व सं० १७।२)। नितरां चरति विचरतीति निचेरुः।
चि
- {निचि}
- चि (चिञ् चयने)।
- ‘तत्रास्यस्थाने गुल्मो निचीयते’ (का० सं० चिकित्सा० गुल्म० श्लो० ९)। निचीयते प्रचीयते।
- ‘निचीयते त्वया साधो यशोपि सुहृदा’ (मुद्रा० ६।१८)। निचीयते संचीयते उपार्ज्यते संगृह्यते।
- ‘तासां निचिक्युः कवयो निदानम्’ (ऋ० १०।११४।२)। निचिक्युः=विविदुः, विदामासुः। निदानमादिकारणम्।
- ‘निचेतारो हि मरुतो गृणन्तम्’ (ऋ० ७।५७।२)। निचेतारो वर्धयितारः। वर्धनं शीलमेषमित्याह।
- ‘सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः’ (रा० २।१०५।१६, भा० स्त्री० २।३)। निचयाः सङ्ग्रहाः।
- ‘निचय इवाम्बुमुचां नगाधिराजः’ (ददृशे) (कि० ४।३७)। निचयो राशिः।
- ‘नीचैर्निचितं भवति’ (नि० ४।२४)। (तत्रैव उच्चैरुच्चितं भवतीत्युक्तम्)।
- ‘यः सोमपा निचितो वज्रबाहुः’ (अथर्व० २०।३४।१४)। निचितो नितरां चितः, दृढाङ्गः, वृद्धिं गतः।
- ‘शकुन्तनिचितं बिभ्रज्जटामण्डलम्’ (शा० ७।११)। शकुन्तनिचितं पत्ररथाकुलम्। ब्राह्मणनिकायः। वैयाकरणनिकायः। निकायः सङ्घः। औत्तराधर्ये गम्यमाने तु सूकरनिचयः।
डी
- {निडी}
- डी (डीङ् विहायसा गतौ)।
- ‘निडीनम्’ (भा० कर्ण० ४१।२६)। शनकैर्डींनमित्यर्थः।
तन्
- {नितन्}
- तन् (तनु विस्तारे)।
- ‘पुरूणि चिन्नि तताना रजांसि’ (ऋ० १०।१११।४)। निततान ब्याप। व्यानशे।
- ‘यदुत्ततं नि तत्तनु’ (अथर्व० ७।९०।३)। नितनु निकर्ष, नीचैः कुरु, अवनतं कुरु।
- ‘भगो नो राजा नि कृषिं तनोतु’ (अथर्व० ३।१२।४)। नितनोतु नितरां करोतु।
- ‘नितत इव हीह क्षत्रियो राष्ट्रे वसन्भवति नितत इव न्यग्रोधोऽवरोधैर्भूम्यां प्रतिष्ठितो भवति’ (ऐ० ब्रा० ७।३१)। नितन इतस्ततः संचरणेन सन्ततः।
- ‘शतं तव प्रतानास्त्रयस्त्रिंशन्नितानाः’ (अथर्व० ६।१३९।१)। निताना न्यञ्चन्त्यः शाखाः, अवरोहाः। न्यग्विस्तार्यमाणाः प्ररोहाः।
तप्
- {नितप्}
- तप् (तप सन्तापे)।
- ‘तदाहुर्निशोचति नितपति वर्षिष्यति वा इति’ (छां० उ० ७।११।१)। नितरां तपतीत्यर्थः।
- ‘द्विषतो नितपन्मणे’ (अथर्व० १९।२८।३)। उक्तोऽर्थः।
तम्
- {नितम्}
- तम् (तमु काङ्क्षायाम्)।
- ‘ताभिरेनं नितमयति’ (आप० श्रौ० ५।५।१७।८)।
तुद्
- {नितुद्}
- तुद् (तुद व्यथने)।
- ‘आतोदिनौ नितोदिनावथो सन्तोदिनावुत’ (अथर्व० ७।१००।३)। नितोदिनौ नितरां निकृष्टं वा व्यथयन्तौ अतिकष्टं बाधाकारिणौ।
- ‘वेद त्वाहं निमीवन्तीं नितुदन्तीमराते’ (अथर्व० ५।७।७)। नितुदन्तीं विध्यन्तीम्।
तृद्
- {नितृद्}
- तृद् (उतृदिर् हिंसानादरयोः)।
- ‘त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि’ (अथर्व० १९।३२।४)। नितृणद्मि=अपच्छिनद्मि।
तृप्
- {नितृप्}
- तृप् (तृप प्रीणने)।
- ‘त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि’ (ऋ० ८।७०।१०)।
तॄ
- {नितॄ}
- तॄ (तॄ प्लवनतरणयोः)।
- ‘ऋतं पिपर्त्यनृतं नि तारीत्’ (ऋ० १।१५२।१)। नितारीत् निकर्षति नीचैः कर्षति, रुणद्धि।
- ‘न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर’ (ऋ० ८।३२।३)। नितिर निकर्ष रुन्धि अभिभव।
- ‘अनिस्तीर्णो मां रोषो दहेदग्निरिवारणिम्’ (भा० आदि० १८०।२)। अनिस्तीर्णोऽकृतकार्यः।
- ‘निदंनिदं पवमान नि तारिषः’ (ऋ० ९।८०।५)। नितारिषः=विनाशय।
- ‘पुर आयसी र्नितारीत्’ (ऋ० २।२१।८)। नितारीत् न्यतारीत् उदजासयत्, नितान्तमनाशयत्।
त्यज्
- {नित्यज्}
- त्यज् (त्यज हानौ)।
- ‘यदिदं क्षुद्रं सरीसृपं ग्रीष्महेमन्ताभ्यां नित्यक्तं भवति’ (श० ब्रा० १।५।३।११)। नित्यक्तमपसारितमपसेधितमपत्रस्तम्।
- ‘इमा ओषधयो ग्रीष्महेमन्ताभ्यां नित्यक्ता भवन्ति’ (श० ब्रा० १।५।३।१२)। त्यक्ताः सत्यः क्षीणा भवन्तीत्यर्थः।
दह्
- {निदह्}
- दह् (दह भस्मीकरणे)।
- ‘निदाघमिहिरज्वालाशतैः’ (भामिनी० १।१६)। निदाघो ग्रीष्मः।
- ‘प्रस्नापयामास मुखं निदाघः’ (कि० १७।८)। निदाघः प्रस्वेदः।
- ‘स्त्रियो निदाघं शमयन्ति कामिनाम्’ (ऋतु० १।४)। निदाघोऽन्तर्दाहः, कामजोभितापः।
- ‘जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः’ (ऋ० १।९९।१)। निदहाति नितरां दहति। लेट्।
दा
- {निदा}
- (डुदाञ् दाने)।
- ‘निपृणाति निददाति ह्यसौ पिण्डान् पितृभ्य इति पुत्रः (नि० २।११।१ इत्यत्र दुर्गः)। निदीयते जन्यतेनेनेति निदानमित्यमरोद्धाटने स्वामी।
- ‘या गौः सुदोहा भवति न तां निददीत’ (माधवनिदानव्याख्यायां मधुकोशाख्यायां १।४ इत्यत्रोद्धृतं भट्टारहरिचन्द्रवचनम्)। निददीत निदानेन बध्नीयात्।
दिश्
- {निदिश्}
- दिश् (दिश अतिसर्जने)।
- निर्देशो निदेशः शासनं च स इत्यमरः।
- ‘कालमेव प्रतीक्षेत निदेशं भृतको यथा’ (भा० शां० २४५।१५)। निदेश आदेशः।
- ‘वाक्येनेयं स्थापिता स्वे निदेशे’ (माल० ३।१४)। उक्तोऽर्थः।
- ‘निदेशवर्ती च पितुः पूत्रो भवति धर्मतः’ (भा० आश्रम० ४।८)। निदेशवर्ती वचने स्थितः, विधेयः।
- ‘निदेशवर्ती च भवन्तं शरणं गतः’ (भा० शां० १३८।७१)। उक्तोऽर्थः।
- ‘प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः’ (मनु २।१९७)। निदेशे निकट इति कुल्लूकः। निदेशः सदेशः सविध इति पर्यायाः।
- ‘…शचीं शुचिप्राज्यपरिच्छदां सः। न्यदिक्षतोपस्करणे…’ (जै० कु० ३।४०)॥ न्यदिक्षत=आदिशत।
- ‘अहं निदेशं भवतो यथोक्तमनुपालयन्’ (रा० २।३४।४४)। निदेश आदेशः।
- ‘किं स्मृतोसि महाराज निदेशो दीयतामिति’ (कथा० १२३।३५)। उक्तोऽर्थः।
दिह्
- {निदिह्}
- दिह् (दिह उपचये)।
- ‘निदिग्धोपचिते’ (विशेष्यनिघ्नवर्गेऽमरः)। निदिग्धं लिप्तम्।
- ‘यथाऽधोभूमौ निदिग्धं तदमुया स्यादेवं तत्’ (श० ब्रा० १।७।२।१३)। निदिग्धं लेपि। निदिग्धिका स्पृशी व्याली इत्यमरः पृश्निपर्ण्या नामधेयेषु पठति।
दृ
- {निदृ}
- दृ (दृ विदारणे)।
- ‘दरी कन्दर निर्दरान्’ (रा० २।५४।४२)। निर्दरा विदीर्णपाषाणसन्धयः।
दृश्
- {निदृश्}
- दृश् (दृशिर् प्रेक्षणे)।
- ‘द्रष्टुमिच्छामि ते रूपमैश्वरं त्वं निदर्शय’ (भा० आश्व० ५५।३)। निदर्शय मन्नयनविषयतां नय।
- ‘तन्मतं पद्ममिहिरो दृष्ट्वाशोकादिपूर्वगान्। अष्टौ लवादीन्नृपतीन् स्वस्मिन् ग्रन्थे न्यदर्शयत्’ (राज० १।१८)॥ न्यदर्शयत् न्यरूपयत् व्यवर्णयत्।
- ‘हस्तेन निदर्शयन्’ (शा०)। निदर्शयन् बोधयन्।
- ‘तमहं विविधैर्वाक्यैर्हेतुमद्भिर्न्यदर्शयम्’ (रा० ५।८९।५६)। उपादिक्षम्, अबूबुधम्, अन्वशासम्।
- ‘त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ। दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः’ (भा० शां० ५९।३३)॥ निदर्शिता उपवर्णिता विस्तरेण निरूपिताः।
- ‘अध्यास्त तन्निदर्शितमासनम्’ (राज०)। तन्निदर्शितं तन्निर्दिष्टम्।
- ‘अनेत्रत्वाद्यदेतेषां न मे रूपनिदर्शनम्’ (भा० शल्य० २।६)। निदर्शनं दर्शनं निशामनं विलोकनम्। निशब्देन नार्थः।
दो
- {निदो}
- दो (दो अवखण्डने)।
- ‘चरन्वत्सो रुशन्निह निदातारं न विन्दते’ (ऋ० ८।७२।५)। निदातारं बन्द्धारम्।
- ‘निदाय वत्सम्’ (तै० आ० ४।८।९)। निदाय सन्दाय बद्ध्वा।
- ‘शुनश्चिच्छेपं निदितं सहस्राद् यूपादमुञ्चः’ (ऋ० ५।२।७)। निदितं सन्दितं सन्दानितं बद्धम्।
- ‘उदिता यो निदिता वेदिता वस्वा। यज्ञियो वतर्तति’ (ऋ० ८।१०३।११)। निदितानि प्रच्छन्नगुप्तानि वसूनि।
- ‘उदुस्रियाणामसृजन्निदानम्’ (ऋ० ६।३२।२)। निदानं वत्सदाम। गवां बन्धनममुञ्चदित्यर्थः।
- ‘तासां निचिक्युः कवयो निदानम्’ (ऋ० १०।११४।२)। निदानमादिकारणम्।
- ‘बालजेन निदानेन’ (भा० अनु० ९४।४)।
- ‘कुम्भीं शाखापवित्रमभिधानौ निदाने दारुपात्रं दोहनमयस्पात्रम्…’ (आप० श्रौ० १।४।११।६)। निदाने गोपादसम्बन्धिन्यौ रज्जू इति रुद्रदत्तः।
- ‘यजमानो वा एष निदानेन’ (ऐ० ब्रा० २।११, श० ब्रा० १।२।४।१२)। निदानेन मूलतः तत्त्वतः, याथार्थ्येन।
- ‘यत्पशुः अग्निर्वा एष निदानेन यदाग्नीध्रः’ (श० ब्रा० ४।४।२।१८)। उक्तोऽर्थः।
द्रा
- {निद्रा}
- द्रा (द्रा कुत्सायां गतौ)।
- ‘यदि निद्रायात् कामं स्वप्यात्’ (श० ब्रा० ३।९।३।११)। यदि निद्रायाद् यदि प्रमीलितः स्यात्, यदि प्रचलायितः स्यात्।
- ‘न निद्रान्त्यार्द्रपाणयः’ (भा० अनु० १६२।३६)।
धन्
- {निधन्}
- धन् (धनि लौकिक इति सभ्याः)।**
- ‘धनस्य निःसारलघोः स सारो यद् दीयते लोकहितोन्मुखेन। निधानतां याति हि दीयमानमदीयमानं निधनैकनिष्ठम्’ (अवदा० जा० २।५०)॥ निधनं मरणम्।
- ‘स्वधर्मे निधनं श्रेयः’ (गीता ३।३५)।
- ‘अस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः’ (भा० भीष्म० ११९।३८)। निधनमवसानम्, समाप्तिः। विरामः।
- ‘निधनेऽत्र प्रसूतस्त्वं प्रजापतिरसंशयम्।’ (हरि० १।५।१०)। निधने वंशे इति नीलकण्ठः। निधनं कुलनाशयोरिति विश्व इति कोषं चोद्धरति।
- ‘अयुजो मुष्टीँ ल्लुनोति। तथा निधनानि।’ (आप० श्रौ० १।२।४।२)। निधनानि चूडा इति धूर्तस्वामी। निधनानि मुष्टीनां राशय इति रुद्रदत्तः।
- ‘अहो निधनता सर्वापदामास्पदम्’ (मृच्छ० १।१४)। निधनता निर्धनता
धा
- {निधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘रराण ता मरुतो वेद्याभिर्नि हेडो धत्त’ (ऋ० १।१७१।१)। निधत नीवैर्धत। एकतः कुरुत।
- ‘ऊनद्विवार्षिकं प्रेतं निदव्युर्बान्धवा बहिः। अलङ्कृत्य शुचौ भूमौ…’ (मनु० ५।६८)॥ निदध्युर्निखनेयुः।
- ‘निदधे प्रतिकारेच्छामिव खड्गे दृशं मुहुः’ (कथा० १०।६७)। दृष्टिमाससञ्ज, दृष्टिं बबन्ध।
- ‘सर्गाय निदधे मनः’ (हरि० १।८।३५)।
- ‘अहो नरेश्वरस्येयं यत्किञ्चनविधायिता। पृथग्जनोचिते कर्मण्यर्हतो निदधाति यः’ (राज० ३।२१२)॥ निदधाति नियुङ्क्ते।
- ‘नि मे धेहि नि ते दधे’ (वा० सं ३।५०)। निधेहि=प्रदेहि।
- ‘स शेवधिं निदधिषे विवस्वति’ (ऋ० २।१३।६)। निदधिषे न्यासिथ, अर्पयामासिथ उपनिचिक्षेपिथ।
- ‘निदधे विजयाशंसां चापे सीतां च लक्ष्मणे’ (रघु० १२।४४)।
- ‘तं चिकित्वान् प्रतिगृह्या निधत्ते’ (ऋ० १।१२५।१) निधत्ते गोपायति।
- ‘तयोरिदवसा सनेम वयं नि च धीमहि’ (ऋ० १।१७।६)। निधीमहि निदधीमहि रक्षेम।
- ‘शनैरादायोच्चै र्निदध्यात्’ (श० ब्रा० ११।४।२।८)।
- ‘योऽयमुच्चैरादाय शनैर्निदधाति’ (श० ब्रा० ११।४।२।१६)। निदधाति समाप्नोति।
- ‘स क्षपः (निशाः) परि षस्वजे न्युस्रो मायया दधे’ (ऋ० ८।४१।३)। उस्रा गाः। निदधे बबन्ध।
- ‘प्रनष्ट स्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत्’ (मनु० ८।३०)। निधापयेत्=गोपाययेत्, सुरक्षितं स्थापयेत्।**
- ‘गोमांसमुदकं चेति सप्तरात्रं निधापयेत्’ (शुक्र० ४।५६)। निधापयेत् अधो मूले दधीत।
- ‘शिरसि निदधानोऽञ्जलिपुटम्’ (भर्तृ० ३।१२३)। निदधानो बिभ्रत्। तद्धैके।
- ‘निदधत्येतानि वासांसि’ (श० ब्रा० ५।३।५।२५)। निदधति अवतारयन्ति।
- ‘उर्व्याः पदो निदधाति सानौ’ (ऋ० १।१४६।२)। निदधाति न्यस्यति निक्षिपति।
- ‘नि यं (अग्निं) दधुर्मनुष्यासु विक्षु’ (ऋ० १।१४८।१)। निदधुः=निहितवन्तः।
- ‘मनुष्वत् त्वा निधीमहि मनुष्वत् समिधीमहि’ (ऋ० ५।२१।२)। निधीमहि=आदध्मः।
- ‘इष्टस्य मध्ये अदिति र्नि धातु नः’ (ऋ० १०।११।२)। निधातु निदधातु स्थापयतु।
- ‘उरौ लोके निधीयस्व’ (अथर्व० १८।२।२०)। निधीयस्व वसतिं कुरु, निविशस्व विश्राव्य।
- ‘नि ते मनो मनसि धाय्यस्मे’ (ऋ० १०।१०।३)। निधायि=न्यधायि=निहितम्।
- ‘(यत्रास्य पुरुषस्य मृतस्य) अप्सु लोहितं च रेतश्च निधीयते’ (श० ब्रा० १४।६।२।१३)। निधीयते निमज्जति। अश्वस्य शिश्नं महिष्युपस्थे निधत्ते। उपस्थे योनौ निक्षिपतीत्यर्थः।
- ‘आत्मा गुहायां निहितोऽस्य जन्तोः’ (श्वेताश्व० उ० ३।२०)। निहितो निगूढः।
- ‘वह पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके’ (अथर्व० ११।९।२२)। निहिता निक्षिप्ताः।
- ‘दिनान्ते निहितं तेजः सवित्रेव हुताशनः’ (रघु० ४।१)। उक्तोऽर्थः।
- ‘निधानं धर्माणाम्’ (गङ्गा० १८)। निधानमाधारः।
- ‘निधानगर्भामिव सागराम्बराम्’ (रघु० ३।९)। निधानं निधिः।
- ‘इमा शफानां सनितुर्निधाना (ऋ० १।१६३।५)। निधाना निधानानि।
- ‘नेरनिधाने’ (पा० ६।२।१९२)। निधानमप्रकाशतेति वृत्तिः।
- ‘मुमुग्ध्यस्मान्निधयेव बद्धान्’ (ऋ० १०।७३।११)।
- ‘गृभ्णाति रिपुं निधया निधापतिः’ (ऋ० ९।८३।४)। पाशा वै निधा इत्यैतरेयब्राह्मणे (३।१९)।
- ‘नि त्वा दधे वरेण्यं दक्षस्येळा’ (ऋ० ३।२७।१०)। निदधे आहितवती।
- ‘नि त्वा दधीत रोदसी यजध्यै’ (ऋ० ६।१५।१५)।
- ‘ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम्’ (ऋ० ८।१९।१७)। आधानसंस्कारेण स्थापयन्ति।
- ‘पदे पदे मे जरिमा नि धायि’ (ऋ० ५।४१।१५)। स्तुतिरकारीत्यर्थः। प्रशस्तिरुपाहारीति यावत्।
- ‘रामः सीतागतं स्नेहं निदधे तदपत्ययोः’ (रघु० १५।८६)। निदधे निहितवान् संक्रमितवान्।
- ‘मानं निधाय विकृतं परिधाय वासः’ (सौन्दर० ७।४८)। निधाय संन्यस्य।
- ‘निधाय स्वान्यायुधानि’ (ऐ० ब्रा० ७।१९)। निधाय परित्यज्य संन्यस्य।
धाव्
- {निधाव्}
- धाव् (धावु गतिशुद्ध्योः)।
- ‘नीव हि मनुष्या धावन्ति’ (तै० सं० ६।१।१।६)। निधावन्ति भ्रमन्ति।
धु
- {निधु}
- धु (धुञ् कम्पने)।
- ‘जरायै निधुवामि त्वा’ (अथर्व ३।११।७)। निधुवामि बलवत्प्रेरयामि।
- ‘करौ निधुन्वन्’ (हरि० ४६५०)।
- ‘एषा ते राजन्कन्या वधूर्नि धूयताम्’ (अथर्व० १।१४।२) निःसार्यतां पतिगृहादित्याह।
धृ
- {निधृ}
- धृ (धृञ् धारणे)।
- ‘नि वो यामाय मानुषो दध्र उग्राय मन्यवे’ (ऋ० १।३७।७)। निदध्रे ननाम।
- ‘न्यस्मिन्दध्रे मनः’ (अथर्व० २०।५।७)। अन्यतो निरुध्यात्र बहुसोमयागे धारयसीत्यर्थ इति सायणः।
