०६६ अनुवि

  • {अनुवी}
  • इ (इण् गतौ)।
  • ‘अग्ने र्दहतो धूम उदेत्यानुव्येति’ (तै० ब्रा० १।५।१०।४)। अनुव्येति अनुक्रमेण विविधं व्याप्नोति।

ईक्ष्

  • {अनुवीक्ष्}
  • ईक्ष् (ईक्ष दर्शने)।
  • ‘एवं स तां हेतुभिरानुवीक्ष्य सीतेयमित्येव निविष्टबुद्धिः। संलीय तस्मिन्निषसाद वृक्षे’ (रा० ५।१९।३४)॥ अनुवीक्ष्य=परीक्ष्य। आर्षो दीर्घः।

ऊह्

  • {अनुव्यूह्}
  • ऊह् (ऊह वितर्के)।
  • ‘अथानुव्यूहति’ (श० ब्रा० ३।५।१।३३)। इदानीं स (मृदं) वियुङ्क्ते पृथक्करोतीत्याह।
  • ‘वैश्वानर्यर्चा चितावनुव्यूहति’ (सत्या० श्रौ० २३।२।२९)। अनुव्यूहति प्रसारयति।

क्रम्

  • {अनुविक्रम्}
  • क्रम् (क्रमु पादविक्षेपे)।
  • ‘प्रजापतेर्वा एष विक्रमाननुविक्रमते य उपहरति’ (अथर्व० ९।६।२९)। अनुः पश्चादर्थे। अन्यत्समानम्।
  • ‘तमहमनुव्यक्रंसि’ (शां० श्रौ० ४।१२।३)। पश्चात्पादं व्यहरमित्याह। विहरणं चरणन्यासः।

चर्

  • {अनुविचर्}
  • चर् (चर गतिभक्षणयोः)।
  • ‘लोकानुग्रहार्थमनुविचरन्’ (अवदा० जा० २३)। देशाद् देशान्तरं परिभ्रमन् इत्यर्थः।

चल्

  • {अनुविचल्}
  • चल् (चल कम्पने)।
  • ‘तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन्’ (अथर्व० १५।३।११)। अनुव्यचलन्=अनुप्रातिष्ठन्त।

धा

  • {अनुविधा}
  • धा (डुधाञ् धारणपोषणयोः)।
  • ‘आनुपूर्व्ये हविषा दैवत उच्चैरुपांशुतायामध्वर्युमनुविदधीत’ (शां० श्रौ० १३।१।३)। अध्वर्युमनुविदधीत=अध्वर्युं विज्ञापयेत्, विधेयं वेदयेदित्यर्थः। न चाद्यत्वे कश्चिद् व्यवहरति, केवलमृषिसम्प्रदाय इति कृत्वा याज्ञिकाः शास्त्रेणानुविदधते (अप्रयुक्ते दीर्घसत्रवद् इति वार्त्तिके भाष्ये)। शास्त्रेणानुविदधते=शास्त्रेणान्वाचक्षते।
  • ‘अर्क एव तदर्क्यमनुविधीयते’ (तै० सं० ५।३।४)। पश्चाद् विधीयते सम्पाद्यते निर्वर्त्यते संभ्रियते। उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति।
  • ‘करोति कुर्वतः कर्म च्छायेवानुविधीयते’ (भा० ६।७५३)॥
  • ‘आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते’ (भा० शां० ९३।२८)। अनुविधीयते=अनुसरति।
  • ‘इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते’ (गीता २।६७)। अनुविधीयते=अनुगं क्रियते।
  • ‘तं चैव धर्मं पौराणम्… अद्याप्यनुविधीयन्ते’ (भा० आदि० १२२।६)। अनसरन्तीत्यर्थः।
  • ‘वृत्तिं च तेभ्यो (पुत्रेभ्यः) ऽनुविधाय कांचित्’ (भा० उ० ३७।३९)। अनुविधाय=संविविधाय=प्रकल्प्य।
  • ‘सा स्त्री यानुविधायिनी’ (हितोप० २।१३४)। अनुविधायिनी=वचनकरी=वशंवदा=आश्रवा।
  • ‘भवितव्यतानुविधायीनीन्द्रियाणि’ (विक्रम०)। भवितव्यतानुसारीणि। भवितव्यताया अविरोधेन स्वं स्वं व्यापारं कुर्वन्तीन्द्रियाणीत्याह।
  • ‘तथापि मर्त्यानुविधस्य वर्ण्यते’ (भा० पु० १०।५०।३०)। अनुविधत्तेऽनुवर्तत इत्यनुविधो भक्तः। अन्यत्र दुर्लभोऽयं शब्दः। भागवतकारस्य त्वप्रयुक्तप्रयोगः शीलम्।
  • ‘पदमनुविधेयं च महताम्’ (भर्तृ० २।२८)। अनुसार्यमित्यर्थः।
  • ‘प्रतीयमानसादृश्योप्यस्ति सोऽनुविधीयते’ (काव्यादर्शे २।१८९)। अनुविधीयते=अनुपदं व्याख्यायते।
  • ‘तथेन्द्रियाणि परशरीरावेशे चित्तमनुविधीयन्ते’ (यो० सू० ३।३८ भा०)। अनुविधीयन्तेऽनुगमनेनानुकुर्वन्ति।
  • ‘निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानवत्वम्’ (भाट्टदी० २।४।१)। अनुविधायि=अनुसारि।
  • ‘कारणानुविधायित्वात् कार्याणान्तत्समागता’ (अष्टाङ्ग० शारीर० १।४)। उक्तोऽर्थः।

