गम्
- {दुरागम्}
- गम् (गम्लृ गतौ)।
- दुरागतः=विषमपतितः। दुरागमः=दुरर्जित आयः।
चर्
- {दुराचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘दुराचारो हि पुरुषो लोके भवति निन्दितः’ (मनु० ४।१५७)। दुराचारो दुश्चरितः।
- ‘सोऽयं चतुर्णामेतेषामाश्रमाणां दुराचरः। तं चराद्य विधिं पार्थ दुश्चरं दुर्बलेन्द्रियैः’ (भा० शां० २३।६)।
दा
- {दुरादा}
- दा (डुदाञ् दाने)।
- ‘यथा दुरादानं सन्दंशे वानुहायाददीत’ (षड्विंश० ३।१०)। दुरादानं दुर्ग्रहम्।
धृ
- {दुराधृ}
- धृ (धृञ् धारणे)।
- ‘स देवयुक्तो रथसत्तमो नो दुराधरो द्रावणः शात्रवाणाम्’ (भा० कर्ण० ३४।६९)। दुराधरो दुर्निरोधः, दुर्लभव्यतीघातः।
- ‘द्वाराणि तस्येह वदन्ति सन्तो बहु प्रकाराणि दुराधराणि’ (भा० उ० ४२।४६)। दुराधराणि=दुरासदानि दुरभिभवानि वा।
धृष्
- {दुराधृष्}
- धृष् (धृष प्रसहने)।
- ‘नगराणीव गुप्तानि दुराधर्षाणि शत्रुभिः’ (भा० ५।५२५७)। दुराधर्षाणि दुष्प्रसहानि।
- ‘क्रुद्धात् आशीविषात्सर्पात्… दुराधर्षतरो विप्रो ज्ञेयः’ (भा० आदि० ८१।२३)। दुराधर्षतरः=दुर्लभतरः खलीकारो यस्य सः।
वृ
- {दुरावृ}
- वृ (वृञ् वरणे)।
- ‘महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे। दुरावरं त्वदन्येन राज्यखण्डमिदं महत्’ (रा० २।१०५।३)। दुरावरं दुर्बन्धम्।
वृत्
- {दुरावृत्}
- वृत् (वृतु वर्तने)।
- ‘भवन्ति सुदुरावर्ता हेतुमन्तोपि पण्डिताः’ (भा० शां० १९।२३)। सुदुरावर्ताः=अशक्यप्रत्यायनाः।
सद्
- {दुरासद्}
- सद् (षद्लृ विशरणगत्यवसादनेषु)।
- ‘आख्याता भुजगास्तात वीर्यवन्तो दुरासदाः’ (भा० आदि० ३६।१)। दुरासदा दुरभिभवाः, दुःखं वशं नेया इत्यर्थः।
- ‘सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति’ (शा० १)। न दुरुपेयो भविष्यतीत्याह।