अस्
- {अनुसमस्}
- अस् (असु क्षेपे)।
- ‘त (प्रस्तरं) प्राञ्चमनुसमस्यति’ (श० ब्रा० १।८।३।१८)।
- ‘अग्नेः प्रियं पाथोऽपीतमितीतरावनुसमस्यति’ (श० ब्रा० १।८।३।२२)।
- ‘तदेनं कृत्स्नं कृत्वाऽनुसमस्यति’ ( ) अनुक्रमेण सन्धत्त इत्यर्थः।
- ‘बर्हिरनु समस्यति परिधींश्च’ (श० ब्रा० २।६।१।४७)। अनुक्रमेणाव्यवधानेन सह धत्त इत्यर्थः।
इ
- {अनुसमि}
- इ (इण् गतौ)।
- ‘तं यथा गृहातितं कर्मणानुसमियादेवमेवैनमनुसमिमः’ (ऐ० ब्रा० २।३१)। अनुसमियात्=पूजयेदिति षड्गुरुशिष्यः। एनं यज्ञमनुसमिभः=श्रद्धया कुर्म इति च सः। आनुकूल्येन सम्यक् प्राप्नुयाम उपचरेमेति सायणः।
- ‘स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (कठ उ० ५।७)। स्थाणुतां स्थावरतामनुगच्छन्तीत्याह। काण्डानुसमयः पदार्थसमूहस्यानुष्ठानम्। पदार्थानुसमयः प्रत्येकं पदार्थानामनुष्ठानम्।
- ‘अपि वा समानजातीयेनानुसमीयात्’ (भा० श्रौ० ६।१७।७)। समागममभ्यनुजानीयादित्यर्थः।
- ‘अपृणन्तमभि सं यन्तु शोकाः’ (ऋ० १।१२५।७)। अभिसंयन्तु=आभिमुख्येन संगच्छन्तु।
कल्
- {अनुसंकल्}
- कल् (कल गतौ संख्याने च)।
- ‘अनुसंकालयन्ति गाम्’ (आश्व० गृ० ४।२)। पृष्ठतः प्राजन्ति प्रणुदन्ति।
क्रम्
- {अनुसंक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘इष्टापूर्ते अनुसङ्क्राम विद्वान्’ (अथर्व० १८।२।५७)। अनुसम्प्राप्नुहीत्यर्थः।
ख्या
- {अनुसंख्या}
- ख्या (ख्याञ् प्रकथने)।
- ‘यजमानमेवैतत् स्वर्ग्यं पन्थानमनु सङ्ख्यापयति’ (श० ब्रा० ३।९।३।३०)। अनुसंख्यापयति=उदीक्षयति।
गम्
- {अनुसंगम्}
- गम् (गम्लृ गतौ)।
- ‘पश्चेव हि हीनोऽनुसंजिगमिषति’ (ऐ० ब्रा० २।३६)। अवहीनोऽनुसृत्य संगन्तुमिच्छतीत्यर्थः।
ग्रह्
- {अनुसंग्रह्}
- ग्रह् (ग्रह उपादाने)।
- ‘तं (मुनिं) पप्रच्छानुसंगृह्य कृच्छ्रामापदमास्थितः’ (भा० शां० १०४।३)। अनुसंगृह्य=यथाविधि पादावुपसंगृह्य, चरणौ निपीड्य। सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिण इति हि तत्र मनुप्रोक्तो विधिः।
- ‘ततोऽनुसंगृहीतोस्मि यत्प्रीतो मे भवान्गुरुः’ (रा० ६।१०४।३१)। अनुसंगृहीतः=अनुगृहीतः कृतानुग्रहः=अनुग्रहभाजनतां नीतः। सम् शब्दः पादपूरणो विवक्षितार्थस्यानुपकारकः।
चर्
- {अनुसंचर्}
- चर् (चर गतिभक्षणयोः)।
