११४ विपरि (वि+परि)

अय्

  • {विपर्यय्}
  • अय् (अय गतौ)।
  • ‘निधायोदहरणं त्रिर्विपल्ययते’ (श० ब्रा० ९।१।२।६)। विपल्ययते परिक्रामति। उपसर्गरेफस्य लत्वम्। उदहरणं घटः, उदकुम्भः।

अस्

  • {विपर्यस्}
  • अस् (असु क्षेपे)।
  • ‘प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः’ (भर्तृ० ३।१९)। विपर्यस्यति भ्रमति मिथ्या बुध्यते।
  • ‘दैवेनोपहतस्य बुद्धिरथवा पूर्वं विपर्यस्यति’ (मुद्रा० ६।८)। विपर्यस्यति विपर्यासमेति, विकारमापद्यते, अन्यथाभावं भजते।
  • ‘तं यदस्तमेतीति मन्यन्ते, अह्न एव तदन्तमित्वाऽथात्मानं विपर्यस्यते’ (ऐ० ब्रा० ३।४४)। इह विपरिपूर्वोऽसिः सकर्मकः।
  • ‘पात्रं चास्य विपर्यस्येयुः’ (गौ० ध० ३।२।३)। अधोमुखी कुर्युरित्यर्थः।
  • ‘विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः’ (भा० वन० २०१।७)। विपर्यस्तं परिवृत्तम्।
  • ‘हन्त विपर्यस्तः सम्प्रति जीवलोकः’ (उत्तर० १)। वैपरीत्यं गत इत्याह।
  • ‘अनुत्पन्नं ज्ञानं यदि यदि च सन्देहविधुरं विपर्यस्तं वा स्यात् परिचर वसिष्ठस्य चरणौ’ (महावीर० ३।३६)। विपर्यस्तं ज्ञानमतत्त्वे तत्त्वबुद्धिः।
  • ‘कथं नाम विपर्यासाद् धुन्धुमारत्वमागतः’ (भा० वन० २०१।६)। विपर्यासात् विष्णुतेज आवेशात्परिवृत्तेः।
  • ‘विपर्यासं यातो घनविरलभावः क्षितिरुहाम्’ (उत्तर० २।२७)। विपर्यासो विपर्ययो वैपरीत्यम्।
  • ‘अक्षभङ्गे नद्धविमोक्षे यानविपर्यासे’ (गो० गृ० २।४।३)। यानविपर्यासे वाहनस्य पराभवने, ओत्तराधर्येऽन्यथागमने विपथगमने वा।
  • ‘सखदुःखविपर्यासः’ (भा० शां० ३३१।१)। सुखे दुःखधीः, दुःखे च सुखधीरित्याख्यं वैपरीत्यमित्याह। सिद्धविपर्यासश्च। क्तक्तवतू निष्ठा (१।१।५) सूत्रे वार्त्तिकम्। विपर्यासः संशयः।
  • ‘भृगोश्चरुविपर्यासे’ (हरि० १।२७।३६)। विपर्यासो व्यत्यासः।

