०६७ अनुव्यव (अनु+वि+अव)

  • {अनुव्यवे}
  • इ (इण् गतौ)।
  • ‘पापीयांसो वै भवामोऽसुररक्षसानि वै नोऽनुव्यवागुः’ (श० ब्रा० ३।४।२।२)। अनुव्यवागुः=अन्तरायन्=मध्येऽपतन्। व्यवौ व्यवधानमाहतुः। अनुर्व्याप्तिम्।

सो

  • {अनुव्यवसो}
  • सो (षो अन्तकर्मणि)।
  • ‘कथमनालोचितः स विषयविशेष इन्द्रियेण मनसाऽनुव्यवसीयते’ (यो० सू० ३।४७ भाष्ये)। अनुव्यवसीयते=निश्चीयते। घटमहं जानामीति यज्ज्ञानं सोऽनुव्यवसायः।