- ‘सर्वाँल्लोकाननु संचरति’ (श० ब्रा० २।३।२।३)। विचरतीत्यर्थः। - ‘सर्वाणि स्थानान्यनुसंचरति त्वरमाणः’ (नि० ७। २७)। उक्तोऽर्थः।
- ‘तद्यथा पति र्जाया अनुसंचरेत्’ (जै० ब्रा० २।२६)। अनुसंचरेत् अनुक्रमेण गच्छेत्।
ज्वर्
- {अनुसंज्वर्}
- ज्वर् (ज्वर सन्तापे)।
- ‘किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्’ (बृह० उ० ४।४।१२)। शरीररोगमनुरुज्येतेत्यर्थ इति शङ्करः।
तन्
- {अनुसंतन्}
- तन् (तनु विस्तारे)।
- ‘इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुत’ (छां० ३।१६।२)। अनुसन्तनुत=अनुसन्तते अनुक्रमबद्धे सम्पादयत। यथा मे प्रातः सवनं माध्यन्दिनेन सवनेनानुस्रियताम्।
- ‘इदं मेऽयं वीर्यं पुत्रोऽनुसन्तनवत्’ (श० ब्रा० १२।४।१।४)। अनुसन्तनवत्=अनुसन्तनुयात्=उत्तरत्राविच्छेदेन नयेत्।
दिश्
- {अनुसंदिश्}
- दिश् (दिश अतिसर्जने)।
- ‘तानु तेऽनुसंदिशामि’ (अथर्व० ४।१६।९)। प्रेषयामि, प्रेरयामि, विसृजामीति वा।
धा
- {अनुसंधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘यस्तर्केरणानुसन्धत्ते स धर्मं वेद नेतरः’ (मनु० १२।१०६)। अनुसन्धत्ते=विमृशति, परीक्षते। तर्केण मीमांसालक्षणेन।
- ‘प्रसवयोग्यं स्थानमनुसन्धीयताम्’ (हितोप० ३)। विचीयतामित्यर्थः।
- ‘यथाकर्तव्यमनुसन्धीयताम्’ (हितोप० ३)। चिन्त्यताम् इत्यर्थः।
- ‘शिथिलीभूतवासनः कुर्वन्नपि फलं नानुसन्दधाति’ (यो० वा० ४।३८।६)। नानुसन्दधाति=न मनसि करोति, न चिन्तयति। नास्य फलोद्देश्यिका प्रवृत्तिर्भवतीति तात्पर्यार्थः।
- ‘आत्मानमनुसन्धेहि शोकचर्चां च परिहर’ (हितोप०)। अनुसन्धेहि=समाधेहि=समाहितं कुरु, शाम्य। अत्रार्थेऽन्यत्र प्रयोगो दुर्लभः। समाधानस्तु प्रयोगः प्रथितः।
- ‘नैतदनुसन्धाय मयोक्तम्’ (महावीर०)। एतत्सुविचिन्त्य लक्ष्यीकृत्य वेत्यर्थः।
- ‘एतौ तौ मामनुसन्धत्तः’ (मृच्छ० २)। मामनुबध्नीतः, निरन्तरमनुसरत इत्याह। अलमनेनातीतोपालम्भेन।
- ‘प्रकृतमनुसन्धीयताम्’ (महावीर०)। अनुसन्धीयतामनुस्रियताम्। अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम्। चिन्तयामि, स्मरामीति वा।
- ‘तं तास्ववस्थास्वनुसन्दधीत ज्ञात्वा बलं तं परिवर्तयेच्च’ (पञ्चत० १। ५६)। परीक्षेतेत्यर्थः । कुकारुकस्यैकमनुसन्धित्सतोऽपरं च्यवते । अत्र लौकिके न्यायेऽनुर्नार्थे विशेषं करोति। अनुसन्धातुं सन्धातुमिच्छतोऽनुसन्धित्सत इत्यर्थः।