- ‘यः ककुभो निधारयः’ (ऋ० ८।४१।४)। निधारयति स्थिराः करोति। उपस्तभ्नाति।
- ‘अस्मे रयिं नि धारय’ (ऋ० १०।२४।१)। निधारय नितरां स्थापय।
- ‘ऋबीसे ह विनिक्षिप्य स्कन्नं रात्रौ न्यधारयत्’ (बृ० दे० ५।८४)। न्यधारयत् अधोऽधात्।
ध्यै
- {निध्यै}
- ध्यै (ध्यै चिन्तायाम्)।
- ‘तं (गरुत्मन्तं) निदधौ रघूत्तमः’ (भट्टि० १४।६५)। चिन्तयामास, सस्मार, मनसा जगाम।
- ‘आर्ये किमिदानीं मामपहसितुमिव निध्यायसि।’ (स्वप्न० २)। निध्यायसि चिन्तयसि।
- ‘उप वै शुश्रूषते निध्यायति’ (ऐ० ब्रा० ३।२)। निध्यायति निर्वर्णयति।
- ‘व्याचक्षणस्य तु मे निदिध्यासस्व’ (श० १४।५।४।४)। निदिध्यासस्व=अवधत्स्व, अवहितश्चिन्तय।
- ‘तस्मात्कुमारं जातं संवदन्त उप वै शुश्रूषते नि वै ध्यायतीति’ (ऐ० ब्रा० ३।२)। पाठकार्त्स्न्यायेहानुवादः। अर्थस्तु निर्दिष्टचरः।
- ‘तं सूतिकागृहनिविष्टमथो निदध्युः’ (श० दि० वि० २।८१)। निदध्युः=ददृशुः।
- ‘नि त्वा यज्ञस्य साधनम्। अग्ने होतारमृत्विजम्। वनुष्वद् देव धीमहि’ (तै० ब्रा० २।७।१२।६)। निधीमहि नितरां ध्यायेम।
ध्वंस्
- {निध्वंस्}
- ध्वंस् (ध्वंसु अवस्रंसने, गतौ च)।
- ‘सनामाना चिद् ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः’ (ऋ० १०।७३।६)। न्यध्वसयः=न्यध्वंसयः।
नद्
- {निनद्}
- नद् (णद अव्यक्ते शब्दे)।
- ‘निनदत्सु मङ्गलतूर्येषु’ (पञ्चत०)। उच्चैर्ध्वनत्सु।
- ‘सूताः परमसंस्कारा मागधाश्चोत्तमश्रुताः। गायकाः स्तुतिशीलाश्च निनदन्तः पृथक् पृथक्’ (रा० २।६५।३)। उच्चैर्व्याहरन्त इत्यर्थः।
- ‘दिशः सर्वा निवादयन्’ (भा० आदि०)।
नम्
- {निनम्}
- नम् (णम प्रह्वत्वे शब्दे च)।
- ‘न्यस्मै द्युम्ना जन्या नमन्ताम्’ (अथर्व० २०।८९।६)। निनमन्ताम् उपनमन्तु।
- ‘(अग्ने) उच्छञ्चस्व निनम वर्धमान आ त्वा वसवः सदन्तु’ (ऋ० १०।४२।६)। निनम नितरां नमयात्मानम्।
- ‘नि षू नमध्वं भवता सुपाराः’ (ऋ० ३।३३।९)। हे नद्यो निनमध्वं गाधा भवतेत्याह।
- ‘नि ते नंसै पीप्यानेव योषा’ (ऋ० ३।३३।१०)। निनंसै निनता आवर्जिता भवामि।
- ‘अग्रेणाग्नीध्रं चतुर उपस्रावं विमितं विमिन्वन्ति पुरस्तादुन्नतं पश्चान्निनतम्’ (आपस्तम्बे)। उक्तोऽर्थः।
- ‘अग्नेरर्धं प्रत्युपनतं यूपस्य कुर्याद् बहिष्टान्निनतम्’ (भा० श्रौ० ७।८।११)।
नह्
- {निनह्}
- नह् (णह बन्धने)।
- ‘इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः’ (ऋ० ६।७५।५)। निनद्धो दृढं बद्धः।
नी
- {निनी}
- नी (णीञ् प्रापणे)।
- ‘दिष्टं नो अत्र जरसे निनेषत्’ (अथर्व० १२।३।५५)। निनेषत्=नयेत् प्रापयेत्।
- ‘मां तत्र सरसि निनयतम्’ (पञ्चत०)। प्रापयतमित्यर्थः।
- ‘दासीकुम्भं बहिर्ग्रामान्निनयेरन् स्वबान्धवाः’ (याज्ञ० ३।२९४)। दास्यानीतमपां पूर्णं कुम्भं दासीकुम्भं निनयेरन् स्वबान्धवा आवर्जयेरन् तत्स्थमुदकम् अवसिञ्चेरन्।
- ‘नि मातरा नयति रेतसे भुजे’ (ऋ० १।१५५।३) निनयति प्रेरयति।
- ‘यत्पूर्णपात्रमन्तर्वेदि निनयति (तै० सं० १।७।५।३)। उक्तोऽर्थः।
- ‘उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः’ (मनु० ३।२१८)। निनयेत् उत्सृजेत्।
- ‘कि जघनेनाहवनीयमपो न्यनैषीः’ (श० ब्रा० ११।५।३।४)। न्यनैषीः प्रौक्षीः।
- ‘येन मखो निनीयते’ (भा० पु०)। पूर्यते निःशेषः क्रियत इत्यर्थः।
- ‘यत्सुषुप्सु र्निद्रान्निनयति’ (गो० ब्रा० पूर्व० २।२)।
- ‘उदस्थालीमादाय गार्हपत्यादग्रे आहवनीयन्निनयन्नियाद्’ (श० ब्रा० १२।४।१।५)। निनयन् आवर्जयन् अवाङ्मुखीं कुर्वन्।
- ‘वक्त्रं निनीय’ (भा० पु० १८।३१)। अवाचीनं कृत्वेत्यर्थः। यन्मुखं निनीय पठसि अक्षिनिकाणं च, तद् दोषाय (इति वयम्)।
- ‘सकृदपो निनीय चतुर्धा बलिं निदध्यात्’ (गो० गृ० १।४।६)। निनीय=अवसिच्य।
- ‘प्रदक्षिणमग्निं परिक्रम्यापां शेषं निनीय पूरयित्वा चमसम्’ (गो० गृ० १।३।१२)। निनीय पात्रादपनीय।
- ‘ते निनीयोदकं सर्वे विलप्य च भृशं पुनः’ (भा० पु० १।८।२)। उदकं निनीयोत्सृज्य।
- ‘नाभिव्याहारयेद् ब्रह्म स्वधानिनयनादृते’ (मनु० २।१७२)। स्वधाशब्देन श्राद्धमुच्यते। निनीयते निष्पाद्यते येन मन्त्रजातेन तद् वर्जयित्वेति कुल्लूकः।
- ‘ग्रामादनिर्णयनमसम्पातं च सुरायाः’ (कौ० अ० २।२५।३)। निर्णयनं बहिर्नयनम्।
नृत्
- {निनृत्}
- नृत् (नृती गात्रविक्षेपे)।
- ‘यत्पुरावृत्तं यत्पुनर्निनृत्तम्’ (ऐ० ब्रा०)।
- ‘तं तमिति निनृत्तिः। अन्तस्तृतीयमहर्नीव वा अन्तं गत्वा निनृत्यति’ (शां० ब्रा० २०।४)। निनृत्तिरावृत्तिः। निनृत्यति आवर्तते।
पक्ष्
- {निपक्ष्}
- पक्ष् (पक्ष परिग्रहे)।
- ‘अग्नेः पक्षतिस्सरस्वत्यै निपक्षतिः’ (तै० सं० ५।७।२१)। निकृष्टा पक्षतिर्निपक्षतिः। पार्श्ववङ्क्रीणां द्वितीया।
पत्
- {निपत्}
- पत् (पत्लृ गतौ)।
- ‘क्षते प्रहारा निपतन्त्यभीक्ष्णम्।’ निपतन्ति अवपतन्ति।
- ‘उच्चावचेष्वर्थेषु निपतन्तीति निपाताः’ (नि० १।४।११)। निपतन्ति व्यवहारमवतरन्ति।
- ‘उत्पतेदपि वाऽऽकाशं निपतेच्च यथेच्छकम्’ (भा० वन० १५५।१९, ५।१५।१०)। निपतेत् अधःपतेत्।
- ‘मा नि पप्तं भुवने शिश्रियाणः’ (अथर्व० १२।१।३१)। मा निपप्तम् इति माङ्युपपदे पतेर्लुङि रूपम्।
- ‘उत्पपात भृशं क्रुद्धः श्येनव न्निपपात च’ (भा० द्रोण० १७४।३५)। उक्तोऽर्थः।
- ‘निपेतुरन्तः करणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु’ (रघु० ६।११)।
- ‘बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः। त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे’ (रघु० १०।२७)॥ निपतन्ति उपयान्ति, प्रविशन्ति।
- ‘मा ते स्वकोऽर्थो निपतेत् मोहात्’ (भा० वि० २१२६)। निपतेत् भ्रंशेत, पराभवेत्, नश्येत्।
- ‘सकृदंशो निपतति’ (मनु० ९।४७)। ऋक्थविभागः सकृदेव भवति न पुनरन्यथा क्रियत इत्यर्थः। अभ्यर्हितं पूर्वं निपतति। पूज्यवचनं पदं द्वन्द्वे समासे प्रथमं स्थानं लभते।
- ‘सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु’ (भर्तृ० २।३८)। निपतति आपतति आस्कन्दति, उपद्रवति।
- ‘निपतन्ती पतिमप्यपातयत्’ (रघु० ८।३८)। निपतन्ती अवपतन्ती।
- ‘गुडेन वर्धितः श्लेष्मा सुखं वृद्ध्या निपात्यते’ (सुश्रुत०)। निपात्यते नाश्यते, निर्ह्रियते।
- ‘न चास्थाने न चाकाले करांस्तेभ्यो निपातयेत्’ (भा० शां ८८।१२)। कराङ् गृह्णीयादित्याह। अमावसोरहं ण्यतो र्निपातयाम्यवृद्धिताम् (पा० ३।१।१२२ इत्यत्र सङ्ग्रहश्लोकः)। असाधारणीं शास्त्राप्राप्तामवृद्धिमिच्छामीत्यर्थः।
- ‘तातं निपात्य सह बन्धुजनाक्षितोयैः’ (मुद्रा० ५।७)। निपात्य हत्वा, निहत्य।
- ‘नश्यतो विनिपाते तावनिपाते त्वनाशिनौ’ (मनु० ८।१८५)। तौ निक्षेपोपनिधी निक्षेप्तुरनिपातेऽविनाशेऽनिधने नाशिनौ नेत्याह।
- ‘सङ्गरेषु निपातेषु तथापद्व्यसनेषु च’ (भा० उ० १२२।९)। निपातेषु आपत्सु।
- ‘सम्पातेष्वभिवातेषु निपातेष्वसिचर्मणोः। न तयोरन्तरं कश्चिद् ददर्श नरसिंहयोः’ (भा० द्रोण० १४।६९)॥
- ‘निपातमेवैते उत्तरे ज्योतिषी अनेन नामधेयेन भजेते’ (नि० ७।५।१९)। निपातमप्राधान्यम्। आनुषङ्गिकं कीर्तनम्।
- ‘तेनेश्वरनिपातेन पथा याति महाजनः’ (रा० ५।८१।२२)। निपात उत्पातः।
- ‘उत्पाताश्च निपाताश्च’ (भा० शां० ५९।४६)। निपाता उल्कापातभूमिकम्पादयः।
- ‘क्व च निशितनिपाता वज्रसाराः शरास्ते’ (शा० १)। निशितनिपाताः शिताश्रयः। निपतत्यनेनेति निपातोऽग्रभागः।
- ‘ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा’ (दुर्गा० ३।१५)। निपत्य=अवतीर्य।
- ‘विपोथिता निपातेन गदया भुवि शेरते’ (दुर्गा० २।५७)। निपातेन निपातनेनेति नागेशः। गदया कृतेनेति सम्बन्धः। निपातः प्रहार आघातः।
- ‘काश्चिन्निपातभाजः’ (नि० ७।१३)। निपातः सन्निपातः। निपातशब्दः शुद्धोपि सम्पूर्वार्थे द्रष्टव्यः। साधारणस्तुतित्वादिति महेश्वरः।
पद्
- {निपद्}
- पद् (पद गतौ)।
- ‘स्वादोः फलस्य जग्ध्वाय यथाकामं निपद्यते’ (ऋ० १०।१४६।५)। निपद्यते शेते संविशति।
- ‘ऊर्ध्वः सुप्तेषु जागार न नु तिर्यङ् नि पद्यते’ (अथर्व० ११।४।२५)।
- ‘यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते’ (ऋ० १०।१६२।५)। उक्तोऽर्थः।
- ‘यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च’ (अथर्व० ८।६।७)। संविशति संभवति। इहोभयत्र निपदिः सकर्मकः।
- ‘अकामां स्म मा निपद्यासै’ (श० ब्रा० ११।५१॥१)। मां मा संविक्ष इत्याह। निपदिरिव संविशिरपि क्वचित्सकर्मकोऽन्यत्राकर्मकः।
- ‘त्वां यज्ञेष्वृत्विजं चारुमग्ने नि पेदिरे’ (ऋ० १०।२१।७)। मनुषो निपेदिरे मर्त्याः प्राप्नुवन्तीत्याह।
- ‘नि मायिनो दानवस्य माया अपादयत्’ (ऋ० २।११।१०)। न्यपादयत् अधोऽशाययत्, अभ्रंशयत्।
- ‘अपश्यं गोपामनिपद्यमानम् आ च परा च पथिभिश्चरन्तम्’ (ऋ० १।१६४।३१, वा० सं० ३७।१७)। अनिपद्यमानम् अशयानमस्वपन्तमविश्राम्यन्तम्। अपतन्तमिति तूवटः। अनालम्बनेऽन्तरिक्षे गच्छन्नासौ पततीति भावः।
- ‘प्राणो वै गोपाः। स हीदं सर्वमनिपद्यमानो गोपायति’ (जै० उ० ३।३७।२)। अनिपद्यमानोऽशयानोऽस्वपन्। अप्रयुच्छन्निति भावः। असन्दिग्धमुक्तेनानेनार्थेनोवटोक्तोऽर्थः सन्देहभाजनं भवति।
- ‘शेते निपद्यमानस्य चराति चरतो भगः’ (ऐ० ब्रा० ७।१५)। उक्तोऽर्थः।
- ‘समा भवन्तूद्वतो निपादाः’ (ऋ० ५।८३।७)। निपादा निम्ना भूभागाः।
- ‘एतावदुक्त्वा धृतराष्ट्रो न्यपद्यदन्तर्वेश्म सहसोत्थाय राजन्’ (भा० वन० ४।२२)। अन्तर्वेश्म न्यपद्यत् (न्यपद्यत) गृहेऽन्तरशेत।
पा
- {निपा}
- पा (पा पाने, पा रक्षणे)।
- ‘ऋतं पिपर्त्त्यनृतं नि पाति’ (अथर्व० ९।१०।२३)। कदा च न प्रयुच्छस्युभे निपासि जन्मनी (लौ० गृ० ८।७ इत्यत्र देवपालेन भाष्ये समुद्धृतो मन्त्रः)। निपासि नितरां रक्षसि।
- ‘ऋतस्य पदं कवयो नि पान्ति’ (ऋ० १०।५।२)। उक्तोऽर्थः।
- ‘सा नो अमासो अरणे नि पातु’ (ऋ० १०।६३।१६)।
- ‘तृष्णार्तैश्च निपीयते वनमृगैरुष्णं पयः सारसम्’ (मृच्छ० ८।११)। निपीयते निर्धीयते।
- ‘(तां) निपीयमानलावण्यां लोलैर्देवासुरेक्षणैः’ (कथा० ५०।१३२)। उक्तोऽर्थः।
- ‘दन्तच्छदं प्रियतमेन निपीतसारम्’ (ऋतु० ४।१३)। निपीतश्चूषितः सारोऽस्य तं तथाभूतम्।
- ‘निपानं सर्वभूतानां भूत्वा त्वं पावनं महत्’ (भा० शां० १८।१७)। निपानमाहावः।
- ‘गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम्’ (शा० २।६)। निपानं पल्वलम्।
- ‘जह्युः स्वराडिव निपानखनित्रमिन्द्रः’ (भा० पु० २।७।४८)। इह निपानेनोदपानः कूप उक्तः। कविरिति तत्रार्थेऽसतीमपि शक्तिमुत्प्रेक्षते।
- ‘इमे शंसं वनुष्यतो निपान्ति’ (तै० ब्रा० २।८।५।६)। निपान्ति नितरां पान्ति रक्षन्ति।
- ‘शास्त्रप्रतप्ता निपिबन्ति चान्ये’ (वामनपु० १०।४३)। निपिबन्ति नितरां पिबन्ति। निपतन्तीति पाठान्तरम्।
- ‘निपाने महिषं रात्रौ’ (रा० २।६३।२१)। नीचैरवतीर्य पीयतेऽत्रेति नद्यवतारस्थलम्, तीर्थमिति यावत्।
पीड्
- {निपीड्}
- पीड् (पीड अवगाहने)।
- ‘देवदानवगन्धर्वा रक्षांसि पतगोरगाः। तेपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः’ (मनु० ७।२३)॥ निपीडिता बाधिताः कदर्थितास्ताडिताः। परुषमाचरिताः।
- ‘निपीड्य श्रवणान् हस्तैर्मेनिरे तं गतायुषम्’ (हरि० २।२३।१)।
- ‘गुरोः सदारस्य निपीड्य पादौ’ (रघु० २।३)। पादौ निपीड्य चरणौ गृहीत्वा।
- ‘मातुश्च शिरसा पादौ निपीड्य’ (हरि० २।३०।९०)।
पॄ
- {निपॄ}
- पॄ (पॄ पालनपूरणयोः)।
- ‘यां ते धेनुं निपृणामि यमु ते क्षीर ओदनम्’ (अथर्व० १८।२।३०)। निपूर्वः पृणातिः पितृदाने वर्तते। निपृणामि निवपामि।
- ‘अथ यदध्वर्युः पितृभ्यो निपृणाति।’ उक्तोऽर्थः।
- ‘परापुरो निपुरो ये भरन्ति’ (अथर्व० १८।२।२८, आप० श्रौ० १।३।७।११)। निपृणन्ति नियमेन पिण्डदानादिकं कुर्वन्तीति निपुरः। निपृणातेः क्विप्।
बन्ध्
- {निबन्ध्}
- बन्ध् (बन्ध बन्धने)।
- ‘न च मां तानि कर्माणि निबध्नन्ति धनञ्जय’ (गीता ९।९)। निबध्नन्ति कर्मफलैः सम्बध्नन्ति। कर्मफलेन सुखदुःखादिना मां युञ्जन्तीत्याह।
- ‘इह वत्सान् निबध्नीमः’ (अथर्व० ४।३८।७)। निबध्नीमः सन्दानयामः=सन्द्यामः, सिन्मः।
- ‘सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः। तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते’ (भा० शां० २१७।३६)॥ निबध्यतेऽभिनह्यते।
- ‘संविभागेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्’ (भा० वि० ३०।१२)। निबध्नीमो निगृह्णीमः।
- ‘उपकूलं कालिन्द्याः स्कन्धावारं निबध्नता’ (राज० १।६)। निबध्नता निवेशयता।
- ‘आबद्धा मानुषाः सर्वे निबद्धाः कर्मणोर्द्वयोः’ (भा० सौ० २।२)। निबद्धाः पुरुषकारे निहीनतया बद्धा इति नीलकण्ठः।
- ‘यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किञ्चन’ (मनु० ८।७६)। अनिबद्धोऽनियुक्तः। त्वमस्मिन्विषये साक्षी भवेत्येवमकृतोपीति कुल्लूकः।
- ‘प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तमक्रियत’ (हर्ष०)। अनिबद्धो बाह्यः।
- ‘निबद्ध इव पाशेन किशोरः’ (रा० २।४०।३९)। निबद्धः सन्दितः।
- ‘आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्करेखा’ (रघु० १३।१५)। निबद्धा संयुक्ता सम्पृक्ता।
- ‘दैवी सम्पद् विमोक्षाय निबन्धायासुरी मता’ (गीता १६।५)। निबन्धो बन्धः कर्मफलहेतुकं संसारित्वम्।
- ‘प्रत्यक्षरश्लेषमयप्रबन्धविन्यासवैदग्ध्यनिधिर्निबन्धं चक्रे’ (वासवदत्ता)। निबन्धं ग्रन्थम्।
