११० व्युप (वि+उप)

अस्

  • {व्युपास्}
  • अस् (असु क्षेपे)।
  • ‘अथ सुवर्णरजतौ रुक्मौ व्युपास्यति’ (श० ब्रा० १२।८।३।११)। व्युपास्यति=व्यस्यति, विभज्य ददाति।

जप

  • {व्युपजप}
  • जप (जप जल्प व्यक्तायां वाचि, जप मानसे च)।
  • ‘व्युपतोदव्युपजाप०…’ (आप० ध० १।२।८।१५)। व्युपजापः श्रोत्रयोर्मुहुर्मुहुर्जल्पनम्।

तुद्

  • {व्युपतुद्}
  • तुद् (तुद व्यथने)।
  • ‘व्युपतोदव्युपजापोदामन्त्रण-नामधेयग्रहणानीति गुरोर्वर्जयेत्’ (आप० ध० १।१।८।१५)। व्युपतोदोङ्गुल्यादिघट्टनं यदाभिमुख्यार्थं क्रियते।

नी

  • {व्युपनी}
  • नी (णीञ् प्रापणे)।
  • ‘आग्नेयमेवाग्निष्ठे नियुञ्ज्यादथेतरान्व्युपनयेयुर्यथापूर्वम्’ (श० ब्रा० ३।९।१।२२)। एकैकशो नयेयुरित्यर्थः।

युज्

  • {व्युपयुज्}
  • युज् (युजिर् योगे)।
  • ‘नासंपृष्टो व्युपयुङ्क्ते परार्थे’ (भा० उ० ३३।२२)। व्युपयुङ्क्ते वाग्व्ययं करोति।

रम्

  • {व्युपरम्}
  • रम् (रमु क्रीडायाम्)।
  • ‘योधा व्युपारमन्युद्धात्’ (भा० द्रोण० १३९।५४)। व्युपारमत्, विरता अभवन् इत्यर्थः।
  • ‘व्युपरमं हैके’ (आश्व० श्रौ० ७।११।२०)। विविधम् उपरम्योपरम्य। उपरमणं चात्र विलम्बनमुच्यते नावसानमिति नारायणः।
  • ‘इन्द्रियाणां व्युपरमे मनोऽव्युपरतं यदि’ (भा० शां० २७५।२४)। व्युपरमो विरामो विरतिर्विषयेष्वप्रवृत्तिः।