  • {विपरी}
  • इ (इण् गतौ)।
  • ‘खिन्नस्य हि विपर्येति तत्त्वज्ञस्यापि शेमुषी’ (राज० ३।२०३)। विपर्येति विपर्यस्यति।
  • ‘विपर्येष्यन्तौ वा एताग्निं भवतोऽत्येष्यन्तौ’ (श० ब्रा० ४।२।१।१५)। विपर्येष्यन्तौ परिक्रमिष्यन्तौ।
  • ‘आदित्येनैवायं ज्योतिषा कर्म कुरुते विपर्येति’ (श० ब्रा० १४।७।१।२)। विपर्येति परावर्तते।
  • ‘उत्तिष्ठ व्रतिनामग्र्य क्व विपर्येति मद्वचः’ (राज० २।४९)। विपर्येति विप्लुतार्थं भवति, मृषा भवति।
  • ‘सुखं लोके विपर्येति’ (भा० शां० २२०।५)। (दान्तः) सुखं यथा स्यात्तथा पर्यटति विचरति लोक इत्यर्थः।
  • ‘अतस्तु विपरीतस्य नृपतेरजितात्मनः’ (मनु० ७।३४)। विपरीतस्य विपरीताचारस्य।
  • ‘अहो बत महत् कष्टं विपरीतमिदं जगत्। येनापत्रपते साधुरसाधुस्तेन तुष्यति’ (भा० वन० २।६४)॥ विपरीतमधरोत्तरम्, दुःस्थितम्, आकुलम्।
  • ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ (कठोप० १।२।४)। विपरीते तेजस्तमसी इवात्यन्तविरुद्धस्वभावे।
  • ‘निमित्तानि विपरीतानि’ (गीता १।३१)। शुभप्रत्यनीकानीत्याह।
  • ‘दैवेनोपहतः पार्थो विपरीतश्च’ (भा० द्रोण० १४५।१७)। विपरीतोऽन्यथाभूतप्रकृतिः।
  • ‘नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः’ (रा० २।१२।५५)। संनिपातादिना विपरीतप्रकृतिरिह विपरीत इत्युक्तः।
  • ‘विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।’ (रा० २।२१।३)। प्राप्त-प्रकृति-वैपरीत्य इत्यर्थः।
  • ‘सिंहः संहननाद् हिंसेर्वास्याद् विपरीतस्य’ (नि० ३।१८।२०)। विपरीतस्य प्राप्तवर्णानुपूर्वीविपर्ययस्य।
  • ‘विपरीत इवाकाशे सूर्यो नक्षत्रमालया’ (रा० ४।१४।१०) विपरीतो विशेषेण परीतो वेष्टितः। सप्तम्यन्तमिति केचित्। परीतं तु दिवा प्रोक्तं विपरीतं तु शर्वरी। पौर्णमासीगतश्चन्द्रः सूर्य इत्यभिधीयते ॥ इति तिलकोद्धृतमन्यदीयं वचनम्।
  • ‘सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम्’ (मनु० ८।२४९)। विपर्ययो विभ्रमः।
  • ‘आहितो जयविपर्ययोपि मे श्लाघ्य एव परमेष्ठिना त्वया’ (रघु० ११।८६)। जयविपर्ययो जयविरोध्यर्थः पराजय इत्यर्थः।
  • ‘स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा’ (रघु० ८।८९)। विपर्ययः संयोगविरोध्यर्थो वियोग इत्यर्थः।
  • ‘नभसः स्फुटतारस्य रात्रेरिव विपर्ययः’ (न भाजनम्) (कि० ११।४४)। रात्रेर्विपर्ययो दिवसः।
  • ‘यदा वृश्चिकादिषु पञ्चसु (राशिषु) वर्तते तदाऽहोरात्राणि विपर्ययाणि भवन्ति’ (भा० पु० ३।२१।५)। विपर्ययाणि विपरीतानि। क्लीबे प्रयोगः किमपि खिन्ते चेतः। शब्दानामर्थे च रूपे च निरर्गलोऽयं कविः। विपर्यये तु (शा० ५)। अन्यथाभावे त्वित्याह।
  • ‘विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात्’ (वेणी ५०)। उक्तोऽर्थः।
  • ‘कथमेत्य मतिर्विपर्ययं करिणी पङ्कमिवावसीदति’ (कि० २।६)।
  • ‘वेषविपर्ययः’ (पञ्चत० १)। नेपथ्यपरिवर्तनम्।
  • ‘त्यागे श्लाघाविपर्ययः’ (रघु० १।२२)। विपर्ययोऽभावः।
  • ‘राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः’ (रा० १।२१।२)। विपर्ययो वैपरीत्यं वैसादृश्यम्।
  • ‘निद्रा सज्ञाविपर्ययः’ (कु० ६।४४)। चेतनाभाव इत्याह।
  • ‘दुःशासनवधं श्रुत्वा कर्णस्य च विपर्ययम्’ ( १।१६)। विपर्ययो विनाशः।
  • ‘प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये’ (रा० १।४७।३)। गर्भविपर्ययो गर्भवैकृत्यम्।
  • ‘हरिं विशन्ति स्म शरा लोका इव विपर्यये’ (रा० ७।७।४)। विपर्ययः प्रलयः संवर्तः, भूतसम्प्लवः।
  • ‘भयं द्वितीयाभिनिवेशतः स्यादीशादपेतस्य विपर्ययोऽस्मृतिः’ (भा० पु० ११।२।३७)। विपर्ययो विभ्रमः।

क्रम्

  • {विपरिक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘विपरिक्रामम्’ (श० ब्रा० ७।५।२।३०)। विपरिक्रम्य, परिक्रम्य, परीत्येत्यर्थः।
  • ‘आहवे विपरिक्रान्तः शूरः पञ्चत्वमागतः’ (रा० ४।२२।१६)। विपरिक्रान्तः, पराक्रान्तः, दर्शितपराक्रमः।

तप्

  • {विपरितप्}
  • तप् (तप सन्तापे)।
  • ‘यस्या ममाभिषेकार्थं मनो विपरितप्यते’ (रा० गोरे० २।१९।३)। अत्यन्तं तप्यते, संज्वरतीत्याह।