- ‘दत्त्वा भूमिं निबन्धं वा’ (याज्ञ० १।३१८)। अस्मिन्ग्रामे प्रतिक्षेत्रस्वामिनैतद् धनमस्मै प्रत्यब्दं प्रतिमासं वा देयमित्यादिर्नियमो निबन्ध इत्यपरार्कः।
- ‘सद्वृत्तिः सन्निबन्धना…राजनीतिः’ (शिशु० २।११२)।
- ‘गोहिरण्यादिशाश्वतपारितोषिकदानानि निबन्धनानि। भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा’ (याज्ञ० २।१२१)। एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमकफलभरकस्येयन्ति क्रमुकफलानीत्युक्तलक्षणो निबन्ध इति मिताक्षरा।
- ‘नानिबन्धेक्षणां तद्वद् वृत्ताक्षीं नोद्वहेद् बुधः’ (वि० पु० ३।१०।१९)। अनिबन्धेक्षणाऽपक्षमलनेत्रा।
- ‘त ददर्श यवक्रीतो यत्नवन्तं निबन्धने’ (भा० वन० १३५।३४)। निबन्धने प्रग्रहणे।
- ‘आशानिबन्धनं जाता जीवलोकस्य’ (उत्तर० ३)। निबन्धमालम्बनम्।
- ‘यत्स्वमिव मामकीनस्य मनसो द्वितीयं निबन्धनम्’ (मालती० ३)। उक्तोऽर्थः।
- ‘वाक्प्रतिष्ठानिबन्धनानि देहिनां व्यवहारतन्त्राणि’ (मालती ४)। निबन्धनं कारणम्।
- ‘सहजविलासनिबन्धनं शरीरम्’ (मालती० २।६)। निबन्धनमाश्रयः।
- ‘संस्कारपूतेन वरं वरेण्यं वधूसुखग्राह्यनिबन्धनेन’ (कु० ७।९०)। निबन्धनेन प्रबन्धेन वाचां सन्दर्भेण।
बाध्
- {निबाध्}
- बाध् (बाधृ लोडने)।
- ‘पदा पणीँ रराधसो नि बाधस्व महाँ असि’ (ऋ० ८।६४।२)। निबाधस्व निपीडय, उपपीडय, कदर्थय। बलात्कारय।
- ‘उच्छ्वञ्चस्व पृथिवि मा नि वाधथाः’ (ऋ० १०।१८।११) मा निबाधथा मा निबाधिष्ठा मा निपिपीडः।
बुध्
- {निबुध्}
- बुध् (बुध अवगमने, बुधिर् बोधने)।
- ‘अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान्’ (भा० वन० ५५।३)। निबोध जानीहि।
बृह्
- {निबृह्}
- बृह् (बृह बृहि वृद्धौ, बृहू उद्यमने)।
- ‘दस्यून्… हत्वा पृथिव्यां शर्वा निबर्हीत्’ (ऋ० १।१००।१८)। निबर्हीत्=न्यबर्हीत्=अकर्तींत्, शकलान्यकार्षींत्।
- ‘पुरू सहस्रा शर्वा निबर्हीत्’ (ऋ० ४।२८।३)। उक्तोऽर्थः।
- ‘यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः’ (ऋ० १।५३।६, अथर्व० २०।२१।६)। निबर्हयः=न्यवर्हयः=उदसादयः, व्यनाशयः।
- ‘अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिता’ (रा० २।११७।११)। निबर्हिता विनाशिताः, अपोहिताः, अपाकृताः।
- ‘विलोकनेनैव तवामुना… निबर्हितांहसा’ (शिशु० १।२९)। निबर्हितांहसाऽपहतपाप्मना, अपाकृतैनसा।
- ‘ततोग्निः संप्रजज्वाल दशग्रीवनिबर्हणः’ (रा० ६।९६।१७)। दशाननकलेवरप्रध्वंसकः, दशकन्धरशवस्य दाहक इत्यर्थः।
भुज्
- {निभुज्}
- भुज् (भुजो कौटिल्ये)।
- ‘निभुजति जानुशिरसी’ (प्रतिमायाः) (पा० १।२।६६ सूत्रे भाष्ये)। निभुजति कुटिली करोति, वक्रयति। निशब्दो धात्वर्थानुवादी।
भृ
- {निभृ}
- भृ (भृञ् भरणे, डुभृञ् धारणपोषणयोः)।
- ‘अभवद् व्यभ्रमाकाशमभूच्च निभृतोऽर्णवः’ (हरि० २।१६।२४)। निभृतः पूर्णः। इहानुपचरितो धात्वर्थः क्तान्ते। निशब्दो निःशेषतां साकल्यं कार्त्स्न्यमाह।
- ‘चिन्तया निभृतः’ (भा० पु०) इहापि तल्लक्षण एवार्थः।
- ‘गर्भावसाने निभृतं चकार’ (शक्रम्) (हरि० १।४०।२५)। निभृतं पूर्णकामम्।
- ‘कोऽयं निभृतं तपोवनमिदं ग्रामी करोत्याज्ञया’ (स्वप्न० १।)। निभृतं नीरवं प्रशान्तम्।
- ‘कारणोन खलु मया नैभृत्यमवलम्बितम्’ (माल० ५)। नैभृत्यम्=तूष्णीम्भावः।
- ‘निष्कम्पवृक्षं निभृतद्विरेफं… तत्काननम्’ (कु० ३।४२)। निभृता विरतविरुता विगतस्वनाः शान्ता द्विरेफाः षट्पदा यत्र तत्।
- ‘निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः’ (शा० १।८)। निभृता निष्कम्पाः।
- ‘अनिभृतकरेष्वाक्षिपत्सु प्रियेषु’ (मेघ० ६८)। कम्पवत्करेष्वित्याह।
- ‘वारिधीनिव युगान्तवायवः क्षोभयन्त्यनिभृता गुरूनपि’ (कि० १३।६३)। अनिभृता रंहस्वन्तो वेगवन्तः प्रविचलाः।
- ‘नाऽनिभृतोग्निमुपासीत’ (चरक०)। उक्तोऽर्थः।
- ‘तया व्याहृतसन्देशा सा बभौ निभृता प्रिये’ (कु० ६।२)। निभृता दृढनिश्चया, स्थिरमनाः।
- ‘निभृतात्मा युधिष्ठिरः’ (भा० पु० १।१५।३२)। उक्तोऽर्थः।
- ‘शिरोभिर्निभृताचार महीपतनपांसुलैः’ (रा० २।४५।२७)। हे निश्चलधर्मानुष्ठानेति विवक्षति। निश्चलमविश्रमं धर्माचरणमस्येत्यर्थः।
- ‘दानशीलोवदान्यश्च निभृतो ह्रीनिषेवकः’ (भा० वि० २८।१५)। निभृतो नियतेन्द्रियः।
- ‘निभृतो भूत्वा’ (पञ्चत० १)। निभृतः प्रच्छन्नस्तिरोहितोऽदर्शनं गतः।
- ‘नभसा निभृतेन्दुना’ (रघु० ८।१५)। निभृतोऽदृश्य इन्दुर्यस्य।
- ‘निभृतमिति चिन्तनीयं शीघ्रमिति सुकरम्’ (शा० ४)। रहस्यं यथा स्यात्तथा करणीयं चेच्चिन्तनीयं भवेदित्यर्थः।
- ‘प्रणामनिभृता कुलवधूरिव निश्चला संवृत्ता’ (मुद्रा० १)। निभृता नम्राऽवनता।
- ‘ततः स जाम्बुनदभाण्डभृद्भिश्चतुर्भिर्निभृतैस्तुरङ्गैः’ (बुद्ध० ३।८)। निभृतैर्विनीतैः।
- ‘अद्य मे निभृतो देहः’ (भा० पु० १०।२८।५)। निभृतोऽर्थवद्भरणः।
- ‘अत्रैवायमर्थो दृष्टो नेतरत्रेत्यस्य परिग्रहेऽनध्यवसायो नः। तेषां तत्राविधेयानां निभृतानां महात्मनाम्’ (भा० वि० २७।५)। निभृतानामत्यन्तावहितानामिति नीलकण्ठः।
- ‘त्वमेनं निभृतो भूत्वाऽभिरक्ष’ (तन्त्रा० ४।२)। निभृतोऽवहितः प्रतिजागरितः, समाहितः।
- ‘पीनश्रोणि गभीरनाभि निभृतं मध्ये भृशोच्चस्तनम्। पायाद्वः परिरब्धमब्धिदुहितुः कान्तेन कान्तं वपुः’ (सरस्वती० ३।१५)॥
- ‘धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः’ (भा० उ० ५३।१०)। नैभृत्येन मन्त्रगुप्त्या।
- ‘गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः’ (भा० द्रोण० ३४।६)। नैभृत्यं कृतकर्तव्याऽप्रकाशनम्।
- ‘बन्धिरनिभृतत्वे’ (नि० १०।४।१)। निश्चलीकरण इत्यर्थः।
- ‘अनेन दत्तानि वनीयकेषु भुक्ताश्च भोगा निभृताश्च भृत्याः’ (रा० ६।१०९।२२)। निभृता नितरां पोषिता भक्तादिदानेन।
- ‘निभृतात्मजभृत्यदाराः’ (दुर्गा० ४।१४)। उक्तोऽर्थः।
- ‘निभृतैर्व्यपत्रपन्ते दयितानुशयैर्मनस्विन्यः’ (विक्रम० ३।१६)। निभृतैर्गुप्तरशब्दोक्तैः। तिरोहितैरिति यावत्।
- ‘तथाभूतां दृष्ट्वा… विराटस्यावासे स्थितमनुचितारभ्भनिभृतम्’ (वेणी० १।११)॥ निभृतमवरुद्धं प्रच्छन्नम् आकारसंवृत्या।
- ‘जैत्रं हीन्द्र निभृतं मनस्तव’ (ऋ० १।१०२।५)। निभृतमव्याकुलं शान्तम्।
मन्त्र्
- {निमन्त्र्}
- मन्त्र् (मत्रि गुप्तपरिभाषणे)।
- ‘न्यमन्त्रयत सन्तुष्टो द्विश्चैनं वरैस्त्रिभिः’ (भा० अनु० १५२।६)। न्यमन्त्रयत उपाच्छन्दयत्।
- ‘विद्यान्ते गुरुरर्थेन निमन्त्र्यः’ (गौ० ध० १।२।५४)। निमन्त्र्यः प्रष्टव्यः किं भगवत उपहराणीति। निमन्त्रणमावश्यके श्राद्धादौ दौहित्रादेर्नियोगः (पा० ३।३।१६१ इत्यत्र दीक्षितः)।
मन्थ्
- {निमन्थ्}
- मन्थ् (मन्थ विलोडने)।
- ‘यदु दुग्धनिधिं निमथ्य देवैर्मृदुसारः समकर्षि पूर्णचन्द्रः। स बभूव कृशो वियोगतप्तेश्वरमूर्धोष्मपरिक्षरच्छरीरः’ (स्कन्द० का० ४।४४।५)॥ निमथ्य नितरां मथित्वा।
मा
- {निमा}
- मा (माङ् माने)।
- ‘निधो निमितम्’ (पा० ३।३।८७)। समन्तान्मितं निमितम्। समारोहपरिणाहम्।
मि
- {निमि}
- मि (डुमिञ् प्रक्षेपे)।
- ‘पूर्वया द्वारा स्थूणां निहृत्य दक्षिणतो निमिन्वन्ति’ (श० ब्रा० १४।१।३।७)। निमिन्वन्ति=निखनन्ति।
- ‘इहैव ध्रुवां निमिनोमि शालाम्’ (अथर्व० ३।१२।१)। निमिनोमि स्थूणानिखननादिना करोमि।
- ‘यूपो यस्यां निमीयते’ (अथर्व० १२।१।३८)। निमीयते निखन्यते।
- ‘यान्वो नरो देवयन्तो निमिम्युः’ (ऋ० ३।८।६)।
- ‘तद्यथाऽऽम्रे फलार्थे निमिते छाया गन्ध इत्यनूत्पद्येते’ (आप० ध० १।७।२०।३)। निमित आरोपिते।
- ‘पदे पदे दुर्निमिते गलन्ती’ (रघु० ७।१०)। दुर्निमिते दुर्न्यस्ते।
- ‘ब्रह्मणा शालां निमितां कविभिर्निर्मितां मिताम्’ (अथर्व० ९।३।१९)। निमितां निखननेन कृताम्।
- ‘अक्षानिव श्वघ्नी नि मिनोति तानि’ (अथर्व० ४।१६।५)। निमिनोति प्रवपति।
- ‘काले निमीयते सोमः’ (सौन्दर० १।१५)। निमीयते लूयते।
- ‘तव द्यावापृथिवी पर्वतासोऽनुव्रताय निमितेव तस्थुः’ (ऋ० ३।३०।४)। निमितेव निखाता इव। निश्चला इत्यर्थः। नित्यः समास इवेन।
मिष्
- {निमिष्}
- मिष् (मिष स्पर्धायाम्)।
- ‘न तिष्ठन्ति न निमिषन्त्येते देवानां स्पश इह ये चरन्ति’ (ऋ० १०।१०।८)। न निमिषन्ति न नेत्रे निमीलयन्ति।
- ‘निमिष्य नोन्मिषन्त्येव यावत्ते तस्य सैनिकाः’ (शि० भा० २१।५६)। निमिष्य नेत्रे निमील्य।
मिह्
- {निमिह्}
- मिह् (मिह सेचने)।
- यस्माद्भीषा निमेहसि (आप० श्रौ० ९।५।१८।१७)।
- ‘गौर्यत्राधिष्कन्ना न्यमेहत्’ (तै० सं० २।२।८।२)। नितरां मेहति मूत्रयति।
मील्
- {निमील्}
- मील् (मील निमेषणे, निमेषणं संकोचः)।
- ‘यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति’ (मनु० १।५२)। निमीलति प्रलीयते।
- ‘निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव कौमुदी’ (रघु० ८।३७)। नेत्रे निमिमील, ममारेत्यर्थः।
- ‘नरेशे जीवलोकोऽयं निमीलति निमीलति’ (हितोप० ३।१३८)। निमीलति विनश्यति।
- ‘उन्मीलितापि दृष्टिभिर्निमीलितेवान्धकारेण’ (मृच्छ० १।३३)। दृष्टिभिरुन्मीलिता विवृतनयनाप्गन्धकारेण हेतुना संवृतनेत्रेत्यर्थः।
- ‘प्रजालोपनिमीलितः’ (रघु० १।६४)। अनपत्यतया तमसा गूढ इवाप्रज्ञातः।
मृज्
- {निमृज्}
- मृज् (मृजू शुद्धौ)।
- ‘कुमारस्य जिह्वायां निमार्ष्टि’ (गो० गृ० २।७।१९)। निमार्ष्टि निश्च्योतयति।
- ‘इत्युपसाद्य बर्हिषि लेपं निमार्ष्टि’ (भा० श्रौ० ६।१२।८)। निमार्ष्टि प्रमार्ष्टि।
- ‘तं हस्तं निमज्याल्लेपभागिनम्।’ (मनु० ३।२१६) निमृज्यात् निर्लेपं कुर्यात्।
- ‘स्वधितिना वपां निमृज्य’ (आप० श्रौ० ७।६।१९।२)। यदन्यद् वपायास्तन्निर्णुद्येत्यर्थः।
- ‘नि भगाहं त्वयि मृजे’ (तै० उ० १।४।३)। निमृजे निमार्ज्मि शोधयामीत्यर्थः।
- ‘न्यु शीर्षाणि मृड्ढ्वम्’ (तै० सं० १।६।३।१)। नितरां शोधयध्वम्।
- ‘पुरस्तान्निमार्ष्टि’ (आश्व० गृ० १।२४।१४)। अङ्गुलिगतं लेपमपनयतीत्यर्थः। निशब्दोऽपस्योपसर्गस्वार्थे। अपनयनपूर्वकं शोधनमभिप्रेतम्। यथा अप नः शोशुचदधमित्यत्र।
मृद्
- {निमृद्}
- मृद् (मृद क्षोदे)।
- ‘निमृदोसि न्यहं तं मृद्यासं योऽस्मान्द्वेष्टि’ (आप० श्रौ० ६।५।१८।२)। निमृद्यासम्=क्षुन्द्याम्, चूर्णीं कुर्याम्।
- ‘उत्तरत आग्नीध्र उल्मुकं निमृद्नाति।’ (भा० श्रौ० ७।१२।१३)। उक्तोऽर्थः।
मे
- {निमे}
- मे (मेङ् प्रणिदाने)।
- ‘संख्याया गुणस्य निमाने मयट्’ (पा० ५।२४७)। निमानं मूल्यम्।
- ‘पक्वेनामस्य निमयं न प्रशंसन्ति साधवः’ (भा० शां० ७८।७)। निमयं विनिमयम्।
- ‘रसा रसैर्निमातव्याः’ (मनु० १०।९४)। गुडादयो घृतादिभिः परिवर्तनीया इत्यर्थः।
- ‘(या शक्तिः) कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च’ (भा० द्रोण० १८०।२१-२२)। निमाय प्रणिदाय।
म्रुच्
- {निम्रुच्}
- म्रुच् (म्रुचु गत्यर्थः)।
- ‘निम्रुचस्तिस्रो व्युषो ह तिस्रः’ (अथर्व० १३।३।२१)। निम्रुचोऽस्तमयाः।
यत्
- {नियत्}
- यत् (यती प्रयत्ने)।
- ‘नि या देवेषु यतते वसूयुः’ (ऋ० १।१८६।११)। नियतते देवानासादयतीत्यर्थः।
यन्त्र्
- {नियन्त्र्}
- यन्त्र् (यत्रि सङ्कोचे)।
- ‘निसर्गतरला नारीः को नियन्त्रयितुं क्षमः।’ नियन्त्रयितुं नियमयितुं, नियन्तुम्।
यम्
- {नियम्}
- यम् (यम उपरमे)।
- ‘नियच्छ यच्छ संयच्छ इन्द्रियाणि मनो गिरम्’ (भा० शां० १०४।४६)। अत्रानुपसर्गस्य सोपसर्गस्य च यमेर्विशेषो न।
- ‘नियच्छेदं मनः पापात्सर्वलोकपराभवात्’ (भा० आदि० १७९।२१)। नियच्छ निवारय। पराभवो विनाशः।
- ‘प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति’ (भा० शां० ६९।७६)। उक्तोऽर्थः।
- ‘गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः। शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति’ (चाणक्य सू० ५।४७)। नियच्छति रुणद्धि।
- ‘मा त्वा केचिन्नि यमन्विं न पाशिनोऽति धन्वेव ताँ इहि’ (ऋ० २।४५।१)। मा नियमन् मा रुधन्।
- ‘वाचस्पति र्नियच्छतु’ (अथर्व० १।१।३)। नियच्छतु नियमयतु। यथा मां न जहाति तथा स्थिरी कुर्वित्यर्थः।
- ‘दण्डनीतिः स्वधर्मे भ्यश्चातुर्वर्ण्यं नियच्छति’ (भा० शां० ६९।७६)। स्वधर्माचरणाय नियमयति, स्वधर्माचरणमवशं कारयतीत्यर्थः।
- ‘इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति’ (काव्यादर्श १।६०)। नियच्छति ददातीत्यर्थः।
- ‘को नः कुले निवपनानि नियच्छति’ (शा० ७।२५)। उभयत्र नेरुपसर्गस्य वशाद् यमेरुपरामे वर्तमानस्य धातूनामनेकार्थत्वात्प्रयोगः स्वीकर्तव्यो भवति न तु दाण् दाने इत्यस्य।
- ‘ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति’ (मनु० १०।९३)। नियमेन प्राप्नोतीत्यर्थः।
- ‘तांस्तान्व्याधीनवाप्नोति मरणं वा नियच्छति’ (सुश्रुत० सू० अ० ४६)। नियमेनाधिगच्छतीत्यर्थः।
- ‘कालात्सर्वाणि भूतानि कालाद् वृद्धिं प्रयान्ति च। काले चास्तं नियच्छन्ति कालो मूर्त्तिरमूर्तिमान्’ (मैत्र्युपं० ६।१४।१५)॥ उक्तचर एवार्थः।
- ‘यो ह्यसूयुस्तथा युक्तः सोऽवहासं नियच्छति’ (भा० शां० २९०।२४)। अवश्यमाप्नोतीत्यर्थः। अवहासो निन्द्यता।
- ‘वृत्ते स्थितस्तु शूद्रोपि ब्राह्मणत्वं नियच्छति’ (भा० अनु० १४३।५१)। अनन्तरोदीरित एवार्थः।
- ‘संनियम्य तु तान्येव तत: सिद्धिं नियच्छति’ (मनु० २।९३)। नियच्छति वशे करोति, लभत इत्यर्थः।
- ‘तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति’ (याज्ञ० ३।११५)। उक्तोऽर्थः।