- ‘काव्यानुसन्धानबलात्’ (का० प्र०)। काव्यचिन्तनमहिम्ना।
- ‘दुर्गानुसन्धाने को नियुज्यताम्’ (हितोप०)। दुर्गपरीक्षणक्रियायाम् इत्यर्थ इति केचित्। दुर्गसमपेक्षितसंभारैः संभरणे इत्यन्ये।
- ‘सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य’ (का० सू० वृ० ५।११)। अनुसन्धिः प्रत्यवमर्शः।
- ‘व्यास एव अहं मनुरभवं सूर्यश्चेति वामदेववत् प्रत्यगभिन्नं ब्रह्मानुसन्दधानः स्वात्मानमेव नमस्करोति’ (हरि० १।१।८ इत्यत्र भारतभावदीपै)। अनुसन्दधानः स्मरन्।
- ‘तामनुसन्दधानोऽहमपि मर्मभेदिकामबाणेन सन्दलित इव’ (धूर्तसंवादे)। अनुसन्दधानश्चिन्तयन् वा स्मरन्वा।**
- ‘तच्छेषमात्मवचसाप्यनुसन्दधानः’ (काद० उत्तरार्धोपक्रमे)। पश्चात्पूरयन्नित्यर्थः। शब्दार्थस्तु योजयन्नित्येव।
- ‘चरेणानुसन्धीयमानः’ (मुद्रा० ६)। अनुगम्यमान इत्यर्थः।
- ‘नमोवाके वषट्कारोऽनु संहितः’ (अथर्व० १३।४।२६)। अनुसंहितोऽनुबद्धः।
- ‘अहिंसा सर्वधर्मानुसंहिता’ (भा० १३।५५९३)। सर्वधर्मानुगता, सर्वधर्मानुस्यूता।
- ‘त्रयोऽनुसन्धिता लोका बुद्ध्या सत्येन चानघ’ (हरि० १।१५।१४)। अनुसन्धिताः=अनुसंहिताः=ध्यानबलेन तत्त्वतो ज्ञाताः। अत्र कथोपकथनं भारतेऽनुसन्धेयम् इति नलोदये (३।१८) टीकाकारः। अनुसन्धेयं विचेयमन्वेष्यमित्यनर्थान्तरम्।
- ‘कस्ते निर्बन्धः पदे पदे मामनुसन्धातुम्’ (मृच्छ० १)। अनुसन्धातुम्, अनुगन्तुम्, अनुरोद्धुम्।
- ‘तत्रैको ज्येष्ठः पुत्रादिः कर्ता, अपरेऽनुसन्धातारः’ (आश्व० गृ० ४।७।१) इत्यत्र हरदत्तः। उपद्रष्टार इत्यर्थः।
रभ्
- {अनुसंरभ्}
- रभ् (रभ राभस्ये)।
- ‘अन्वारभेथामनुसंरभेथाम्’ (अथर्व० ६।१२२।३)। संरभेथाम्=सततं संरब्धौ भवतमित्याह।
व्रज्
- {अनुसंव्रज्}
- व्रज् (व्रज गतौ)।
- ‘प्रपद्यमाने राजन्यग्रेणानोऽनुसंव्रजेत्’ (आश्व श्रौ० ४।४।५)।
- ‘इमा: सोम्यानुसंव्रजेति’ (छां० उ० ४।४।५)। सम्यगनुयाहीत्याह।
हृ
- {अनुसंहृ}
- हृ (हृञ् हरणे)।
- ‘अलोऽन्त्यस्येति स्थाने विज्ञातस्यानुसंहारः’ (वा०)। अन्त्येऽल्यनुसंहारः क्रियते इति भाष्यम्। सोऽयं कार्यस्यान्त्येऽल्यनुसंहारो वृत्तिकारेण दर्शित इति पा० १।१।५२ इत्यत्र पदमञ्जरी। अनुसंहारः=सम्बन्धः।
- ‘पदं पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यम्’ (यो० सूत्र० ३।१७ भाष्ये)। अनु पश्चात् संहरत्येकत्वमापादयतीत्यनुसंहारबुद्धिस्तथा निर्ग्राह्यम्।