०६३ अनुपर्या (अनुपरि+आङ्)

  • {अनुपर्ये}
  • इ (इण् गतौ)।
  • ‘वित्तं नावक्षराण्यनुपर्यागुः’ (ऐ० ब्रा० ३।२८)। अनुपर्यागुः=मार्गे गलितानि। प्रत्यागतानीति तु संस्कृतशार्मण्यकोषः। पर्यावृत्त्यागच्छन्त्विति तु सायणः ।
  • ‘ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः। शरीरमनुपर्येत्य सर्वान्प्राणान् रुणद्धि वै’ (भा० अश्व० १७।१५)॥ शरीरमनुपर्येत्य=शरीरे सर्वतः सञ्चर्य।

वृत्

  • {अनुपर्यावृत्}
  • वृत् (वृतु वर्तने)।
  • ‘अथैनं दक्षिणं बाहुमनुपर्यावृत्त्याभिषिञ्चति’ (श० ब्रा० ९।३।४।१७)। अनुपर्यावृत्त्य=उपस्थाय=समीपे स्थित्वा।
  • ‘अनु वै श्रेयांसं पर्यावर्तन्ते’ (ऐ० ब्रा० २।२०)। अनुयान्ति, पृष्ठतः कृतासना भवन्तीत्यर्थः। अयमेव विवक्षितोर्थ इति तस्मात्प्रत्युत्थेया अनुपर्यावृत्त्या’ (आपः) इति वाक्यशेषादवगम्यते। तत्रानुपर्यावृत्त्या इत्यस्य पृष्ठतः सञ्चरणयोग्या इत्यर्थः।
  • ‘आदित्यस्यैव तद्व्रतमनुपर्यावर्तन्ते’ (ऐ० ब्रा० ३।११)। पर्यायेणानुवर्तन्त इत्याह।