- ‘नास्य कर्म नियच्छन्ति किञ्चिदामौञ्जिबन्धनात्।’ (बौ० ध० १।२।३।७)। नियच्छन्ति विदधति। प्रायशो नियमरूपत्वाद् विधीनां नियच्छन्तीत्युक्तमिति गोविन्दस्वामी।
- ‘यमं समेयाद् वरुणं नियच्छेत्’ (रा० ६।४३।४२)। नियच्छेत् वशे कुर्यात्।
- ‘लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया। गोष्ठ्या सह चरन्विद्वाँल्लोकसिद्धिं नियच्छति’ (हर्ष० पृ० ७ हर्षसङ्केते शङ्करमिश्रेणोद्धृतं वात्स्यायनवचनम्)। उक्तोऽर्थः।
- ‘परायणं पाण्डवानां नियच्छामि जनार्दनम्’ (भा० उ० ८८।१३)। नियच्छामि बध्नामि।
- ‘गले यावत्स तं पाशं नियच्छति’ (कथा० ९०।७५)। उक्तोऽर्थः।
- ‘तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इव दशान्तरेषु’ (शा० ४।२)। नियम्यते धार्यतेऽवलम्ब्यते।
- ‘न घा वसुर्नियमते दानं वाजस्य गोमतः’ (ऋ० ६।४५।२३)। न नियमते=न नियच्छति=न प्रत्याख्याति, न प्रत्याचष्टे।
- ‘न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति।’ (मनु० १०।५९)। न नियच्छति गोपायितुं न शक्नोति।
- ‘दुहितृत्वं च मे गच्छ तत एनमहं शरम्। नियच्छेयं त्वद्वधार्थमुद्यतं घोरदर्शनम्’ (हरि० १।६।७)॥ नियच्छेयं प्रतिसंहरेयम्।
- ‘यथा पञ्चसु भूतेषु संभूतत्वं नियच्छति’ (भा० आश्व० १७।२१)। अनन्तरोदित एवार्थः।
- ‘मध्यदेशे नियच्छति’ (समिधम्) (भा० श्रौ० ६।१२।२)। नमयतीत्यर्थः।
- ‘सुते नियच्छ तन्वम्’ (ऋ० ३।५१।११)। नियच्छ रुन्धि, अवस्थापय।
- ‘तनूषु विश्वा भुवना नि येमिरे’ (ऋ० १०।५६।५)। अन्तर्निविष्टानि चक्रुरित्यर्थः। विश्वेदेवाः कर्तारः।
- ‘नियमयसि विमार्गप्रस्थितानात्तदण्डः’ (शा० ५।८)। नियमयसि नियन्त्रयसि, रुणसि, वारयसि।
- ‘वृक्षे वृक्षे नियता मीमयद्गौः’ (ऋ० १०।२७।२२)। नियता बद्धा।
- ‘पशूनां त्रिशतं त्वासीद्यूपेषु नियतं तदा’ (रा० १।१३।३३)। उक्तोऽर्थः।
- ‘अन्यथासिद्धिशून्यस्य नियता पूर्ववर्तिता’ (कारिका० १।१६)। नियताऽव्यभिचारिणी।
- ‘नियतैकपतिव्रतानि पश्चात्तरुमूलानि गृही भवन्ति तेषाम्।’ (शा० ७।२०)। नियतं नियमेनाचरितम्।
- ‘वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः’ (मनु० ४।२५६)। नियता बद्धा आयत्ताः।
- ‘नियतेर्नियोगात्’ (शिशु० ४।३४)। नियतिर्दिष्टं दैवं विधिः।
- ‘नियतिः कारणं लोके नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम्’ (रा० ४।२५।४)॥ नियतिः शास्त्रविहितं कर्म, विधिर्विधेयं कर्तव्यं वा।
- ‘नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ् शरैः सम्पूर्णाविषुघी परन्तपः’ (रा० २।८७।२३)। नियम्य बद्ध्वा।
- ‘नियन्तव्यश्च राजभिः’ (मनु० ९।४१३)। दण्डयितव्य इत्यर्थः।
- ‘लोकप्रसिद्धमेवैतद् वारि वर्ह्नेर्नियामकम्’ (का० नी० सा० ११।४९)। नियामकं शमकम्।
- ‘नियन्तरि व्याकुलमुक्तरज्जुके।’ (शिशु० १२।२४)। नियन्ता सारथिः।
- ‘न व्यतीयु: प्रजास्तस्य नियन्तु र्नेमिवृत्तयः’ (रघु० १।१७)। नियन्तुः शासितुः।
- ‘धर्मस्याव्यभिचारार्थगधर्मनियमाय च’ (मनु० ८।१२२)। अधर्मनियमाय अधर्मवारणाय।
- ‘मधुरो वाचि नियमः।’ (उत्तर० २।२)। वाक्संयमः, विषये प्रवर्तनमविषयान्निवर्तनम्।
- ‘नायमेकान्ततो नियमः’ (ब्र० सू० शां० भा०)। नियमो नैयत्यम्, विधिः।
- ‘कुसुमसुकुमारमूर्तिर्दधती नियमेन तनुतरं मध्यम्’ (रत्ना० १।२०)। नियमेन नैयत्येन, अव्यभिचारेण।
- ‘शौचमिज्या तपोदानं स्वाध्यायोपस्थनिग्रहः। व्रतमौनोपवासं च स्नानं च नियमा दश’ (अत्रि०)॥ नियमा व्रतानि।
- ‘नियमविघ्नकारिणी (शा० १)। नियमस्तपश्चर्या।
- ‘मन्त्रस्य नियमं कुर्याः’ (भा० उ० १४१।२०)। **नियमो गोपनम्।
- ‘अर्वाग् रथं नि यच्छतम्’ (ऋ० ८।३५।२२)। अर्वागस्मदभिमुखे नियच्छत निरुद्धम्।
- ‘न किष्ट्वा नि यमत् सुते’ (ऋ० ८।५।८)। न कश्चिद् रुणद्धीत्यर्थः।
- ‘न कथचन सङ्कीर्णः प्रकृतिं स्वां नियच्छति’ (भा० अनु० ४८।४२)। सङ्करजः स्वभावं गूहितुं न शक्नोतीत्यर्थः।
- ‘घृतस्य महती मात्रा पीता चार्तिं नियच्छति’ (सुश्रुत० उत्तर० १२।७)। नियच्छति निवारयति।
- ‘यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्याद् वृष्टिमेव नियच्छति’ (तै० सं० ६।४।५)। नियच्छति न्यक् पातयतीति भट्टभास्करः।
- ‘स एवास्मै प्रजा नस्योता नि यच्छति’ (तै० सं० २।१।१।२)। नियच्छति नियमयति विधेयी करोति।
- ‘नदाश्च ता (नदीः) नियच्छन्ति’ (भा० शां० २१९।४२)। नियच्छन्ति स्ववशे कुर्वन्ति।
- ‘इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति’ (काव्यादर्शे १।६०)। इत्यादि अनुप्रासोपेतं काव्यं बन्धपारुष्यं शैथिल्यं चात्मनि नियमेन धत्त इत्यर्थः।
- ‘कच्चित् ते नियतः क्रोधः’ (रा० ३।७४।८)। नियतो निगृहीतः।
- ‘समर्थस्त्वप्सरोवर्गो नियन्तुं यमिनां यमान्’ (स्कन्द० का० ४।२०।३३)। नियन्तुं निराकर्तुं निरोद्धुम्।
- ‘नकिरस्य शचीनां नियन्ता सूनृतानाम्’ (ऋ० ८।३२।१५)। शोभनानां कर्मणां नियन्ता नियामकः परिच्छेत्ता नास्ति। एतावन्त्येवास्य कर्माणीति इयत्तया परिच्छेत्तुं नार्हतीत्यर्थः।
- ‘चकार नियमं तस्या मृत्तिकाया विशुद्धधीः’ (बृ० क० को० ६७।७)। नियमो वारणं परिहारः।
- ‘नियतिः केन लङ्घ्यते’ (काव्यादर्शे २।१७२)। नियतिर्दिष्टम्।
या
- {निया}
- या (या प्रापणे)।
- ‘त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः। सर्वरथा शतक्रतो नियाहि शवसस्पते’ (ऋ० ५।३५।५)॥ नियाहि (रथचक्रेण) अतिक्राम, पादाक्रान्तं कुरु।
- ‘य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात’ (ऋ० ५।४२।१०)। उक्तोऽर्थः।
- ‘विभिश्च्यवानमश्विना नि याथः’ (ऋ० ५।७५।५)। नियाथोऽभियाथः।
- ‘माऽहं पौत्रमघं नियाम्’ (आश्व० गृ० १।१३।७)। मा नियां मा नियासिषम्। मा प्रापम्।
- ‘कृष्णं नियानं हरयः सुपर्णाः’ (ऋ० १।१६४।४७, अथर्व० ६।२२।१)। नियमेन याति गच्छति अत्र ज्योतिश्चक्रमिति नियानम् अन्तरिक्षम् इति सायणः।
- ‘यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम्’ (अथर्व० ८।२।१०)। नियान्त्यत्रेति नियानं मार्गः।
- ‘यन्नियानं न्ययनं संज्ञानं यत्परायणम्’ (ऋ० १०।१९।४)। नियानं गोष्ठम्, व्रजः।
- ‘इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः’ (अथर्व० १८।४।४४)। नियानं मार्गः।
- ‘इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः’ (अथर्व० १८।४।४४)। इहास्यार्थान्तरन्यासाय पुनर्न्यासः। नियानं शकटम्। नीचीनं पराङ्मुखं यान्त्यनेन प्रेता इति।
यु
- {नियु}
- यु (यु मिश्रणामिश्रणयोः)।
- ‘भोजनं न्यत्रये युयोतम्।’ (ऋ० ७।६८।५)। नियुयोतम् प्रापयतम् (अत्रिम्)।
- ‘रयि नि वाजं श्रुत्यं युवस्व’ (ऋ० ७।५।९)। उक्तोऽर्थः।
- ‘तस्मै शत्रून् नि स्वष्ट्रान्युवति हन्ति वृत्रम् भ्रातृव्यस्य पशून्नियुवते’ (तै० सं० २।६।२।३)। नियुवते वशे करोति।
- ‘नि नो रयिं सुभोजसं युवस्व। नि वीरं गब्यमश्व्यं च राधः’ (वा० सं० २७।२७)। नियुवस्व नियुहि देहि। निपूर्वो यौतिर्दानार्थ इत्युवटः।
- ‘विपो न द्युम्ना नि युवे जनानाम्’ (ऋ० ८।१९।३३)।
- ‘रशनया नियूय’ (ऋ० १०।७०।१०)। नियूय=नियुत्य, बद्ध्वा।
- ‘नियुवाना नियुतः स्पार्हवीरा’ (ऋ० ७।९१।५)। नियुवानौ नियुवन्तौ संमिश्रयन्तौ युञ्जानौ।
युज्
- {नियुज्}
- युज् (युजिर् योगे)।
- ‘पाशे स बद्धो दुरिते नि युज्यताम्’ (अथर्व० २।१२।२, वा० सं० ६।९)। नियुज्यतां बध्यताम्।
- ‘परिधौ पशुं नियुञ्जन्ति’ (आश्व० गृ० ९।२।४)। नियुञ्जन्ति बध्नन्ति।
- ‘षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि’ (सां० का० २ इत्यत्र गौडपादेनोद्धृतं वचनम्)।
- ‘यन्मां विधेयविषये स भवान्नियुङ्क्ते’ (मालती० १।९)। नियुङ्क्तेऽधिकरोति, व्यापारयति।
- ‘असाधुदर्शी तत्र भवान् काश्यपः, य इमामाश्रमधर्मे नियुङ्क्ते’ (शा० (??)। उक्तोऽर्थः।
- ‘यदस्ति यस्येप्सितसाधनं धनं स तन्नियुङ्क्तेऽर्थिसमागमोत्सवे’ (अवदा० जा० ६।३०)। नियुङ्क्ते विनियुङ्क्ते।
- ‘तत् किं कर्मणि घोरे मां नियोजयसि केशव’ (गीता ३।१)। नियोजयसि प्रेरयसि, प्रवर्तयसि, प्रयुङ्क्षे।
- ‘स्मरं स्वेन वपुषा नियोजयिष्यति’ (कु० ४।४२)। संगमयिष्यतीत्यर्थः।
- ‘उत्तमाघममध्यानि बुद्ध्वा कार्याणि पार्थिवः। उत्तमाघममध्येषु पुरुषेषु नियोजयेत्॥’ नियोजयेत् अर्पयेत्, न्यस्येत्।
- ‘नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः’ (रा० १।१।३४)। नियुज्यमानः प्रेर्यमाणः।
- ‘नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयेद् ध्रुवम्’ (हितोप० २।९५)। नियुक्तोऽधिकृतः, अधिकारं प्रापितः।
- ‘भर्तुः समीपं गच्छेति नियुक्ता च पुनः’ पुनः (हरि० १।९।१६)। नियुक्ताऽऽदिष्टा।
- ‘पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः’ (मनु० ५।१६)। नियुक्तौ विहितौ।
- ‘तां (गाम्) नियुक्तामदीनात्मा सत्त्वस्थः संयमे रतः’ (भा० शां० २६८।७)। नियुक्तां हन्तुं पुरस्कृताम्।
- ‘तस्मै दीयते नियुक्तम्’ (पा० ४।४।६६)। नियुक्तं नियोगेनाऽव्यभिचारेण नित्यमिति वा।
- ‘देवराद्वा सपिण्डाद्वा स्त्रिया सम्यङ् नियुक्तया। प्रजेप्सिताऽघिगन्तव्या सन्तानस्य परिक्षये’ (मनु० ९।५९)॥ नियुक्ता विधिवत्सम्बन्धं कारिता, संवेशं लम्भिता।
- ‘नियुक्ता यत्र वा दृष्टि र्न सज्जति निरीक्षताम्’ (भा० उ० ३३।६०)। नियुक्ता व्यापारिता।
- ‘स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च’ (पञ्चत० १।७२)। नियोक्तव्या व्यापारणीयाः, न्यसनीयानि (आभरणानि)।
- ‘न स राज्ञा नियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः’ (मनु० ८।१८६)। नियोक्तव्यः प्रष्टव्योऽनुयोक्तव्यः।
- ‘सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः संभावनागुणमवेहि तमीश्वराणाम्’ (शा० ७।४)। नियोज्या भृत्याः।
- ‘नाहं युधि नियोक्तव्यो नाप्याचार्यः कथंचन’ (भा० भीष्म० ८८।४१)।
- ‘गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे’ (रा० १।२४।२२)। नियुज्य समर्प्य।
- ‘इदमेव कर्तव्यमिति कार्यनियोगः’ (सुश्रुत० २।५६०)।
- ‘पितुर्नियोगे स्थातव्यम्’ (रा० २।२१।४८)। नियोग आदेशः।
- ‘एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः’ (हरि० २।१९।७१)। नियोगः पालनव्यापारः।
- ‘नियोगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणौ’ (हरि० २।१४।४)। नियोगपाशैरन्नशिक्यैः।
- ‘न कर्ता कस्यचित्कश्चित् नियोगेनापि चेश्वरः’ (रा० ४।२५।१)।
- ‘अलघुनि बहु मेनिरे च ताः स्वं कुलिशभृता विहितं पदे नियोगम्’ (कि० १०।१६)। नियोगोऽधिकारः।
- ‘तत् सिषेवे नियोगेन स विकल्पपराङ्मुखः’ (रघु० १७।४९)। नियोगेन नियमेन, अवश्यकर्तव्यबुद्ध्या।
- ‘न चैव नियोगो वृत्तिपक्षे नित्यः समास इति’ (मी० १०।६।५ शा० भा०)। नियोगो नियमः।
- ‘न च स्वभावो नियोगपर्यनुयोगावर्हति। एवं भवत मैवं भूतेति वा, कस्मान्नैवमिति चेति’ (योगभाष्ये)। नियोग आदेशः। पर्यनुयोगः पृच्छा।
- ‘यः सावज्ञो माधवश्रीनियोगे’ (माल० ५।८)। नियोग आदेशः शासनम्।
- ‘मनो नियोगक्रिययोत्सुकं मे’ (रघु० ५।११)। नियोगक्रिया=आज्ञापालनम्।
- ‘अथवा नियोगः खल्वीदृशो मन्दभाग्यस्य’ (उत्तर० १)। नियोग आचर्यमनुष्ठेयं कर्म।
- ‘आज्ञापयतु को नियोगोऽनुष्ठीयताम्’ (शा० १)। नियोग आदेशः। स्वं नियोगमशून्यं कुरु। नियुज्यतेऽत्रेति नियोगो नियुक्तिस्थानं प्रतीहारादि, तदशून्यं स्वेनाधिष्ठितं कुरु। तत्र याहीत्युक्तं भवति। एवे चानियोगे (पा० ६।१।०४ इत्यत्र वा०)। नियोगोऽवधारणम्। कुलस्य क्षयो मा भूदिति प्रयुक्ताया अनपत्याया विधवाया देवरेणान्येन सपिण्डेन वा संभवो नियोग इति क्षत्रियाणामभ्यनुज्ञातः स्मृत्याचारः।
- ‘वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम्’ (अथर्व० ७।८३।१)। नीचीनं बन्धनसाधनं नियोजनम्।
- ‘तस्मा उपाकृताय नियोक्तारं न विविदुः। …एनं नियोक्ष्यामि… तं स बर्हिर्युक्तया प्लक्षशाखया मन्त्रपुरःसरं समुपस्पृश्य नियुयोज’ (ऐ० ब्रा० ७।१६)। यूपे बन्धन (पशोः) नियोजनम्। नियोक्ता बन्द्धा।
- ‘तां वै धारयितुं शक्तो हरस्तत्र नियुज्यताम्’ (रा० १।४२।२४)। नियुज्यतां सत्कारपूर्वकं व्यापार्यताम्। प्रार्थ्यतामित्यर्थः।
- ‘भूशं नियुक्तस्तस्यां च मदनेन मदोत्कटः’ (रा० ५।१८।५)। नियुक्तः प्रयुक्तः प्रेरितः।
युध्
- {नियुध्}
- युध् (युध सम्प्रहारे)।
- ‘ये च केचिन्नियोत्स्यन्ति समाजेषु नियोधकाः’ (भा० वि० २।७)। नियोत्स्यन्ति नियोत्स्यन्ते सन्निकृष्य संप्रहरिष्यन्ते। बाहूबाहवि योत्स्यन्त इत्यर्थः।
- ‘द्वन्द्वयुद्धेन च मया साकमेव नियुध्यते’ (कथा० ३८।१३२)। उक्तोऽर्थः।
- ‘तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः’ (मध्यम०)। नियुद्धं द्वन्द्वं मल्लयुद्धम्।
- ‘नियोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः’ (भा० आदि० १८४।१३)। नियोधका मल्लाः।
येष्
- {नियेष्}
- येष् (येषृ प्रयत्ने)।
- ‘अथो खलु य एव लोहितो वा ऽऽव्रश्चनान्निर्येषति’ (तै० सं० २।५।१।४)। निर्येषति निर्गच्छति।
रम्
- {निरम्}
- रम् (रमु क्रीडायाम्)।
- ‘मा वो दात्रान्मरुतो नि रराम’ (ऋ० ७।५६।२१)। हे मरुतो मा वो दानाद् विरंसिष्म। छन्दसि निपूर्वो रमिर्गतिनिवृत्तौ दृष्टः। तेन युष्माकं रातेर्निवृत्ता मा भूमेत्युक्तं भवति।
- ‘वास्तोष्पते नि रमय मय्येवास्तु मयि श्रुतम्’ (अथर्व० १।१।२)। निरमय निरन्तरं सुखयेति सायणः। स्थिरय, स्थापयेत्यर्थस्तु मम भाति। उत्तरत्र वाचस्पति र्नियच्छतु मय्येवास्तु मयि श्रुतम् इति श्रवणात्।