धाव्

  • {अनुविधाव्}
  • धाव् (धावु गतिशुद्ध्योः)।
  • ‘तस्येमां (पृथिवीं) लोहितमनुव्यधावत्’ (काठक० ३१।८)। अनुव्यधावत्=अनुन्यस्यन्दत।
  • ‘अनु गात्रा विधावतु’ (ऋ० ८।१७।५)। गात्राण्यनुविधावतु सोमः, गात्रेषु सञ्चरत्वित्याह।

नद्

  • {अनुविनद्}
  • नद् (णद शब्दे)।
  • ‘ततः स तेषां रुदतां महात्मनां भुवं च खं चानु विनादयन्स्वनः’ (रा० २।१०३।४०)। सुतमां प्रतिध्वनयन्नित्यर्थः।

नश्

  • {अनुविनश्}
  • नश् (णश अदर्शने)।
  • ‘प्रजाश्च तस्य क्षीयन्ते ततः सोऽनुविनश्यति’ (भा० शां० ९०।३८)। सह नश्यति समं वा नश्यतीत्याह।
  • ‘कामानुसारी पुरुषः कामाननुविनश्यति’ (भा० १२।६५३३)। उक्तोऽर्थः।
  • ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ (बृ० उ० २।४।१२)। अनुविनश्यति=तत्रैव लीयते।

प्लु

  • {अनुविप्लु}
  • प्लु (प्लुङ् गतौ)।
  • ‘ततस्तान् देवा (इन्द्रियाणि) अनुविप्लवन्ते’ (भा० उ० ४२।८)। अनुविप्लवन्तेऽनूत्क्रामन्ति।

वा

  • {अनुविवा}
  • वा (वा गतिगन्धनयोः)।
  • ‘सर्वा दिशोऽनुविवाति’ (तै० ब्रा० २।३।९।६)। अनुकूलः सन् विशेषेण संचरतीत्याह।

ली

  • {अनुविली}
  • ली (लीङ् श्लेषणे)।
  • ‘यथा सैन्धवखिल्य उदकमेवानुविलीयते’ (श० ब्रा० १४।५।४।१२)। अनुः क्रममाह, विश्च विशेषम् । द्रवीभूयोदकमेवानुप्रविशतीत्याह।

सद्

  • {अनुविषद्}
  • सद् (षद्लृ विशरणगत्यवसादनेषु)।
  • ‘अथ यत्रैतदाकाशमनुविषण्णं चक्षुः’ (छां० उ० ८।१२।५)। अनुगतम् इति कश्चित्।
  • ‘अथ यत्रैतदाकाशमनुविषण्णं चक्षुः’ (छां० उ० ८।१२।४)। अनुविषण्णमनुषक्तम्।

सि

  • {अनुविषि}
  • सि (षिञ्)।
  • ‘अपश्यन्तोऽनुविषयं भुञ्जते विघसाशिनः’ (भा० शां० २८७।४०)। अनुविषयः=रसः=आस्वादः।

सृज्

  • {अनुविसृज्}
  • सृज् (सृज विसर्गे)।
  • ‘तस्या अनुविसृज्य कृशानुः सोमपालः सव्यस्य पदो नखमच्छिदत्’ (ऐ० ब्रा० ३।२६)। अनुः पश्चादर्थे।