इ
- {अन्वे}
- इ (इण् गतौ)।
- ‘षष्टिः सहस्रमनु गव्यमागात्’ (ऋ० १।१२६।३)। अन्वागात्=अन्वसार्षीत्।
- ‘सोमं राजानं क्रीतमन्वायन्ति’ (ऐ० ब्रा० १।१५)। उक्तोऽर्थः।
ख्या
- {अन्वाख्या}
- ख्या (ख्याञ् प्रकथने)।
- ‘दश मातॄर्दश पितॄन् इत्यन्वाख्याय’ (लाट्या० श्रौ० ९।२।४)। पर्यायेण परिगणय्य।
गम्
- {अन्वागम्}
- गम् (गम्लृ गतौ)।
- ‘अनन्वागतः पुण्येनानन्वागतः पापेन, तीर्णो हि तदा सर्वाञ्छोकान् हृदयस्य भवति’ (श० ब्रा० १४।७।१।२२)। अन्वागतः=अनुगतः=सम्बद्धः=संश्लिष्टः।
- ‘स यदत्र किञ्चित्पश्यति अनन्वागतस्तेन भवति’ (साङ्ख्ये १।१ सूत्रे विज्ञानभिक्षुणोदाहृतं वाक्यम्)। अर्थस्तु संशब्दितचरः।
चि
- {अन्वाचि}
- चि (चिञ् चयने)।
- ‘अन्यतरस्यानुषङ्गिकत्वेऽन्वाचयः। भिक्षामट गां चानयेत्यत्र चकारोऽन्वाचये। अन्वाचितः पुरुषोऽनुपुरुषः’ (पा० ६।२।१९० सूत्रे वृत्तिः)। अन्वाचितः=कथितानुकथितः=अन्वादिष्टः।
दा
- {अन्वादा}
- दा (डुदाञ् दाने)।
- ‘अन्वा अहं तां दास्ये’ (श० ब्रा० २।१।२।१६)। आत्मनि प्रतिसंहरिष्यामीत्यर्थः।
दिश्
- {अन्वादिश्}
- दिश् (दिश अतिसर्जने, दिशिरुच्चारणक्रिय इति भाष्यम्)।
- ‘किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेश इति दीक्षितः कौमुद्याम्।’ आदेशः कथनम्। अन्वादेशोऽनुकथनम्। नेह पश्चादुच्चारणमात्रमन्वादेशः, किन्तर्हि एकस्यैवाभिधेयस्य पूर्वं शब्देन प्रतिपादितस्य द्वितीयं प्रतिपादनमन्वादेश इति पा० २।४।३२ सूत्रे काशिका। अन्वादिष्टोन्वाचितः कथितानुकथितः।
- ‘पुरुषश्चान्वादिष्टः’ (पा० ६।२।१९०)।
- ‘एषान्वादिष्टा दक्षिणा’ (श० ब्रा० १३।८।४।१०)। निर्दिष्टा, निरूपिता, नियतीकृतेत्याह।
- ‘पूषा पुरस्तात्तस्यान्वादेश इत्येकं (दर्शनम्)’ (नि० ७।९।१)। स त्वैतेभ्यः परिददत् पितृभ्य इति तृतीयः पौष्णः, पूष्णोऽनुकथनं वा स्याच्चतुर्थपादगतमग्निं वा प्रकीर्तयेदित्याग्नेयो वा स्यादिति संशयः।
धा
- {अन्वाधा}
- धा (डुधाञ् धारणपोषणयोः)।
- ‘उत्तमं पाणिमन्वादधाति’ (कौ० सू० ५५)। अन्वादधाति=उपरिष्टान्निधत्ते इत्यर्थः।
- ‘अग्निं प्रतिष्ठाप्यान्वाधाय’ (आश्व० गृ० १।३)। अन्वाधाय=अधिश्रित्य।
- ‘कथमग्नीनन्वादधानोन्वाहार्यपचनमाहारयेत्’ (ऐ० ब्रा० ७।१२)।
- ‘याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः’ (याज्ञ० २।६७)। यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् (मिताक्षरा)। स्वस्मादितरस्मै देय इति कृत उपनिधिरन्वाहितम् इत्यन्यदीयं वचस्तु मिताक्षरामपेक्ष्य प्रायेणाव्यक्तम्। यत्स्वं परिणेतुर्ज्ञातिभिः परिणीतायै दीयते तदन्वाधेयमुच्यते।
भू
- {अन्वाभू}
- भू (भू सत्तायाम्)।
- ‘देवाः सुवर्गं लोकमायन् तेऽमन्यन्त मनुष्या नोऽन्वाभविष्यन्ति’ (तै० सं० ६।३।४।७)। अन्वाभविष्यन्ति-अनुकरिष्यन्ति।
- ‘यन्न होष्यामि तदन्वाभविष्यन्ति (असुराः)’ (काठक सं० २७।८)। मत्समा भविष्यन्तीत्यर्थः।
यत्
- {अन्वायत्}
- यत् (यती प्रयत्ने)।
- ‘सर्वा एवास्मिन् (अश्वमेधे) देवता अन्वायातयति’ (श० ब्रा० १३।१।२।९)। अन्वायातयति=अन्वायत्ता अनुगताः करोति।
- ‘छन्दांसि यज्ञमन्वायातयति’ (श० ब्रा० ३।४।१।२३)। यज्ञे भागवन्ति करोतीत्याह।
- ‘उद्गातर्या देवतोद्गीथमन्वायत्ता।’ (छां० उ० ३।८९)। अन्वायत्ता अनुगता=सम्बद्धा।
- ‘एतं सर्वे देवा अन्वायत्ताः’ (श० ब्रा० ३।१।२।१८)। अन्वायत्ताः=अन्तर्गताः।