- ‘निर्ऋति र्निरमणात्’ (नि० २।७।३)। निविष्टानि रमन्तेऽस्यां भूतानीति निर्ऋतिः पृथिवी।
- ‘आश्रावयन्तो नि विषे रमध्वम्’ (अथर्व० ५।१३।५)। निरमध्वं विरमत तिष्ठत, विश्राम्यत।
- ‘न्यश्विना हृत्सु कामा अरंसत’ (अथर्व० १४।२।५)। न्यरंसत न्यविशन्त।
- ‘निरामय जरितः सोम इन्द्रम्’ (ऋ० १०।४२।१)। निरामय निरुन्द्धि, अवस्थापय।
- ‘मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन्’ (ऋ० ७।३२।१)। मा निरीरमन् मा रुधन्।
- ‘स यो हास्य दानजितो लोको भवति तस्मिन्निरमते’ (जै० ब्रा० १।४६)। निरमते नितरां रमते।
- ‘इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्’ (अथर्व० २०।९६।१)। अस्माकं यज्ञे समुपस्थानान्मा त्वां रुधन्नित्यर्थः। वेदे ण्यन्तो रमि र्निवेशने गतिनिरोधने बहुशो दृष्टः।
- ‘मो षु त्वामत्र बहवो हि विप्रा निरीरमन् यजमानासो अन्ये’ ( ऋ० २।१८।३)। उक्तोऽर्थः। सायणस्तु मा त्वां नितरां रमयन्त्वित्याह।
- ‘न्येतशं रीरमत् ससृमाणम्’ (ऋ० ४।१७।१४)। निरीरमत् न्यरीरमत् निवारितवान्।
री
- {निरी}
- री (री गतिरेषणयोः)।
- ‘ममत्त येन निरिणासि शत्रून्’ (ऋ० १०।११६।३)। निरिणासि निर्गमयसि पराणुदसि।
- ‘उषा हस्रेव निरिणीते अप्सः’ (ऋ० १।१२४।७)। निरिणीते। नितरां रिणीते गमयति प्रकाशयति।
रुध्
- {निरुध्}
- रुध् (रुधिर् आवरणे)।
- ‘युगे युगे भवन्त्येते सर्वे दक्षादयो नृप। पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति’ (हरि० ११२।५५, वि० पु० १।१५।८३)। निरुध्यन्ते प्रलीयन्ते, अभावं यान्ति।
- ‘विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेश्मनि’ (मनु० ११।१७६)। निरन्ध्यात् अवरुन्ध्यात्, अन्तरगारं नियच्छेत्।
- ‘निरुन्धानाः सतां मार्गम्’ (का० नी० सा० ४।१२)। परिपन्थिनो भवन्त इत्यर्थः।
- ‘श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन्’ (ऋ० १।१२२।७)। निरन्धानासोऽवरुन्धाना अस्मास्वेव स्थापयन्तः।
- ‘निरुद्धं गगनं सर्वं शुभ्रं मेघैः समन्ततः’ (भा० अनु० ३२।२६)। निरुद्धमाच्छन्नम्।
- ‘दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः’ (ऋ० १।३२।११)। निरुद्धाः परिक्षिप्ता वेष्टिता बद्धाः।
- ‘उत्पत्तिसमनन्तरं निरुद्धानामवयवानां वस्तुभूतसमुदायाभावात्’ (वा० प० ३।८।४ इत्यत्र हेलाराजः)।** निरुद्धानां विनष्टानाम्।**
- ‘उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु सर्वदा’ (वि० पु० १।१५।८२)। निरोधो विनाशः।
- ‘न निरोधो न चोत्पत्तिः’ (ब्रह्मबिन्दूप०)। उक्तोऽर्थः।
- ‘नीते रत्ने भाजने को निरोधः।’ (प्रतिज्ञा० ४।११)। निरोधो विरोधः।
- ‘भौमं हत्वा तन्निरोधादाहृताश्चारुदर्शनाः’ (भा० पु० १०।५८।५८)। निरोधः कारा। निरुध्यतेऽत्रेति।
- ‘निरोधाज्जायते वायुः’ (व० घ० २५।६)। निरोध आकाशः।
- ‘उत्पत्तिश्च निरोधश्च नित्यौ भूतेषु पार्थिव’ (हरि० १।२। ५४-५५)। भूतेषु पश्वादिषूत्पत्तिर्नित्या स्वाभाविकी सापिण्ड्यनियमं विना प्रजोत्पादनं स्वाभाविकं तथा मनुष्येषु निरोधो नित्यः, असपिण्डां समुद्वहेदिति नियमः स्वाभाविकं इति नीलकण्ठः। अत्र स्वीकृतो निरोधशब्दार्थो नान्तरेण क्लिष्टकल्पनां लभ्यः। उत्पत्तिनिरोधौ जननमरणे इति तु ऋजुरर्थः शब्दमर्यादया सुलभः।
- ‘जन्मनिरोधं प्रवदन्ति यस्य’ (श्वेताश्व० उप० ३।२१)। निरोधो नाशोऽभावः।
- ‘निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः’ (भा० पु० २।१०।६)। निरोधो लयः।
- ‘स्फटिके प्यन्या व्यक्तय उत्पद्यन्ते, अन्या निरुध्यन्ते’ (न्याय० ३।२।१० सूत्रभाष्ये)। निरुध्यन्ते नश्यन्ति।
- ‘शरीरेन्द्रियबुद्धिवेदनाप्रबन्धे खल्वन्यः सङ्घात उत्पद्यते ऽन्यो निरुध्यते।’ उक्तोऽर्थः।
- ‘उत्तरस्मिन्क्षणे उत्पद्यमाने पूर्वः क्षणो निरुध्यते’ (ब्र० सू० शां० भा० २।२।२०)। निरुध्यते नश्यति।
रुह्
- {निरुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘द्यो र्न काचिदथवास्ति निरूढा सैव सा चलति यत्र हि चित्तम्’ (नै० ५।५७)।
- ‘नृप विद्यासु निरूढिमागता’ (मतिः) (कि० २।६)। निरूढिः प्रसिद्धिः।
रूपय्
- {निरूपय्}
- रूपय् (रूपय् दर्शने)।
- ‘दिग्दन्तिनां दन्तभूमिं स च कस्मान्निरूपितः’ (वि० पु० १।१६।६)। निरूपितो दर्शितः।
- ‘यद् देवेन वाराणसी नाम नगरी राजधानी निरूपिता’ (प्र० च०)। निरूपिता व्यवसिता, निर्धारिता।
- ‘तत्राटवीराज्यभिषेक्तुं भवान्सर्वस्वामिगुणोपेतो निरूपितः’ (हितोप०)। उक्तोऽर्थः।
- ‘न च महावने पन्था निरूपितः’ (काद० १२०)। निरूपितो दृष्टः, उपलब्धः, अन्विष्य विलोकितः।
- ‘निरूपिता शम्बरेण सा सूपौदनसाधने’ (भा० पु० १०।५५।८)। निरूपिता नियुक्ता।
- ‘निरूपितो बालक एव योगिनां शुश्रूषणे’ (भा० पु० १।५।२३)। शब्दमर्यादया दुरापोऽर्थः कवेरस्य व्यवहारं प्रत्यनादरस्य लक्षकः।
- ‘केदारकर्मणि निरूपितः’ (भा० पु० ५।९।११)। अत्राप्युदितपूर्व एवार्थोभिमतः कवेः।
- ‘अस्त्राण्यमोघमहिमानि निरूपितानि न पस्पृशुर्नृहरिदासमिवासुराणि’ (भा० पु० १।१५।१६)। निरूपितानि लक्ष्यं प्रत्यभिमुखीकृतानि, लक्ष्यं प्रति विसृष्टानि मुक्तानि प्रास्तानि। अत्रापि पूर्ववद् अर्थग्रहे व्यवहारोपेक्षाऽनितरसाधारणी।
- ‘समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथमीश मादृशाम्’ (शिशु० १।३७)। अनिरूपितोऽदृष्टः।
लिप्
- {निलिप्}
- लिप् (लिप उपदेहे)।
- ‘तद्धोतौष्ठयो र्निलिम्पते’ (श० ब्रा० १।८।१।१५)। ओष्ठौ घृतेन म्रक्षयतीत्यर्थः।
- ‘(वज्रेण) तेनाहममूँ सेनां निलिम्पामि’ (अथर्व० ११।१०।१३)। निलिम्पामि छिनद्मीति सायणः। अभावमापादयामि, अदृश्यां करोमीत्यन्ये।
- ‘नि केतवो जनानां न्यदृष्टा अलिप्सत’ (ऋ० १।१५१।४)। न्यलिप्सत। लिपे र्लुङि प्रथमपुरुषबहुवचने रूपम्।
- ‘धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयंश्च। निलिम्पश्च विलिम्पश्च विक्षिपः’ (तै० आ० ४।२४)।
- ‘यत्पूर्वमुपमार्ष्टि तत्कूर्चे निलिम्पति’ (शां० ब्रा० २।२)। निरिह धात्वर्थानुवादी।
ली
- {निली}
- ली (लीङ् श्लेषणे)।
- ‘ध्वजेषु निलीयन्ते वायसाः’ (भा० वि० १४६२)। ध्वजानाश्रयन्ते, ध्वजेषु निषीदन्ति इत्यर्थः।
- ‘नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति’ (भा० भीष्म० २।६)। निलीयन्ते अवपतन्ति, अवतरन्ति।
- ‘निलिल्ये मूर्ध्नि गृध्रोऽस्य’ (भट्टि० १४।७६)। निलिल्ये संशिश्रिये।
- ‘मातु र्निलीयते कृष्णः’ (सि० कौ०)। अन्तर्धत्त इत्यर्थः।
- ‘सा भीषा निलिल्ये’ (श० ब्रा० १।२।३।१)। अन्तर्दधे, तिरोबभूव।
- ‘पूर्वमेव हि जन्तूनां योऽधिवासो निलीयते’ (राज० ३।४२६)। निलीयते निश्चीयते नियम्यते। अयमपि क्वचिदर्थकल्पनायां भागवतकारमनुकरोति कलया।
- ‘स्नुषा श्वशुराल्लज्जमाना निलीयमानैति’ (ऐ० ब्रा० ३।२२)। निलीयमाना=आत्मानं गोपायन्ती। तिरोभवन्तीत्यर्थः।
- ‘निलीना मक्षिका मूर्ध्नि’ (व० बृ० सं० ९५।५८)। निलीना संश्रिता निषण्णा।
- ‘उतास्मिन्नल्प उदके निलीनः’ (अथर्व० ४।१६।३)। निलीनस्तिरोहितः।
- ‘पुष्पैः सरोजैश्च निलीनभृङ्गैः’ (भट्टि० २।५)। अन्तःस्थितद्विरेफैः।
- ‘सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः’ (रा० १।११९।४)। निलीनानां निलयमावासमागतानाम्।
- ‘तावेवास्तां निलयनं तावार्तायनमेव च’ (भा० द्रोण० १८७।२३)। निलयनमाश्रयः। तौ द्रोणार्जुनौ।
- ‘यथा निलयमायद्भिर्निलीनानि मृगद्विजैः’ (रा० २।४६।३)। निलीनानि अन्तर्लीनतया व्याप्तानि।
- ‘निलीयमानै र्विहगै र्निमीलद्भिश्च पङ्कजैः। …ज्ञायतेऽस्तं गतो रविः’ (रा० ४।२८।५२)॥ निलीयमानैर्नीडेषु गच्छद्भिः।
वच्
- {निवच्}
- वच् (वच परिभाषणे)।
- ‘दुर्योधनं नैकृतिकं न्यवोचत्’ (भा० शल्य० ५९।१२)। न्यवोचत् न्यगर्हत। आक्रोशत्, अपावदत्।
- ‘अवोचाम निवचनान्यस्मिन्’ (ऋ० १।१८९।८)। निन्दावचनान्यवोचामेत्यर्थः।
- ‘मध्येपदे निवचने च’ (पा० १।४।७६)। वचनस्याभावो निवचनम्।
वद्
- {निवद्}
- वद् (वद व्यक्तायां वाचि)।
- ‘तत्र भेरीसहस्राणि शङ्खानामयुतानि च न्यवादयन्त’ (भा० उ० १९६।३५)। अभ्यघ्नन्, न्यनादयन् इत्यर्थः।
वप्
- {निवप्}
- वप् (डुवप बीजसन्ताने, बीजसन्तानं क्षेत्रे विकरणं गर्भाधानं च)।
- ‘पानं करवाथ खादं निवपाथ’ (श० ब्रा० १३।४।१।१७)। निवपतिरिह दाने वर्तते।
- ‘धिष्ण्या न्युप्यन्ते’ (श० ब्रा० ३।६।२।२१)। न्युप्यन्ते उपसमाधीयन्ते निचीयन्ते।
- ‘निवपेः सहकारमञ्जरीः’ (कु० ४।३८)।
- ‘सभाया मध्येऽधिदेवनमुद्धत्यावेक्ष्याक्षान्निवपेत्’ (आप० ध० २।२५।२०)। निवपेत्=निक्षिपेत्, निखनेत्।
- ‘अन्यं ते अस्मन्नि वपन्तु सेनाः’ (ऋ० २।३३।११)। भूमाववपातयन्त्वित्याह।
- ‘यावत्येव निवप्स्यन्स्यात्तावदुद्धन्यात्’ (श० ब्रा० १३।१।८।२०)। निवप्स्यत् निवापं चिकीर्षुः।
- ‘न्यूप्य पिण्डांस्ततः’ (मनु० ३।२१६)। न्युप्य दत्त्वा।
- ‘न्युप्य चैव निवापं तं भूतेभ्योपि’ (गोरे० सं० रा० २।५६।२८)। उक्तोऽर्थः।
- ‘न्युप्य चर्मण्यानुडहे सोमम्’ (क्रा० श्रो० ७।६।१)। न्युप्य निक्षिप्य धृत्वा।
- ‘ऐङ्गुदं बदरोन्मिश्रं पिण्याकं दर्भसंस्तरे। न्युप्य…’ (गो० रा० २।१११।३५)। उक्तोऽर्थः।
- ‘स्तोतव्या चेह पृथिवी निवापस्य चेह धारिणी’ (भा० अनु० ९१।२५)। निवापस्योप्तानां बीजानाम्।
- ‘अवनिं प्रतदा गाश्च निवापं बहुवार्षिकम्। तते विप्र प्रदास्यामि।’ (भा० ३।१७१८३)। निवापो बीजसङ्ग्रहः।
- ‘अयं छेदनेपि। अन्यं ते अस्मन्नि वपन्तु सेनाः’ (ऋ० २।३३।११)। निवपन्तु निघ्नन्तु इति सायणः।
वस्
- {निवस्}
- वस् (वस आच्छादने, वस निवासे)।
- ‘न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतद् गृहाद्’ (भट्टि० १५।७)। न्यवसिष्ट पूर्वनिवसितं वसनं त्यक्त्वाऽन्यद् वसनं परिदधाति स्म (जयमङ्गला)।
- ‘पीतैर्निवासिता वस्त्रैः’ (गो० सं० रा० ५।२७।२२)। निवासिता आच्छादिता।
- ‘रोहिणीं निवसति’ (सोमः) (भा० शल्य० ३५।५५)। निवसति संविशति।
- ‘योऽसौ माहिष्मतीं पूरीं निवासयामास’ (वि० पु० ४।११।९)। निवासयामास निवेशयामास।
वह्
- {निवह्}
- वह् (वह प्रापणे)।
- ‘यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन’ (ऋ० १।११६।१)। यौ नासत्यौ जायां न्यूहतुः प्रापयाञ्चक्रतुः।
- ‘षड्रसा निवहन्त्येता गुडकुल्याः’ (भा० शां० २८४।४३)। निवहन्ति प्रवहन्ति, स्यन्दन्ते।
- ‘वेदानुद्धरते जगन्निवहते’ (गी० गो० १)। निवहते धरते, अवलम्बमानाय। अवष्टभ्नते।
- ‘राजपुत्रनिबहः’ (भर्तृ० ३।३७)। निवहः समूहः, समुदायः।
- ‘नि पेदव ऊहथुराशुमश्वम्’ (ऋ० ७।७१।५)।
- ‘गरीयान् गण्डुकः तण्डुलभारो न निवहति दम्यः’ (हर्ष० उ० ७)। इमं भारं गन्तव्यदेशं न वहतीत्यर्थः।
वा
- {निवा}
- वा (वा गतिगन्धनयोः)।
- ‘प्रचारे वा निवाते वा बुधो नोद्वेजयेद् गाः’ (भा० अनु० ६९।१०)। निवाते कठिनोपवेशन इति नीलकण्ठः।
- ‘निवाते वातत्राणे’ (पा० ६।२।८)। कुटीनिवातम्। शमीनिवातम्। वातस्याभावो निवातः, निरुद्धो वातोऽस्मिन्निति वा निवातः। राजनिवाते निवसति। राजपार्श्व इत्यर्थः। सुखं मातृनिवातम्। मातृसान्निध्यमित्यर्थः। निवातावाश्रयावातावित्यमरः।
- ‘तेषामृतूनां शतशारदानां निवात एषामभये स्याम’ (शां० गृ० ४।१८।१)।
विद्
- {निविद्}
- विद् (विद ज्ञाने)।
- ‘इति नम्रं निवेदयामः।’ विज्ञापयाम इत्यर्थः।
- ‘बीभत्सुश्च महातेजा निवेदयति ते गृहान्’ (भा० आश्रम० १३।३)। निवेदयति गृहा गृह्यन्तामिति निवेदयति, उपहरति।
- ‘राज्यं चन्द्रापीडाय न्यवेदयत्’ (काद० ३६७)।
- ‘ऊरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत्’ (रघु० १५।७०)।
- ‘कथमिदानीमात्मानं निवेदयामि’ (शा० १)। स्वं प्रकाशयामि, आत्मनो नामधेयं निर्दिशामीत्याह।
- ‘उपस्थितां होमवेलां गुरवे निवेदयामि’ (शा० ४)। निवेदयामि शंसामि।
- ‘दिगम्बरत्वेन निवेदितं वसु’ (कु० ५।७१)। निवेदितं सूचितम्, आख्यातम्।
- ‘दर्शितं कृपणत्वं च कृष्णेऽर्घस्य निवेदनात्’ (भा० सभा० ३७।१।२४)। अर्घस्य निवेदनात् पूजोपहारात्।
- ‘सकुण्डलानां पततां शिरसां धरणीतले। पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम्’ (भा० द्रोण० ९०।११)॥ निवेदनमुपहारम्।
- ‘निवेद्यमत्रात्ययिकं हि मेऽस्ति’ (भा० उ० ३२।४)।
- ‘इहस्थश्च न निवेद्योस्मि कर्हिचित्’ (भा० वन० १५१।५)। निवेद्यो विज्ञाप्यः।
- ‘कुमारपितृमेषाय वृक्षमूले निवेदयेत्’ (सुश्रुत० उत्तर० ३६।२)। बलिं हरेदित्यर्थः।
- ‘घण्टा च देवाय बलि र्निवेद्यः’ (सुश्रुत० २८।६)।
- ‘शूरान्संपततश्चान्यान् कालरात्र्यै न्यवेदयन्’ (भा० सौ० १।८४)। न्यवेदयन् उपाहरन्।
- ‘पृथिव्याश्च निवेदनम्’ (रा० १।३।२५)। द्वीपसमुद्रादिसंनिवेशकथनम्।
विश्
- {निविश्}
- विश् (विश प्रवेशने)।
- ‘करिष्ये वः प्रियं कामं निवेक्ष्येऽहमसंशयम्’ (भा० आदि० ४६।७)। दारान् करिष्यामि गृही भविष्यामीत्यर्थः।
- ‘उग्रे तपसि वर्तन्ते पितरश्चोदयन्ति माम्। निविशस्वेति दुःखार्ताः’ (भा० आदि० ४६।१५)। उक्तोऽर्थः।
- ‘सत्त्वे निविशतेऽपैति… सोऽसत्त्वप्रकृतिर्गुणः’ (पा० ४।१।४४ इत्यत्र भाष्ये श्लोकवार्तिकम्)। निविशते प्रविशति, आगच्छति, उपैति।
- ‘त्वय्युदिते प्रेरते चित्रभानो तव व्रते निविशन्ते जनासः’ (अथर्व० ४।२५।३)। निविशन्ते नियमेन वर्तन्ते, तिष्ठन्ति।
- ‘स तदेव प्रतिवेशो निविविशे’ (श० ब्रा० ४।१।५।२)। तत्रैव वसतिं चकारेत्यर्थः।
- ‘नि गावो गोष्ठे असदन् नि मृगासो अविक्षत’ (अथर्व० ६।५२।२)। न्यविक्षत निविष्टाः, व्यश्राम्यन्।
