इ
- {अनुपरी}
- इ (इण् गतौ)।
- ‘यः स्माद्यमनुपर्येति भूमिं कुर्वन्निमां सुखाम्’ (भा० द्रोण० ७०।२)। अनुपर्येति स्म=अनुप्रवर्तितवान्। आद्यमादियुग-विहित-धर्मम्।
- ‘संवत्सरं वा एतदृतवोऽनुपरियन्ति’ (अथर्व० १५।१७।८)। संवत्सरमन्वावर्तन्ते इत्याह।
- ‘यदा च पृथिवीं सर्वां यजमानोऽनुपर्यगाः’ (भा० शां० २२३।२४)। अनुपर्यगाः=पर्याटीत्=अभ्रमत्।
क्रम्
- {अनुपरिक्रम्}
- क्रम् (क्रमु पादविक्षेपे)।
- ‘सुरगिरिमनुपरिक्रामन्भगवानादित्यस्तरणिमनुपर्याक्रामद् द्वितीय इव पतङ्गः’ (भा० पु० ५।१।३०)। सुरगिरिं मेरुं नियमेन परिगच्छन्नित्यर्थः। (तीर्थानि) सर्वाण्यनुपरिक्रम्य=अनुक्रमेण पर्यट्येत्यर्थः।
- ‘स ताननुपरिक्रामेत् सर्वानेव सदा स्वयम्’ (मनु० ७।१२२)। नगराधिपतिस्तान्ग्रामाधिपत्यादीननुक्रमेण पर्यायेणानुगच्छेत्परीचिक्षिषुरित्युक्तं भवति।
या
- {अनुपरिया}
- या (या प्रापणे)।
- ‘सर्वा दिशोऽनुपरियायात्’ (आश्व० गृ० ३।१२।५)। सर्वा आशाः परितः पर्यायेण यायादित्यर्थः।