- ‘तद्या इमा अक्षँल्लोहिन्यो राजयः। ताभिरेनं रुद्रोऽन्वायत्तः’ (श० ब्रा० १४।५।२।३)। अन्वायत्तोऽनुगतः सम्बद्धः।
- ‘यजमानं देवा दर्वीं पितरोऽन्वायत्ताः’ (बृ० उ० ३।८।९)। उक्तोर्थः।
- ‘कुत्र चैते सर्वभावा अन्वायत्ता भवन्ति’ (का० सं० शरीर० गर्भ०)।
- ‘सर्वेषु लोकेषु मृत्यवोऽन्वायत्ताः’ (तै० ब्रा० ३।९।१५।१)। संनिहिता इत्यर्थः।
रभ्
- {अन्वारभ्}
- रभ् (रभ राभस्ये)।
- ‘विश्वेदेवासो अनु मा रभध्वम्’ (अथर्व० २।१२।५)। मामभित्वरध्वम्, मामुपोपविशतेत्यर्थं विवक्षत्यृषिः।
- ‘अंसेऽध्वर्युमन्वारभते’ (आश्व० श्रौ० १।३।२५)। पृष्ठत उपक्रम्य स्पृशेदित्यर्थः।
- ‘पशुं प्रमुच्य… अन्वारभेते अध्वर्युर्यजमानश्च’ (भा० श्रौ० ७।१२।८)। अन्वारभेते संस्पृशतः। यदि मां संस्पृशेद्रामः सकृदन्वारभेत वा।
- ‘धनं वा यौवराज्यं वा जीवेयमिति मे मति’ (रा० २।६४।६२)। अन्वारभेत=किञ्चिद् वस्तु द्वारीकृत्य (मध्येकृत्य) स्पृशेत्।
- ‘अन्वारभेथामनुसंरभेथाम्’ (अथर्व० ६।१२२।३)। हे जायापती परलोकहितं सत्कर्म अनुलक्ष्य तस्यारम्भः क्रियताम् इत्याह।
- ‘तं विद्याकर्मणी अन्वारभेते पूर्वप्रज्ञा च’ (बृ० उ० ४।४।२)। अन्वारभेते=अनुप्रपद्येते।
- ‘अस्यैता उभौ व्रीहियवावन्वारब्धौ भवतः’ (श० ब्रा० ३।२।२।१४)। अन्वारब्धौ संगतौ।
रुह्
- {अन्वारुह्}
- रुह् (रुह बीजजन्मनि)।
- ‘ततोऽन्वारुरुहुः पत्न्यश्चतस्रः पतिलोकगाः’ (भा० मौ० ७।२४)। पतिमरणमनु चितामारूढा इत्यर्थः। अन्वारोहणं नाम मृतं पतिमनु जीवन्त्याः पत्न्याश्चितारोहणं भवति।
- ‘यज्ञं यन्तं मनसान्वारोहामि’ (अथर्व० ६।१२२।४)। अन्वारोहामि=पश्चादारोहामि।
लभ्
- {अन्वालभ्}
- लभ् (डुलभष् प्राप्तौ)।
- ‘तं सर्वेऽन्वालभेरन्प्राचीनावीतिनो मुक्तशिखाः’ (गौ० ध० ३।२।५)। अन्वालभेरन्=अनुक्रमेण संस्पृशेयुः।
विश्
- {अन्वाविश्}
- विश् (विश प्रवेशने)।
- ‘ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह’ (भा० आदि० १३६।११)। अन्वाङोः शक्य एकतरस्त्यक्तुम्। आविवेश=व्याप=अभिबभूव।
- ‘यथा ह्येवेह प्रजा अन्वाविशन्ति यथाऽनुशासनम्’ (छां० उ० ८।१।५)। अन्वाविशन्ति=अनुवर्तन्ते, अनुसृत्य प्रचरन्ति।
- ‘तं धर्ममसुराः… नामृष्यन्त… विवर्धमानाः क्रमशस्तेऽन्वाविशन्प्रजाः’ (भा० शां० २९४।१०)।
वृत्
- {अन्वावृत्}
- वृत् (वृतु वर्तने)।
- ‘अनु वामेकः पविराववर्त’ (ऋ० ५।६२।२)। अन्वाववर्त=अस्मदाभिमुख्येन परिवर्तते।
- ‘सूर्यस्यावृतमन्वावर्ते’ (वा० सं० २।२६, कौ० उ० २।८।९)। सूर्यस्यावृत्तिमाक्रमणमनुसृत्याक्रामामीत्याह।
हृ
- {अन्वाहृ}
- हृ (हृञ् हरणे)।
- ‘पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः’ (मनु० ३।१२३)। अनुक्रमेणाह्रियत इति व्युत्पत्तेः। पितृयज्ञपिण्डाननु पश्चादाह्रियत इति तत्तथोक्तम्।
- ‘तस्य प्राणो गार्हपत्योऽपानोऽन्वाहार्यपचनः’ (बौ० ध० २।१०।१८।८)। अन्वाहार्यं नाम दर्शपूर्णमासयोर्दक्षिणात्वेन देय ओदन इति टीकाकारः।
- ‘सर्वाण्येवान्वाहार्यवन्ति’ (गो० गृ० १।१।५)। अनु पश्चादाह्रियते प्रकृतं कर्म यस्मात्, अनु पश्चादाह्रियते यत्प्रस्तुतात्कर्मण इति वा। नान्दीमुखश्राद्धं दक्षिणा च अन्वाहरति यज्ञसम्बन्धि दोषजातं परिहरत्यनेनेत्यन्वाहार्यो नाम ऋत्विग्भ्यो देय ओदन इति’ (श० ब्रा० १।२।३।५ भाष्ये) सायणः।