- ‘नि वो नु मन्युर्विशताम्’ (ऋ० १०।३४।१४)। मन्युः क्रोधः शाम्यत्वित्याह।
- ‘यस्य ते विश्वा भुवनानि केतुना प्रचेरते नि च विशन्ते अक्तुभिः’ (ऋ० १०।३७।९)। निविशन्ते विश्राम्यन्ति। स्वपन्तीत्यर्थः। प्रचेरते=प्र च ईरते।
- ‘सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि’ (ऋ० १०।१२७।४)।
- ‘नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः’ (ऋ० १०।१२७।५)। उक्तोऽर्थः।
- ‘मयि गोष्ठे निविशध्वम्’ (आश्व० गृ० २।१०।६)। विश्राम्यत अवतिष्ठध्वम् इत्यर्थः।
- ‘पद्मेन चैव व्यूहेन निविशेत’ (मनु० ७।१८८)। सेनासंनिवेशं कुर्यात्, व्यूहेत्सेनाम् इत्याह।
- ‘न ये शेकुर्यज्ञियां नावमारुहम् ईर्मैव ते न्यविशन्त केपयः’ (ऋ० १०।४४।६)। न्यमज्जन्नित्यर्थः।
- ‘नवाम्बुदश्यामवपुर्न्यविक्षत’ (आसने)। न्यविक्षत आसिष्ट, उपाविक्षत्।
- ‘श्रुतिप्रामाण्यतो विद्वान्स्वधर्मे निविशेत वै’ (मनु० २।८)। निविशेत=अवतिष्ठेत, निरतः स्यात्। अन्तरिक्षे पथिभिरीयमानो न निविशते कतमच्चनाह। (तदेतदृचाभ्युक्तम् इत्यपोद्धत्य गो० ब्रा० पूर्व० २।८ इत्यत्रोक्तम्)। न निविशते न विश्राम्यति, न तिष्ठति, न विरमति।
- ‘कालेनोदेति सूर्यः काले निविशते पुनः’ ( )। निविशते निम्लोचति, अस्तमयते।
- ‘यथा मधुकरराजं मक्षिका उत्पतन्तमनुत्पतन्ति निविशमानमनु निविशन्ते तथेन्द्रियाणि चित्तनिरोधे निरुद्धानि…’ (यो० भा० २।५४)। उक्तोऽर्थः।
- ‘विश्वमन्यन्नि विशते यद् एजति’ (ऋ० १०।३७।२)। निविशते निवेशयति विरतगतिकं करोति, निवृत्तचेष्टं करोति।
- ‘पुनर्निविशेत तां चैवोपयच्छेत्’ (व० धर्मशा० २०।८)।
- ‘न्यवेशयन्नामभिः स्वैस्ते देशांश्च पुराणि च’ (भा० आदि० ६३।३२)।
- ‘रम्यां निवेशयामास पुरीं वाराणसीं पुनः’ (हरि० १।१९।७७)। उक्तोऽर्थः।
- ‘भूतपूर्वमभूतपूर्वं वा जनपदं परदेशापवाहनेन… निवेशयेत्’ (कौ० अ० १।२१।१९)। निवेशयेत् वासयेत्।
- ‘तत्ते विलपितं सर्वं राजन्मया निशामितम्। अर्थे निविशमानस्य विषमिश्रं यथा मधु’ (भा० द्रोण० ८६।१०)॥ अर्थे निविशमानस्य=अभिनिविशमानस्य, साभिनिवेशस्य, अभिनिविष्टस्य, साग्रहस्य।
- ‘ज्येष्ठेऽनिविष्टे कनीयान् निविशमानः परिवेत्ता भवति’ (याज्ञ० ३।२६५ मिताक्षरायां हारीतवचनम्)। निविशमानो दारान्कुर्वाणः।
- ‘समुद्रज्येष्ठाः सलिलस्य मध्यात् पुनाना यन्त्यनिविशमानाः’ (ऋ० ७।४९।१)। अनिविशमाना अविश्राम्यन्त्यः।
- ‘द्वारवत्यां निविशन्त्याम्’ (भा० अनु० ७२।३)। वास्यमानायाम् इत्यर्थः।
- ‘निवेशयन्नमृतं मर्त्यं च’ (ऋ० १।३५।२)। विश्रमं लम्भयन्नित्यर्थः।
- ‘अद्रीणां निविशतां भारैः’ (भा० पु० ८।११।३४)। निविशतां=निविशमानानाम्=न्यञ्चतां निमज्जताम्।
- ‘अतिष्ठन्तीनामनिवेशनानाम्’ (ऋ० १।३२।१०)।
- ‘अनिवेशनानाम् अनिविशमानानाम्’ (नि० २।१६।१)।
- ‘धान्यपशुहिरण्यादि निविशमानाय दद्यात्’ (कौ० अ० ५।९२)। नवं कुलं स्थापयते इत्याह।
- ‘भर्तुरङ्के निविशतीं भयात्’ (रघु० १२।३८)। आलिङ्गन्तीमित्यर्थः।
- ‘जगाम स दमयन्त्या निवेशनम्’ (नै० १३।३)। निवेशनं गृहम्।
- ‘समुद्रस्य निवेशनम्’ (अथर्व० ६।१०६।२)। उक्तोऽर्थः।
- ‘अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्’ (रा० २।४।४५)। अनन्तरोदीरित एवार्थः।
- ‘संप्रविष्टेषु गृहं निवेशनं वा’ (आश्व० गृ० ४।६)। निवेशनं शयनस्थानम्।
- ‘(सविता) प्रसवीता निवेशनो जगतः स्थातुरुभयस्य यो वशी’ (ऋ० ४।५३।६)। निवेशन एकत्रावस्थापयिता, विश्रमयिता।
- ‘स्योना पृथिवि भवानृक्षरा निवेशनी’ (ऋ० १।२२।१५)। निवेशनी गृहस्य प्रकल्पयित्री, विश्रमस्य दात्री।
- ‘ह्वयामि रात्रीं जगतो निवेशनीम्’ (ऋ० १।३५।१)। निवेशनीं विश्रमयित्रीं विरमयित्रीम्।
- ‘निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा’ (रा० १।३४।५)। निवेशं चक्रिरे निवेशयामासुः, वासयामासुः (पुराणि)।
- ‘ततो निवेशाय तदा स विप्रः संशितव्रतः। महीं चचार दारार्थी न च दारानविन्दत’ (भा० आदि० १४।१)। निवेशाय गृहाश्रमप्रवेशाय, गृहित्वाप्तये।
- ‘राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्’ (भा० वन० ९७।२)। निवेशो विवाहः।
- ‘निवेशे वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद् भूयः श्रुतिमिच्छन्निति श्वेतकेतुः’ (आप० ध० १।१३।१९)। निवेशो दारकर्म, विवाहः।
- ‘परिवार्य गिरिं सर्वे निवेशायोपचक्रमुः’ (हरि० २।४२।१२)। निवेशाय कञ्चित्कालं गतिनिरोधपूर्वकं वासाय, एवंस्थितस्य सैन्यस्य स्कन्धावार इति शिविरमिति वा समाख्या।
- ‘निवेशाय भ्युपायामः सायाह्ने रुधिरोक्षिताः।’ निवेशाय संवेशाय।
- ‘निवेशाय ययौ वेश्म विदुरस्य महात्मनः’ (भा० उ० ९१।३४)। उक्तोऽर्थः।
- ‘अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः’ (भा० आदि० १९४।२४)। अनिविष्टोऽकृतदारः, अकृतोद्वाहः।
- ‘निविष्टमुदधेः कूले तं प्रपेदे विभीषणः’ (रघु० १२।६८)। निविष्टं कृतशिबिरस्थितिम्।
- ‘धिग्भोः स्वर्गं भीतदेवैर्निविष्टम्’ (प्रतिमा० ६।१७)। निविष्टमध्युषितम्।
- ‘भागः पुनः पाण्डवानां निविष्टस्तं नः कस्मादाददीरन्परे वै’ (भा० उ० २९।३४)। निविष्टो न्यासरूपेण स्थितः।
- ‘समृद्धमतिरम्यं च पुलस्त्येन निवेशितम्’ (पुरम्) (वि० पु० २।१५।६)। निवेशितं वासितम्।
- ‘निवेष्टुकामोस्मि नरेन्द्र कन्याम्’ (वि० पु० ४।२।७७)। वोढुकामोस्मीत्याह।
- ‘निवेष्टुकामस्तु पुरा अष्टावक्रो महातपाः। ऋषेरथ वदान्यस्य कन्यां वव्रे महात्मनः’ (भा० अनु० १९।११)॥ निवेष्टुकामो दारैरर्थी।
- ‘निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः’ (ना० मनु० सं० १।४५)।
- ‘दौः ष्यन्तिमप्रतिरथं तनयं निवेश्य’ (शा० ४।२०)। निवेश्य परिणाय्य, गृहितामुपनीय।
- ‘संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च’ (भा० शां० २८८।८)। निवेश्य दारैः संयोज्य, गृहस्थाश्रमं प्रवेश्य।
- ‘खलीनान्यथ योक्त्राणि’ (भा० भीष्म० ५४।५९)। खलीनानि निवेश्यानीति नीलकण्ठः।
- ‘स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम्’ (रघु० १५।९७)। निवेश्य प्रतिष्ठाप्य।
- ‘निवेश्यं तु पुनस्तेन सदा तारयता पितॄन्’ (भा० शां० ३५।२८)। निवेश्यं गृहिणा भवितव्यम्।
- ‘भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा’ (भा० आदि० १९१।८)। निवेश्यः=निवेशार्हः, विवाह्मः।
- ‘पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च’ (भा० सभा० ४।६)। निवेश्य द्वारादिषु स्थानेषु स्थापयित्वा।
- ‘नैवेशिकं स्वर्णधुर्यं दत्त्वा…’ (याज्ञ० १।२१०)। निवेशनार्थं गार्हस्थ्यार्थम् भवतीति नैवेशिकम्।
- ‘नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च’ (याज्ञ० १।३३३)।
- ‘नैवेशिकानि विवाहोपयोगीनि कन्यालङ्कारादीनि। महाकुले निवेष्टव्यम्’ (भा० १०४।१३६)। विवाहं कुर्यादित्यर्थः।
- ‘द्वावम्भसि निवेष्टव्यौ गले बद्ध्वा दृढां शिलाम्’ (भा० उ० ३३।६०)। निवेष्टव्यौ निवेशयितव्यौ मज्जयितव्यौ।
- ‘नैवेशिकं चाभिमतं ददतां या गतिः शुभा’ (भा० द्रोण० ७८।२४)। नैवेशिकं सोपकरणं गृहम्। नैवेशिकायेति पाठे तु गृहाश्रमोन्मुखायेत्यर्थ इति नीलकण्ठः।
- ‘करणायतनेषूग्रा बाह्याभ्यन्तरेषु च। निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः’ (सुश्रुत० उत्तर० ४६।१)॥ निविशन्ते प्रविशन्ति। निविष्टाः स्थिता भवन्ति।
- ‘यदा च निविशते’ (जलौकाः) (सुश्रुत० १।१३।१८)। निविशते लगति लग्ना भवति। सजति संसक्ता भवति। यथार्थिकार्थो वाक्यार्थे न निविशते।
- ‘तथा कार्यमपि (मङ्गलादिप्रयोजनमपि) न निविशेत’ (सर्व० सं० पात० पं० ७८)। न निविशते प्रवेशं स लभते।
- ‘कालेनोदेति सूर्यः काले निविशते पुनः’ (अथर्व० १८।५४।१)। श्रुत्यर्थस्तु निर्दिष्टपूर्वः, प्रदेशविशेषोऽस्या न निर्दिष्ट इति स निर्दिश्यते।
- ‘निविष्टे मृता पत्नी नष्टा वा ऽग्निहोत्र कथमग्निहोत्रं जुहोति’ (ऐ० ब्रा० ७।१०)। विवाहादूर्ध्वमग्निहोत्रे निविष्टेऽनुष्ठातुमुपक्रान्ते सतीति सायणः। तन्न। निविशिर्दारक्रियापूर्वके गार्हस्थ्याश्रयणे वर्तते। तेन निविष्टे कृतविवाहे गृहीभूते सति इति व्यवहारानुगोऽर्थः।
- ‘भर्तुः प्रिया धर्मपरा निविष्टाः’ (रा० ५।५।१९)। निविष्टा ऊढाः।
- ‘महाकुले निवेष्टव्यम्’ (भा० अनु० १०४।३६)।
- ‘उपर षु शब्देषु संप्रविष्टेषु वा गेह निवेशनं वा’ (आश्व० गृ० ४।??।७)। निर्दिष्टचरस्यार्थस्योपपादनायात्र पुनर्न्यासः। निवेशनशब्देनात्र संवेशनं शयनस्थानमुच्यते। उपसर्गव्यत्ययोत्र द्रष्टव्यः। उक्तं च नैरुक्तैः–निरित्येष समित्यस्य स्थान इति वृत्तिकारो नारायणः।
- ‘निवेशे हि वृत्ते संवत्सरे संवत्सरे द्वौ द्वौ मासौ समाहित आचार्यकुले वसेद् भूयः श्रुतनिच्छन्निति श्वेतकेतुः’ (सत्या० श्रौ० २६।४।३२)। निवेशो विवाहः, दारकर्म। निवेशः शिबिरोद्वाहविन्यासेष्वित्यमरः।
- ‘रात्रीव शाला जगतो निवेशनी’ (अथर्व० ९।३।१७)। निवेशनी विश्रमस्थानम्।
वृ
- {निवृ}
- वृ (वृञ् वरणे)।
- ‘शरवर्षेण निववार रणे हरिम्’ (रा० ७।७।२५)। निववार प्रतिषिषेध, अपाकरोत्।
- ‘षट् त्रिंशद्धरिकोट्यश्च निवव्रुर्वानराधिपम्’ (भट्टि० १४।२९)। निवव्रुः परिचिक्षिषुः, वेष्टयामासुः।
- ‘तन्माता कीर्तिसेनाया दासीः पार्श्वान्न्यवारयत्’ (कथा० २९।८४)। न्यवारयात् अपासेधत्, अपागमयत्।
- ‘निवारयामासुर्देवापेरभिषेचनम्’ (भा० उ० ५०६२)। प्रतिषिषिधुरित्यर्थः।
- ‘शरीरस्य स्रोतांसि निवारयाञ्चकार’ (नि० २।१६)। निवारयाञ्चकार रुरोध।
- ‘न्यवारयत वादित्राणि कंसः सव्येन पाणिना’ (हरि० २।३०।७)। प्रत्यषेधदित्यर्थः।
- ‘पापान्निवारयति योजयते हिताय’ (भर्तृ० २।७२)। उक्तोऽर्थः।
- ‘अवासृजो निवृताः सर्तवा अपः’ (ऋ० १।५७।६)। निवृता रुद्धाः। परिक्षिप्तं तु निवृतम् इत्यमरः।
- ‘शॄ वायुवर्णनिवृतेषु’ (पा० ३।३।२१ सू० वा०)। शारो नीशारो निवृतम्।
वृ
- {निवृ}
- वृ (वृङ् संभक्तौ)।
- ‘निवरा कन्या’ (नौ वृ धान्ये पा० ३।३।४८ इत्यत्र प्रत्युदाहरणम्)। निश्चितं व्रियत इति निवरा।
वृज्
- {निवृज्}
- वृज् (वृजी वर्जने)।
- ‘षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्।’ (ऋ० १।५३।९)। न्यवृणक्=न्यभुजः, अवानमयः।
- ‘समक्षमेनं गृणते निवृङ्घि’ (ऋ० १०।८७।११)। निगृह्य वर्जय इत्यर्थः।
- ‘नि यद् वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद् ब्रन्दितो रोरुवद्वना’ (ऋ० १।५४।५)। निवृणक्षि विक्षिपसि। वना वनानि उदकानि।
वृत्
- {निवृत्}
- वृत् (वृतु वर्तने)।
- ‘निवर्तध्वं माऽनुगात’ (ऋ० १०।१९।१)। निवर्तध्वं प्रतियात।
- ‘निवर्तस्व हृदयं तप्यते मे’ (ऋ० १०।९५।१७)। उक्तोऽर्थः।
- ‘व्रजन्ति न निवर्तन्ते स्रोतांसि सरितां यथा। आयुरादाय मर्त्यानां तथा रात्र्यहनी सदा॥ यायिन्यो न निवर्तन्ते सतां मैत्र्यः सरित्समा:।’ निवर्तन्ते पश्चाद् यान्ति, पृष्ठतो गच्छन्ति, प्रतीपं यन्ति।
- ‘न सामि निवर्तेत’ (श० ब्रा० २।३।२।१४)। कार्यमध्ये न विरमेत्, प्राक् परिणामान् न विरामं कुर्यात्।
- ‘न्यवर्तन्तातपत्राणि राज्ञामपगतोष्मणाम्’ (कथा० १८।७१)। अनुपयोगीन्यभवन्नित्यर्थः।
- ‘यक्षिण्योत्सादितं सर्वम् अद्यापि न निवर्तते’ (वनम्) (रा० १।२४।३२)। अद्यापि न निवर्तते=अद्यापि न परिवर्तते, अवस्थान्तरं न गतम्। उत्सादकृता समवस्था वर्तत इत्यर्थः।
- ‘त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति। अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः’ (मनु० १०।७७)। निवर्तन्ते न सङ्क्रामन्ति, क्षत्रियं प्रति न यान्तीत्यर्थः। द्विजत्वात्प्राप्तानि भवन्ति वार्यन्ते।
- ‘निवर्तेरंश्च तस्मात्तु संभाषासहासने। दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी’ (मनु० ११।१८४)॥ निवर्तेरन् निवृत्तानि भवन्ति। नासौ पतितः सपिण्डस्तानि भजते, तानि लभत इत्यर्थः।
- ‘यतो वाचो निवर्तन्ते’ (तै० उ० २।४)। यद्वाग्विषयो न भवतीत्याह।
- ‘न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम्’ (शिशु० ३।२)। निवर्तते व्यपवर्तते।
- ‘प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात्’ (मनु० ५।४९)। मांसस्य भक्षणं परिहरेदित्यर्थः, मांसस्य भक्षणादात्मानं परिहरेदिति वा।
- ‘रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात्। पुरुषस्यात्मानं प्रकाश्य निवर्तते तथा प्रकृतिः’ (सां० का० १५९)॥ निवर्तते निवृत्तक्रिया भवति। प्रवृत्तिरस्या अवसिता भवति।
- ‘अथवा ते मतिस्तत्र राजपुत्रि निवर्तते’ (भा०)। निवर्तते निष्ठिता वर्तते। दृढं सक्ता वर्तत इत्यर्थः।
- ‘एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत’ (भा० वन० ६२।१५)।
- ‘अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्। प्रधावितमहं दैवं पौरुषेण निवर्तये’ (रा० २।२३।२०)॥ निवर्तये पराङ्मुखी करोमि।
- ‘निवर्त्यतां परीहासः प्रस्तुतं वर्त्यतामिति (बृ० श्लो० सं० ५।१९४)। निवर्त्यतां विरम्यताम्।
- ‘स वै न्येव वर्तयते केशान् न वपते’ (श० ब्रा० ५।५।३।६)। निवर्तयतेऽवकृन्तति, कर्तित्वा ह्रसयति।
- ‘केशान् निवर्तयीत श्मश्रूणि वापयीत’ (आश्व० श्रौ० २।१३।२३)। उक्तोऽर्थः।
- ‘लौहेन च क्षुरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि’ (आप० श्रौ० ८।१।४।१)। उक्तोऽर्थः।
- ‘निवृत्तश्च दिवाकरः’ (भा० वन० १६८२१)। निम्लुक्तः, अस्तं गत इत्यर्थः।