धा

  • {विपरिधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘आचान्तः पुनराचामेद्वासो विपरिधाय च’ (याज्ञ० १।१९६)।
  • ‘सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा विपरिधाय च’ (गो० गृ० १।२।३२)।
  • ‘वाससी विपरिधाय’ (पा० गृ० )। अत्रोदाहृतिषु विशब्दोऽनर्थकः। परिधाय आच्छाद्य वसित्वेत्यर्थः। वसितं वासो विहाय वासोन्तरपरिग्रहो वा विशब्दद्योत्यः।
  • ‘यथा यथायथं वि परि दधावहै पुनस्ते’ (तै० स० १।५।१०।१)।
  • ‘व्येवैनेन परिधत्ते’ (तै० सं० ५।३।११।३) इत्यत्र।
  • ‘नग्तां नोदीक्षेतेति वेति वा मुखं विपरिधापयेत्’ (गो० गृ० १।२।२)। विपरिधापयेत् आच्छादयेत्।

धाव्

  • {विपरिधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘सन्तिष्ठत प्रहरत तूर्णं विपरिधावत’ (भा० वन० २७१।१)। इतस्ततो धावतेत्याह।
  • ‘धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्। लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः’ (भा० शां० २८८।१८)॥ मेदिनीं विपरिधावन्ति भुवमटन्ति भूमिं विचरन्तीत्याह।

नम्

  • {विपरिणम्}
  • नम् (णम प्रह्वत्वे शब्दे च)।
  • ‘विग्रह इति विपरिणतमनुषज्यते’ (का० नी० सा० १०।७) इत्यत्र मङ्गला टीका। षष्ठे श्लोके विग्रहस्येति वर्तते। विपरिणतं कृतविभक्तिविपरिणामम्।

पत्

  • {विपरिपत्}
  • पत् (पत्लृ गतौ)।
  • ‘तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते’ (श० ब्रा० १४।७।१।१९)। विपरिपत्य इतस्ततः पतित्वा डयित्वा।
  • ‘यत्रासौ देवदत्तो दात्रहस्तः समन्ततो विपरिपतन् दृश्यते’ (६।१।८७ सूत्रभाष्ये)। विपरिक्रामन् अटाट्यां कुर्वन् वृथाट्यामाचरन्नित्यर्थः।

लिख्

  • {विपरिलिख्}
  • लिख् (लिख अक्षरविन्यासे)।
  • ‘वेदिं विपरिलिखति।’ विमाय परितो लिखतीत्यर्थः।

वृत्

  • {विपरिवृत्}
  • वृत् (वृतु वर्तने)।
  • ‘हेतुनाऽनेन कौन्तेय जगद् विपरिवर्तते’ (गीता ९।१०)। चक्रवद् भ्रमतीत्यर्थः।
  • ‘सा तु बुद्धिः कृताप्येव पाण्डवान् प्रति मे सदा। दुर्योधन समासाद्य पुनर्विपरिवर्तते’ (भा० उ० ४०।३१)॥ विपरिवर्तते परिवृत्ता भवति, अन्यथात्वं भजते।
  • ‘धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात्पूर्वपरावस्थाभेदमनुपतितः कौटस्थ्येनैव विपरिवर्तेत यद्यन्वयी स्यात्’ (यो० सू० ३।१३ भाष्ये)। विपरिवर्तेत=धर्मि द्रव्यं परिणामात्मकं रूपं परिहाय कौटस्थ्येन परिवर्तेत।
  • ‘भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम्’ (मनु० ६।२२)। लुठन्गतागतं कुर्यादित्यर्थः।
  • ‘ततो विपरिवर्तमानपक्षावलीवलितशिरोधरम्’ (तन्त्रा० ३।१०)।
  • ‘ततः स व्यायतं कृत्वा वेषं विपरिवर्त्य च’ (भा० वि० २३।१७)। वेषं सूदालङ्कारं परिवर्त्य गन्धर्ववेषेणेत्यर्थः।
  • ‘नावं न शक्यमारुह्य स्थले विपरिवर्तितुम्’ (भा० आश्व० ५०।३०)। विपरिवर्तितुम् परिक्रमितुम्।

हृ

  • {विपरिहृ}
  • हृ (हृञ् हरणे)।
  • ‘न निविदः पदे विपरिहरेत्’ (ऐ० ब्रा० ३।११)। विपरिहरेत् व्यत्यस्येत्। विपरीतं पठेदित्यर्थः।
  • ‘अथैताभ्यां पयस्याभ्यां प्रचरिष्यन्तौ विपरिहरतः’ (श० ब्रा० २।५।२।३६)। स्थानान्तरे सङ्क्रमयतः।
  • ‘आमिक्षयोर्मेषप्रतिकृती विपरिहरतः’ (भा० श्रौ० ८।८।१३)। उक्तोऽर्थः।