- ‘पिता यस्य निवृत्त: स्यात्’ (मनु० २।२२१)। निवृत्तो वृत्त उपरतो मृतः।
- ‘तस्मान्निवृत्तदक्षिणां न प्रतिगृह्णीयात्’ (श० ब्रा० ३।५।१।२५)। निवृत्ता प्रत्यर्पिता, प्रतिदत्ता।
- ‘निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते’ (मनु० १२।९९)। निवृत्तमिति कर्मसंज्ञोक्ता।
- ‘त्वया समुद्यतो दातुं कथं सोऽर्घो निवर्तितः’ (मार्क० पु० ६९।५१)। निवर्तितः प्रत्याख्यातः। निरस्तः।
- ‘समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम्’ (भा० सभा० ४८।१९)। द्यूतं प्रत्याख्यातुं न क्षमिष्यत इत्यर्थः।
- ‘पञ्चनिवर्तना मदीया भूमिः’ (याज्ञ० २।६५० मिताक्षरायाम्)। निवर्तनं क्षेत्रपरिमाणविशेषः।
- ‘षडेव निवर्तनानि निरुपहतानि करोति’ (बौ० ध० ३।२।२।२) निवर्तनं नाम भूम्याः कर्षणं कृषीवलानां प्रसिद्धम्–इयदेकं निवर्तनमिति इति गोविन्दस्वामी। प्रत्ययोधयन्।
- ‘प्रार्थयाना यशो दीप्तं मृत्युं कृत्वा निवर्तनम्’ (भा० भीष्म० ५७।३)। मृत्युरेव निवर्तनहेतुर्नान्य इत्यर्थः।
- ‘निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विभुः’ (भा० अनु० १०७।१९)। निवर्तनं नियमेन वर्तनं वृत्तिः।
- ‘आवर्तनं निवर्तनं यो गोपा अपि तं हुवे’ (ऋ० १०।१९।४)। निवर्तनं प्रत्यागमनम्। नीवृज्जनपदौ देशे (अमरः)। नियतं वर्ततेऽस्मिन्निति तद्व्युत्पत्तिरिति स्वामी।
- ‘शीर्षन्नि च वर्तते परि च’ (तै० ब्रा० १।५।६।५)। वपनीयानां केशानां स्थापनीयेभ्यः शिखागतकेशेभ्यः पृथक् करणं निवर्तनमिति सायणः।
- ‘न निवर्तिष्यते लोके वृत्तान्तो वर्तनष्विह’ (हरि० ३।२।४३)। न निवर्तिष्यते नितरां न वर्तिष्यत इति नील०। वर्तनेषु आचारेषु।
व्यध्
- {निव्यध्}
- व्यध् (व्यध ताडने)।
- ‘तद्यत्रैनं निविध्यन्ति पशुम्’ (श० ब्रा० ३।८।१।१६)। निविध्यन्ति निपातयन्ति।
- ‘तं च भूयो न्यविध्यत’ (भा० कर्ण० २५।५)।
- ‘नमः सहमानाय निव्याधिने’ (काण्व सं० १७।२)। नितरां विध्यति हन्ति शत्रून् इति निव्याधी।
व्ये
- {निव्ये}
- व्ये (व्येञ् संवरणे)।
- ‘निवीतं मनुष्याणाम्’ (प्रशस्तमिति शेषः) (तै० सं० २।५।११।१)। उभावपि बाहू न्यग्भूतौ वीयेते तस्मिन्।
- ‘निवीतं कण्ठावलम्बितम् इत्यमरः।’ करद्वये बहिष्कृते ऋजुभावेन गले लम्बितं यज्ञसूत्रं निवीतमुच्यते।
व्रश्च्
- {निव्रश्च्}
- व्रश्च् (ओ व्रश्चू छेदने)।
- ‘पव्येव राजन्नघशंसमजर नीचा नि वृश्च’ (ऋ० ६।८।५)। निवृश्च छिन्धि छित्वा निपातय।
शम्
- {निशम्}
- शम् (शमु उपशमे, शम लक्ष आलोचने)।
- ‘निशम्य च बहून्वालान्कृष्णान्पुच्छसमाश्रितान्’ (भा० आदि० २३।३)। निशम्य दृष्ट्वा। अन्यत्र प्रायशो निशान्यतिः श्रवणे प्रसिद्धः।
- ‘क्रीडतो बालकस्येव तरय निशामय’ (वि० पु० १।२।१८)। निशामय जानीहि।
- ‘चक्षुर्ददानि ते पुत्र युद्धं तत्र निशामय’ (भा० भीष्म० २।६)। निशामय पश्य।
- ‘अग्निष्टे निशमयतु यदि ते मन उद्यतम्’ (अथर्व० ६।१११।१)। नितरां शान्तं करोत्वित्याह।
- ‘आगच्छता महाराज वाहीकेषु निशामितम’ (भा० कर्ण० ४५।५)। निशामितं श्रुतम्।
- ‘पुनर्वृद्धिभयात् किञ्चिदनिवृत्तं (भयम्) निशामयेत्’ (भा० शां० १४०।३५)। निशामयेत् पश्येत्, जानीयात्।
शास्
- {निशास्}
- शास् (शासु अनुशिष्टौ)।
- ‘यस्ते भरादन्नियते चिदन्नं निशिषत्’ (ऋ० ४।२।७)। निशिषत् न्यशिषत् उपाहरत् अदाशत्।
- ‘नि देवीर्देवेभ्यो यज्ञमशिषन्’ (तै० सं० ३।५।६)। न्यशिषन् (देवानाम्) विधेयमकुर्वन्।
शुच्
- {निशुच्}
- शुच् (शुच ज्वलन इति निघण्टुः)।
- ‘तदाहुर्नि शोचति’ (छां० उ० ७।११।१)। निशोचति नितरां तपति।
शुम्भ्
- {निशुम्भ्}
- शुम्भ् (शुभ शुम्भ भाषणे, भासन इत्येके, हिंसायामित्यन्ये)।
- ‘आजासः पूषणं रथे निशुम्भास्ते जनश्रियं देवं वहन्तु बिभ्रतः’ (ऋ० ६।५५।६)। निशुम्भाः स्थिरं धीरं क्रामन्त इत्यर्थः।
शॄ
- {निशॄ}
- शॄ (शॄञ् हिंसायाम्)।
- ‘नि शृणीह्याबाधं यो नो अस्ति’ (तै० ब्रा० २।४।७।३)। नितरां शीर्णं कुरु।
शो
- {निशो}
- शो (शो तनूकरणे)।
- ‘विवृत्य दूरमधरौ दन्तान्तेनापि निश्यति’ (ब० श्लो० सं ७।४१)। निश्यति दशतीत्यर्थः।
- ‘यज्ञस्य वा निशितिं वोदितिं वा’ (ऋ० ६।१५।११)। निशितिः संस्कारः। आनट् इत्यनुषङ्गः।
- ‘पुरू सहस्रा नि शिशामि साकम्’ (ऋ० १०।२८।६)। निशिशामि तनू करोमि, हिनस्मि।
श्रम्
- {निश्रम्}
- श्रम् (श्रमु तपसि खेदे च)।
- ‘यस्त्रयोदश वर्षाणि गदया कृतनिश्रमः’ (भा० शल्य० ५८।१९)। निश्रमो व्यायामः।
श्रि
- {निश्रि}
- श्रि (श्रिञ् सेवायाम्)।
- ‘निजनिकेतनं न्यशिश्रियम्’ (दशकु० पृ० २४४)। न्यशिश्रियं निश्चितमाश्रयम्।
- ‘तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः। …प्रवादाः…’ (वा० प० १।८)॥ उक्तोऽर्थः। निश्रेणिस्त्वधिरोहणी इत्यमरः।
श्लिष्
- {निश्लिष्}
- श्लिष् (श्लिष आलिङ्गने)।
- ‘ता प्रणिज्य निश्लेषयेत्’ (श० ब्रा० २।५।२।१५)। संसक्ताः कुर्यात् इत्याह।
ष्ट्यै
- {निष्ट्यै}
- ष्ट्यै (ष्ट्यै शब्दसङ्घातयोः)।
- ‘यैव दिव्या शुग्या गायत्र्यां हविर्धान इति सा त आप्यायतां निष्ट्यायताम्’ (श० ब्रा० १४।३।)। निष्ट्यायतां स्थिरी भवतु।
सच्
- {निसच्}
- सच् (षच समवाये)।
- ‘अरिष्यन्तो नि पायुभिः सचेमहि’ (ऋ० ८।२५।११)। निसचेमहि नितरां समवेता भवेम।
सञ्ज्
- {निषञ्ज्}
- सञ्ज् (षञ्ज सङ्गे)।
- तू ??सङ्गतूणीरनिषङ्गा इषुधिर्द्वयोरित्यमरः।
- ‘निषङ्गः पत्तिवाह्यस्तूण इति’ (भा० उ० १५५।३) इत्यत्र नीलकण्ठः।
- ‘जनयति हि निषङ्गादेकधैवाशु नाशम्’ (का० नी० सा० १५।६७) निश्चितः सङ्गो निषङ्गः।
सद्
- {निषद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘उत पोता निषीदति’ (ऋ० ४।९।३)। निषीदत्युपविशति।
- ‘नालम्बते दैष्टिकतां न निषीदति पौरुषे’ (शिशु २।८६)। न निषीदति न तिष्ठति। पौरुषमात्रावष्टम्भो न भवतीत्यर्थः।
- ‘यन्निषीदति तद्गुरु’ (पा० ३।२।१२६) सूत्रे वृत्तौ गुणलक्षणे धातोः शता नेति प्रत्युदाहरणं स्थितम्। निषीदति न्यञ्चति मज्जतीत्यर्थः।
- ‘निषेदुषीमासनबन्धधीरः’ (रघु० २।६)। निषेदुषी निषण्णा, निपद्यमाना, प्रवणमासीना।
- ‘अष्टावक्रं पितुरङ्के निषण्णमपाकर्षद् गृह्य पाणौ रुदन्तम्’ (भा० वन० १३२।१८)। उक्तोऽर्थः।
- ‘हस्त्यारोहा निषादिनः’ (अमरः)।
- ‘निर्याणनिर्यदसृजं चलितं (दन्तिनम्) निषादी’ (शिशु० ५।४१)। निषादः पञ्चमो वर्णः। निषण्णः संश्रितो देहोऽस्य सः।
- ‘यं वाकेष्वनुवाकेषु निषत्सूपनिषत्सु च। गृणन्ति नित्यकर्म्माणम्…’ (भा० शां० ४७।२६)॥ निषत्सु कर्माङ्गाद्यवबद्धदेवतादिज्ञानवाक्येषु।
- ‘निक्रमणं निषदनं विवर्तनं यच्च षड्वोशमर्वतः’ (ऋ० १।१६२।१४) निषदनपासिका। निषद्वरस्तु जम्बाल इत्यमरः। निषद्वरः कलिलम्। निषद्वरो निषीदतां वेद्यामासीनानां वर इत्यर्थे (वा० सं० २८।४ इत्यत्र) प्रयोगः। शां० श्रौ० १५।१९।१ सूत्रे मन्दोऽव्यापारस्थित इत्यस्मिन्नर्थे प्रयोगः। आपणस्तु निषद्यायाम् इत्यमरः।
- ‘केचिद् गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि’ (शिशु० १८।१५)। उक्तोऽर्थः।
- ‘नि पवर्ता अद्मसदो न सेदुः’ (ऋ० ६।३०।३)। निषेदुः=निश्चलाः स्थिताः, न्यविशन्त।
- ‘कर्मभिर्मृत्युमृषयो निषेदुः प्रजावन्तो द्रविणमिच्छमानाः’ (न्याभा० ४।१।६०)। निषेदुः प्रापुः। मृत्युः संसारः।
- ‘त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदरे’ (ऋ० १०।२१।७)। निषेदिरे निसादयन्ति नियमेन स्थापयन्ति।
- ‘योनिष्ट इन्द्र निषदे अकारि’ (ऋ० १।१०४।१)। निषदे उपवेशनाय, आसिकायै।
- ‘का ते निषत्तिः’ (ऋ० ४।२१।९)। निषत्तिः, निषदनं स्थितिः।
सिच्
- {निषिच्}
- सिच् (षिच क्षरणे)।
- ‘यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे’ (शा० ४।१६)। न्यषिच्यत अक्षार्यत।
- ‘सौवर्णं राजतं चापि यथा भाण्डं निषिच्यते’ (भा० शां० २९०।११)। ताम्रादिमयं पात्रं सौवर्णेन राजतेन वा रसेन निषिच्यत इत्यर्थः।
- ‘निषिञ्चन्माधवीमेतां लतां कौन्दीं च नर्तयन्’ (विक्रम० २।४)। निषिञ्चन् प्रजनं प्रजननं कारयन्। मधुबिन्दुभिरभिवर्षन्निति च।
- ‘निषेकादिः श्मशानान्तो मन्त्रैर्यस्योदितो विधिः’ (मनु० २।१६)। निषेको गर्भाधानम्।
- ‘प्रजानिषेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति’ (रघु० १४।६०)। निषिच्यत इति निषेकः। मातरि रेतःसेकः।
- ‘योषित्सु तद्बीर्यनिषेकभूमिः’ (कु० ३।१६)। उक्तोऽर्थः।
- ‘सुखसलिलनिषेकः’ (ऋतु० १।२८)।
- ‘तैलनिषेकबिन्दुना’ (रघु० ८।३८)। तैलस्य निषेकः क्षारणं निपातः।
- ‘निषेचनं बहिष्टे अस्तु’ (अथर्व० १।३।१)। निषेचनं प्रस्रावः।
- ‘ग्लायन्नुदपात्रं निषिच्य’ (का० श्रौ० ६।१०।४)। निषिच्य निनीय, आवर्ज्य।
- ‘लक्ष्मीरार्ये निषिक्ता चतुरुदधिपयःसीमया सार्धमुर्व्या’ (सा० द० ६।११० इत्यत्र विवरणे)। निषिक्ताऽर्पिता।
सिध्
- {निषिध्}
- सिध् (षिध गत्याम्)।
- ‘न्यषेधत् पावकास्त्रेण रामस्तद्’ (आसुरमस्त्रम्) (भट्टि० १७।८७)। न्यषेधत् अपारुणत्।
- ‘न्यषेधि शेषोऽप्यनुयायिवर्गः’ (रघु० २।४)। अनुगमनान्निवारित इत्यर्थः।
- ‘न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुमासीदनुवर्तितुं वा’ (रघु० १४।४३)। निषेद्धुं विरोद्धुं प्रतिवदितुम्।
- ‘निषिद्धशत्रुः’ (रघु० १८।१)। निवारितरिपुरित्यर्थः।
- ‘निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति’ (मनु० ८।३६१)। निषिद्धो वारितः।
- ‘अथोत्सेधनिषेधौ पापवस्यस्यैवोत्सिध्यै च निविद्ध्यै च’ (जै० ब्रा० २।१४३)।
सिव्
- {निषिव्}
- सिव् (षिवु तन्तुसन्ताने)।
- ‘तस्मिन्त्सर्वाणि यज्ञरूपाणि निष्यूतानि भवन्ति’ (श० ब्रा० ५।३।५।२०)। निष्यूतानि अनुस्यूतानि सम्बद्धानि अनुषक्तानि।
- ‘अभि शुक्लानि च कृष्णानि च लोमानि निष्यूतो भवति’ (रुक्मपाशः) (श० ब्रा०)। निष्यूतोऽनुविद्धः। कृतसीवनः।
सृज्
- {निसृज्}
- सृज् (सृज विसर्गे)।
- ‘पराच्यो निसृजेयुः’ (आश्व० गृ० ४।७।१२)। पराङ्मुख्यस्तत्स्थानान्निर्गच्छेयुरित्यर्थः।
- ‘निसृष्टशुष्काशनिगर्जितं धनुः’ (पञ्चत० ३।१६)। निसृष्टं सृष्टम्। निशब्दो विशेषकृन्न।
- ‘स्वयम्भूस्तानुवाचेदं निसृष्टोऽत्र विधिर्मया’ (भा० शां० २०९।१२)। निसृष्टः सृष्टो रचितः प्रणीतः।
- ‘निसृष्ट इव कालेन युगान्ते ज्वलनो महान्’ (भा० वन० ८६।११)। उत्पादितः।
- ‘पञ्चालराजेन सुता निसृष्टा’ (भा० आदि० १९३।२३)। निसृष्टा दत्ता।
- ‘अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः’ (भा० पु० १।१३।२३)। अग्निर्दत्त इत्यर्थः।
- ‘अनिसृष्टानि गुरुणा (ज्येष्ठभ्रात्रा) फलानि मनुजर्षभ। भक्षितानि…’ (भा० शां० २३।३२)॥ अनिसृष्टानि अदत्तानि।
- ‘न स्वामिना निसृष्टोपि शूद्रो दास्याद् विमुच्यते’ (मनु० ८।४१४)। निसृष्टस्त्यक्तः।
- ‘सत्यप्रतिज्ञ मन्ये त्वं काममेकं निसृष्टवान्’ (भा० वन० २७७।२१)। वरमेकं दत्तवानित्याह। न्यस्तनिसृष्टे इति पर्यायौ पठत्यमरः।
- ‘सवज्रमथ फेनं तं क्षिप्रं वृत्रे निसृष्टवान्’ (भा० उ० १०।३९)। निसृष्टवान् क्षिप्तवान्।
- ‘निसृष्टं पापं हि परपरिग्रहमभीप्सता’ (भा० शां० ७।४१)। निसृष्टं चरितम्।
- ‘धर्मराजेन निसृष्टस्तु सिंहः क्षुद्रमृगानिव। धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः’ (भा० सभा० ७०।१७)॥ निसृष्टोऽनुज्ञातः।
- ‘ते निसृष्टाः कुमारेण धीमता वालिसूनुना’ (रा० ५।६१।१३)। उक्तोर्थः।
- ‘निसृष्टेषु त्वया राजन् पाण्डवेषु महात्मसु’ (भा० आदि० २०६।२६)। उक्तोऽर्थः।
- ‘अनिसृष्टोसि निष्क्रान्तो गृहात्ताभ्यामनिन्दितः’ (भा० वन० २१५।७) उक्तचर एवार्थः।
- ‘निसृष्टार्थो मितार्थश्च तथा शासनहारकः’ (दूतः) (का० नी० सा० १३।३)। यथाकामेन निसृष्टो न्यस्तः सन्ध्यादिरर्थो यस्मिन्सः।
- ‘यः स्वामिना नियुक्तोपि धनायव्ययपालने। कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः’ (बृहस्पतिः)॥
- ‘द्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः’ (भा० सभा० ६७।४९)। निसृष्टकामः सम्पादितेच्छः, सकामः कृतः। द्रौपद्याः पणीकरणे प्रेरितः।
- ‘एवं स्वभावं ज्ञात्वा प्रजापतिनिसर्गजम्’ (मनु० ९।१६) हिरण्यगर्भसृष्टिकालजनितमित्यर्थः।
- ‘पूर्वे प्रजापतिनिसर्गे च दक्षमाहुः प्रजापतिम्’ (भा० भीष्म० ६८।६)। निसर्गः सर्गः। निशब्दो विशेषकृन्न।
- ‘पितामहनिसर्गेण तुष्टा ह्येतद् ब्रवीमि ते’ (भा० वन० २९३।१८)। निसर्गेण आज्ञया। प्रसादेनेति संस्कृतशार्मण्यकोषः।
- ‘देव्या वरनिसर्गेण तस्या भर्ता विनिर्मितः’ (हरि० १००३३)। वरनिसर्गो वरप्रदानम्।
- ‘अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे’ (रा० ५।६१।१२)। निसर्गोऽभ्यनुज्ञा।
- ‘निसर्गे पायुरिन्द्रियम्’ (भा० शां० २१।२१)। निसर्गो विसर्गः, मलत्यागः।
- ‘न चाधेः कालसंरोधान्निसर्गोस्ति न विक्रयः’ (मनु० ८।१४३)। निसर्गोऽन्यस्मै दानम्।
- ‘स्त्रियो हि नाम खल्वेता निसर्गादेव पण्डिताः’ (मृच्छ० ४।१९)। निसर्गेण स्वभावेन।
- ‘निसर्गशालीनः स्त्रीजनः’ (माल० ४)। उक्तोऽर्थः।
- ‘निसर्गः स हि धीराणां यदापद्यधिकं दृढाः’ (कथा० २०।३१)। निसर्गः प्रकृतिः।
- ‘सर्वत्रात्मनिसर्गं गुणं ब्रूयात्’ (कौ० अ० ७।१५।२९)। निसर्ग आत्मसमर्पणम्।
- ‘निसर्गाद् ब्रह्मणश्चापि वरुणो यादसां पतिः। जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम्’ (भा० अनु० ८५।२३)॥ निसर्गो वरदानम्।
- ‘तदा निसृष्टा सा पूर्वं गच्छ त्वं पतिना सह’ (हरि० २।५१।२८)। निसृष्टा आज्ञप्ता।
- ‘शपथवाक्यानुयोगनिसृष्टं कुर्वतः’ (कौ० अ० ३।२०।१७)। अनिसृष्टम् अननुज्ञातम् अनधिकृतम्।
- ‘स्तनमनिसृष्टोपजीविनम्’ (कौ० अ० २।१२।२१)
- ‘अनिसृष्टोपजीवी चान्यत्र वनस्थेभ्यः’ (कौ० अ० २।१२।३२)। अनिसृष्टमननुज्ञातम्।
- ‘निसृष्टार्थं ततस्तस्मै मृत्युं विसप्तृजु सुरा’ (कथा० ४५।९०)। निसृष्टार्थं सन्दिष्टार्थं न्यस्तार्थम्।
- ‘हितष्वभिरता भर्तुर्नि सृष्टाः सर्वकर्मसु’ (रा० ४।५३।१०)। निसृष्टा दक्षा इति भूषणम्।
- ‘एव स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम्’ (मनु० ९।१६)। निसर्गः सर्गः सृष्टिः।
- ‘निसृष्टः किल मे मृत्युः’ (भा० पु० १०।३६।३१)। निसृष्टो निश्चितः, निर्णीतः।
सेव्
- {निषेव्}
- सेव् (षेवृ सेवने)।
- ‘निषेवते श्रान्तमना विविक्तम्’ (शा० ५।५)। निषेवते सेवते भजते। निर्विशतीत्यर्थः।
- ‘कौलिको विष्णुरूपेण राजकन्यां निषेवते’ (पञ्चत० १।१०२)। निषेवते भुङ्क्ते।
- ‘विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा’ (कु० ५।७६)। निषेव्यते प्रचर्यते, आचर्यते।
- ‘वैखानसं किमनया व्रतमा प्रदानाद् व्यापाररोधि मदनस्य निषेवितव्यम्’ (शा० १।२७)। निषेवितव्यं जोषणीयम्, आचरणीयम्।
स्तन्
- {निस्तन्}
- स्तन् (स्तनगदी देवशब्दे)।
- ‘नि ष्टनिहि दुरिता बाधमाना’ (ऋ० ६।४७।३०)। हे दुन्दुभे शब्दं कुर्वित्याह।
स्त्यै
- {निष्ट्यै}
- स्त्यै (ष्ट्यै शब्दसङ्घातयोः)।
- ‘यो वै स्वार्थेतां यताँ श्रान्तो हीयते उत स निष्ट्याय सह वसति’ (तै० सं० ६।२।४)। निष्ट्याय स्वग्रामान्निर्गत्य।
स्था
- {निष्ठा}
- स्था (ष्ठा गतिनिवृत्तौ)।
- ‘निष्ठिते सायमाशप्रातराशे’ (गो० गृ० १।३।१६)। निष्ठिते सम्पन्ने निष्पन्ने। निष्ठानिष्पत्तिनाशान्ता इत्यमरः।
- ‘अथानिष्ठित एवास्मिन्नालापे पूरिताम्बरः’ (वृ० श्लो० सं० ४।४०)। अनिष्ठितेऽनवसितेऽसमाप्ते।
- ‘ब्राह्मणावसथाश्चैव कर्तव्याः सुनिष्ठिताः’ (रा० १।१३।१०)। सुनिष्ठिताः सुप्रतिष्ठिताः (कतकः)।
- ‘दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः’ (अथर्व० १९।३२।३)। निष्ठितो बद्धमूलः स्थितः।
- ‘ओषधिरिह पुमान्, लोके तु स्त्रियां नियतः। तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम्’ (पर्णशालाम्) (रा० २।५६।२१)। अन्तर्बहिः काष्ठभित्त्या सुप्रतिष्ठापिताम् इत्याह।
- ‘सर्गाः पुनरन्ये त्वनिष्ठिताः’ (यो० वा० ६(२) १२८।४१)। अनिष्ठिता अव्यवस्थिताः।
- ‘लोकेस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽनघ’ (गीता ३।३)। निष्ठा निश्चितं दर्शनम्, सिद्धान्तः।
- ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः’ (मनु० १२।९५)॥ तमोनिष्ठा नरकफलाः।
- ‘यद्वा तपसि ते निष्ठा’ (भा० पु० ३।९।३८)। निष्ठा श्रद्धा भक्तिः।
- ‘कालेनाल्पेनाथ निष्ठां गतां तां सभाम्’ (भा० सभा० ५६।२०)। निष्ठां गतां समाप्तिमुपेताम्, समाप्तनिर्माणम्।
- ‘सेतुः स्वल्पेन कालेन निष्ठां प्राप्तोऽभवत्तथा’ (रा० ५।९५।४०)।
- ‘विविधेषु यदा निष्ठां ज्ञानेषूपजगाम सः’ (गो० सं० रा० १।८०।१३)।
- ‘अत्यारूढिर्भवति महतामप्यपभ्रंशनिष्ठा’ (शा० प्रक्षिप्तः श्लोकः)। अपभ्रंशनिष्ठा पतनान्ता।
- ‘भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति हि’ (भा० अनु० ६२।४९)। निष्ठा मृत्युः।
- ‘निष्ठामापत्स्यते मूढः क्रुद्धे गाण्डीवधन्वनि’ (भा० उ० ५।१०)।
- ‘पुनर्द्रष्टासि कर्णस्य निष्ठामेतां तथात्मनः’ (भा० द्रोण० १७४।४२)। घटोत्कचस्य दुर्योधनं प्रत्युक्तिः।
- ‘(शृणु) चरितं पार्थिवेन्द्रस्य यथा निष्ठां गतश्च सः’ (भा० आदि० ४९।६)।
- ‘इयं च निष्ठा नियतं प्रजानाम्’ (बुद्ध० ३।६१)। निष्ठाऽन्तः।
- ‘पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम्। तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे’ (मनु० ८।२२७)॥ निष्ठा पूर्त्तिः।
- ‘घ्राणं जिह्वा च चक्षुश्च त्वक् श्रोत्रं मन एव च। निष्ठां नाधिगच्छन्ति बुद्धिस्तामधिगच्छति’ (भा० आश्व० २२।१२)॥ निष्ठा निश्चयः।
- ‘ततः सञ्जायते निष्ठा जन्मैतत् सप्तधा विदुः’ (भा० आश्व० २०।२७)। निष्ठा निश्चयात्मिका बुद्धिः।
- ‘त्रैविद्यवृद्धानां तुवे दाः प्रमाणमिति निष्ठा’ (आप० ध० २।२३।९)। निष्ठा निर्णयः।
- ‘निष्ठा कृता तेन (गुरुणा) यदा सहः स्यात्’ (भा० शां० ८३।५४)। निष्ठा सिद्धान्तः। सहः=ऐकमत्ययुतः।
- ‘निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति’ (रा० ३।५।२२)। निष्ठां स्थानं स्वर्गमिति यावत्।
- ‘तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः’ (गीता १७।१)। निष्ठा स्थितिः, अवस्थितिः।
- ‘मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च’ (मालती० १।३१)। निष्ठा स्थैर्यम्।
- ‘आसीन्निष्ठानको घोरो निर्घातश्च महानभूत्’ (भा० सभा० ८१।२२)। निष्ठानकः प्रलयदुन्दुभिश्चण्डवात इत्यर्थ इति नीलकण्ठः।
- ‘आजैश्चापि वाराहैर्निष्ठानवरसंचयैः’ (रा० २।९१।६७)। निष्ठानं व्यञ्जनं ज्ञेयमिति हलायुधः। स्यात्तेमतं तु निष्ठानम् इत्यमरः। नितिष्ठत्यन्नमनेनेति निष्ठानम्। नितिष्ठतीति निष्ठुरः। मद्गुरादयश्चेति निपातितम्।
- ‘स एवात्मनिष्ठ आत्मप्रतिष्ठ आत्मानं क्षेमं नयति’ (बौ० ध० २।१०।१८।११)। आत्मनिष्ठः=यथाविध्यात्मोपासकः।
- ‘निष्ठाप्य वैष्णवमसीत्यालभते’ (का० श्रौ० ८।५।२२)। निष्ठाप्य (पूर्णं हविर्धानं) निष्पाद्य।
- ‘तस्यामर्थ निष्ठाप्य’ (श० ब्रा० १४।९।७।८)। निष्ठाप्य अवस्थाप्य। अर्थं शिश्नम्।
- ‘निष्ठां नयतु तावत्तु’ (रा० ३।५।२२)। भूषणधृतः पाठः। निष्ठा समाप्तिः। स्वप्रतिज्ञां पूरयत्वित्यर्थः।
स्ना
- {निष्णा}
- स्ना (ष्णा शौचे)।
- ‘शब्दब्रह्मणि निष्णातो न निष्णायात्परे यदि’ (भा० पु० ११।११।१८)। न निष्णायात् कौशलं नाप्नुयात्।
- ‘निष्णातोपि च वेदान्ते साधुत्वं नैति दुर्जनः’ (भा० वि० १।८७)। निष्णातः कुशलः।
- ‘शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति।’ उक्तोऽर्थः।
- ‘तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन्’ (याज्ञ० १।३२२)। निष्णातान् अनन्यव्यापारान् इति मिताक्षरा।
- ‘यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम्’ (याज्ञ० २।८४)। निष्णात इयता कालेनैतावद् देयमियती च वृद्धिः प्रतिमासं देयेत्येवं व्यवस्थितः।
- ‘निष्णातश्च समागमोपि विहितस्त्वत्प्रेयसः कान्तया’ (मालती० १०।२४)। निष्णातः साकल्येन निर्वृत्तः।
स्पृश्
- {निस्पृश्}
- स्पृश् (स्पृश संस्पर्शने)।
- ‘य एते (अक्षरे) निस्पृशेत् वज्रं निस्पृशेत्’ (जै० ब्रा० १।११३)।
स्पन्द्
- {निष्पन्द्}
- स्पन्द् (स्पदि ईषच्चलने)।
- ‘आर्षोऽयं दैवनिष्पन्दो यस्त्वामभिगमिष्यति’ (रा० ३।५५।३४)। निष्पन्दः सम्बन्ध इति भूषणम्। स्नेहबन्ध इति तिलकः।
स्वृ
- {निस्वृ}
- स्वृ (स्वृ शब्दोपतापयोः)।
- ‘अम्ब नि ष्वरेत्याह’ (तै० सं० ६।४।४)।
स्वप्
- {निस्वप्}
- स्वप् (ञिष्वप शये)।
- ‘नि जनान् स्वापयामसि’ (अथर्व० ४।५।१)। निस्वापयामसि गाढनिद्रान्कुर्म इत्यर्थः।
हन्
- {निहन्}
- हन् (हन हिंसागत्योः)।
- ‘सं घोषः शृण्वेऽवमैरमित्रैर्जहो न्येष्वशनिं तपिष्ठाम्’ (ऋ० ३।३०।१६)। एषु तपिष्ठामशनिं निजहीत्यन्वयः। निजहि प्रहर, प्रक्षिप, उत्सृज।
- ‘तिग्मं तस्मिन्नि जहि वज्रमिन्द्र’ (ऋ० ७।१८।१८)। उक्तोऽर्थः।
- ‘यथा पुंसो वृषण्यतः स्त्रियां निहन्यते मनः। एवा ते अघ्न्ये मनोधि वत्से निहन्यताम्’ (अथर्व० ६।७०।१)॥ निहन्यते प्रह्वी भवतीति सायणः। निहन्यते निखन्यत इति तु वयम्।
- ‘तच्छङ्कुं निहन्ति सोऽन्तः पातः’ (श० ब्रा० ३।५।१।१)। निहन्ति निखनति।
- ‘त्रिषु प्रक्रमेषु शङ्कुं निहन्ति’ (का० श्रौ० ८।३।७)। उक्तोऽर्थः।
- ‘निहन्यते खल्वाख्यातमुपसर्गाणां तुष्ठये’ (वा० प्रा० ८।५७)। निहन्यते नीचैरुच्चार्यते, अनुदात्तः क्रियते, निघातोऽस्य क्रियते। अत्र हन्तिरुच्चारणक्रियो यथा ब्राह्मणे आहतमित्यत्र।
- ‘देवयजीन्निहन्मः’ (भट्टि० २।३४)। निहन्मो घातयामः, निसूदयामः, निबर्हामः।
- ‘तानेव सामर्षतया निजघ्नुः’ (रघु० ७।४४)। प्रजह्रुः, ताडयामासुः।
- ‘कोणैर्भेयो निजघ्निरे’ (भट्टि० १४।२)। निजघ्निरे ताडयाम्बभूविरे अभ्यहन्यन्त।
- ‘बद्धां बद्धां भित्तिशङ्कागमुष्मिंन्नावानावान्मातरिश्वा निहन्ति’ (कि० ५।३६)। निहन्ति निवर्तयति।
- ‘उद्यम्य न्यवधीद्भूमौ मयं विष्णुरिवाहवे’ (भा० द्रोण० १७६।३६)। न्यवधीत् न्यपातयत्।
- ‘वचसेव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः’ (रघु० १२।९२)। निघ्नतोर्बाधमानयोः, मोघीकुर्वतोः। निहतं पदम्। अनुदात्तमित्यर्थः।
- ‘सकृदपि हि पारिक्षेपिकं निहतं निहतमाहुः।’ (चरक० वि० ८।२०)।
- ‘समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः’ (८।१।१९ सू० वा०)। निघातः सर्वानुदात्तता।
- ‘ज्यानिघातकठिनत्वचः’ (रघु० ११।४०)। निघात आघातः।
- ‘दैवं निहत्य कुरु पौरुषमात्मशक्त्या’ (पञ्चत०)। निहत्य अभिभूय, बाधित्वा।
- ‘निघातिकाताडनादिना दीनारादिषु यद्रूपमुत्पद्यते तदाहतमित्युच्यते’ (पा० ५।२।१२० सूत्रे काशिका)। निघातिकाऽऽयसो दण्डः।**
- ‘तस्माद् ब्राह्मणाय नापगुरेत न निहन्यान्न लोहितं कुर्यात्’ (तै० सं० २।६।१०।२)। निहन्यात् ताडयेत्।
- ‘निहतार्थत्वमुभयार्थस्य शब्दस्याप्रसिद्धेर्थे प्रयोगः’ (सा० द० ७)।
- ‘भूवदनाभ्यां पृथङ् निहते लम्बे’ (आर्य० २।८)। निहते गुणिते इति भटदीपिका।
- ‘तां शङ्कुना शङ्कूनतिमानेन निहत्य’ (आर्य० २।१५)। उक्तोऽर्थः।
हा
- {निहा}
- हा (ओहाक् त्यागे)।
- ‘नि ष हीयतां तन्वा तना च’ (ऋ० ७।१०४।१०, अथर्व० ८।४।१०)। निहीयतां नियतं हीयताम्।
- ‘नि हीयतामतियाजस्य यष्टा’ (ऋ० ६।५२।१)। उक्तोऽर्थः।
- ‘निहीयते येन यशोऽर्थसिद्ध्या’ (अवदा० जा० २१,३०)। निहीयते क्षीयते।
- ‘मुख्यानमात्यान्यो हित्वा निहीनान्कुरुते प्रियान्’ (भा० शां० ९३।३२)। निहीनोऽपसदः।
- ‘न्यस्मै देवी स्वधिति र्जिहीते’ (ऋ० ५।३२।१०)। देवी द्योतमाना द्यौः। अस्मा इन्द्राय। निजिहीते नीचैर्गच्छति। निहीनोऽपसदो जाल्मः (इत्यमरः)।
- ‘नि वो वना जिहते यामनो भिया’ (ऋ० ५।५७।३)। निजिहते ऽवनमन्ति न्यञ्चन्ति, कम्पन्ते।
हृ
- {निहृ}
- हृ (हृञ् हरणे)।
- ‘जीवा जीवेभ्यो नि हराम एनत्’ (ऋणम्) (अथर्व० ६।११७।२)। निहरामो नितरां नियमेन वाऽपाकुर्मः।
- ‘देहि मे ददामि ते नि मे धेहि नि ते दधे। निहारं च निहरासि मे निहारं निहराणि ते स्वाहा’ (वा० सं० ३।५०)। निहारं निहरासि उपहारमाहरेत्याह। निहरासीति लेटि रूपम्। नितरां ह्रियत इति निहारो मूल्येन क्रेतव्यं पदार्थं ब्रूते, उत्तरो निहारशब्दो मूल्यमाचष्टे।
- ‘निहृते दोषे पुनः कृत्स्नं कर्म’ (आप० श्रौ० ९।१।१।६)। निहृतेऽपनीते।
- ‘निहारं नि हरामि ते’ (तै० सं० १।८।४)। नियमेन नितरां निर्हृत्य वा समुदायाद् हरणं निहरणम् (इति भट्टभास्करः)।
- ‘निहारो मूल्यं मूल्येन क्रेतव्यः पदार्थश्चेति’ (वा० सं० ३।५०) उवटमहीधरौ।
हृष्
- {निहृष्}
- हृष् (हृष तुष्टौ)।
- ‘अथ यदुच्च हृष्यति नि च हृष्यति तदस्य मैत्रावरुणं रूपम्’ (ऐ० ब्रा० ३।४)। निहृष्यति अधो गच्छति। ज्वलतोऽग्नेरौन्नत्यमुद्धर्षः। ज्वालाशान्त्या नीचत्वं निहर्ष इति सायणः।
ह्नु
- {निह्नु}
- ह्नु (ह्नुङ् अपनयने)।
- ‘ते निह्नुवते’ (श० ब्रा० ३।४।३।२१)। प्रायश्चित्तं कुर्वन्तीत्यर्थः।
- ‘अथ निह्नुते… नमो वः पितरः शूषायेति’ (गो० गृ० ४।३।१७)। उक्तोऽर्थः।
- ‘एते वै यज्ञमवन्ति ये ब्राह्मणाः, तदु तेभ्यो निह्नुते’ (श० ब्रा०)। तान्प्रसादयतीत्यर्थः, तान्क्षमयतीति वा।
- ‘यज्ञो वै विष्णुस्तस्मा एवैतन्निह्नुते मा त्वाऽवक्रमिषम्’ (श० ब्रा० १।४।५।२)। तद्व्यतिक्रमं निष्करोतीत्यर्थः।
- ‘नमो दिवे नमः पृथिव्या इति प्रस्तरे निह्नुवते’ (ऐ० ब्रा० १।२६)। निह्नवः प्रस्तरे पाण्योर्निधानमिति वै विदुरिति षड्गुरुशिष्यः।
- ‘प्रत्येत्य प्रस्तरे निह्नुवते’ (का० श्रौ० ८।२।८)। उक्तोऽर्थः।
- ‘यस्य त्वेषामग्रतः सिध्येत् स निह्नुतमेवाग्नौ हुत्वा…’ (गो० गृ० १।४।२५)। निह्नुतं तूष्णीम्।
- ‘तस्यैव व्यभिचारस्य निह्नवः सम्यगुच्यते’ (मनु० ९।२१)। निह्नवः पापापनोदनं शोधनं प्रायश्चित्तम्। अनुपचरितो धात्वर्थ इहाश्रितः।
- ‘निह्नवे भावितो दद्याद् धनम्’ (याज्ञ० २।११)। निह्नवोऽपलापः।
- ‘सूक्ष्मत्वान्न स (धर्मः) विज्ञातुं शक्यते बहुनिह्नवः’ (भा० शां० २६३।३६)। बहुनिह्नवो बहुतिरोहितार्थः। बह्वनुक्तार्थ इति यावत्।
- ‘न निह्नवं मन्त्रगतस्य गच्छेत्’ (भा० उ० ३७।२९)। मन्त्रस्यापहारं न गच्छेत्, मन्त्रं न दूषयेदित्यर्थः। अविश्वासेऽपह्नवे निकृतावपि निह्नव इत्यमरः।
- ‘तद्वै मा तात तपति पापं कर्म मया कृतं तदहं निह्नुवे’ (ऐ० ब्रा० ७।१७)। निह्नुवे परिहरामि, निष्कृतिमस्य करोमि।
- ‘गार्हपत्यायैव निह्नुते’ (तै० सं० १।५।८।३)। निह्नुते प्रह्वी भवति, छादयति वा त्वमेवोपस्थेय इति। (भट्टभास्कर)। सायणस्तु निह्नुते ऽपलपतीत्याह।
ह्वे
- {निह्वे}
- ह्वे (ह्वेञ् स्पर्धायां शब्दे च)।
- ‘त्वेषं रूपं नमसा निह्वयामहे’ (ऋ० १।११४।५)।
- ‘इन्द्रावतो ऽ वसे नि ह्वये वः’ (ऋ० १०।१०१।१)।
- ‘यदेवैनानि शसन्ति इन्द्रमेवैतै र्निह्वयन्ति’ (ऐ० ब्रा० ६।१८)। निह्वयन्ति नियमेनाह्वयन्ति।
- ‘अश्विनाववसे नि ह्वये वाम्’ (तै० सं० २।४।३।७)। उक्तोऽर्थः।